This overlay will guide you through the buttons:

| |
|
स विसृज्य ततो रामः पुष्पकं हेमभूषितम् । प्रविवेश महाबाहुरशोकवनिकां तदा ॥ ७.४२.१ ॥
स विसृज्य ततस् रामः पुष्पकम् हेम-भूषितम् । प्रविवेश महा-बाहुः अशोक-वनिकाम् तदा ॥ ७।४२।१ ॥
sa visṛjya tatas rāmaḥ puṣpakam hema-bhūṣitam . praviveśa mahā-bāhuḥ aśoka-vanikām tadā .. 7.42.1 ..
चन्दनागुरुचूतैश्च तुङ्गकालेयकैरपि । देवदारुवनैश्चापि समन्तादुपशोभिताम् ॥ ७.४२.२ ॥
चन्दन-अगुरु-चूतैः च तुङ्ग-कालेयकैः अपि । देवदारु-वनैः च अपि समन्तात् उपशोभिताम् ॥ ७।४२।२ ॥
candana-aguru-cūtaiḥ ca tuṅga-kāleyakaiḥ api . devadāru-vanaiḥ ca api samantāt upaśobhitām .. 7.42.2 ..
चम्पकाशोकपुन्नागमधूकपनसासनैः । शोभितां पारिजातैश्च विधूमज्वलनप्रभैः ॥ ७.४२.३ ॥
चम्पक-अशोक-पुन्नाग-मधूक-पनस-असनैः । शोभिताम् पारिजातैः च विधूम-ज्वलन-प्रभैः ॥ ७।४२।३ ॥
campaka-aśoka-punnāga-madhūka-panasa-asanaiḥ . śobhitām pārijātaiḥ ca vidhūma-jvalana-prabhaiḥ .. 7.42.3 ..
लोध्रनीपार्जुनैर्नागैः सप्तपर्णातिमुक्तकैः । मन्दारकदलीगुल्मलताजालसमावृताम् ॥ ७.४२.४ ॥
लोध्र-नीप-अर्जुनैः नागैः सप्तपर्ण-अतिमुक्तकैः । मन्दार-कदली-गुल्म-लता-जाल-समावृताम् ॥ ७।४२।४ ॥
lodhra-nīpa-arjunaiḥ nāgaiḥ saptaparṇa-atimuktakaiḥ . mandāra-kadalī-gulma-latā-jāla-samāvṛtām .. 7.42.4 ..
प्रियङ्गुभिः कदम्बैश्च तथा च वकुलैरपि । जम्बूभिर्दाडिमैश्चैव कोविदारैश्च शोभिताम् ॥ ७.४२.५ ॥
प्रियङ्गुभिः कदम्बैः च तथा च वकुलैः अपि । जम्बूभिः दाडिमैः च एव कोविदारैः च शोभिताम् ॥ ७।४२।५ ॥
priyaṅgubhiḥ kadambaiḥ ca tathā ca vakulaiḥ api . jambūbhiḥ dāḍimaiḥ ca eva kovidāraiḥ ca śobhitām .. 7.42.5 ..
सर्वदा कुसुमै रम्यैः फलवद्भिर्मनोरमैः । दिव्यगन्धरसोपेतैस्तरुणाङ्कुरपल्लवैः ॥ ७.४२.६ ॥
सर्वदा कुसुमैः रम्यैः फलवद्भिः मनोरमैः । दिव्य-गन्ध-रस-उपेतैः तरुण-अङ्कुर-पल्लवैः ॥ ७।४२।६ ॥
sarvadā kusumaiḥ ramyaiḥ phalavadbhiḥ manoramaiḥ . divya-gandha-rasa-upetaiḥ taruṇa-aṅkura-pallavaiḥ .. 7.42.6 ..
तथैव तरुभिर्दिव्यैः शिल्पिभिः परिकल्पितैः । चारुपल्लवपुष्पाढ्यैर्मत्तभ्रमरसङ्कुलैः ॥ ७.४२.७ ॥
तथा एव तरुभिः दिव्यैः शिल्पिभिः परिकल्पितैः । चारु-पल्लव-पुष्प-आढ्यैः मत्त-भ्रमर-सङ्कुलैः ॥ ७।४२।७ ॥
tathā eva tarubhiḥ divyaiḥ śilpibhiḥ parikalpitaiḥ . cāru-pallava-puṣpa-āḍhyaiḥ matta-bhramara-saṅkulaiḥ .. 7.42.7 ..
