This overlay will guide you through the buttons:

| |
|
ततः स मध्यंगतमंशुमन्तं ज्योत्स्नावितानं महदुद्वमन्तम्। ददर्श धीमान् दिवि भानुमन्तं गोष्ठे वृषं मत्तमिव भ्रमन्तम्॥ १॥
ततस् स मध्यंगतम् अंशुमन्तम् ज्योत्स्ना-वितानम् महत् उद्वमन्तम्। ददर्श धीमान् दिवि भानुमन्तम् गोष्ठे वृषम् मत्तम् इव भ्रमन्तम्॥ १॥
tatas sa madhyaṃgatam aṃśumantam jyotsnā-vitānam mahat udvamantam. dadarśa dhīmān divi bhānumantam goṣṭhe vṛṣam mattam iva bhramantam.. 1..
लोकस्य पापानि विनाशयन्तं महोदधिं चापि समेधयन्तम्। भूतानि सर्वाणि विराजयन्तं ददर्श शीतांशुमथाभियान्तम्॥ २॥
लोकस्य पापानि विनाशयन्तम् महा-उदधिम् च अपि समेधयन्तम्। भूतानि सर्वाणि विराजयन्तम् ददर्श शीतांशुम् अथ अभियान्तम्॥ २॥
lokasya pāpāni vināśayantam mahā-udadhim ca api samedhayantam. bhūtāni sarvāṇi virājayantam dadarśa śītāṃśum atha abhiyāntam.. 2..
या भाति लक्ष्मीर्भुवि मन्दरस्था तथा प्रदोषेषु च सागरस्था। तथैव तोयेषु च पुष्करस्था रराज सा चारुनिशाकरस्था॥ ३॥
या भाति लक्ष्मीः भुवि मन्दर-स्था तथा प्रदोषेषु च सागर-स्था। तथा एव तोयेषु च पुष्कर-स्था रराज सा चारु-निशाकर-स्था॥ ३॥
yā bhāti lakṣmīḥ bhuvi mandara-sthā tathā pradoṣeṣu ca sāgara-sthā. tathā eva toyeṣu ca puṣkara-sthā rarāja sā cāru-niśākara-sthā.. 3..
हंसो यथा राजतपञ्जरस्थः सिंहो यथा मन्दरकन्दरस्थः। वीरो यथा गर्वितकुञ्जरस्थ चन्द्रोऽपि बभ्राज तथाम्बरस्थः॥ ४॥
हंसः यथा राजत-पञ्जर-स्थः सिंहः यथा मन्दर-कन्दर-स्थः। वीरः यथा गर्वित-कुञ्जर-स्थ चन्द्रः अपि बभ्राज तथा अम्बर-स्थः॥ ४॥
haṃsaḥ yathā rājata-pañjara-sthaḥ siṃhaḥ yathā mandara-kandara-sthaḥ. vīraḥ yathā garvita-kuñjara-stha candraḥ api babhrāja tathā ambara-sthaḥ.. 4..
स्थितः ककुद्मानिव तीक्ष्णशृङ्गो महाचलः श्वेत इवोच्चशृङ्गः। हस्तीव जाम्बूनदबद्धशृङ्गो रराज चन्द्रः परिपूर्णशृङ्गः॥ ५॥
स्थितः ककुद्मान् इव तीक्ष्ण-शृङ्गः महा-अचलः श्वेतः इव उच्च-शृङ्गः। हस्ती इव जाम्बूनद-बद्ध-शृङ्गः रराज चन्द्रः परिपूर्ण-शृङ्गः॥ ५॥
sthitaḥ kakudmān iva tīkṣṇa-śṛṅgaḥ mahā-acalaḥ śvetaḥ iva ucca-śṛṅgaḥ. hastī iva jāmbūnada-baddha-śṛṅgaḥ rarāja candraḥ paripūrṇa-śṛṅgaḥ.. 5..
