This overlay will guide you through the buttons:

| |
|
ते दूता रामवाक्येन चोदिता लघुविक्रमाः । प्रजग्मुर्मधुरां शीघ्रं चक्रुर्वासं न चाध्वनि ॥ ७.१०८.१ ॥
ते दूताः राम-वाक्येन चोदिताः लघु-विक्रमाः । प्रजग्मुः मधुराम् शीघ्रम् चक्रुः वासम् न च अध्वनि ॥ ७।१०८।१ ॥
te dūtāḥ rāma-vākyena coditāḥ laghu-vikramāḥ . prajagmuḥ madhurām śīghram cakruḥ vāsam na ca adhvani .. 7.108.1 ..
ते तु त्रिभिरहोरात्रैः सम्प्राप्य मधुरामथ । शत्रुघ्नाय यथातत्त्वमाचख्युः सर्वमेव तत् ॥ ७.१०८.२ ॥
ते तु त्रिभिः अहोरात्रैः सम्प्राप्य मधुराम् अथ । शत्रुघ्नाय यथातत्त्वम् आचख्युः सर्वम् एव तत् ॥ ७।१०८।२ ॥
te tu tribhiḥ ahorātraiḥ samprāpya madhurām atha . śatrughnāya yathātattvam ācakhyuḥ sarvam eva tat .. 7.108.2 ..
लक्ष्मणस्य परित्यागं प्रतिज्ञां राघवस्य च । पुत्रयोरभिषेकं च पौरानुगमनं तथा ॥ ७.१०८.३ ॥
लक्ष्मणस्य परित्यागम् प्रतिज्ञाम् राघवस्य च । पुत्रयोः अभिषेकम् च पौर-अनुगमनम् तथा ॥ ७।१०८।३ ॥
lakṣmaṇasya parityāgam pratijñām rāghavasya ca . putrayoḥ abhiṣekam ca paura-anugamanam tathā .. 7.108.3 ..
कुशस्य नगरी रम्या विन्ध्यपर्वतरोधसि । कुशावतीति नाम्ना सा कृता रामेण धीमता । श्रावस्तीति पुरी रम्या श्राविता च लवस्य ह ॥ ७.१०८.४ ॥
कुशस्य नगरी रम्या विन्ध्य-पर्वत-रोधसि । कुशावती इति नाम्ना सा कृता रामेण धीमता । श्रावस्ती इति पुरी रम्या श्राविता च लवस्य ह ॥ ७।१०८।४ ॥
kuśasya nagarī ramyā vindhya-parvata-rodhasi . kuśāvatī iti nāmnā sā kṛtā rāmeṇa dhīmatā . śrāvastī iti purī ramyā śrāvitā ca lavasya ha .. 7.108.4 ..
अयोध्यां विजनां कृत्वा राघवो भरतस्तथा । स्वर्गस्य गमनोद्योगं कृतवन्तौ महारथौ ॥ ७.१०८.५ ॥
अयोध्याम् विजनाम् कृत्वा राघवः भरतः तथा । स्वर्गस्य गमन-उद्योगम् कृतवन्तौ महा-रथौ ॥ ७।१०८।५ ॥
ayodhyām vijanām kṛtvā rāghavaḥ bharataḥ tathā . svargasya gamana-udyogam kṛtavantau mahā-rathau .. 7.108.5 ..
एवं सर्वं निवेद्याशु शत्रुघ्नाय महात्मने । विरेमुस्ते ततो दूतास्त्वर राजेति चाब्रुवन् ॥ ७.१०८.६ ॥
एवम् सर्वम् निवेद्य आशु शत्रुघ्नाय महात्मने । विरेमुः ते ततस् दूताः त्वर राजा इति च अब्रुवन् ॥ ७।१०८।६ ॥
evam sarvam nivedya āśu śatrughnāya mahātmane . viremuḥ te tatas dūtāḥ tvara rājā iti ca abruvan .. 7.108.6 ..
