This overlay will guide you through the buttons:

| |
|
आप्लुत्य च महावेगः पक्षवानिव पथैतः।भुजंगयक्षगन्धर्वप्रबुध्द्रकमलोत्पलम्॥१॥
आप्लुत्य च महा-वेगः पक्षवान् इव पथा एतः।भुजंग-यक्ष-गन्धर्व-प्रबुध्द्र-कमल-उत्पलम्॥१॥
āplutya ca mahā-vegaḥ pakṣavān iva pathā etaḥ.bhujaṃga-yakṣa-gandharva-prabudhdra-kamala-utpalam..1..
सचन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम् । तिष्यश्रवणकदम्बमभ्रशैवलशाद्वलम् ॥२॥
स चन्द्र-कुमुदम् रम्यम् स अर्क-कारण्डवम् शुभम् । तिष्य-श्रवण-कदम्बम् अभ्र-शैवल-शाद्वलम् ॥२॥
sa candra-kumudam ramyam sa arka-kāraṇḍavam śubham . tiṣya-śravaṇa-kadambam abhra-śaivala-śādvalam ..2..
पुनर्वसु महामीनं लोहिताङ्गमहाग्रहम् । ऐरावतमहाद्वीपं स्वातीहंसविलोडितम् ॥३॥
पुनर्वसु महामीनम् लोहिताङ्ग-महाग्रहम् । ऐरावत-महा-द्वीपम् स्वाती-हंस-विलोडितम् ॥३॥
punarvasu mahāmīnam lohitāṅga-mahāgraham . airāvata-mahā-dvīpam svātī-haṃsa-viloḍitam ..3..
वातसङ्घातजातोर्मिं चन्द्रांशुशिशिराम्बुमत् । भुजङ्गयक्षगन्धर्वप्रबुद्धकमलोत्पलम् ॥४॥
वात-सङ्घात-जात-ऊर्मिम् चन्द्र-अंशु-शिशिर-अम्बुमत् । भुजङ्ग-यक्ष-गन्धर्व-प्रबुद्ध-कमल-उत्पलम् ॥४॥
vāta-saṅghāta-jāta-ūrmim candra-aṃśu-śiśira-ambumat . bhujaṅga-yakṣa-gandharva-prabuddha-kamala-utpalam ..4..
ग्रसमान इवाकाशं ताराधिपमिवालिखन् । हरन्निव सनक्षत्रं गगनं सार्कमण्डलम् ॥५॥
ग्रसमानः इव आकाशम् ताराधिपम् इव आलिखन् । हरन् इव स नक्षत्रम् गगनम् स अर्क-मण्डलम् ॥५॥
grasamānaḥ iva ākāśam tārādhipam iva ālikhan . haran iva sa nakṣatram gaganam sa arka-maṇḍalam ..5..
अपारमपरिश्रान्तश्चाम्बुधिं समागहत्। हनूमान्मेघजालानि विकर्षन्निव गच्छति ॥६॥
अपारम् अपरिश्रान्तः च अम्बुधिम् समागहत्। हनूमान् मेघ-जालानि विकर्षन् इव गच्छति ॥६॥
apāram apariśrāntaḥ ca ambudhim samāgahat. hanūmān megha-jālāni vikarṣan iva gacchati ..6..
पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च । हरितारुणवर्णानि महाभ्राणि चकाशिरे ॥७॥
पाण्डुर-अरुण-वर्णानि नील-माञ्जिष्ठकानि च । हरित-अरुण-वर्णानि महा-अभ्राणि चकाशिरे ॥७॥
pāṇḍura-aruṇa-varṇāni nīla-māñjiṣṭhakāni ca . harita-aruṇa-varṇāni mahā-abhrāṇi cakāśire ..7..
प्रविशन्नभ्रजालानि निष्क्रमंश्च पुनः पुनः । प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते ॥८॥
प्रविशन् अभ्र-जालानि निष्क्रमन् च पुनर् पुनर् । प्रच्छन्नः च प्रकाशः च चन्द्रमाः इव लक्ष्यते ॥८॥
praviśan abhra-jālāni niṣkraman ca punar punar . pracchannaḥ ca prakāśaḥ ca candramāḥ iva lakṣyate ..8..
