This overlay will guide you through the buttons:

| |
|
कस्यचित्त्वथ कालस्य रामे धर्मपरे स्थिते । कालस्तापसरूपेण राजद्वारमुपागमत् ॥ ७.१०३.१ ॥
कस्यचिद् तु अथ कालस्य रामे धर्म-परे स्थिते । कालः तापस-रूपेण राज-द्वारम् उपागमत् ॥ ७।१०३।१ ॥
kasyacid tu atha kālasya rāme dharma-pare sthite . kālaḥ tāpasa-rūpeṇa rāja-dvāram upāgamat .. 7.103.1 ..
सो ऽब्रवील्लक्ष्मणं वाक्यं धृतिमन्तं यशश्विनम् । मां निवेदय रामाय सम्प्राप्तं कार्यगौरवात् ॥ ७.१०३.२ ॥
सः अब्रवीत् लक्ष्मणम् वाक्यम् धृतिमन्तम् यशश्विनम् । माम् निवेदय रामाय सम्प्राप्तम् कार्य-गौरवात् ॥ ७।१०३।२ ॥
saḥ abravīt lakṣmaṇam vākyam dhṛtimantam yaśaśvinam . mām nivedaya rāmāya samprāptam kārya-gauravāt .. 7.103.2 ..
दूतो ऽस्म्यतिबलस्याहं महर्षेरमितौजसः । रामं दिदृक्षुरायातः कार्येण हि महाबल ॥ ७.१०३.३ ॥
दूतः अस्मि अतिबलस्य अहम् महा-ऋषेः अमित-ओजसः । रामम् दिदृक्षुः आयातः कार्येण हि महा-बल ॥ ७।१०३।३ ॥
dūtaḥ asmi atibalasya aham mahā-ṛṣeḥ amita-ojasaḥ . rāmam didṛkṣuḥ āyātaḥ kāryeṇa hi mahā-bala .. 7.103.3 ..
तस्य तद्वचनं श्रुत्वा सौमित्रिस्त्वरया ऽन्वितः । न्यवेदयत रामाय तापसं तं समागतम् ॥ ७.१०३.४ ॥
तस्य तत् वचनम् श्रुत्वा सौमित्रिः त्वरया अन्वितः । न्यवेदयत रामाय तापसम् तम् समागतम् ॥ ७।१०३।४ ॥
tasya tat vacanam śrutvā saumitriḥ tvarayā anvitaḥ . nyavedayata rāmāya tāpasam tam samāgatam .. 7.103.4 ..
जयस्व राम धर्मेण उभौ लोकौ महाद्युते । दूतस्त्वां द्रष्टुमायातस्तपसा भास्करप्रभः ॥ ७.१०३.५ ॥
जयस्व राम धर्मेण उभौ लोकौ महा-द्युते । दूतः त्वाम् द्रष्टुम् आयातः तपसा भास्कर-प्रभः ॥ ७।१०३।५ ॥
jayasva rāma dharmeṇa ubhau lokau mahā-dyute . dūtaḥ tvām draṣṭum āyātaḥ tapasā bhāskara-prabhaḥ .. 7.103.5 ..
तद्वाक्यं लक्ष्मणेनोक्तं श्रुत्वा राम उवाच ह । प्रवेश्यतां मुनिस्तात महौजास्तस्य वाक्यधृत् ॥ ७.१०३.६ ॥
तत् वाक्यम् लक्ष्मणेन उक्तम् श्रुत्वा रामः उवाच ह । प्रवेश्यताम् मुनिः तात महा-ओजाः तस्य वाक्य-धृत् ॥ ७।१०३।६ ॥
tat vākyam lakṣmaṇena uktam śrutvā rāmaḥ uvāca ha . praveśyatām muniḥ tāta mahā-ojāḥ tasya vākya-dhṛt .. 7.103.6 ..
सौमित्रिस्तु तथेत्युक्त्वा प्रावेशयत तं मुनिम् । ज्वलन्तमेव तेजोभिः प्रदहन्तमिवांशुभिः ॥ ७.१०३.७ ॥
सौमित्रिः तु तथा इति उक्त्वा प्रावेशयत तम् मुनिम् । ज्वलन्तम् एव तेजोभिः प्रदहन्तम् इव अंशुभिः ॥ ७।१०३।७ ॥
saumitriḥ tu tathā iti uktvā prāveśayata tam munim . jvalantam eva tejobhiḥ pradahantam iva aṃśubhiḥ .. 7.103.7 ..
सो ऽभिगम्य रघुश्रेष्ठं दीप्यपानं स्वतेजसा । ऋषिर्मधुरया वाचा वर्धस्वेत्याह राघवम् ॥ ७.१०३.८ ॥
सः अभिगम्य रघु-श्रेष्ठम् दीप्य-पानम् स्व-तेजसा । ऋषिः मधुरया वाचा वर्धस्व इति आह राघवम् ॥ ७।१०३।८ ॥
saḥ abhigamya raghu-śreṣṭham dīpya-pānam sva-tejasā . ṛṣiḥ madhurayā vācā vardhasva iti āha rāghavam .. 7.103.8 ..
