This overlay will guide you through the buttons:

| |
|
तथा सञ्चोदितः सूतो लक्ष्मणेन महात्मना । तद्वाक्यमृषिणा प्रोक्तं व्याहर्तुमुपचक्रमे ॥ ७.५१.१ ॥
तथा सञ्चोदितः सूतः लक्ष्मणेन महात्मना । तत् वाक्यम् ऋषिणा प्रोक्तम् व्याहर्तुम् उपचक्रमे ॥ ७।५१।१ ॥
tathā sañcoditaḥ sūtaḥ lakṣmaṇena mahātmanā . tat vākyam ṛṣiṇā proktam vyāhartum upacakrame .. 7.51.1 ..
पुरा नाम्ना हि दुर्वासा अत्रेः पुत्रो महामुनिः । वसिष्ठस्याश्रमे पुण्ये वार्षिक्यं समुवास ह ॥ ७.५१.२ ॥
पुरा नाम्ना हि दुर्वासाः अत्रेः पुत्रः महा-मुनिः । वसिष्ठस्य आश्रमे पुण्ये वार्षिक्यम् समुवास ह ॥ ७।५१।२ ॥
purā nāmnā hi durvāsāḥ atreḥ putraḥ mahā-muniḥ . vasiṣṭhasya āśrame puṇye vārṣikyam samuvāsa ha .. 7.51.2 ..
तमाश्रमं महातेजाः पिता ते सुमहायशाः । पुरोहितं महात्मानं दिदृक्षुरगमस्त्वयम् ॥ ७.५१.३ ॥
तम् आश्रमम् महा-तेजाः पिता ते सु महा-यशाः । पुरोहितम् महात्मानम् दिदृक्षुः अगमः तु अयम् ॥ ७।५१।३ ॥
tam āśramam mahā-tejāḥ pitā te su mahā-yaśāḥ . purohitam mahātmānam didṛkṣuḥ agamaḥ tu ayam .. 7.51.3 ..
स दृष्ट्वा सूर्यसङ्काशं ज्वलन्तमिव तेजसा । उपविष्टं वसिष्ठस्य सव्यपार्श्वे महामुनिम् ॥ ७.५१.४ ॥
स दृष्ट्वा सूर्य-सङ्काशम् ज्वलन्तम् इव तेजसा । उपविष्टम् वसिष्ठस्य सव्य-पार्श्वे महा-मुनिम् ॥ ७।५१।४ ॥
sa dṛṣṭvā sūrya-saṅkāśam jvalantam iva tejasā . upaviṣṭam vasiṣṭhasya savya-pārśve mahā-munim .. 7.51.4 ..
तौ मुनी तापसश्रेष्ठौ विनीतो ह्यभिवादयत् । स ताभ्यां पूजितो राजा स्वागतेनासनेन च ॥
तौ मुनी तापस-श्रेष्ठौ विनीतः हि अभिवादयत् । स ताभ्याम् पूजितः राजा स्वागतेन आसनेन च ॥
tau munī tāpasa-śreṣṭhau vinītaḥ hi abhivādayat . sa tābhyām pūjitaḥ rājā svāgatena āsanena ca ..
पाद्येन फलमूलैश्च उवास मुनिभिः सह ॥ ७.५१.५ ॥
पाद्येन फल-मूलैः च उवास मुनिभिः सह ॥ ७।५१।५ ॥
pādyena phala-mūlaiḥ ca uvāsa munibhiḥ saha .. 7.51.5 ..
तेषां तत्रोपविष्टानां तास्ताः सुमधुराः कथाः । बभूवुः परमर्षीणां मध्यादित्यगते ऽहनि ॥ ७.५१.६ ॥
तेषाम् तत्र उपविष्टानाम् ताः ताः सुमधुराः कथाः । बभूवुः परम-ऋषीणाम् मध्य-आदित्य-गते अहनि ॥ ७।५१।६ ॥
teṣām tatra upaviṣṭānām tāḥ tāḥ sumadhurāḥ kathāḥ . babhūvuḥ parama-ṛṣīṇām madhya-āditya-gate ahani .. 7.51.6 ..
ततः कथायां कस्याञ्चित्प्राञ्जलिः प्रग्रहो नृपः । उवाच तं महात्मानमत्रेः पुत्रं तपोधनम् ॥ ७.५१.७ ॥
ततस् कथायाम् कस्याञ्चिद् प्राञ्जलिः प्रग्रहः नृपः । उवाच तम् महात्मानम् अत्रेः पुत्रम् तपोधनम् ॥ ७।५१।७ ॥
tatas kathāyām kasyāñcid prāñjaliḥ pragrahaḥ nṛpaḥ . uvāca tam mahātmānam atreḥ putram tapodhanam .. 7.51.7 ..
