This overlay will guide you through the buttons:

| |
|
तच्छ्रुत्वा हर्षमापेदे राघवो भ्रातृभिः सह । वाक्यं चाद्भुतसङ्काशं तदा प्रोवाच लक्ष्मणम् ॥ ७.१०२.१ ॥
तत् श्रुत्वा हर्षम् आपेदे राघवः भ्रातृभिः सह । वाक्यम् च अद्भुत-सङ्काशम् तदा प्रोवाच लक्ष्मणम् ॥ ७।१०२।१ ॥
tat śrutvā harṣam āpede rāghavaḥ bhrātṛbhiḥ saha . vākyam ca adbhuta-saṅkāśam tadā provāca lakṣmaṇam .. 7.102.1 ..
इमौ कुमारौ सौमित्रे तव धर्मविशारदौ । अङ्गदश्चन्द्रकेतुश्च राज्यार्थे दृढविक्रमौ ॥ ७.१०२.२ ॥
इमौ कुमारौ सौमित्रे तव धर्म-विशारदौ । अङ्गदः चन्द्रकेतुः च राज्य-अर्थे दृढ-विक्रमौ ॥ ७।१०२।२ ॥
imau kumārau saumitre tava dharma-viśāradau . aṅgadaḥ candraketuḥ ca rājya-arthe dṛḍha-vikramau .. 7.102.2 ..
इमौ राज्ये ऽभिषेक्ष्यामि देशः साधु विधीयताम् । रमणीयो ह्यसम्बाधो रमेतां यत्र धन्विनौ ॥ ७.१०२.३ ॥
इमौ राज्ये अभिषेक्ष्यामि देशः साधु विधीयताम् । रमणीयः हि असंबाधः रमेताम् यत्र धन्विनौ ॥ ७।१०२।३ ॥
imau rājye abhiṣekṣyāmi deśaḥ sādhu vidhīyatām . ramaṇīyaḥ hi asaṃbādhaḥ rametām yatra dhanvinau .. 7.102.3 ..
न राज्ञो यत्र पीडा स्यान्नाश्रमाणां विनाशनम् । स देशो दृश्यतां सौम्य नापराध्यामहे यथा ॥ ७.१०२.४ ॥
न राज्ञः यत्र पीडा स्यात् न आश्रमाणाम् विनाशनम् । स देशः दृश्यताम् सौम्य न अपराध्यामहे यथा ॥ ७।१०२।४ ॥
na rājñaḥ yatra pīḍā syāt na āśramāṇām vināśanam . sa deśaḥ dṛśyatām saumya na aparādhyāmahe yathā .. 7.102.4 ..
तथोक्तवति रामे तु भरतः प्रत्युवाच ह । अयं कारुपथो देशो रमणीयो निरामयः ॥ ७.१०२.५ ॥
तथा उक्तवति रामे तु भरतः प्रत्युवाच ह । अयम् कारु-पथः देशः रमणीयः निरामयः ॥ ७।१०२।५ ॥
tathā uktavati rāme tu bharataḥ pratyuvāca ha . ayam kāru-pathaḥ deśaḥ ramaṇīyaḥ nirāmayaḥ .. 7.102.5 ..
निवेश्यतां तत्र पुरमङ्गदस्य महात्मनः । चन्द्रकेतोः सुरुचिरं चन्द्रकान्तं निरामयम् ॥ ७.१०२.६ ॥
निवेश्यताम् तत्र पुरम् अङ्गदस्य महात्मनः । चन्द्रकेतोः सु रुचिरम् चन्द्रकान्तम् निरामयम् ॥ ७।१०२।६ ॥
niveśyatām tatra puram aṅgadasya mahātmanaḥ . candraketoḥ su ruciram candrakāntam nirāmayam .. 7.102.6 ..
तद्वाक्यं भरतेनोक्तं प्रतिजग्राह राघवः । तं च कृत्वा वशे देशमङ्गदस्य न्यवेशयत् ॥ ७.१०२.७ ॥
तत् वाक्यम् भरतेन उक्तम् प्रतिजग्राह राघवः । तम् च कृत्वा वशे देशम् अङ्गदस्य न्यवेशयत् ॥ ७।१०२।७ ॥
tat vākyam bharatena uktam pratijagrāha rāghavaḥ . tam ca kṛtvā vaśe deśam aṅgadasya nyaveśayat .. 7.102.7 ..
अङ्गदीया पुरी रम्याप्यङ्गदस्य निवेशिता । रमणीया सुगुप्ता च रामेणाक्लिष्टकर्मणा ॥ ७.१०२.८ ॥
अङ्गदीया पुरी रम्या अपि अङ्गदस्य निवेशिता । रमणीया सु गुप्ता च रामेण अक्लिष्ट-कर्मणा ॥ ७।१०२।८ ॥
aṅgadīyā purī ramyā api aṅgadasya niveśitā . ramaṇīyā su guptā ca rāmeṇa akliṣṭa-karmaṇā .. 7.102.8 ..
चन्द्रकेतोश्च मल्लस्य मल्लभूम्यां निवेशिता । चन्द्रकान्तेति विख्याता दिव्या स्वर्गपुरी यथा ॥ ७.१०२.९ ॥
चन्द्रकेतोः च मल्लस्य मल्लभूम्याम् निवेशिता । चन्द्रकान्ता इति विख्याता दिव्या स्वर्गपुरी यथा ॥ ७।१०२।९ ॥
candraketoḥ ca mallasya mallabhūmyām niveśitā . candrakāntā iti vikhyātā divyā svargapurī yathā .. 7.102.9 ..