कोकिलैर्भृङ्गराजैश्च नानावर्णैश्च पक्षिभिः । शोभितां शतशश्चित्रां चूतवृक्षावतंसकैः ॥ ७.४२.८ ॥
कोकिलैः भृङ्गराजैः च नाना वर्णैः च पक्षिभिः । शोभिताम् शतशस् चित्राम् चूत-वृक्ष-अवतंसकैः ॥ ७।४२।८ ॥
kokilaiḥ bhṛṅgarājaiḥ ca nānā varṇaiḥ ca pakṣibhiḥ . śobhitām śataśas citrām cūta-vṛkṣa-avataṃsakaiḥ .. 7.42.8 ..
शातकुम्भनिभाः केचित्केचिदग्निशिखोपमाः । नीलाञ्जननिभाश्चान्ये भान्ति तत्रत्यपादपाः ॥ ७.४२.९ ॥
शातकुम्भ-निभाः केचिद् केचिद् अग्नि-शिखा-उपमाः । नीलाञ्जन-निभाः च अन्ये भान्ति तत्रत्य-पादपाः ॥ ७।४२।९ ॥
śātakumbha-nibhāḥ kecid kecid agni-śikhā-upamāḥ . nīlāñjana-nibhāḥ ca anye bhānti tatratya-pādapāḥ .. 7.42.9 ..
सुरभीणि च पुष्पाणि माल्यानि विविधानि च । दीर्घिका विविधाकाराः पूर्णाः परमवारिणा ॥ ७.४२.१० ॥
सुरभीणि च पुष्पाणि माल्यानि विविधानि च । दीर्घिकाः विविध-आकाराः पूर्णाः परम-वारिणा ॥ ७।४२।१० ॥
surabhīṇi ca puṣpāṇi mālyāni vividhāni ca . dīrghikāḥ vividha-ākārāḥ pūrṇāḥ parama-vāriṇā .. 7.42.10 ..
माणिक्यकृतसोपानाः स्फाटिकान्तरकुट्टिमाः । फुल्लपद्मोत्पलवनाश्चक्रवाकोपशोभिताः ॥ ७.४२.११ ॥
माणिक्य-कृत-सोपानाः स्फाटिक-अन्तर-कुट्टिमाः । फुल्ल-पद्म-उत्पल-वनाः चक्रवाक-उपशोभिताः ॥ ७।४२।११ ॥
māṇikya-kṛta-sopānāḥ sphāṭika-antara-kuṭṭimāḥ . phulla-padma-utpala-vanāḥ cakravāka-upaśobhitāḥ .. 7.42.11 ..
दात्यूहशुकसङ्घुष्टा हंससारसनादिताः । तरुभिः पुष्पवद्भिश्च तीरजैरुपशोभिताः ॥ ७.४२.१२ ॥
दात्यूह-शुक-सङ्घुष्टाः हंस-सारस-नादिताः । तरुभिः पुष्पवद्भिः च तीरजैः उपशोभिताः ॥ ७।४२।१२ ॥
dātyūha-śuka-saṅghuṣṭāḥ haṃsa-sārasa-nāditāḥ . tarubhiḥ puṣpavadbhiḥ ca tīrajaiḥ upaśobhitāḥ .. 7.42.12 ..
प्राकारैर्विविधाकारैः शोभिताश्च शिलातलैः । तत्रैव च वनोद्देशे वैडूर्यमणिसन्निभैः ॥ ७.४२.१३ ॥
प्राकारैः विविध-आकारैः शोभिताः च शिला-तलैः । तत्र एव च वन-उद्देशे वैडूर्य-मणि-सन्निभैः ॥ ७।४२।१३ ॥
prākāraiḥ vividha-ākāraiḥ śobhitāḥ ca śilā-talaiḥ . tatra eva ca vana-uddeśe vaiḍūrya-maṇi-sannibhaiḥ .. 7.42.13 ..
शाद्वलैः परमोपेतां पुष्पितद्रुमकाननाम् । तत्र सङ्घर्षजातानां वृक्षाणां पुष्पशालिनाम् ॥ ७.४२.१४ ॥
शाद्वलैः परम-उपेताम् पुष्पित-द्रुम-काननाम् । तत्र सङ्घर्ष-जातानाम् वृक्षाणाम् पुष्प-शालिनाम् ॥ ७।४२।१४ ॥
śādvalaiḥ parama-upetām puṣpita-druma-kānanām . tatra saṅgharṣa-jātānām vṛkṣāṇām puṣpa-śālinām .. 7.42.14 ..