विनष्टशीताम्बुतुषारपङ्को महाग्रहग्राहविनष्टपङ्कः। प्रकाशलक्ष्म्याश्रयनिर्मलाङ्क: रराज चन्द्रो भगवान् शशाङ्कः॥ ६॥
विनष्ट-शीत-अम्बु-तुषार-पङ्कः महा-ग्रह-ग्राह-विनष्ट-पङ्कः। रराज चन्द्रः भगवान् शशाङ्कः॥ ६॥
vinaṣṭa-śīta-ambu-tuṣāra-paṅkaḥ mahā-graha-grāha-vinaṣṭa-paṅkaḥ. rarāja candraḥ bhagavān śaśāṅkaḥ.. 6..
शिलातलं प्राप्य यथा मृगेन्द्रो महारणं प्राप्य यथा गजेन्द्रः। राज्यं समासाद्य यथा नरेन्द्र स्तथाप्रकाशो विरराज चन्द्रः॥ ७॥
शिला-तलम् प्राप्य यथा मृग-इन्द्रः महा-रणम् प्राप्य यथा गज-इन्द्रः। राज्यम् समासाद्य यथा नरेन्द्रः स्तथा प्रकाशः विरराज चन्द्रः॥ ७॥
śilā-talam prāpya yathā mṛga-indraḥ mahā-raṇam prāpya yathā gaja-indraḥ. rājyam samāsādya yathā narendraḥ stathā prakāśaḥ virarāja candraḥ.. 7..
प्रकाशचन्द्रोदयनष्टदोषः प्रवृत्तरक्षः पिशिताशदोषः। रामाभिरामेरितचित्तदोषः स्वर्गप्रकाशो भगवान् प्रदोषः॥ ८॥
प्रकाश-चन्द्र-उदय-नष्ट-दोषः प्रवृत्त-रक्षः पिशिताश-दोषः। राम-अभिराम-ईरित-चित्त-दोषः स्वर्ग-प्रकाशः भगवान् प्रदोषः॥ ८॥
prakāśa-candra-udaya-naṣṭa-doṣaḥ pravṛtta-rakṣaḥ piśitāśa-doṣaḥ. rāma-abhirāma-īrita-citta-doṣaḥ svarga-prakāśaḥ bhagavān pradoṣaḥ.. 8..
तन्त्रीस्वनाः कर्णसुखाः प्रवृत्ताः स्वपन्ति नार्यः पतिभिः सुवृत्ताः। नक्तंचराश्चापि तथा प्रवृत्ता: विहर्तुमत्यद्भुतरौद्रवृत्ताः॥ ९॥
तन्त्री-स्वनाः कर्ण-सुखाः प्रवृत्ताः स्वपन्ति नार्यः पतिभिः सु वृत्ताः। नक्तंचराः च अपि तथा प्रवृत्ताः विहर्तुम् अति अद्भुत-रौद्र-वृत्ताः॥ ९॥
tantrī-svanāḥ karṇa-sukhāḥ pravṛttāḥ svapanti nāryaḥ patibhiḥ su vṛttāḥ. naktaṃcarāḥ ca api tathā pravṛttāḥ vihartum ati adbhuta-raudra-vṛttāḥ.. 9..
मत्तप्रमत्तानि समाकुलानि रथाश्वभद्रासनसङ्कुलानि। वीरश्रिया चापि समाकुलानि ददर्श धीमान् स कपिः कुलानि॥ १०॥
मत्त-प्रमत्तानि समाकुलानि रथ-अश्व-भद्रासन-सङ्कुलानि। वीर-श्रिया च अपि समाकुलानि ददर्श धीमान् स कपिः कुलानि॥ १०॥
matta-pramattāni samākulāni ratha-aśva-bhadrāsana-saṅkulāni. vīra-śriyā ca api samākulāni dadarśa dhīmān sa kapiḥ kulāni.. 10..
परस्परं चाधिकमाक्षिपन्ति भुजांश्च पीनानधिकं क्षिपन्ति। मत्तप्रलापानधिकं क्षिपन्ति मत्तानि चान्योन्यमधिक्षिपन्ति॥ ११॥
परस्परम् च अधिकम् आक्षिपन्ति भुजान् च पीनान् अधिकम् क्षिपन्ति। मत्त-प्रलापान् अधिकम् क्षिपन्ति मत्तानि च अन्योन्यम् अधिक्षिपन्ति॥ ११॥
parasparam ca adhikam ākṣipanti bhujān ca pīnān adhikam kṣipanti. matta-pralāpān adhikam kṣipanti mattāni ca anyonyam adhikṣipanti.. 11..