ततो रामः परां प्रीतिं लक्ष्मणो भरतस्तथा । ययुर्युद्धे दुराधर्षा अभिषेकं च चक्रिरे ॥ ७.१०२.१० ॥
ततस् रामः पराम् प्रीतिम् लक्ष्मणः भरतः तथा । ययुः युद्धे दुराधर्षाः अभिषेकम् च चक्रिरे ॥ ७।१०२।१० ॥
tatas rāmaḥ parām prītim lakṣmaṇaḥ bharataḥ tathā . yayuḥ yuddhe durādharṣāḥ abhiṣekam ca cakrire .. 7.102.10 ..
अभिषिच्य कुमारौ स प्रस्थापयति राघवः । अङ्गदं पश्चिमां भूमिं चन्द्रकेतुमुदङ्मुखम् ॥ ७.१०२.११ ॥
अभिषिच्य कुमारौ स प्रस्थापयति राघवः । अङ्गदम् पश्चिमाम् भूमिम् चन्द्रकेतुम् उदक्-मुखम् ॥ ७।१०२।११ ॥
abhiṣicya kumārau sa prasthāpayati rāghavaḥ . aṅgadam paścimām bhūmim candraketum udak-mukham .. 7.102.11 ..
अङ्गदं चापि सौमित्रिर्लक्ष्मणो ऽनुजगाम ह । चन्द्रकेतोस्तु भरतः पार्ष्णिग्राहो बभूव ह ॥ ७.१०२.१२ ॥
अङ्गदम् च अपि सौमित्रिः लक्ष्मणः अनुजगाम ह । चन्द्रकेतोः तु भरतः पार्ष्णिग्राहः बभूव ह ॥ ७।१०२।१२ ॥
aṅgadam ca api saumitriḥ lakṣmaṇaḥ anujagāma ha . candraketoḥ tu bharataḥ pārṣṇigrāhaḥ babhūva ha .. 7.102.12 ..
लक्ष्मणस्त्वङ्गदीयायां संवत्सरमथोषितः । पुत्रे स्थिते दुराधर्षे अयोध्यां पुनरागमत् ॥ ७.१०२.१३ ॥
लक्ष्मणः तु अङ्गदीयायाम् संवत्सरम् अथ उषितः । पुत्रे स्थिते दुराधर्षे अयोध्याम् पुनर् आगमत् ॥ ७।१०२।१३ ॥
lakṣmaṇaḥ tu aṅgadīyāyām saṃvatsaram atha uṣitaḥ . putre sthite durādharṣe ayodhyām punar āgamat .. 7.102.13 ..
भरतो ऽपि तथैवोष्य संवत्सरमतो ऽधिकम् । अयोध्यां पुनरागम्य रामपादावुपास्त सः ॥ ७.१०२.१४ ॥
भरतः अपि तथा एवा उष्य संवत्सरम् अतस् अधिकम् । अयोध्याम् पुनर् आगम्य राम-पादौ उपास्त सः ॥ ७।१०२।१४ ॥
bharataḥ api tathā evā uṣya saṃvatsaram atas adhikam . ayodhyām punar āgamya rāma-pādau upāsta saḥ .. 7.102.14 ..
उभौ सौमित्रिभरतौ रामपादावनुव्रतौ । कालं गतमपि स्नेहान्न जज्ञाते ऽतिधार्मिकौ ॥ ७.१०२.१५ ॥
उभौ सौमित्रि-भरतौ राम-पादौ अनुव्रतौ । कालम् गतम् अपि स्नेहात् न जज्ञाते अति धार्मिकौ ॥ ७।१०२।१५ ॥
ubhau saumitri-bharatau rāma-pādau anuvratau . kālam gatam api snehāt na jajñāte ati dhārmikau .. 7.102.15 ..
एवं वर्षसहस्राणि दश तेषां ययुस्तदा । धर्मे प्रयतमानानां पौरकार्येषु नित्यदा ॥ ७.१०२.१६ ॥
एवम् वर्ष-सहस्राणि दश तेषाम् ययुः तदा । धर्मे प्रयतमानानाम् पौर-कार्येषु नित्यदा ॥ ७।१०२।१६ ॥
evam varṣa-sahasrāṇi daśa teṣām yayuḥ tadā . dharme prayatamānānām paura-kāryeṣu nityadā .. 7.102.16 ..
विहृत्य कालं परिपूर्णमानसाः श्रिया वृता धर्मपुरे सुसंस्थिताः । त्रयः समिद्धा इव दीप्ततेजसो महाध्वरे साधु हुतास्त्रयो ऽग्नयः ॥ ७.१०२.१७ ॥
विहृत्य कालम् परिपूर्ण-मानसाः श्रिया वृताः धर्मपुरे सु संस्थिताः । त्रयः समिद्धाः इव दीप्त-तेजसः महा-अध्वरे साधु हुताः त्रयः अग्नयः ॥ ७।१०२।१७ ॥
vihṛtya kālam paripūrṇa-mānasāḥ śriyā vṛtāḥ dharmapure su saṃsthitāḥ . trayaḥ samiddhāḥ iva dīpta-tejasaḥ mahā-adhvare sādhu hutāḥ trayaḥ agnayaḥ .. 7.102.17 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे व्द्युत्तरशततमः सर्गः ॥ १०२ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे सर्गः ॥ १०२ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe sargaḥ .. 102 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In