प्रस्तराः पुष्पशबला नभस्तारागणैरिव । नन्दनं हि यथेन्द्रस्य ब्राह्मं चैत्ररथं यथा । तथाभूतं हि रामस्य काननं सन्निवेशनम् ॥ ७.४२.१५ ॥
प्रस्तराः पुष्प-शबलाः नभः तारा-गणैः इव । नन्दनम् हि यथा इन्द्रस्य ब्राह्मम् चैत्ररथम् यथा । तथाभूतम् हि रामस्य काननम् सत्-निवेशनम् ॥ ७।४२।१५ ॥
prastarāḥ puṣpa-śabalāḥ nabhaḥ tārā-gaṇaiḥ iva . nandanam hi yathā indrasya brāhmam caitraratham yathā . tathābhūtam hi rāmasya kānanam sat-niveśanam .. 7.42.15 ..
बह्वासनगृहोपेतां लतागृहसमावृताम् । अशोकवनिकां स्फीतां प्रविश्य रघुनन्दनः ॥ ७.४२.१६ ॥
बहु-आसन-गृह-उपेताम् लता-गृह-समावृताम् । अशोक-वनिकाम् स्फीताम् प्रविश्य रघुनन्दनः ॥ ७।४२।१६ ॥
bahu-āsana-gṛha-upetām latā-gṛha-samāvṛtām . aśoka-vanikām sphītām praviśya raghunandanaḥ .. 7.42.16 ..
आसने च शुभाकारे पुष्पप्रकरभूषिते । कुशास्तरणसंस्तीर्णे रामः सन्निषसाद ह ॥ ७.४२.१७ ॥
आसने च शुभ-आकारे पुष्प-प्रकर-भूषिते । कुश-आस्तरण-संस्तीर्णे रामः सन् निषसाद ह ॥ ७।४२।१७ ॥
āsane ca śubha-ākāre puṣpa-prakara-bhūṣite . kuśa-āstaraṇa-saṃstīrṇe rāmaḥ san niṣasāda ha .. 7.42.17 ..
सीतामादायं हस्तेन मधुमैरेयकं शुचि । पाययामास काकुत्स्थः शचीमिव पुरन्दरः ॥ ७.४२.१८ ॥
सीताम् आदायम् हस्तेन मधुमैरेयकम् शुचि । पाययामास काकुत्स्थः शचीम् इव पुरन्दरः ॥ ७।४२।१८ ॥
sītām ādāyam hastena madhumaireyakam śuci . pāyayāmāsa kākutsthaḥ śacīm iva purandaraḥ .. 7.42.18 ..
मांसानि च समृष्टानि फलानि विविधानि च । रामस्याभ्यवहारार्थं किङ्करास्तूर्णमाहरन् ॥ ७.४२.१९ ॥
मांसानि च समृष्टानि फलानि विविधानि च । रामस्य अभ्यवहार-अर्थम् किङ्कराः तूर्णम् आहरन् ॥ ७।४२।१९ ॥
māṃsāni ca samṛṣṭāni phalāni vividhāni ca . rāmasya abhyavahāra-artham kiṅkarāḥ tūrṇam āharan .. 7.42.19 ..
उपानृत्यंश्च राजानं नृत्यगीतविशारदाः । बालाश्च रूपवत्यश्च स्त्रियः पानवशानुगाः ॥ ७.४२.२० ॥
उपानृत्यन् च राजानम् नृत्य-गीत-विशारदाः । बालाः च रूपवत्यः च स्त्रियः पान-वश-अनुगाः ॥ ७।४२।२० ॥
upānṛtyan ca rājānam nṛtya-gīta-viśāradāḥ . bālāḥ ca rūpavatyaḥ ca striyaḥ pāna-vaśa-anugāḥ .. 7.42.20 ..
मनोभिरामा रामास्ता रामो रमयतां वरः । रमयामास धर्मात्मा नित्यं परमभूषितः ॥ ७.४२.२१ ॥
मनोभिरामाः रामाः ताः रामः रमयताम् वरः । रमयामास धर्म-आत्मा नित्यम् परम-भूषितः ॥ ७।४२।२१ ॥
manobhirāmāḥ rāmāḥ tāḥ rāmaḥ ramayatām varaḥ . ramayāmāsa dharma-ātmā nityam parama-bhūṣitaḥ .. 7.42.21 ..
