This overlay will guide you through the buttons:

| |
|
तथा तयोः संवदतोर्दुर्वासा भगवानृषिः । रामस्य दर्शनाकाङ्क्षी राजद्वारमुपागमत् ॥ ७.१०५.१ ॥
तथा तयोः संवदतोः दुर्वासाः भगवान् ऋषिः । रामस्य दर्शन-आकाङ्क्षी राज-द्वारम् उपागमत् ॥ ७।१०५।१ ॥
tathā tayoḥ saṃvadatoḥ durvāsāḥ bhagavān ṛṣiḥ . rāmasya darśana-ākāṅkṣī rāja-dvāram upāgamat .. 7.105.1 ..
सो ऽभिगम्य तु सौमित्रिमुवाच ऋषिसत्तमः । रामं दर्शय मे शीघ्रं पुरा मे ऽर्थो ऽतिवर्तते ॥ ७.१०५.२ ॥
सः अभिगम्य तु सौमित्रिम् उवाच ऋषि-सत्तमः । रामम् दर्शय मे शीघ्रम् पुरा मे अर्थः अतिवर्तते ॥ ७।१०५।२ ॥
saḥ abhigamya tu saumitrim uvāca ṛṣi-sattamaḥ . rāmam darśaya me śīghram purā me arthaḥ ativartate .. 7.105.2 ..
मुनेस्तु भाषितं श्रुत्वा लक्ष्मणः परवीरहा । अभिवाद्य महात्मानं वाक्यमेतदुवाच ह ॥ ७.१०५.३ ॥
मुनेः तु भाषितम् श्रुत्वा लक्ष्मणः पर-वीर-हा । अभिवाद्य महात्मानम् वाक्यम् एतत् उवाच ह ॥ ७।१०५।३ ॥
muneḥ tu bhāṣitam śrutvā lakṣmaṇaḥ para-vīra-hā . abhivādya mahātmānam vākyam etat uvāca ha .. 7.105.3 ..
किं कार्यं ब्रूहि भगवन्को वा ऽर्थः किं करोम्यहम् । व्यग्रो हि राघवो ब्रह्मन्मुहूर्तं प्रतिपाल्यताम् ॥ ७.१०५.४ ॥
किम् कार्यम् ब्रूहि भगवन् कः वा अर्थः किम् करोमि अहम् । व्यग्रः हि राघवः ब्रह्मन् मुहूर्तम् प्रतिपाल्यताम् ॥ ७।१०५।४ ॥
kim kāryam brūhi bhagavan kaḥ vā arthaḥ kim karomi aham . vyagraḥ hi rāghavaḥ brahman muhūrtam pratipālyatām .. 7.105.4 ..
तच्छ्रुत्वा ऋषिशार्दूलः क्रोधेन कलुषीकृतः । उवाच लक्ष्मणं वाक्यं निर्दहन्निव चक्षुषा ॥ ७.१०५.५ ॥
तत् श्रुत्वा ऋषि-शार्दूलः क्रोधेन कलुषीकृतः । उवाच लक्ष्मणम् वाक्यम् निर्दहन् इव चक्षुषा ॥ ७।१०५।५ ॥
tat śrutvā ṛṣi-śārdūlaḥ krodhena kaluṣīkṛtaḥ . uvāca lakṣmaṇam vākyam nirdahan iva cakṣuṣā .. 7.105.5 ..
अस्मिन्क्षणे मां सौमित्रे रामाय प्रतिवेदय । अस्मिन्क्षणे मां सौमित्रे न निवेदयसे यदि ॥ ७.१०५.६ ॥
अस्मिन् क्षणे माम् सौमित्रे रामाय प्रतिवेदय । अस्मिन् क्षणे माम् सौमित्रे न निवेदयसे यदि ॥ ७।१०५।६ ॥
asmin kṣaṇe mām saumitre rāmāya prativedaya . asmin kṣaṇe mām saumitre na nivedayase yadi .. 7.105.6 ..