तच्छ्रुत्वा घोरसङ्काशं कुलक्षयमुपस्थितम् । प्रकृतीस्तु समानीय काञ्चनं च पुरोधसम् ॥ ७.१०८.७ ॥
तत् श्रुत्वा घोर-सङ्काशम् कुल-क्षयम् उपस्थितम् । प्रकृतीः तु समानीय काञ्चनम् च पुरोधसम् ॥ ७।१०८।७ ॥
tat śrutvā ghora-saṅkāśam kula-kṣayam upasthitam . prakṛtīḥ tu samānīya kāñcanam ca purodhasam .. 7.108.7 ..
तेषां सर्वं यथावृत्तमब्रवीद्रघनन्दनः । आत्मनश्च विपर्यासं भविष्यं भ्रातृभिः सह ॥ ७.१०८.८ ॥
तेषाम् सर्वम् यथावृत्तम् अब्रवीत् रघ-नन्दनः । आत्मनः च विपर्यासम् भविष्यम् भ्रातृभिः सह ॥ ७।१०८।८ ॥
teṣām sarvam yathāvṛttam abravīt ragha-nandanaḥ . ātmanaḥ ca viparyāsam bhaviṣyam bhrātṛbhiḥ saha .. 7.108.8 ..
ततः पुत्रद्वयं वीरः सो ऽभ्यषिञ्चन्नराधिपः । सुबाहुर्मधुरां लेभे शत्रुघाती च वैदिशम् ॥ ७.१०८.९ ॥
ततस् पुत्र-द्वयम् वीरः सः अभ्यषिञ्चत् नराधिपः । सुबाहुः मधुराम् लेभे शत्रुघाती च वैदिशम् ॥ ७।१०८।९ ॥
tatas putra-dvayam vīraḥ saḥ abhyaṣiñcat narādhipaḥ . subāhuḥ madhurām lebhe śatrughātī ca vaidiśam .. 7.108.9 ..
द्विधा कृत्वा तु तां सेनां माधुरीं पुत्रयोर्द्वयोः । धनं च युक्तं कृत्वा वै स्थापयामास पार्थिवः ॥ ७.१०८.१० ॥
द्विधा कृत्वा तु ताम् सेनाम् माधुरीम् पुत्रयोः द्वयोः । धनम् च युक्तम् कृत्वा वै स्थापयामास पार्थिवः ॥ ७।१०८।१० ॥
dvidhā kṛtvā tu tām senām mādhurīm putrayoḥ dvayoḥ . dhanam ca yuktam kṛtvā vai sthāpayāmāsa pārthivaḥ .. 7.108.10 ..
सुबाहुं मधुरायां च वैदेशे शत्रुघातिनम् । ययौ स्थाप्य तदा ऽयोध्यां रथेनैकेन राघवः ॥ ७.१०८.११ ॥
सुबाहुम् मधुरायाम् च वैदेशे शत्रुघातिनम् । ययौ स्थाप्य तदा अयोध्याम् रथेन एकेन राघवः ॥ ७।१०८।११ ॥
subāhum madhurāyām ca vaideśe śatrughātinam . yayau sthāpya tadā ayodhyām rathena ekena rāghavaḥ .. 7.108.11 ..
स ददर्श महात्मानं ज्वलन्तमिव पावकम् । सूक्ष्मक्षौमाम्बरधरं मुनिभिः सार्धमक्षयैः ॥ ७.१०८.१२ ॥
स ददर्श महात्मानम् ज्वलन्तम् इव पावकम् । सूक्ष्म-क्षौम-अम्बर-धरम् मुनिभिः सार्धम् अक्षयैः ॥ ७।१०८।१२ ॥
sa dadarśa mahātmānam jvalantam iva pāvakam . sūkṣma-kṣauma-ambara-dharam munibhiḥ sārdham akṣayaiḥ .. 7.108.12 ..
