This overlay will guide you through the buttons:

| |
|
रामस्य भाषितं श्रुत्वा लक्ष्मणः परमार्थवित् । उवाच प्राञ्जलिर्वाक्यं राघवं दीप्ततेजसम् ॥ ७.५४.१ ॥
रामस्य भाषितम् श्रुत्वा लक्ष्मणः परम-अर्थ-विद् । उवाच प्राञ्जलिः वाक्यम् राघवम् दीप्त-तेजसम् ॥ ७।५४।१ ॥
rāmasya bhāṣitam śrutvā lakṣmaṇaḥ parama-artha-vid . uvāca prāñjaliḥ vākyam rāghavam dīpta-tejasam .. 7.54.1 ..
अल्पापराधे काकुत्स्थ द्विजाभ्यां शाप ईदृशः । महान्नृगस्य राजर्षेर्यमदण्ड इवापरः ॥ ७.५४.२ ॥
अल्प-अपराधे काकुत्स्थ द्विजाभ्याम् शापः ईदृशः । महान् नृगस्य राजर्षेः यम-दण्डः इव अपरः ॥ ७।५४।२ ॥
alpa-aparādhe kākutstha dvijābhyām śāpaḥ īdṛśaḥ . mahān nṛgasya rājarṣeḥ yama-daṇḍaḥ iva aparaḥ .. 7.54.2 ..
श्रुत्वा तु पापसंयुक्तमात्मानं पुरषर्षभ । किमुवाच नृगो राजा द्विजौ क्रोधसमन्वितौ ॥ ७.५४.३ ॥
श्रुत्वा तु पाप-संयुक्तम् आत्मानम् पुरष-ऋषभ । किम् उवाच नृगः राजा द्विजौ क्रोध-समन्वितौ ॥ ७।५४।३ ॥
śrutvā tu pāpa-saṃyuktam ātmānam puraṣa-ṛṣabha . kim uvāca nṛgaḥ rājā dvijau krodha-samanvitau .. 7.54.3 ..
लक्ष्मणेनैवमुक्तस्तु राघवः पुनरब्रवीत् । शृणु सौम्य यथा पूर्वं स राजा शापविक्षतः ॥ ७.५४.४ ॥
लक्ष्मणेन एवम् उक्तः तु राघवः पुनर् अब्रवीत् । शृणु सौम्य यथा पूर्वम् स राजा शाप-विक्षतः ॥ ७।५४।४ ॥
lakṣmaṇena evam uktaḥ tu rāghavaḥ punar abravīt . śṛṇu saumya yathā pūrvam sa rājā śāpa-vikṣataḥ .. 7.54.4 ..
अथाध्वनि गतौ विप्रौ विज्ञाय स नृगस्तदा । आहूय मन्त्रिणः सर्वान्नैगमान्सपुरोधसः ॥ ७.५४.५ ॥
अथ अध्वनि गतौ विप्रौ विज्ञाय स नृगः तदा । आहूय मन्त्रिणः सर्वान् नैगमान् स पुरोधसः ॥ ७।५४।५ ॥
atha adhvani gatau viprau vijñāya sa nṛgaḥ tadā . āhūya mantriṇaḥ sarvān naigamān sa purodhasaḥ .. 7.54.5 ..
तानुवाच नृगो राजा सर्वाश्च प्रकृतीस्तथा । दुःखेन सुसमाविष्टः श्रूयतां मे समाहितैः ॥ ७.५४.६ ॥
तान् उवाच नृगः राजा सर्वाः च प्रकृतीः तथा । दुःखेन सु समाविष्टः श्रूयताम् मे समाहितैः ॥ ७।५४।६ ॥
tān uvāca nṛgaḥ rājā sarvāḥ ca prakṛtīḥ tathā . duḥkhena su samāviṣṭaḥ śrūyatām me samāhitaiḥ .. 7.54.6 ..
नारदः पर्वतश्चैव मम दत्त्वा महद्भयम् । गतौ त्रिभुवनं भद्रौ वायुभूतावनिन्दितौ ॥ ७.५४.७ ॥
नारदः पर्वतः च एव मम दत्त्वा महत् भयम् । गतौ त्रिभुवनम् भद्रौ वायु-भूतौ अनिन्दितौ ॥ ७।५४।७ ॥
nāradaḥ parvataḥ ca eva mama dattvā mahat bhayam . gatau tribhuvanam bhadrau vāyu-bhūtau aninditau .. 7.54.7 ..
कुमारो ऽयं वसुर्नाम स देवो ऽद्याभिषिच्यताम् । श्वभ्रं च यत्सुखस्पर्शं क्रियतां शिल्पिभिर्मम । यत्राहं सङ्क्षयिष्यामि शापं ब्राह्मणनिःसृतम् ॥ ७.५४.८ ॥
कुमारः अयम् वसुः नाम स देवः अद्य अभिषिच्यताम् । श्वभ्रम् च यत् सुख-स्पर्शम् क्रियताम् शिल्पिभिः मम । यत्र अहम् सङ्क्षयिष्यामि शापम् ब्राह्मण-निःसृतम् ॥ ७।५४।८ ॥
kumāraḥ ayam vasuḥ nāma sa devaḥ adya abhiṣicyatām . śvabhram ca yat sukha-sparśam kriyatām śilpibhiḥ mama . yatra aham saṅkṣayiṣyāmi śāpam brāhmaṇa-niḥsṛtam .. 7.54.8 ..