विषयं त्वां पुरं चैव शपिष्ये राघवं तथा । भरतं चैव सौमित्रे युष्माकं या च सन्ततिः ॥ ७.१०५.७ ॥
विषयम् त्वाम् पुरम् च एव शपिष्ये राघवम् तथा । भरतम् च एव सौमित्रे युष्माकम् या च सन्ततिः ॥ ७।१०५।७ ॥
viṣayam tvām puram ca eva śapiṣye rāghavam tathā . bharatam ca eva saumitre yuṣmākam yā ca santatiḥ .. 7.105.7 ..
न हि शक्ष्याम्यहं भूयो मन्युं धारयितुं हृदि । तच्छ्रुत्वा घोरसङ्काशं वाक्यं तस्य महात्मनः । चिन्तयामास मनसा तस्य वाक्यस्य निश्चयम् ॥ ७.१०५.८ ॥
न हि शक्ष्यामि अहम् भूयस् मन्युम् धारयितुम् हृदि । तत् श्रुत्वा घोर-सङ्काशम् वाक्यम् तस्य महात्मनः । चिन्तयामास मनसा तस्य वाक्यस्य निश्चयम् ॥ ७।१०५।८ ॥
na hi śakṣyāmi aham bhūyas manyum dhārayitum hṛdi . tat śrutvā ghora-saṅkāśam vākyam tasya mahātmanaḥ . cintayāmāsa manasā tasya vākyasya niścayam .. 7.105.8 ..
एकस्य मरणं मे ऽस्तु मा भूत्सर्वविनाशनम् । इति बुद्ध्या विनिश्चित्य राघवाय न्यवेदयत् ॥ ७.१०५.९ ॥
एकस्य मरणम् मे अस्तु मा भूत् सर्व-विनाशनम् । इति बुद्ध्या विनिश्चित्य राघवाय न्यवेदयत् ॥ ७।१०५।९ ॥
ekasya maraṇam me astu mā bhūt sarva-vināśanam . iti buddhyā viniścitya rāghavāya nyavedayat .. 7.105.9 ..
लक्ष्मणस्य वचः श्रुत्वा रामः कालं विसृज्य च । निस्सृत्य त्वरितं राजा अत्रेः पुत्रं ददर्श ह ॥ ७.१०५.१० ॥
लक्ष्मणस्य वचः श्रुत्वा रामः कालम् विसृज्य च । निस्सृत्य त्वरितम् राजा अत्रेः पुत्रम् ददर्श ह ॥ ७।१०५।१० ॥
lakṣmaṇasya vacaḥ śrutvā rāmaḥ kālam visṛjya ca . nissṛtya tvaritam rājā atreḥ putram dadarśa ha .. 7.105.10 ..
सो ऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा । किं कार्यमिति काकुत्स्थः कृताञ्जलिरभाषत ॥ ७.१०५.११ ॥
सः अभिवाद्य महात्मानम् ज्वलन्तम् इव तेजसा । किम् कार्यम् इति काकुत्स्थः कृताञ्जलिः अभाषत ॥ ७।१०५।११ ॥
saḥ abhivādya mahātmānam jvalantam iva tejasā . kim kāryam iti kākutsthaḥ kṛtāñjaliḥ abhāṣata .. 7.105.11 ..
तद्वाक्यं राघवेणोक्तं श्रुत्वा मुनिवरः प्रभुम् । प्रत्याह रामं दुर्वासाः श्रूयतां धर्मवत्सल ॥ ७.१०५.१२ ॥
तत् वाक्यम् राघवेण उक्तम् श्रुत्वा मुनि-वरः प्रभुम् । प्रत्याह रामम् दुर्वासाः श्रूयताम् धर्म-वत्सल ॥ ७।१०५।१२ ॥
tat vākyam rāghaveṇa uktam śrutvā muni-varaḥ prabhum . pratyāha rāmam durvāsāḥ śrūyatām dharma-vatsala .. 7.105.12 ..