सो ऽभिवाद्य ततो रामं प्राञ्जलिः प्रयतेन्द्रियः । उवाच वाक्यं धर्मज्ञं धर्ममेवानुचिन्तयन् ॥ ७.१०८.१३ ॥
सः अभिवाद्य ततस् रामम् प्राञ्जलिः प्रयत-इन्द्रियः । उवाच वाक्यम् धर्म-ज्ञम् धर्मम् एव अनुचिन्तयन् ॥ ७।१०८।१३ ॥
saḥ abhivādya tatas rāmam prāñjaliḥ prayata-indriyaḥ . uvāca vākyam dharma-jñam dharmam eva anucintayan .. 7.108.13 ..
कृत्वाभिषेकं सुतयोर्द्वयो राघवनन्दन । तवानुगमने राजन्विद्धि मां कृतनिश्चयम् ॥ ७.१०८.१४ ॥
कृत्वा अभिषेकम् सुतयोः द्वयोः राघव-नन्दन । तव अनुगमने राजन् विद्धि माम् कृत-निश्चयम् ॥ ७।१०८।१४ ॥
kṛtvā abhiṣekam sutayoḥ dvayoḥ rāghava-nandana . tava anugamane rājan viddhi mām kṛta-niścayam .. 7.108.14 ..
न चान्यदपि वक्तव्यमतो वीर न शासनम् । विलोक्यमानमिच्छामि मद्विधेन विशेषतः ॥ ७.१०८.१५ ॥
न च अन्यत् अपि वक्तव्यम् अतस् वीर न शासनम् । विलोक्यमानम् इच्छामि मद्विधेन विशेषतः ॥ ७।१०८।१५ ॥
na ca anyat api vaktavyam atas vīra na śāsanam . vilokyamānam icchāmi madvidhena viśeṣataḥ .. 7.108.15 ..
तस्य तां बुद्धिमक्लीबां विज्ञाय रघुनन्दनः । बाढमित्येव शत्रुघ्नं रामो वाक्यमुवाच ह ॥ ७.१०८.१६ ॥
तस्य ताम् बुद्धिम् अक्लीबाम् विज्ञाय रघुनन्दनः । बाढम् इति एव शत्रुघ्नम् रामः वाक्यम् उवाच ह ॥ ७।१०८।१६ ॥
tasya tām buddhim aklībām vijñāya raghunandanaḥ . bāḍham iti eva śatrughnam rāmaḥ vākyam uvāca ha .. 7.108.16 ..
तस्य वाक्यस्य वाक्यान्ते वानराः कामरूपिणः । ऋक्षराक्षससङ्घाश्च समापेतुरनेकशः ॥ ७.१०८.१७ ॥
तस्य वाक्यस्य वाक्य-अन्ते वानराः कामरूपिणः । ऋक्ष-राक्षस-सङ्घाः च समापेतुः अनेकशस् ॥ ७।१०८।१७ ॥
tasya vākyasya vākya-ante vānarāḥ kāmarūpiṇaḥ . ṛkṣa-rākṣasa-saṅghāḥ ca samāpetuḥ anekaśas .. 7.108.17 ..
सुग्रीवं ते पुरस्कृत्य सर्व एव समागताः । तं रामं द्रष्टुमनसः स्वर्गायाभिमुखं स्थितम् ॥ ७.१०८.१८ ॥
सुग्रीवम् ते पुरस्कृत्य सर्वे एव समागताः । तम् रामम् द्रष्टु-मनसः स्वर्गाय अभिमुखम् स्थितम् ॥ ७।१०८।१८ ॥
sugrīvam te puraskṛtya sarve eva samāgatāḥ . tam rāmam draṣṭu-manasaḥ svargāya abhimukham sthitam .. 7.108.18 ..
देवपुत्रा ऋषिसुता गन्धर्वाणां सुतास्तथा । रामक्षयं विदित्वा ते सर्व एव समागताः ॥ ७.१०८.१९ ॥
देव-पुत्राः ऋषि-सुताः गन्धर्वाणाम् सुताः तथा । राम-क्षयम् विदित्वा ते सर्वे एव समागताः ॥ ७।१०८।१९ ॥
deva-putrāḥ ṛṣi-sutāḥ gandharvāṇām sutāḥ tathā . rāma-kṣayam viditvā te sarve eva samāgatāḥ .. 7.108.19 ..