भगवन्किं प्रमाणेन मम वंशो भविष्यति । किमायुश्च हि मे रामः पुत्राश्चान्ये किमायुषः ॥ ७.५१.८ ॥
भगवन् किम् प्रमाणेन मम वंशः भविष्यति । किम् आयुः च हि मे रामः पुत्राः च अन्ये किम् आयुषः ॥ ७।५१।८ ॥
bhagavan kim pramāṇena mama vaṃśaḥ bhaviṣyati . kim āyuḥ ca hi me rāmaḥ putrāḥ ca anye kim āyuṣaḥ .. 7.51.8 ..
रामस्य च सुता ये स्युस्तेषामायुः कियद्भवेत् । काम्यया भगवन्बूहि वंशस्यास्य गतिं मम ॥ ७.५१.९ ॥
रामस्य च सुताः ये स्युः तेषाम् आयुः कियत् भवेत् । काम्यया भगवन् बूहि वंशस्य अस्य गतिम् मम ॥ ७।५१।९ ॥
rāmasya ca sutāḥ ye syuḥ teṣām āyuḥ kiyat bhavet . kāmyayā bhagavan būhi vaṃśasya asya gatim mama .. 7.51.9 ..
तच्छ्रुत्वा व्याहृतं वाक्यं राज्ञो दशरथस्य च । दुर्वासाः सुमहातेजा व्याहर्तुमुपचक्रमे ॥ ७.५१.१० ॥
तत् श्रुत्वा व्याहृतम् वाक्यम् राज्ञः दशरथस्य च । दुर्वासाः सु महा-तेजाः व्याहर्तुम् उपचक्रमे ॥ ७।५१।१० ॥
tat śrutvā vyāhṛtam vākyam rājñaḥ daśarathasya ca . durvāsāḥ su mahā-tejāḥ vyāhartum upacakrame .. 7.51.10 ..
शृणु राजन्पुरावृत्तं तदा देवासुरे युधि । दैत्याः सुरैर्भर्त्स्यमाना भृगुपत्नीं समाश्रिताः ॥ ७.५१.११ ॥
शृणु राजन् पुरावृत्तम् तदा देवासुरे युधि । दैत्याः सुरैः भर्त्स्यमानाः भृगु-पत्नीम् समाश्रिताः ॥ ७।५१।११ ॥
śṛṇu rājan purāvṛttam tadā devāsure yudhi . daityāḥ suraiḥ bhartsyamānāḥ bhṛgu-patnīm samāśritāḥ .. 7.51.11 ..
तया परिगृहीतांस्तान्दृष्ट्वा क्रुद्धः सुरेश्वरः । चक्रेण शितधारेण भृगुपत्न्याः शिरो ऽहरत् ॥ ७.५१.१३ ॥
तया परिगृहीतान् तान् दृष्ट्वा क्रुद्धः सुरेश्वरः । चक्रेण शित-धारेण भृगु-पत्न्याः शिरः अहरत् ॥ ७।५१।१३ ॥
tayā parigṛhītān tān dṛṣṭvā kruddhaḥ sureśvaraḥ . cakreṇa śita-dhāreṇa bhṛgu-patnyāḥ śiraḥ aharat .. 7.51.13 ..
ततस्तां निहतां दृष्ट्वा पत्नीं भृगुकुलोद्वहः । शशाप सहसा क्रुद्धो विष्णुं रिपुकुलार्दनम् ॥ ७.५१.१४ ॥
ततस् ताम् निहताम् दृष्ट्वा पत्नीम् भृगुकुलोद्वहः । शशाप सहसा क्रुद्धः विष्णुम् रिपु-कुल-अर्दनम् ॥ ७।५१।१४ ॥
tatas tām nihatām dṛṣṭvā patnīm bhṛgukulodvahaḥ . śaśāpa sahasā kruddhaḥ viṣṇum ripu-kula-ardanam .. 7.51.14 ..
यस्मादवध्यां मे पत्नीमवधीः क्रोधमूर्च्छितः । तस्मात्त्वं मानुषे लोके जनिष्यसि जनार्दन ॥ ७.५१.१५ ॥
यस्मात् अवध्याम् मे पत्नीम् अवधीः क्रोध-मूर्च्छितः । तस्मात् त्वम् मानुषे लोके जनिष्यसि जनार्दन ॥ ७।५१।१५ ॥
yasmāt avadhyām me patnīm avadhīḥ krodha-mūrcchitaḥ . tasmāt tvam mānuṣe loke janiṣyasi janārdana .. 7.51.15 ..