स तया सीतया सार्धमासीनो विरराज ह । अरुन्धत्या सहासीनो वसिष्ठ इव तेजसा ॥ ७.४२.२२ ॥
स तया सीतया सार्धम् आसीनः विरराज ह । अरुन्धत्या सह आसीनः वसिष्ठः इव तेजसा ॥ ७।४२।२२ ॥
sa tayā sītayā sārdham āsīnaḥ virarāja ha . arundhatyā saha āsīnaḥ vasiṣṭhaḥ iva tejasā .. 7.42.22 ..
एवं रामो मुदा युक्तः सीतां सुरसुतोपमाम् । रमयामास वैदेहीमहन्यहनि देववत् ॥ ७.४२.२३ ॥
एवम् रामः मुदा युक्तः सीताम् सुर-सुता-उपमाम् । रमयामास वैदेहीम् अहनि अहनि देव-वत् ॥ ७।४२।२३ ॥
evam rāmaḥ mudā yuktaḥ sītām sura-sutā-upamām . ramayāmāsa vaidehīm ahani ahani deva-vat .. 7.42.23 ..
तथा तयोर्विहरतोः सीताराघवयोश्चिरम् । अत्यक्रामच्छुभः कालः शैशिरो भोगदः सदा ॥ ७.४२.२४ ॥
तथा तयोः विहरतोः सीता-राघवयोः चिरम् । अत्यक्रामत् शुभः कालः शैशिरः भोग-दः सदा ॥ ७।४२।२४ ॥
tathā tayoḥ viharatoḥ sītā-rāghavayoḥ ciram . atyakrāmat śubhaḥ kālaḥ śaiśiraḥ bhoga-daḥ sadā .. 7.42.24 ..
दशवर्षसहस्राणि गतानि सुमहात्मनोः । प्राप्तयोर्विविधान्भोगानतीतः शिशिरागमः ॥ ७.४२.२५ ॥
दश-वर्ष-सहस्राणि गतानि सु महात्मनोः । प्राप्तयोः विविधान् भोगान् अतीतः शिशिर-आगमः ॥ ७।४२।२५ ॥
daśa-varṣa-sahasrāṇi gatāni su mahātmanoḥ . prāptayoḥ vividhān bhogān atītaḥ śiśira-āgamaḥ .. 7.42.25 ..
पूर्वाह्णे धर्मकार्याणि कृत्वा धर्मेण धर्मवित् । शेषं दिवसभागार्धमन्तःपुरगतो ऽभवत् ॥ ७.४२.२६ ॥
पूर्वाह्णे धर्म-कार्याणि कृत्वा धर्मेण धर्म-विद् । शेषम् दिवस-भाग-अर्धम् अन्तःपुर-गतः अभवत् ॥ ७।४२।२६ ॥
pūrvāhṇe dharma-kāryāṇi kṛtvā dharmeṇa dharma-vid . śeṣam divasa-bhāga-ardham antaḥpura-gataḥ abhavat .. 7.42.26 ..
सीतापि देवकार्याणि कृत्वा पौर्वाह्णिकानि वै । श्वश्रूणामकरोत्पूजां सर्वासामविशेषतः ॥ ७.४२.२७ ॥
सीता अपि देव-कार्याणि कृत्वा पौर्वाह्णिकानि वै । श्वश्रूणाम् अकरोत् पूजाम् सर्वासाम् अविशेषतस् ॥ ७।४२।२७ ॥
sītā api deva-kāryāṇi kṛtvā paurvāhṇikāni vai . śvaśrūṇām akarot pūjām sarvāsām aviśeṣatas .. 7.42.27 ..
अभ्यगच्छत्ततो रामं विचित्राभरणाम्बरा । त्रिविष्टपे सहस्राक्षमुपविष्टं यथा शची ॥ ७.४२.२८ ॥
अभ्यगच्छत् ततस् रामम् विचित्र-आभरण-अम्बरा । त्रिविष्टपे सहस्राक्षम् उपविष्टम् यथा शची ॥ ७।४२।२८ ॥
abhyagacchat tatas rāmam vicitra-ābharaṇa-ambarā . triviṣṭape sahasrākṣam upaviṣṭam yathā śacī .. 7.42.28 ..
दृष्ट्वा तु राघवः पत्नीं कल्याणेन समन्विताम् । प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ॥ ७.४२.२९ ॥
दृष्ट्वा तु राघवः पत्नीम् कल्याणेन समन्विताम् । प्रहर्षम् अतुलम् लेभे साधु साधु इति च अब्रवीत् ॥ ७।४२।२९ ॥
dṛṣṭvā tu rāghavaḥ patnīm kalyāṇena samanvitām . praharṣam atulam lebhe sādhu sādhu iti ca abravīt .. 7.42.29 ..