ते राममभिवाद्योचुः सर्वे वानरराक्षसाः । तवानुगमने राजन्सम्प्राप्ताः कृतनिश्चयाः ॥ ७.१०८.२० ॥
ते रामम् अभिवाद्य ऊचुः सर्वे वानर-राक्षसाः । तव अनुगमने राजन् सम्प्राप्ताः कृत-निश्चयाः ॥ ७।१०८।२० ॥
te rāmam abhivādya ūcuḥ sarve vānara-rākṣasāḥ . tava anugamane rājan samprāptāḥ kṛta-niścayāḥ .. 7.108.20 ..
यदि राम विनास्माभिर्गच्छेस्त्वं पुरुषोत्तम । यमदण्डमिवोद्यम्य त्वया स्म विनिपातिताः ॥ ७.१०८.२१ ॥
यदि राम विना अस्माभिः गच्छेः त्वम् पुरुषोत्तम । यम-दण्डम् इव उद्यम्य त्वया स्म विनिपातिताः ॥ ७।१०८।२१ ॥
yadi rāma vinā asmābhiḥ gaccheḥ tvam puruṣottama . yama-daṇḍam iva udyamya tvayā sma vinipātitāḥ .. 7.108.21 ..
तैरेवमुक्तः काकुत्स्थो बाढमित्यब्रवीत् स्मयन् ॥ ७.१०८.२२ ॥
तैः एवम् उक्तः काकुत्स्थः बाढम् इति अब्रवीत् स्मयन् ॥ ७।१०८।२२ ॥
taiḥ evam uktaḥ kākutsthaḥ bāḍham iti abravīt smayan .. 7.108.22 ..
एतस्मिन्नन्तरे रामं सुग्रीवो ऽपि महाबलः । प्रणम्य विधिवद्वीरं विज्ञापयितुमुद्यतः ॥ ७.१०८.२३ ॥
एतस्मिन् अन्तरे रामम् सुग्रीवः अपि महा-बलः । प्रणम्य विधिवत् वीरम् विज्ञापयितुम् उद्यतः ॥ ७।१०८।२३ ॥
etasmin antare rāmam sugrīvaḥ api mahā-balaḥ . praṇamya vidhivat vīram vijñāpayitum udyataḥ .. 7.108.23 ..
अभिषिच्याङ्गदं वीरमागतो ऽस्मि नरेश्वर । तवानुगमने राजन्विद्धि मां कृतनिश्चयम् ॥ ७.१०८.२४ ॥
अभिषिच्य अङ्गदम् वीरम् आगतः अस्मि नरेश्वर । तव अनुगमने राजन् विद्धि माम् कृत-निश्चयम् ॥ ७।१०८।२४ ॥
abhiṣicya aṅgadam vīram āgataḥ asmi nareśvara . tava anugamane rājan viddhi mām kṛta-niścayam .. 7.108.24 ..
तस्य तद्वचनं श्रुत्वा रामो रमयतां वरः । वानरेन्द्रमथोवाचं मैत्रं तस्यानुचिन्तयन् ॥ ७.१०८.२५ ॥
तस्य तत् वचनम् श्रुत्वा रामः रमयताम् वरः । वानर-इन्द्रम् अथा उवाचम् मैत्रम् तस्य अनुचिन्तयन् ॥ ७।१०८।२५ ॥
tasya tat vacanam śrutvā rāmaḥ ramayatām varaḥ . vānara-indram athā uvācam maitram tasya anucintayan .. 7.108.25 ..