रक्षांसि वक्षांसि च विक्षिपन्ति गात्राणि कान्तासु च विक्षिपन्ति। रूपाणि चित्राणि च विक्षिपन्ति दृढानि चापानि च विक्षिपन्ति॥ १२॥
रक्षांसि वक्षांसि च विक्षिपन्ति गात्राणि कान्तासु च विक्षिपन्ति। रूपाणि चित्राणि च विक्षिपन्ति दृढानि चापानि च विक्षिपन्ति॥ १२॥
rakṣāṃsi vakṣāṃsi ca vikṣipanti gātrāṇi kāntāsu ca vikṣipanti. rūpāṇi citrāṇi ca vikṣipanti dṛḍhāni cāpāni ca vikṣipanti.. 12..
ददर्श कान्ताश्च समालभन्त्य स्तथा परास्तत्र पुनः स्वपन्त्यः। सुरूपवक्त्राश्च तथा हसन्त्यः क्रुद्धाः पराश्चापि विनिःश्वसन्त्य॥ १३॥
ददर्श कान्ताः च समालभन्त्यः तथा पराः तत्र पुनर् स्वपन्त्यः। सुरूप-वक्त्राः च तथा हसन्त्यः क्रुद्धाः पराः च अपि विनिःश्वसन्त्यः॥ १३॥
dadarśa kāntāḥ ca samālabhantyaḥ tathā parāḥ tatra punar svapantyaḥ. surūpa-vaktrāḥ ca tathā hasantyaḥ kruddhāḥ parāḥ ca api viniḥśvasantyaḥ.. 13..
महागजैश्चापि तथा नदद्भि: सुपूजितैश्चापि तथा सुसद्भिः। रराज वीरैश्च विनिःश्वसद्भिः ह्रदो भुजङ्गैरिव निःश्वसद्भिः॥ १४॥
महा-गजैः च अपि तथा नदद्भिः सु पूजितैः च अपि तथा सु सद्भिः। रराज वीरैः च विनिःश्वसद्भिः ह्रदः भुजङ्गैः इव निःश्वसद्भिः॥ १४॥
mahā-gajaiḥ ca api tathā nadadbhiḥ su pūjitaiḥ ca api tathā su sadbhiḥ. rarāja vīraiḥ ca viniḥśvasadbhiḥ hradaḥ bhujaṅgaiḥ iva niḥśvasadbhiḥ.. 14..
बुद्धिप्रधानान् रुचिराभिधानान् संश्रद्धधानान् जगतः प्रधानान्। नानाविधानान् रुचिराभिधानान् ददर्श तस्यां पुरि यातुधानान्॥ १५॥
बुद्धि-प्रधानान् रुचिर-अभिधानान् जगतः प्रधानान्। नाना विधानान् रुचिर-अभिधानान् ददर्श तस्याम् पुरि यातुधानान्॥ १५॥
buddhi-pradhānān rucira-abhidhānān jagataḥ pradhānān. nānā vidhānān rucira-abhidhānān dadarśa tasyām puri yātudhānān.. 15..
ननन्द दृष्ट्वा स च तान् सुरूपान्नानागुणानात्मगुणानुरूपान्। विद्योतमानान्स तदानुरूपान् ददर्श कांश्चिच्च पुनर्विरूपान्॥ १६॥
ननन्द दृष्ट्वा स च तान् सुरूपान् नाना गुणान् आत्म-गुण-अनुरूपान्। विद्योतमानान् स तदा अनुरूपान् ददर्श कांश्चिद् च पुनर् विरूपान्॥ १६॥
nananda dṛṣṭvā sa ca tān surūpān nānā guṇān ātma-guṇa-anurūpān. vidyotamānān sa tadā anurūpān dadarśa kāṃścid ca punar virūpān.. 16..