अब्रवीच्च वरारोहां सीतां सुरसुतोपमाम् । अपत्यलाभो वैदेहि त्वयि मे समुपस्थितः ॥ ७.४२.३० ॥
अब्रवीत् च वरारोहाम् सीताम् सुर-सुता-उपमाम् । अपत्य-लाभः वैदेहि त्वयि मे समुपस्थितः ॥ ७।४२।३० ॥
abravīt ca varārohām sītām sura-sutā-upamām . apatya-lābhaḥ vaidehi tvayi me samupasthitaḥ .. 7.42.30 ..
किमिच्छसि वरारोहे कामः किं क्रियतां तव ॥ ७.४२.३१ ॥
किम् इच्छसि वरारोहे कामः किम् क्रियताम् तव ॥ ७।४२।३१ ॥
kim icchasi varārohe kāmaḥ kim kriyatām tava .. 7.42.31 ..
स्मितं कृत्वा तु वैदेही रामं वाक्यमथाब्रवीत् । तपोवनानि पुण्यानि द्रष्टुमिच्छामि राघव ॥ ७.४२.३२ ॥
स्मितम् कृत्वा तु वैदेही रामम् वाक्यम् अथ अब्रवीत् । तपोवनानि पुण्यानि द्रष्टुम् इच्छामि राघव ॥ ७।४२।३२ ॥
smitam kṛtvā tu vaidehī rāmam vākyam atha abravīt . tapovanāni puṇyāni draṣṭum icchāmi rāghava .. 7.42.32 ..
गङ्गातीरोपविष्टानामृषीणामुग्रतेजसाम् । फलमूलाशिनां देव पादमूलेषु वर्तितुम् ॥ ७.४२.३३ ॥
गङ्गा-तीर-उपविष्टानाम् ऋषीणाम् उग्र-तेजसाम् । फल-मूल-आशिनाम् देव पाद-मूलेषु वर्तितुम् ॥ ७।४२।३३ ॥
gaṅgā-tīra-upaviṣṭānām ṛṣīṇām ugra-tejasām . phala-mūla-āśinām deva pāda-mūleṣu vartitum .. 7.42.33 ..
एष मे परमः कामो यन्मूलफलभोजिनाम् । अप्येकरात्रं काकुत्स्थ निवसेयं तपोवने ॥ ७.४२.३४ ॥
एष मे परमः कामः यत् मूल-फल-भोजिनाम् । अपि एक-रात्रम् काकुत्स्थ निवसेयम् तपः-वने ॥ ७।४२।३४ ॥
eṣa me paramaḥ kāmaḥ yat mūla-phala-bhojinām . api eka-rātram kākutstha nivaseyam tapaḥ-vane .. 7.42.34 ..
तथेति च प्रतिज्ञातं रामेणाक्लिष्टकर्मणा । विस्रब्धा भव वैदेहि श्वो गमिष्यस्यसंशयम् ॥ ७.४२.३५ ॥
तथा इति च प्रतिज्ञातम् रामेण अक्लिष्ट-कर्मणा । विस्रब्धा भव वैदेहि श्वस् गमिष्यसि असंशयम् ॥ ७।४२।३५ ॥
tathā iti ca pratijñātam rāmeṇa akliṣṭa-karmaṇā . visrabdhā bhava vaidehi śvas gamiṣyasi asaṃśayam .. 7.42.35 ..
एवमुक्त्वा तु काकुत्स्थो मैथिलीं जनकात्मजाम् । मध्यकक्षान्तरं रामो निर्जगाम सुहृद्वृतः ॥ ७.४२.३६ ॥
एवम् उक्त्वा तु काकुत्स्थः मैथिलीम् जनकात्मजाम् । मध्य-कक्ष-अन्तरम् रामः निर्जगाम सुहृद्-वृतः ॥ ७।४२।३६ ॥
evam uktvā tu kākutsthaḥ maithilīm janakātmajām . madhya-kakṣa-antaram rāmaḥ nirjagāma suhṛd-vṛtaḥ .. 7.42.36 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्विचत्वारिंशः सर्गः ॥ ४२ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे द्विचत्वारिंशः सर्गः ॥ ४२ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe dvicatvāriṃśaḥ sargaḥ .. 42 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In