विविधाभ्रघनापन्नगोचरो धवलाम्बरः।दृश्यादृश्यतनुर्वीरस्तदा चन्द्रायतेऽम्बरे॥९॥
विविध-अभ्र-घन-आपन्न-गोचरः धवल-अम्बरः।दृश्य-अदृश्य-तनुः वीरः तदा चन्द्रायते अम्बरे॥९॥
vividha-abhra-ghana-āpanna-gocaraḥ dhavala-ambaraḥ.dṛśya-adṛśya-tanuḥ vīraḥ tadā candrāyate ambare..9..
तार्क्ष्यायमाणो गगने बभासे वायुनन्दनः।दारयन्मेघबृन्दानि निष्पतंश्च पुनः पुनः॥१०॥
तार्क्ष्यायमाणः गगने बभासे वायु-नन्दनः।दारयन् मेघ-बृन्दानि निष्पतन् च पुनर् पुनर्॥१०॥
tārkṣyāyamāṇaḥ gagane babhāse vāyu-nandanaḥ.dārayan megha-bṛndāni niṣpatan ca punar punar..10..
नदन्नादेन महता मेघस्वनमहास्वनः । आजगाम महातेजाः पुनर्मध्येन सागरम् ॥११॥
नदन् नादेन महता मेघ-स्वन-महा-स्वनः । आजगाम महा-तेजाः पुनर् मध्येन सागरम् ॥११॥
nadan nādena mahatā megha-svana-mahā-svanaḥ . ājagāma mahā-tejāḥ punar madhyena sāgaram ..11..
आकुलां नगरीं कृत्वा व्यथयित्वा च रावणम्।अर्दयित्वा बलं घोरं वैदेहीमभिवाद्य च॥१२॥
आकुलाम् नगरीम् कृत्वा व्यथयित्वा च रावणम्।अर्दयित्वा बलम् घोरम् वैदेहीम् अभिवाद्य च॥१२॥
ākulām nagarīm kṛtvā vyathayitvā ca rāvaṇam.ardayitvā balam ghoram vaidehīm abhivādya ca..12..
आजगाम महातेजाः पुनर्मध्येन सागरम्॥पर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान्॥१३॥
आजगाम महा-तेजाः पुनर् मध्येन सागरम्॥पर्वत-इन्द्रम् सुनाभम् च समुपस्पृश्य वीर्यवान्॥१३॥
ājagāma mahā-tejāḥ punar madhyena sāgaram..parvata-indram sunābham ca samupaspṛśya vīryavān..13..
ज्यामुक्त इव नाराचो महावेगोऽभ्युपागतः॥स किञ्चिदनुसम्प्राप्तः समालोक्य महागिरिम्॥१४॥
ज्या-मुक्तः इव नाराचः महा-वेगः अभ्युपागतः॥स किञ्चिद् अनुसम्प्राप्तः समालोक्य महा-गिरिम्॥१४॥
jyā-muktaḥ iva nārācaḥ mahā-vegaḥ abhyupāgataḥ..sa kiñcid anusamprāptaḥ samālokya mahā-girim..14..
महेन्द्रं मेघसङ्काशं ननाद हरिपुङ्गवः॥स पूरयामास कपिर्दिशो दश समन्ततः॥१५॥
महा-इन्द्रम् मेघ-सङ्काशम् ननाद हरि-पुङ्गवः॥स पूरयामास कपिः दिशः दश समन्ततः॥१५॥
mahā-indram megha-saṅkāśam nanāda hari-puṅgavaḥ..sa pūrayāmāsa kapiḥ diśaḥ daśa samantataḥ..15..
नदन्नादेन महता मेघस्वनमहास्वनः।स तं देशमनुप्राप्तः सुहृद्धर्शनलालसः॥१६॥
नदन् नादेन महता मेघ-स्वन-महा-स्वनः।स तम् देशम् अनुप्राप्तः सुहृद्-धर्शन-लालसः॥१६॥
nadan nādena mahatā megha-svana-mahā-svanaḥ.sa tam deśam anuprāptaḥ suhṛd-dharśana-lālasaḥ..16..