ततो वरार्हाः सुविशुद्धभावा स्तेषां स्त्रियस्तत्र महानुभावाः। प्रियेषु पानेषु च सक्तभावा ददर्श तारा इव सुप्रभावाः॥ १७॥
ततस् वर-अर्हाः सु विशुद्ध-भावाः तेषाम् स्त्रियः तत्र महा-अनुभावाः। प्रियेषु पानेषु च सक्त-भावाः ददर्श ताराः इव सु प्रभावाः॥ १७॥
tatas vara-arhāḥ su viśuddha-bhāvāḥ teṣām striyaḥ tatra mahā-anubhāvāḥ. priyeṣu pāneṣu ca sakta-bhāvāḥ dadarśa tārāḥ iva su prabhāvāḥ.. 17..
श्रिया ज्वलन्तीस्त्रपयोपगूढा निशीथकाले रमणोपगूढाः। ददर्श काश्चित्प्रमदोपगूढा यथा विहङ्गाः कुसुमोपगूढाः॥ १८॥
श्रिया ज्वलन्तीः त्रपया उपगूढाः निशीथ-काले रमण-उपगूढाः। ददर्श काश्चिद् प्रमद-उपगूढाः यथा विहङ्गाः कुसुम-उपगूढाः॥ १८॥
śriyā jvalantīḥ trapayā upagūḍhāḥ niśītha-kāle ramaṇa-upagūḍhāḥ. dadarśa kāścid pramada-upagūḍhāḥ yathā vihaṅgāḥ kusuma-upagūḍhāḥ.. 18..
अन्याः पुनर्हर्म्यतलोपविष्टा स्तत्र प्रियाङ्केषु सुखोपविष्टाः। भर्तुः प्रिया धर्मपरा निविष्टा ददर्श धीमान् मदनाभिविष्टाः॥ १९॥
अन्याः पुनर् हर्म्य-तल-उपविष्टाः तत्र प्रिय-अङ्केषु सुख-उपविष्टाः। भर्तुः प्रियाः धर्म-पराः निविष्टाः ददर्श धीमान् मदन-अभिविष्टाः॥ १९॥
anyāḥ punar harmya-tala-upaviṣṭāḥ tatra priya-aṅkeṣu sukha-upaviṣṭāḥ. bhartuḥ priyāḥ dharma-parāḥ niviṣṭāḥ dadarśa dhīmān madana-abhiviṣṭāḥ.. 19..
अप्रावृताः काञ्चनराजिवर्णाः काश्चित्परार्थ्यास्तपनीयवर्णाः। पुनश्च काश्चिच्छशलक्ष्मवर्णाः कान्तप्रहीणा रुचिराङ्गवर्णाः॥ २०॥
अप्रावृताः काञ्चन-राजि-वर्णाः काश्चिद् परार्थ्याः तपनीय-वर्णाः। पुनर् च काश्चिद् शशलक्ष्म-वर्णाः कान्त-प्रहीणाः रुचिर-अङ्ग-वर्णाः॥ २०॥
aprāvṛtāḥ kāñcana-rāji-varṇāḥ kāścid parārthyāḥ tapanīya-varṇāḥ. punar ca kāścid śaśalakṣma-varṇāḥ kānta-prahīṇāḥ rucira-aṅga-varṇāḥ.. 20..
ततः प्रियान् प्राप्य मनोभिरामाः सुप्रीतियुक्ताः प्रसमीक्ष्यरामाः। गृहेषु हृष्टाः परमाभिरामाः हरिप्रवीरः स ददर्श रामाः॥ २१॥
ततस् प्रियान् प्राप्य मनोभिरामाः सु प्रीति-युक्ताः प्रसमीक्ष्य रामाः। गृहेषु हृष्टाः परम-अभिरामाः हरि-प्रवीरः स ददर्श रामाः॥ २१॥
tatas priyān prāpya manobhirāmāḥ su prīti-yuktāḥ prasamīkṣya rāmāḥ. gṛheṣu hṛṣṭāḥ parama-abhirāmāḥ hari-pravīraḥ sa dadarśa rāmāḥ.. 21..
चन्द्रप्रकाशाश्च हि वक्त्रमालाः वक्राक्षिपक्ष्माश्च सुनेत्रमालाः। विभूषणानां च ददर्श मालाः शतह्रदानामिव चारुमालाः॥ २२॥
चन्द्र-प्रकाशाः च हि वक्त्र-मालाः वक्र-अक्षि-पक्ष्माः च सुनेत्र-मालाः। विभूषणानाम् च ददर्श मालाः शतह्रदानाम् इव चारु-मालाः॥ २२॥
candra-prakāśāḥ ca hi vaktra-mālāḥ vakra-akṣi-pakṣmāḥ ca sunetra-mālāḥ. vibhūṣaṇānām ca dadarśa mālāḥ śatahradānām iva cāru-mālāḥ.. 22..