तत्र पत्नीवियोगं त्वं प्राप्स्यसे बहुवार्षिकम् ॥ ७.५१.१६ ॥
तत्र पत्नी-वियोगम् त्वम् प्राप्स्यसे बहु-वार्षिकम् ॥ ७।५१।१६ ॥
tatra patnī-viyogam tvam prāpsyase bahu-vārṣikam .. 7.51.16 ..
शापाभिहतचेतास्स स्वात्मना भावितो ऽभवत् ॥ ७.५१.१७ ॥
शाप-अभिहत-चेताः स स्व-आत्मना भावितः अभवत् ॥ ७।५१।१७ ॥
śāpa-abhihata-cetāḥ sa sva-ātmanā bhāvitaḥ abhavat .. 7.51.17 ..
अर्चयामास तं देवं भृगुः शापेन पीडितः । तपसाराधितो देवो ह्यब्रवीद्भक्तवत्सलः । लोकानां संहितार्थं तु तं शापं ग्राह्यमुक्तवान् ॥ ७.५१.१९ ॥
अर्चयामास तम् देवम् भृगुः शापेन पीडितः । तपसा आराधितः देवः हि अब्रवीत् भक्त-वत्सलः । लोकानाम् संहिता-अर्थम् तु तम् शापम् ग्राह्यम् उक्तवान् ॥ ७।५१।१९ ॥
arcayāmāsa tam devam bhṛguḥ śāpena pīḍitaḥ . tapasā ārādhitaḥ devaḥ hi abravīt bhakta-vatsalaḥ . lokānām saṃhitā-artham tu tam śāpam grāhyam uktavān .. 7.51.19 ..
इति शप्तो महातेजा भृगुणा पूर्वजन्मनि । इहागतो हि पुत्रत्वं तव पार्थिवसत्तम ॥ ७.५१.२० ॥
इति शप्तः महा-तेजाः भृगुणा पूर्व-जन्मनि । इह आगतः हि पुत्र-त्वम् तव पार्थिव-सत्तम ॥ ७।५१।२० ॥
iti śaptaḥ mahā-tejāḥ bhṛguṇā pūrva-janmani . iha āgataḥ hi putra-tvam tava pārthiva-sattama .. 7.51.20 ..
राम इत्यभिविख्यातस्त्रिषु लोकेषु मानद । तत्फलं प्राप्स्यते चापि भृगुशापकृतं महत् ॥ ७.५१.२१ ॥
रामः इति अभिविख्यातः त्रिषु लोकेषु मानद । तत् फलम् प्राप्स्यते च अपि भृगु-शाप-कृतम् महत् ॥ ७।५१।२१ ॥
rāmaḥ iti abhivikhyātaḥ triṣu lokeṣu mānada . tat phalam prāpsyate ca api bhṛgu-śāpa-kṛtam mahat .. 7.51.21 ..
अयोध्यायाः पती रामो दीर्घकालं भविष्यति । सुखिनश्च समृद्धाश्च भविष्यन्त्यस्य ये ऽनुगाः ॥ ७.५१.२२ ॥
अयोध्यायाः पतिः रामः दीर्घ-कालम् भविष्यति । सुखिनः च समृद्धाः च भविष्यन्ति अस्य ये अनुगाः ॥ ७।५१।२२ ॥
ayodhyāyāḥ patiḥ rāmaḥ dīrgha-kālam bhaviṣyati . sukhinaḥ ca samṛddhāḥ ca bhaviṣyanti asya ye anugāḥ .. 7.51.22 ..
दश वर्षसहस्राणि दश वर्षशतानि च । रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति ॥ ७.५१.२३ ॥
दश वर्ष-सहस्राणि दश वर्ष-शतानि च । रामः राज्यम् उपासित्वा ब्रह्म-लोकम् गमिष्यति ॥ ७।५१।२३ ॥
daśa varṣa-sahasrāṇi daśa varṣa-śatāni ca . rāmaḥ rājyam upāsitvā brahma-lokam gamiṣyati .. 7.51.23 ..
समृद्धैश्चाश्वमेधैश्च इष्ट्वा परमदुर्जयः । राजवंशांश्च बहुशो बहून्संस्थापयिष्यति ॥ ७.५१.२४ ॥
समृद्धैः च अश्वमेधैः च इष्ट्वा परम-दुर्जयः । राज-वंशान् च बहुशस् बहून् संस्थापयिष्यति ॥ ७।५१।२४ ॥
samṛddhaiḥ ca aśvamedhaiḥ ca iṣṭvā parama-durjayaḥ . rāja-vaṃśān ca bahuśas bahūn saṃsthāpayiṣyati .. 7.51.24 ..