तस्मै रामो महातेजाः पूजामर्घ्यपुरोगमाम् । ददौ कुशलमव्यग्रं प्रष्टुमेवोपचक्रमे ॥ ७.१०३.९ ॥
तस्मै रामः महा-तेजाः पूजाम् अर्घ्य-पुरोगमाम् । ददौ कुशलम् अव्यग्रम् प्रष्टुम् एवा उपचक्रमे ॥ ७।१०३।९ ॥
tasmai rāmaḥ mahā-tejāḥ pūjām arghya-purogamām . dadau kuśalam avyagram praṣṭum evā upacakrame .. 7.103.9 ..
पृष्टश्च कुशलं तेन रामेण वदतां वरः । आसने काञ्चने दिव्ये निषसाद महायशाः ॥ ७.१०३.१० ॥
पृष्टः च कुशलम् तेन रामेण वदताम् वरः । आसने काञ्चने दिव्ये निषसाद महा-यशाः ॥ ७।१०३।१० ॥
pṛṣṭaḥ ca kuśalam tena rāmeṇa vadatām varaḥ . āsane kāñcane divye niṣasāda mahā-yaśāḥ .. 7.103.10 ..
तमुवाच ततो रामः स्वागतं ते महामुने । प्रापयास्य च वाक्यानि यतो दूतस्त्वमागतः ॥ ७.१०३.११ ॥
तम् उवाच ततस् रामः स्वागतम् ते महा-मुने । प्रापय अस्य च वाक्यानि यतस् दूतः त्वम् आगतः ॥ ७।१०३।११ ॥
tam uvāca tatas rāmaḥ svāgatam te mahā-mune . prāpaya asya ca vākyāni yatas dūtaḥ tvam āgataḥ .. 7.103.11 ..
चोदितो राजसिंहेन मुनिर्वाक्यमभाषत । द्वन्द्वमेतत्प्रवक्तव्यं हितं वै यद्यपेक्षसे ॥ ७.१०३.१२ ॥
चोदितः राज-सिंहेन मुनिः वाक्यम् अभाषत । द्वन्द्वम् एतत् प्रवक्तव्यम् हितम् वै यदि अपेक्षसे ॥ ७।१०३।१२ ॥
coditaḥ rāja-siṃhena muniḥ vākyam abhāṣata . dvandvam etat pravaktavyam hitam vai yadi apekṣase .. 7.103.12 ..
यः शृणोति निरीक्षेद्वा स वध्यो भविता तव । भवेद्वै मुनिमुख्यस्य वचनं यद्यपेक्षसे ॥ ७.१०३.१३ ॥
यः शृणोति निरीक्षेत् वा स वध्यः भविता तव । भवेत् वै मुनि-मुख्यस्य वचनम् यदि अपेक्षसे ॥ ७।१०३।१३ ॥
yaḥ śṛṇoti nirīkṣet vā sa vadhyaḥ bhavitā tava . bhavet vai muni-mukhyasya vacanam yadi apekṣase .. 7.103.13 ..
स तथेति प्रतिज्ञाय रामो लक्ष्मणमब्रवीत् । द्वारि तिष्ठ महाबाहो प्रतिहारं विसर्जय ॥ ७.१०३.१४ ॥
स तथा इति प्रतिज्ञाय रामः लक्ष्मणम् अब्रवीत् । द्वारि तिष्ठ महा-बाहो प्रतिहारम् विसर्जय ॥ ७।१०३।१४ ॥
sa tathā iti pratijñāya rāmaḥ lakṣmaṇam abravīt . dvāri tiṣṭha mahā-bāho pratihāram visarjaya .. 7.103.14 ..
स मे वध्यः खलु भवेत् कथाद्वन्द्वं समीरितम् । ऋषेर्मम च सौमित्रे पश्येद्वा शृणुयाच्च यः ॥ ७.१०३.१५ ॥
स मे वध्यः खलु भवेत् कथा-द्वन्द्वम् समीरितम् । ऋषेः मम च सौमित्रे पश्येत् वा शृणुयात् च यः ॥ ७।१०३।१५ ॥
sa me vadhyaḥ khalu bhavet kathā-dvandvam samīritam . ṛṣeḥ mama ca saumitre paśyet vā śṛṇuyāt ca yaḥ .. 7.103.15 ..
ततो निक्षिप्य काकुत्स्थो लक्ष्मणं द्वारि सङ्ग्रहम् । तमुवाच मुने वाक्यं कथयस्वेति राघवः ॥ ७.१०३.१६ ॥
ततस् निक्षिप्य काकुत्स्थः लक्ष्मणम् द्वारि सङ्ग्रहम् । तम् उवाच मुने वाक्यम् कथयस्व इति राघवः ॥ ७।१०३।१६ ॥
tatas nikṣipya kākutsthaḥ lakṣmaṇam dvāri saṅgraham . tam uvāca mune vākyam kathayasva iti rāghavaḥ .. 7.103.16 ..
यत्ते मनीषितं वाक्यं येन वा ऽसि समाहितः । कथयस्वाविशङ्कस्त्वं ममापि हृदि वर्तते ॥ ७.१०३.१७ ॥
यत् ते मनीषितम् वाक्यम् येन वा असि समाहितः । कथयस्व अविशङ्कः त्वम् मम अपि हृदि वर्तते ॥ ७।१०३।१७ ॥
yat te manīṣitam vākyam yena vā asi samāhitaḥ . kathayasva aviśaṅkaḥ tvam mama api hṛdi vartate .. 7.103.17 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्र्युत्तरशततमः सर्गः ॥ १०३ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे त्र्युत्तरशततमः सर्गः ॥ १०३ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe tryuttaraśatatamaḥ sargaḥ .. 103 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In