ननाद हरिशार्दूलो लाङ्गूलं चाप्यकम्पयत्।तस्य नानद्यमानस्य सुपर्णचरिते पथि॥१७॥
ननाद हरि-शार्दूलः लाङ्गूलम् च अपि अकम्पयत्।तस्य नानद्यमानस्य सुपर्ण-चरिते पथि॥१७॥
nanāda hari-śārdūlaḥ lāṅgūlam ca api akampayat.tasya nānadyamānasya suparṇa-carite pathi..17..
फलतीवास्य घोषेण गगनं सार्कमण्डलम्। तु तत्रोत्तरे तीरे समुद्रस्य महाबलाः ॥१८॥
फलति इव अस्य घोषेण गगनम् स अर्क-मण्डलम्। तु तत्र उत्तरे तीरे समुद्रस्य महा-बलाः ॥१८॥
phalati iva asya ghoṣeṇa gaganam sa arka-maṇḍalam. tu tatra uttare tīre samudrasya mahā-balāḥ ..18..
पूर्वं संविष्ठिताश्शूरा वायुपुत्रदिदृक्षवः । महतो वातनुन्नस्य तोयदस्येव गर्जितम् । शुश्रुवुस्ते तदा घोषमूरुवेगं हनूमतः॥।१९॥
पूर्वम् संविष्ठिताः शूराः वायुपुत्र-दिदृक्षवः । महतः वात-नुन्नस्य तोयदस्य इव गर्जितम् । शुश्रुवुः ते तदा घोषम् ऊरु-वेगम् हनूमतः॥।१९॥
pūrvam saṃviṣṭhitāḥ śūrāḥ vāyuputra-didṛkṣavaḥ . mahataḥ vāta-nunnasya toyadasya iva garjitam . śuśruvuḥ te tadā ghoṣam ūru-vegam hanūmataḥ...19..
ते दीनमनसस्सर्वे शुश्रुवुः काननौकसः।वानरेन्द्रस्य निर्घोषं पर्जन्यनिनदोपमम्॥२०॥
ते दीन-मनसः सर्वे शुश्रुवुः काननौकसः।वानर-इन्द्रस्य निर्घोषम् पर्जन्य-निनद-उपमम्॥२०॥
te dīna-manasaḥ sarve śuśruvuḥ kānanaukasaḥ.vānara-indrasya nirghoṣam parjanya-ninada-upamam..20..
निशम्य नदतो नादं वानरास्ते समन्ततः । बभूवुरुत्सुकाः सर्वे सुहृद्दर्शनकाङ्क्षिणः ॥२१॥
निशम्य नदतः नादम् वानराः ते समन्ततः । बभूवुः उत्सुकाः सर्वे सुहृद्-दर्शन-काङ्क्षिणः ॥२१॥
niśamya nadataḥ nādam vānarāḥ te samantataḥ . babhūvuḥ utsukāḥ sarve suhṛd-darśana-kāṅkṣiṇaḥ ..21..
जाम्बवान्स हरिश्रेष्ठः प्रीतिसंहृष्टमानसः । उपामन्त्र्य हरीन्सर्वानिदं वचनमब्रवीत् ॥२२॥
जाम्बवान् स हरि-श्रेष्ठः प्रीति-संहृष्ट-मानसः । उपामन्त्र्य हरीन् सर्वान् इदम् वचनम् अब्रवीत् ॥२२॥
jāmbavān sa hari-śreṣṭhaḥ prīti-saṃhṛṣṭa-mānasaḥ . upāmantrya harīn sarvān idam vacanam abravīt ..22..
सर्वथा कृतकार्योऽसौ हनूमान्नात्र संशयः । न ह्यस्याकृतकार्यस्य नाद एवंविधो भवेत् ॥२३॥
सर्वथा कृत-कार्यः असौ हनूमान् न अत्र संशयः । न हि अस्य अकृत-कार्यस्य नादः एवंविधः भवेत् ॥२३॥
sarvathā kṛta-kāryaḥ asau hanūmān na atra saṃśayaḥ . na hi asya akṛta-kāryasya nādaḥ evaṃvidhaḥ bhavet ..23..