न त्वेव सीतां परमाभिजातां पथि स्थिते राजकुले प्रजाताम्। लतां प्रपुल्लामिव साधु जातां ददर्श तन्वीं मनसाभिजाताम्॥ २३॥
न तु एव सीताम् परम-अभिजाताम् पथि स्थिते राज-कुले प्रजाताम्। लताम् प्रपुल्लाम् इव साधु जाताम् ददर्श तन्वीम् मनसा अभिजाताम्॥ २३॥
na tu eva sītām parama-abhijātām pathi sthite rāja-kule prajātām. latām prapullām iva sādhu jātām dadarśa tanvīm manasā abhijātām.. 23..
सनातने वर्त्मनि सन्निविष्टां रामेक्षणां तां मदनाभिविष्टाम्। भर्तुर्मनः श्रीमदनुप्रविष्टां स्त्रीभ्यो वराभ्यश्च सदा विशिष्टाम्॥ २४॥
सनातने वर्त्मनि सन्निविष्टाम् राम-ईक्षणाम् ताम् मदन-अभिविष्टाम्। भर्तुः मनः श्रीमत् अनुप्रविष्टाम् स्त्रीभ्यः वराभ्यः च सदा विशिष्टाम्॥ २४॥
sanātane vartmani sanniviṣṭām rāma-īkṣaṇām tām madana-abhiviṣṭām. bhartuḥ manaḥ śrīmat anupraviṣṭām strībhyaḥ varābhyaḥ ca sadā viśiṣṭām.. 24..
उष्णार्दितां सानुसृतास्रकण्ठीम् पुरा वरार्होत्तमनिष्ककण्ठीम्। सुजातपक्ष्मामभिरक्तकण्ठीं वनेऽप्रवृत्तामिव नीलकण्ठीम्॥ २५॥
उष्ण-अर्दिताम् स अनुसृत-अस्र-कण्ठीम् पुरा वरार्ह-उत्तम-निष्क-कण्ठीम्। सुजात-पक्ष्माम् अभिरक्त-कण्ठीम् वने अप्रवृत्ताम् इव नीलकण्ठीम्॥ २५॥
uṣṇa-arditām sa anusṛta-asra-kaṇṭhīm purā varārha-uttama-niṣka-kaṇṭhīm. sujāta-pakṣmām abhirakta-kaṇṭhīm vane apravṛttām iva nīlakaṇṭhīm.. 25..
अव्यक्तरेखामिव चन्द्ररेखां पांसुप्रदिग्धामिव हेमरेखाम्। क्षतप्ररूढामिव बाणरेखां वायुप्रभिन्नामिव मेघरेखाम्॥ २६॥
अव्यक्त-रेखाम् इव चन्द्र-रेखाम् पांसु-प्रदिग्धाम् इव हेम-रेखाम्। क्षत-प्ररूढाम् इव बाण-रेखाम् वायु-प्रभिन्नाम् इव मेघ-रेखाम्॥ २६॥
avyakta-rekhām iva candra-rekhām pāṃsu-pradigdhām iva hema-rekhām. kṣata-prarūḍhām iva bāṇa-rekhām vāyu-prabhinnām iva megha-rekhām.. 26..
सीतामपश्यन् मनुजेश्वरस्य रामस्य पत्नीं वदतां वरस्य। बभूव दुःखाभिहतश्चिरस्य प्लवङ्गमो मन्द इवाचिरस्य॥ २७॥
सीताम् अपश्यत् मनुज-ईश्वरस्य रामस्य पत्नीम् वदताम् वरस्य। बभूव दुःख-अभिहतः चिरस्य प्लवङ्गमः मन्दः इव अचिरस्य॥ २७॥
sītām apaśyat manuja-īśvarasya rāmasya patnīm vadatām varasya. babhūva duḥkha-abhihataḥ cirasya plavaṅgamaḥ mandaḥ iva acirasya.. 27..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In