अद्य वर्षसहस्रस्य समाप्तिस्तपसो मम । सो ऽहं भोजनमिच्छामि यथासिद्धं तवानघ ॥ ७.१०५.१३ ॥
अद्य वर्ष-सहस्रस्य समाप्तिः तपसः मम । सः अहम् भोजनम् इच्छामि यथा सिद्धम् तव अनघ ॥ ७।१०५।१३ ॥
adya varṣa-sahasrasya samāptiḥ tapasaḥ mama . saḥ aham bhojanam icchāmi yathā siddham tava anagha .. 7.105.13 ..
तच्छ्रुत्वा वचनं राजा राघवः प्रीतमानसः । भोजनं मुनिमुख्याय यथासिद्धमुपाहरत् ॥ ७.१०५.१४ ॥
तत् श्रुत्वा वचनम् राजा राघवः प्रीत-मानसः । भोजनम् मुनि-मुख्याय यथा सिद्धम् उपाहरत् ॥ ७।१०५।१४ ॥
tat śrutvā vacanam rājā rāghavaḥ prīta-mānasaḥ . bhojanam muni-mukhyāya yathā siddham upāharat .. 7.105.14 ..
स तु भुक्त्वा मुनिश्रेष्ठस्तदन्नममृतोपमम् । साधु रामेति सम्भाष्य स्वमाश्रममुपागमत् ॥ ७.१०५.१५ ॥
स तु भुक्त्वा मुनि-श्रेष्ठः तत् अन्नम् अमृत-उपमम् । साधु राम इति सम्भाष्य स्वम् आश्रमम् उपागमत् ॥ ७।१०५।१५ ॥
sa tu bhuktvā muni-śreṣṭhaḥ tat annam amṛta-upamam . sādhu rāma iti sambhāṣya svam āśramam upāgamat .. 7.105.15 ..
तस्मिन् गते मुनिवरे स्वाश्रमं लक्ष्मणाग्रजः । संस्मृत्य कालवाक्यानि ततो दुःखमुपागमत् ॥ ७.१०५.१६ ॥
तस्मिन् गते मुनि-वरे स्व-आश्रमम् लक्ष्मण-अग्रजः । संस्मृत्य काल-वाक्यानि ततस् दुःखम् उपागमत् ॥ ७।१०५।१६ ॥
tasmin gate muni-vare sva-āśramam lakṣmaṇa-agrajaḥ . saṃsmṛtya kāla-vākyāni tatas duḥkham upāgamat .. 7.105.16 ..
दुःखेन च सुसन्तप्तः स्मृत्वा तद्घोरदर्शनम् । अवाङ्मुखो दीनमना व्याहर्तुं न शशाक ह ॥ ७.१०५.१७ ॥
दुःखेन च सु सन्तप्तः स्मृत्वा तत् घोर-दर्शनम् । अवाङ्मुखः दीन-मनाः व्याहर्तुम् न शशाक ह ॥ ७।१०५।१७ ॥
duḥkhena ca su santaptaḥ smṛtvā tat ghora-darśanam . avāṅmukhaḥ dīna-manāḥ vyāhartum na śaśāka ha .. 7.105.17 ..
ततो बुद्ध्या विनिश्चित्य कालवाक्यानि राघवः । नैतदस्तीति निश्चित्य तूष्णीमासीन्महायशाः ॥ ७.१०५.१८ ॥
ततस् बुद्ध्या विनिश्चित्य काल-वाक्यानि राघवः । न एतत् अस्ति इति निश्चित्य तूष्णीम् आसीत् महा-यशाः ॥ ७।१०५।१८ ॥
tatas buddhyā viniścitya kāla-vākyāni rāghavaḥ . na etat asti iti niścitya tūṣṇīm āsīt mahā-yaśāḥ .. 7.105.18 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चोत्तरशततमः सर्गः ॥ १०५ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे पञ्चोत्तरशततमः सर्गः ॥ १०५ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe pañcottaraśatatamaḥ sargaḥ .. 105 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In