तस्या बाहूरुवेगं च निनादं च महात्मनः । निशम्य हरयो हृष्टाः समुत्पेतुस्ततस्ततः ॥२४॥
तस्याः बाहु-ऊरु-वेगम् च निनादम् च महात्मनः । निशम्य हरयः हृष्टाः समुत्पेतुः ततस् ततस् ॥२४॥
tasyāḥ bāhu-ūru-vegam ca ninādam ca mahātmanaḥ . niśamya harayaḥ hṛṣṭāḥ samutpetuḥ tatas tatas ..24..
ते नगाग्रान्नगाग्राणि शिखराच्छिखराणि च । प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः ॥२५॥
ते नग-अग्रात् नग-अग्राणि शिखरात् शिखराणि च । प्रहृष्टाः समपद्यन्त हनूमन्तम् दिदृक्षवः ॥२५॥
te naga-agrāt naga-agrāṇi śikharāt śikharāṇi ca . prahṛṣṭāḥ samapadyanta hanūmantam didṛkṣavaḥ ..25..
ते प्रीताः पादपाग्रेषु गृह्य शाखाः सुपुष्पिताः । वासांसीव प्रकाशानि समाविध्यन्त वानराः ॥२६॥
ते प्रीताः पादप-अग्रेषु गृह्य शाखाः सु पुष्पिताः । वासांसि इव प्रकाशानि समाविध्यन्त वानराः ॥२६॥
te prītāḥ pādapa-agreṣu gṛhya śākhāḥ su puṣpitāḥ . vāsāṃsi iva prakāśāni samāvidhyanta vānarāḥ ..26..
गिरिगह्वरसंलीनो यथा गर्जति मारुतः।एवं जगर्ज बलवान् हनुमान्मारुतात्मजः॥२७॥
गिरि-गह्वर-संलीनः यथा गर्जति मारुतः।एवम् जगर्ज बलवान् हनुमान् मारुतात्मजः॥२७॥
giri-gahvara-saṃlīnaḥ yathā garjati mārutaḥ.evam jagarja balavān hanumān mārutātmajaḥ..27..
तमभ्रघनसङ्काशमापतन्तं महाकपिम् । दृष्ट्वा ते वानराः सर्वे तस्थुः प्राञ्जलयस्तदा ॥२८॥
तम् अभ्र-घन-सङ्काशम् आपतन्तम् महा-कपिम् । दृष्ट्वा ते वानराः सर्वे तस्थुः प्राञ्जलयः तदा ॥२८॥
tam abhra-ghana-saṅkāśam āpatantam mahā-kapim . dṛṣṭvā te vānarāḥ sarve tasthuḥ prāñjalayaḥ tadā ..28..
ततस्तु वेगवांस्तस्य गिरेर्गिरिनिभः कपिः । निपपात महेन्द्रस्य शिखरे पादपाकुले ॥२९॥
ततस् तु वेगवान् तस्य गिरेः गिरि-निभः कपिः । निपपात महेन्द्रस्य शिखरे पादप-आकुले ॥२९॥
tatas tu vegavān tasya gireḥ giri-nibhaḥ kapiḥ . nipapāta mahendrasya śikhare pādapa-ākule ..29..
हर्षेणापूर्यमाणोऽसौ रम्ये पर्वतनिर्झरे।छिन्नपक्ष इवाऽकाशात्पपात धरणीधरः॥३०॥
हर्षेण आपूर्यमाणः असौ रम्ये पर्वत-निर्झरे।छिन्न-पक्षः इव आ आकाशात् पपात धरणीधरः॥३०॥
harṣeṇa āpūryamāṇaḥ asau ramye parvata-nirjhare.chinna-pakṣaḥ iva ā ākāśāt papāta dharaṇīdharaḥ..30..
ततस्ते प्रीतमनसः सर्वे वानरपुङ्गवाः । हनूमन्तं महात्मानं परिवार्योपतस्थिरे ॥३१॥
ततस् ते प्रीत-मनसः सर्वे वानर-पुङ्गवाः । हनूमन्तम् महात्मानम् परिवार्य उपतस्थिरे ॥३१॥
tatas te prīta-manasaḥ sarve vānara-puṅgavāḥ . hanūmantam mahātmānam parivārya upatasthire ..31..