सखे शृणुष्व सुग्रीव न त्वया ऽहं विनाकृतः । गच्छेयं देवलोकं वा परमं वा पदं महत् ॥ ७.१०८.२६ ॥
सखे शृणुष्व सुग्रीव न त्वया अहम् विनाकृतः । गच्छेयम् देव-लोकम् वा परमम् वा पदम् महत् ॥ ७।१०८।२६ ॥
sakhe śṛṇuṣva sugrīva na tvayā aham vinākṛtaḥ . gaccheyam deva-lokam vā paramam vā padam mahat .. 7.108.26 ..
बिभीषणमथोवाच राक्षसेन्द्रं महायशाः । यावत्प्रजा धरिष्यन्ति तावत्त्वं वै बिभीषण । राक्षसेन्द्र महावीर्य लङ्कास्थस्त्वं धरिष्यसि ॥ ७.१०८.२७ ॥
बिभीषणम् अथा उवाच राक्षस-इन्द्रम् महा-यशाः । यावत् प्रजाः धरिष्यन्ति तावत् त्वम् वै बिभीषण । राक्षस-इन्द्र महा-वीर्य लङ्का-स्थः त्वम् धरिष्यसि ॥ ७।१०८।२७ ॥
bibhīṣaṇam athā uvāca rākṣasa-indram mahā-yaśāḥ . yāvat prajāḥ dhariṣyanti tāvat tvam vai bibhīṣaṇa . rākṣasa-indra mahā-vīrya laṅkā-sthaḥ tvam dhariṣyasi .. 7.108.27 ..
यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी । यावच्च मत्कथा लोके तावद्राज्यं तवास्त्विह ॥ ७.१०८.२८ ॥
यावत् चन्द्रः च सूर्यः च यावत् तिष्ठति मेदिनी । यावत् च मद्-कथा लोके तावत् राज्यम् तव अस्तु इह ॥ ७।१०८।२८ ॥
yāvat candraḥ ca sūryaḥ ca yāvat tiṣṭhati medinī . yāvat ca mad-kathā loke tāvat rājyam tava astu iha .. 7.108.28 ..
शासितस्त्वं सखित्वेन कार्यं ते मम शासनम् । प्रजाः संरक्ष धर्मेण नोत्तरं वक्तुमर्हसि ॥ ७.१०८.२९ ॥
शासितः त्वम् सखित्वेन कार्यम् ते मम शासनम् । प्रजाः संरक्ष धर्मेण न उत्तरम् वक्तुम् अर्हसि ॥ ७।१०८।२९ ॥
śāsitaḥ tvam sakhitvena kāryam te mama śāsanam . prajāḥ saṃrakṣa dharmeṇa na uttaram vaktum arhasi .. 7.108.29 ..
किञ्चान्यद्वक्तुमिच्छामि राक्षसेन्द्र महामते ॥ ७.१०८.३० ॥
किञ्च अन्यत् वक्तुम् इच्छामि राक्षस-इन्द्र महामते ॥ ७।१०८।३० ॥
kiñca anyat vaktum icchāmi rākṣasa-indra mahāmate .. 7.108.30 ..
आराधय जगन्नाथमिक्ष्वाकुकुलदैवतम् । आराधनीयमनिशं सर्वैर्दैवैः सवासवैः ॥ ७.१०८.३१ ॥
आराधय जगन्नाथम् इक्ष्वाकु-कुल-दैवतम् । आराधनीयम् अनिशम् सर्वैः दैवैः स वासवैः ॥ ७।१०८।३१ ॥
ārādhaya jagannātham ikṣvāku-kula-daivatam . ārādhanīyam aniśam sarvaiḥ daivaiḥ sa vāsavaiḥ .. 7.108.31 ..
तथेति प्रतिजग्राह रामवाक्यं विभीषणः । राजा राक्षसमुख्यानां राघवाज्ञामनुस्मरन् ॥ ७.१०८.३२ ॥
तथा इति प्रतिजग्राह राम-वाक्यम् विभीषणः । राजा राक्षस-मुख्यानाम् राघव-आज्ञाम् अनुस्मरन् ॥ ७।१०८।३२ ॥
tathā iti pratijagrāha rāma-vākyam vibhīṣaṇaḥ . rājā rākṣasa-mukhyānām rāghava-ājñām anusmaran .. 7.108.32 ..
