This overlay will guide you through the buttons:

| |
|
कस्यचित्त्वथ कालस्य रामे धर्मपरे स्थिते । कालस्तापसरूपेण राजद्वारमुपागमत् ॥ ७.१०३.१ ॥
kasyacittvatha kālasya rāme dharmapare sthite . kālastāpasarūpeṇa rājadvāramupāgamat .. 7.103.1 ..
सो ऽब्रवील्लक्ष्मणं वाक्यं धृतिमन्तं यशश्विनम् । मां निवेदय रामाय सम्प्राप्तं कार्यगौरवात् ॥ ७.१०३.२ ॥
so 'bravīllakṣmaṇaṃ vākyaṃ dhṛtimantaṃ yaśaśvinam . māṃ nivedaya rāmāya samprāptaṃ kāryagauravāt .. 7.103.2 ..
दूतो ऽस्म्यतिबलस्याहं महर्षेरमितौजसः । रामं दिदृक्षुरायातः कार्येण हि महाबल ॥ ७.१०३.३ ॥
dūto 'smyatibalasyāhaṃ maharṣeramitaujasaḥ . rāmaṃ didṛkṣurāyātaḥ kāryeṇa hi mahābala .. 7.103.3 ..
तस्य तद्वचनं श्रुत्वा सौमित्रिस्त्वरया ऽन्वितः । न्यवेदयत रामाय तापसं तं समागतम् ॥ ७.१०३.४ ॥
tasya tadvacanaṃ śrutvā saumitristvarayā 'nvitaḥ . nyavedayata rāmāya tāpasaṃ taṃ samāgatam .. 7.103.4 ..
जयस्व राम धर्मेण उभौ लोकौ महाद्युते । दूतस्त्वां द्रष्टुमायातस्तपसा भास्करप्रभः ॥ ७.१०३.५ ॥
jayasva rāma dharmeṇa ubhau lokau mahādyute . dūtastvāṃ draṣṭumāyātastapasā bhāskaraprabhaḥ .. 7.103.5 ..
तद्वाक्यं लक्ष्मणेनोक्तं श्रुत्वा राम उवाच ह । प्रवेश्यतां मुनिस्तात महौजास्तस्य वाक्यधृत् ॥ ७.१०३.६ ॥
tadvākyaṃ lakṣmaṇenoktaṃ śrutvā rāma uvāca ha . praveśyatāṃ munistāta mahaujāstasya vākyadhṛt .. 7.103.6 ..
सौमित्रिस्तु तथेत्युक्त्वा प्रावेशयत तं मुनिम् । ज्वलन्तमेव तेजोभिः प्रदहन्तमिवांशुभिः ॥ ७.१०३.७ ॥
saumitristu tathetyuktvā prāveśayata taṃ munim . jvalantameva tejobhiḥ pradahantamivāṃśubhiḥ .. 7.103.7 ..
सो ऽभिगम्य रघुश्रेष्ठं दीप्यपानं स्वतेजसा । ऋषिर्मधुरया वाचा वर्धस्वेत्याह राघवम् ॥ ७.१०३.८ ॥
so 'bhigamya raghuśreṣṭhaṃ dīpyapānaṃ svatejasā . ṛṣirmadhurayā vācā vardhasvetyāha rāghavam .. 7.103.8 ..
तस्मै रामो महातेजाः पूजामर्घ्यपुरोगमाम् । ददौ कुशलमव्यग्रं प्रष्टुमेवोपचक्रमे ॥ ७.१०३.९ ॥
tasmai rāmo mahātejāḥ pūjāmarghyapurogamām . dadau kuśalamavyagraṃ praṣṭumevopacakrame .. 7.103.9 ..
पृष्टश्च कुशलं तेन रामेण वदतां वरः । आसने काञ्चने दिव्ये निषसाद महायशाः ॥ ७.१०३.१० ॥
pṛṣṭaśca kuśalaṃ tena rāmeṇa vadatāṃ varaḥ . āsane kāñcane divye niṣasāda mahāyaśāḥ .. 7.103.10 ..
तमुवाच ततो रामः स्वागतं ते महामुने । प्रापयास्य च वाक्यानि यतो दूतस्त्वमागतः ॥ ७.१०३.११ ॥
tamuvāca tato rāmaḥ svāgataṃ te mahāmune . prāpayāsya ca vākyāni yato dūtastvamāgataḥ .. 7.103.11 ..
चोदितो राजसिंहेन मुनिर्वाक्यमभाषत । द्वन्द्वमेतत्प्रवक्तव्यं हितं वै यद्यपेक्षसे ॥ ७.१०३.१२ ॥
codito rājasiṃhena munirvākyamabhāṣata . dvandvametatpravaktavyaṃ hitaṃ vai yadyapekṣase .. 7.103.12 ..
यः शृणोति निरीक्षेद्वा स वध्यो भविता तव । भवेद्वै मुनिमुख्यस्य वचनं यद्यपेक्षसे ॥ ७.१०३.१३ ॥
yaḥ śṛṇoti nirīkṣedvā sa vadhyo bhavitā tava . bhavedvai munimukhyasya vacanaṃ yadyapekṣase .. 7.103.13 ..
स तथेति प्रतिज्ञाय रामो लक्ष्मणमब्रवीत् । द्वारि तिष्ठ महाबाहो प्रतिहारं विसर्जय ॥ ७.१०३.१४ ॥
sa tatheti pratijñāya rāmo lakṣmaṇamabravīt . dvāri tiṣṭha mahābāho pratihāraṃ visarjaya .. 7.103.14 ..
स मे वध्यः खलु भवेत् कथाद्वन्द्वं समीरितम् । ऋषेर्मम च सौमित्रे पश्येद्वा शृणुयाच्च यः ॥ ७.१०३.१५ ॥
sa me vadhyaḥ khalu bhavet kathādvandvaṃ samīritam . ṛṣermama ca saumitre paśyedvā śṛṇuyācca yaḥ .. 7.103.15 ..
ततो निक्षिप्य काकुत्स्थो लक्ष्मणं द्वारि सङ्ग्रहम् । तमुवाच मुने वाक्यं कथयस्वेति राघवः ॥ ७.१०३.१६ ॥
tato nikṣipya kākutstho lakṣmaṇaṃ dvāri saṅgraham . tamuvāca mune vākyaṃ kathayasveti rāghavaḥ .. 7.103.16 ..
यत्ते मनीषितं वाक्यं येन वा ऽसि समाहितः । कथयस्वाविशङ्कस्त्वं ममापि हृदि वर्तते ॥ ७.१०३.१७ ॥
yatte manīṣitaṃ vākyaṃ yena vā 'si samāhitaḥ . kathayasvāviśaṅkastvaṃ mamāpi hṛdi vartate .. 7.103.17 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्र्युत्तरशततमः सर्गः ॥ १०३ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe tryuttaraśatatamaḥ sargaḥ .. 103 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In