परिवार्य च ते सर्वे परां प्रीतिमुपागताः । प्रहृष्टवदनाः सर्वे तमरोगमुपागतम् ॥३२॥
परिवार्य च ते सर्वे पराम् प्रीतिम् उपागताः । प्रहृष्ट-वदनाः सर्वे तम् अरोगम् उपागतम् ॥३२॥
parivārya ca te sarve parām prītim upāgatāḥ . prahṛṣṭa-vadanāḥ sarve tam arogam upāgatam ..32..
उपायनानि चादाय मूलानि च फलानि च । प्रत्यर्चयन्हरिश्रेष्ठं हरयो मारुतात्मजम् ॥३३॥
उपायनानि च आदाय मूलानि च फलानि च । प्रत्यर्चयन् हरि-श्रेष्ठम् हरयः मारुतात्मजम् ॥३३॥
upāyanāni ca ādāya mūlāni ca phalāni ca . pratyarcayan hari-śreṣṭham harayaḥ mārutātmajam ..33..
विनेदुर्मुदिताः के चिच्चक्रुः किल किलां तथा । हृष्टाः पादपशाखाश्च आनिन्युर्वानरर्षभाः ॥३४॥
विनेदुः मुदिताः के चित् चक्रुः किल किलाम् तथा । हृष्टाः पादप-शाखाः च आनिन्युः वानर-ऋषभाः ॥३४॥
vineduḥ muditāḥ ke cit cakruḥ kila kilām tathā . hṛṣṭāḥ pādapa-śākhāḥ ca āninyuḥ vānara-ṛṣabhāḥ ..34..
हनूमांस्तु गुरून्वृद्धाञ्जाम्बवत्प्रमुखांस्तदा । कुमारमङ्गदं चैव सोऽवन्दत महाकपिः ॥३५॥
हनूमान् तु गुरून् वृद्धान् जाम्बवत्-प्रमुखान् तदा । कुमारम् अङ्गदम् च एव सः अवन्दत महा-कपिः ॥३५॥
hanūmān tu gurūn vṛddhān jāmbavat-pramukhān tadā . kumāram aṅgadam ca eva saḥ avandata mahā-kapiḥ ..35..
स ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः । दृष्टा देवीति विक्रान्तः सङ्क्षेपेण न्यवेदयत् ॥३६॥
स ताभ्याम् पूजितः पूज्यः कपिभिः च प्रसादितः । दृष्टा देवी इति विक्रान्तः सङ्क्षेपेण न्यवेदयत् ॥३६॥
sa tābhyām pūjitaḥ pūjyaḥ kapibhiḥ ca prasāditaḥ . dṛṣṭā devī iti vikrāntaḥ saṅkṣepeṇa nyavedayat ..36..
निषसाद च हस्तेन गृहीत्वा वालिनः सुतम् । रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा ॥३७॥
निषसाद च हस्तेन गृहीत्वा वालिनः सुतम् । रमणीये वन-उद्देशे महेन्द्रस्य गिरेः तदा ॥३७॥
niṣasāda ca hastena gṛhītvā vālinaḥ sutam . ramaṇīye vana-uddeśe mahendrasya gireḥ tadā ..37..
हनूमानब्रवीद्धृष्टस्तदा तान्वानरर्षभान् । अशोकवनिकासंस्था दृष्टा सा जनकात्मजा ॥३८॥
हनूमान् अब्रवीत् हृष्टः तदा तान् वानर-ऋषभान् । अशोक-वनिका-संस्था दृष्टा सा जनकात्मजा ॥३८॥
hanūmān abravīt hṛṣṭaḥ tadā tān vānara-ṛṣabhān . aśoka-vanikā-saṃsthā dṛṣṭā sā janakātmajā ..38..
रक्ष्यमाणा सुघोराभी राक्षसीभिरनिन्दिता । एकवेणीधरा बाला रामदर्शनलालसा ॥३९॥
रक्ष्यमाणा सु घोराभिः राक्षसीभिः अनिन्दिता । एक-वेणी-धरा बाला राम-दर्शन-लालसा ॥३९॥
rakṣyamāṇā su ghorābhiḥ rākṣasībhiḥ aninditā . eka-veṇī-dharā bālā rāma-darśana-lālasā ..39..