तमेवमुक्त्वा काकुत्स्थो हनूमन्तमथाब्रवीत् । जीविते कृतबुद्धिस्त्वं मा प्रतिज्ञां विलोपय ॥ ७.१०८.३३ ॥
तम् एवम् उक्त्वा काकुत्स्थः हनूमन्तम् अथ अब्रवीत् । जीविते कृत-बुद्धिः त्वम् मा प्रतिज्ञाम् विलोपय ॥ ७।१०८।३३ ॥
tam evam uktvā kākutsthaḥ hanūmantam atha abravīt . jīvite kṛta-buddhiḥ tvam mā pratijñām vilopaya .. 7.108.33 ..
मत्कथाः प्रचरिष्यन्ति यावल्लोके हरीश्वर । तावद्रमस्व सुप्रीतो मद्वाक्यमनुपालयन् ॥ ७.१०८.३४ ॥
मद्-कथाः प्रचरिष्यन्ति यावत् लोके हरि-ईश्वर । तावत् रमस्व सु प्रीतः मद्-वाक्यम् अनुपालयन् ॥ ७।१०८।३४ ॥
mad-kathāḥ pracariṣyanti yāvat loke hari-īśvara . tāvat ramasva su prītaḥ mad-vākyam anupālayan .. 7.108.34 ..
एवमुक्तस्तु हनुमान्राघवेण महात्मना । वाक्यं विज्ञापयामास परं हर्षमवाप्य च ॥ ७.१०८.३५ ॥
एवम् उक्तः तु हनुमान् राघवेण महात्मना । वाक्यम् विज्ञापयामास परम् हर्षम् अवाप्य च ॥ ७।१०८।३५ ॥
evam uktaḥ tu hanumān rāghaveṇa mahātmanā . vākyam vijñāpayāmāsa param harṣam avāpya ca .. 7.108.35 ..
यावत्तव कथा लोके विचरिष्यति पावनी । तावत्स्थास्यामि मेदिन्यां तवाज्ञामनुपालयन् ॥ ७.१०८.३६ ॥
यावत् तव कथा लोके विचरिष्यति पावनी । तावत् स्थास्यामि मेदिन्याम् तव आज्ञाम् अनुपालयन् ॥ ७।१०८।३६ ॥
yāvat tava kathā loke vicariṣyati pāvanī . tāvat sthāsyāmi medinyām tava ājñām anupālayan .. 7.108.36 ..
जाम्बवन्तं तथोक्त्वा तु वृद्धं ब्रह्मसुतं तथा । मैन्दं च द्विविदं चैव पञ्च जाम्बवता सह ।
जाम्बवन्तम् तथा उक्त्वा तु वृद्धम् ब्रह्म-सुतम् तथा । मैन्दम् च द्विविदम् च एव पञ्च जाम्बवता सह ।
jāmbavantam tathā uktvā tu vṛddham brahma-sutam tathā . maindam ca dvividam ca eva pañca jāmbavatā saha .
तानेवमुक्त्वा काकुत्स्थः सर्वांस्तानृक्षवानरान् । उवाच बाढं गच्छध्वं मया सार्धं यथेप्सितम् ॥ ७.१०८.३८ ॥
तान् एवम् उक्त्वा काकुत्स्थः सर्वान् तान् ऋक्ष-वानरान् । उवाच बाढम् गच्छध्वम् मया सार्धम् यथा ईप्सितम् ॥ ७।१०८।३८ ॥
tān evam uktvā kākutsthaḥ sarvān tān ṛkṣa-vānarān . uvāca bāḍham gacchadhvam mayā sārdham yathā īpsitam .. 7.108.38 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टोतरशततमः सर्गः ॥ १०८ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे अष्टोतरशततमः सर्गः ॥ १०८ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe aṣṭotaraśatatamaḥ sargaḥ .. 108 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In