द्वौ पुत्रौ तु भविष्येते सीतायां राघवस्य तु । अन्यत्र न त्वयोध्यायां सत्यमेतन्नसंशयः ॥ ७.५१.२५ ॥
द्वौ पुत्रौ तु भविष्येते सीतायाम् राघवस्य तु । अन्यत्र न तु अयोध्यायाम् सत्यम् एतत् न संशयः ॥ ७।५१।२५ ॥
dvau putrau tu bhaviṣyete sītāyām rāghavasya tu . anyatra na tu ayodhyāyām satyam etat na saṃśayaḥ .. 7.51.25 ..
सीतायाश्च ततः पुत्रावभिषेक्ष्यति राघवः ॥ ७.५१.२६ ॥
सीतायाः च ततस् पुत्रौ अभिषेक्ष्यति राघवः ॥ ७।५१।२६ ॥
sītāyāḥ ca tatas putrau abhiṣekṣyati rāghavaḥ .. 7.51.26 ..
स सर्वमखिलं राज्ञो वंशस्याह गतागतम् । आख्याय सुमहातेजास्तूष्णीमासीन्महामुनिः ॥ ७.५१.२७ ॥
स सर्वम् अखिलम् राज्ञः वंशस्य आह गतागतम् । आख्याय सु महा-तेजाः तूष्णीम् आसीत् महा-मुनिः ॥ ७।५१।२७ ॥
sa sarvam akhilam rājñaḥ vaṃśasya āha gatāgatam . ākhyāya su mahā-tejāḥ tūṣṇīm āsīt mahā-muniḥ .. 7.51.27 ..
तूष्णीम्भूते तदा तस्मिन्राजा दशरथो मुनौ । अभिवाद्य महात्मानौ पुनरायात्पुरोत्तमम् ॥ ७.५१.२८ ॥
तूष्णीम् भूते तदा तस्मिन् राजा दशरथः मुनौ । अभिवाद्य महात्मानौ पुनर् आयात् पुर-उत्तमम् ॥ ७।५१।२८ ॥
tūṣṇīm bhūte tadā tasmin rājā daśarathaḥ munau . abhivādya mahātmānau punar āyāt pura-uttamam .. 7.51.28 ..
एतद्वचो मया तत्र मुनिना व्याहृतं पुरा । श्रुतं हृदि च निक्षिप्तं नान्यथा तद्भविष्यति ॥ ७.५१.२९ ॥
एतत् वचः मया तत्र मुनिना व्याहृतम् पुरा । श्रुतम् हृदि च निक्षिप्तम् न अन्यथा तत् भविष्यति ॥ ७।५१।२९ ॥
etat vacaḥ mayā tatra muninā vyāhṛtam purā . śrutam hṛdi ca nikṣiptam na anyathā tat bhaviṣyati .. 7.51.29 ..
एवं गते न सन्तापं कर्तुमर्हसि राघव । सीतार्थे राघवार्थे वा दृढो भव नरोत्तम ॥ ७.५१.३० ॥
एवम् गते न सन्तापम् कर्तुम् अर्हसि राघव । सीता-अर्थे राघव-अर्थे वा दृढः भव नर-उत्तम ॥ ७।५१।३० ॥
evam gate na santāpam kartum arhasi rāghava . sītā-arthe rāghava-arthe vā dṛḍhaḥ bhava nara-uttama .. 7.51.30 ..
श्रुत्वा तु व्याहृतं वाक्यं सूतस्य परमाद्भुतम् । प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ॥ ७.५१.३१ ॥
श्रुत्वा तु व्याहृतम् वाक्यम् सूतस्य परम-अद्भुतम् । प्रहर्षम् अतुलम् लेभे साधु साधु इति च अब्रवीत् ॥ ७।५१।३१ ॥
śrutvā tu vyāhṛtam vākyam sūtasya parama-adbhutam . praharṣam atulam lebhe sādhu sādhu iti ca abravīt .. 7.51.31 ..
ततः संवदतोरेवं सूतलक्ष्मणयोः पथि । अस्तमर्के गते वासं केशिन्यां तावथोषतुः ॥ ७.५१.३२ ॥
ततस् संवदतोः एवम् सूत-लक्ष्मणयोः पथि । अस्तम् अर्के गते वासम् केशिन्याम् तौ अथा ऊषतुः ॥ ७।५१।३२ ॥
tatas saṃvadatoḥ evam sūta-lakṣmaṇayoḥ pathi . astam arke gate vāsam keśinyām tau athā ūṣatuḥ .. 7.51.32 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकपञ्चाशः सर्गः ॥ ५1 ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे एकपञ्चाशः सर्गः ॥ ५१ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe ekapañcāśaḥ sargaḥ .. 51 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In