उपवासपरिश्रान्ता जटिला मलिना कृशा।ततो दृष्टेति वचनं महार्थममृतोपमम् ॥४०॥
उपवास-परिश्रान्ता जटिला मलिना कृशा।ततस् दृष्टा इति वचनम् महार्थम् अमृत-उपमम् ॥४०॥
upavāsa-pariśrāntā jaṭilā malinā kṛśā.tatas dṛṣṭā iti vacanam mahārtham amṛta-upamam ..40..
निशम्य मारुतेः सर्वे मुदिता वानरा भवन् ।क्ष्वेडन्त्यन्ये नदन्त्यन्ये गर्जन्त्यन्ये महाबलाः ॥४१॥
निशम्य मारुतेः सर्वे मुदिताः वानराः भवन् ।क्ष्वेडन्ति अन्ये नदन्ति अन्ये गर्जन्ति अन्ये महा-बलाः ॥४१॥
niśamya māruteḥ sarve muditāḥ vānarāḥ bhavan .kṣveḍanti anye nadanti anye garjanti anye mahā-balāḥ ..41..
चक्रुः किल किलामन्ये प्रतिगर्जन्ति चापरे ।के चिदुच्छ्रितलाङ्गूलाः प्रहृष्टाः कपिकुञ्जराः ॥४२॥
चक्रुः किल किल अमन्ये प्रतिगर्जन्ति च अपरे ।के चित् उच्छ्रित-लाङ्गूलाः प्रहृष्टाः कपि-कुञ्जराः ॥४२॥
cakruḥ kila kila amanye pratigarjanti ca apare .ke cit ucchrita-lāṅgūlāḥ prahṛṣṭāḥ kapi-kuñjarāḥ ..42..
आयताञ्चितदीर्घाणि लाङ्गूलानि प्रविव्यधुः ।अपरे तु हनूमन्तं वानरा वारणोपमम् ॥४३॥
आयत-आञ्चित-दीर्घाणि लाङ्गूलानि प्रविव्यधुः ।अपरे तु हनूमन्तम् वानराः वारण-उपमम् ॥४३॥
āyata-āñcita-dīrghāṇi lāṅgūlāni pravivyadhuḥ .apare tu hanūmantam vānarāḥ vāraṇa-upamam ..43..
आप्लुत्य गिरिशृङ्गेभ्यः संस्पृशन्ति स्म हर्षिताः ।उक्तवाक्यं हनूमन्तमङ्गदस्तु तदाब्रवीत् ॥४४॥
आप्लुत्य गिरि-शृङ्गेभ्यः संस्पृशन्ति स्म हर्षिताः ।उक्त-वाक्यम् हनूमन्तम् अङ्गदः तु तदा ब्रवीत् ॥४४॥
āplutya giri-śṛṅgebhyaḥ saṃspṛśanti sma harṣitāḥ .ukta-vākyam hanūmantam aṅgadaḥ tu tadā bravīt ..44..
सर्वेषां हरिवीराणां मध्ये वाचमनुत्तमाम् ।सत्त्वे वीर्ये न ते कश्चित्समो वानरविद्यते ॥४५॥
सर्वेषाम् हरि-वीराणाम् मध्ये वाचम् अनुत्तमाम् ।सत्त्वे वीर्ये न ते कश्चिद् समः वानर-विद्यते ॥४५॥
sarveṣām hari-vīrāṇām madhye vācam anuttamām .sattve vīrye na te kaścid samaḥ vānara-vidyate ..45..
यदवप्लुत्य विस्तीर्णं सागरं पुनरागतः ।जीवितस्य प्रदाता नस्त्वमेको वानरोत्तम्॥४६॥
यत् अवप्लुत्य विस्तीर्णम् सागरम् पुनर् आगतः ।जीवितस्य प्रदाता नः त्वम् एकः वानर-उत्तम्॥४६॥
yat avaplutya vistīrṇam sāgaram punar āgataḥ .jīvitasya pradātā naḥ tvam ekaḥ vānara-uttam..46..
त्वत्प्रसादात् समेष्यामः सिध्दार्था राघवेण।अहो स्वामिनि ते भक्तिरहो वीर्यमहो धृतिः॥४७॥
त्वद्-प्रसादात् समेष्यामः सिध्दार्थाः राघवेण।अहो स्वामिनि ते भक्तिः अहो वीर्यम् अहो धृतिः॥४७॥
tvad-prasādāt sameṣyāmaḥ sidhdārthāḥ rāghaveṇa.aho svāmini te bhaktiḥ aho vīryam aho dhṛtiḥ..47..
दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनी । दिष्ट्या त्यक्ष्यति काकुत्स्थः शोकं सीता वियोगजम् ॥४८॥
दिष्ट्या दृष्टा त्वया देवी राम-पत्नी यशस्विनी । दिष्ट्या त्यक्ष्यति काकुत्स्थः शोकम् सीता वियोग-जम् ॥४८॥
diṣṭyā dṛṣṭā tvayā devī rāma-patnī yaśasvinī . diṣṭyā tyakṣyati kākutsthaḥ śokam sītā viyoga-jam ..48..
ततोऽङ्गदं हनूमन्तं जाम्बवन्तं च वानराः । परिवार्य प्रमुदिता भेजिरे विपुलाः शिलाः ॥४९॥
ततस् अङ्गदम् हनूमन्तम् जाम्बवन्तम् च वानराः । परिवार्य प्रमुदिताः भेजिरे विपुलाः शिलाः ॥४९॥
tatas aṅgadam hanūmantam jāmbavantam ca vānarāḥ . parivārya pramuditāḥ bhejire vipulāḥ śilāḥ ..49..
उपविष्टा गिरेस्तस्य शिलासु विपुलासु ते।श्रोतुकामाः समुद्रस्य लङ्घनं वानरोत्तमाः ॥५०॥
उपविष्टाः गिरेः तस्य शिलासु विपुलासु ते।श्रोतु-कामाः समुद्रस्य लङ्घनम् वानर-उत्तमाः ॥५०॥
upaviṣṭāḥ gireḥ tasya śilāsu vipulāsu te.śrotu-kāmāḥ samudrasya laṅghanam vānara-uttamāḥ ..50..
दर्शनं चापि लङ्कायाः सीताया रावणस्य च ।तस्थुः प्राञ्जलयस्सर्वे हनुमद्वचनोन्मुखाः॥५१॥
दर्शनम् च अपि लङ्कायाः सीतायाः रावणस्य च ।तस्थुः प्राञ्जलयः सर्वे हनुमत्-वचन-उन्मुखाः॥५१॥
darśanam ca api laṅkāyāḥ sītāyāḥ rāvaṇasya ca .tasthuḥ prāñjalayaḥ sarve hanumat-vacana-unmukhāḥ..51..
तस्थौ तत्राङ्गदः श्रीमान्वानरैर्बहुभिर्वृतः । उपास्यमानो विबुधैर्दिवि देवपतिर्यथा ॥५२॥
तस्थौ तत्र अङ्गदः श्रीमान् वानरैः बहुभिः वृतः । उपास्यमानः विबुधैः दिवि देवपतिः यथा ॥५२॥
tasthau tatra aṅgadaḥ śrīmān vānaraiḥ bahubhiḥ vṛtaḥ . upāsyamānaḥ vibudhaiḥ divi devapatiḥ yathā ..52..
हनूमता कीर्तिमता यशस्विना तथाङ्गदेनाङ्गदबद्धबाहुना । मुदा तदाध्यासितमुन्नतं महन् महीधराग्रं ज्वलितं श्रियाभवत् ॥५३॥
हनूमता कीर्तिमता यशस्विना तथा अङ्गदेन अङ्गद-बद्ध-बाहुना । मुदा तदा अध्यासितम् उन्नतम् महत् महीधर-अग्रम् ज्वलितम् श्रिया अभवत् ॥५३॥
hanūmatā kīrtimatā yaśasvinā tathā aṅgadena aṅgada-baddha-bāhunā . mudā tadā adhyāsitam unnatam mahat mahīdhara-agram jvalitam śriyā abhavat ..53..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In