वर्षघ्नमेकं श्वभ्रं तु हिमघ्नमपरं तथा । ग्रीष्मघ्नं तु सुखस्पर्शमेकं कुर्वन्तु शिल्पिनः ॥ ७.५४.९ ॥
वर्ष-घ्नम् एकम् श्वभ्रम् तु हिम-घ्नम् अपरम् तथा । ग्रीष्म-घ्नम् तु सुख-स्पर्शम् एकम् कुर्वन्तु शिल्पिनः ॥ ७।५४।९ ॥
varṣa-ghnam ekam śvabhram tu hima-ghnam aparam tathā . grīṣma-ghnam tu sukha-sparśam ekam kurvantu śilpinaḥ .. 7.54.9 ..
फलवन्तश्च ये वृक्षाः पुष्पवत्यश्च या लताः । विरोप्यन्तां बहुविधाश्छायावन्तश्च गुल्मिनः ॥ ७.५४.१० ॥
फलवन्तः च ये वृक्षाः पुष्पवत्यः च याः लताः । विरोप्यन्ताम् बहुविधाः छायावन्तः च गुल्मिनः ॥ ७।५४।१० ॥
phalavantaḥ ca ye vṛkṣāḥ puṣpavatyaḥ ca yāḥ latāḥ . viropyantām bahuvidhāḥ chāyāvantaḥ ca gulminaḥ .. 7.54.10 ..
क्रियतां रमणीयं च श्वभ्राणां सर्वतोदिशम् । सुखमत्र वसिष्यामि यावत्कालस्य पर्ययः ॥ ७.५४.११ ॥
क्रियताम् रमणीयम् च श्वभ्राणाम् सर्वतोदिशम् । सुखम् अत्र वसिष्यामि यावत् कालस्य पर्ययः ॥ ७।५४।११ ॥
kriyatām ramaṇīyam ca śvabhrāṇām sarvatodiśam . sukham atra vasiṣyāmi yāvat kālasya paryayaḥ .. 7.54.11 ..
पुष्पाणि च सुगन्धीनि क्रियतां तेषु नित्यशः । परिवार्य यथा मे स्युरध्यर्धं योजनं तथा ॥ ७.५४.१२ ॥
पुष्पाणि च सुगन्धीनि क्रियताम् तेषु नित्यशस् । परिवार्य यथा मे स्युः अध्यर्धम् योजनम् तथा ॥ ७।५४।१२ ॥
puṣpāṇi ca sugandhīni kriyatām teṣu nityaśas . parivārya yathā me syuḥ adhyardham yojanam tathā .. 7.54.12 ..
एवं कृत्वा विधानं स सन्दिदेश वसं तदा । धर्मनित्यः प्रजाः पुत्र क्षत्रधर्मेण पालय ॥ ७.५४.१३ ॥
एवम् कृत्वा विधानम् स सन्दिदेश वसम् तदा । धर्म-नित्यः प्रजाः पुत्र क्षत्र-धर्मेण पालय ॥ ७।५४।१३ ॥
evam kṛtvā vidhānam sa sandideśa vasam tadā . dharma-nityaḥ prajāḥ putra kṣatra-dharmeṇa pālaya .. 7.54.13 ..
प्रत्यक्षं ते यथा शापो द्विजाभ्यां मयि पातितः । नरश्रेष्ठ सरोषाभ्यामपराधे ऽपि तादृशे ॥ ७.५४.१४ ॥
प्रत्यक्षम् ते यथा शापः द्विजाभ्याम् मयि पातितः । नर-श्रेष्ठ स रोषाभ्याम् अपराधे अपि तादृशे ॥ ७।५४।१४ ॥
pratyakṣam te yathā śāpaḥ dvijābhyām mayi pātitaḥ . nara-śreṣṭha sa roṣābhyām aparādhe api tādṛśe .. 7.54.14 ..
मा कृथास्तनुसन्तापं मत्कृते ऽपि नरर्षभ । कृतान्तः कुशलः पुत्र येनास्मि व्यसनीकृतः ॥ ७.५४.१५ ॥
मा कृथाः तनु-सन्तापम् मद्-कृते अपि नर-ऋषभ । कृतान्तः कुशलः पुत्र येन अस्मि व्यसनीकृतः ॥ ७।५४।१५ ॥
mā kṛthāḥ tanu-santāpam mad-kṛte api nara-ṛṣabha . kṛtāntaḥ kuśalaḥ putra yena asmi vyasanīkṛtaḥ .. 7.54.15 ..
प्राप्तव्यान्येव प्राप्नोति गन्तव्यान्येव गच्छति । लब्धव्यान्येव लभते दुःखानि च सुखानि च ॥ ७.५४.१६ ॥
प्राप्तव्यानि एव प्राप्नोति गन्तव्यानि एव गच्छति । लब्धव्यानि एव लभते दुःखानि च सुखानि च ॥ ७।५४।१६ ॥
prāptavyāni eva prāpnoti gantavyāni eva gacchati . labdhavyāni eva labhate duḥkhāni ca sukhāni ca .. 7.54.16 ..
पूर्वे जात्यन्तरे वत्स मा विषादं कुरुष्व ह ॥ ७.५४.१७ ॥
पूर्वे जाति-अन्तरे वत्स मा विषादम् कुरुष्व ह ॥ ७।५४।१७ ॥
pūrve jāti-antare vatsa mā viṣādam kuruṣva ha .. 7.54.17 ..
एवमुक्त्वा नृपस्तत्र सुतं राजा महायशाः । श्वभ्रं जगाम सुकृतं वासाय पुरुषर्षभ ॥ ७.५४.१८ ॥
एवम् उक्त्वा नृपः तत्र सुतम् राजा महा-यशाः । श्वभ्रम् जगाम सु कृतम् वासाय पुरुष-ऋषभ ॥ ७।५४।१८ ॥
evam uktvā nṛpaḥ tatra sutam rājā mahā-yaśāḥ . śvabhram jagāma su kṛtam vāsāya puruṣa-ṛṣabha .. 7.54.18 ..
एवं प्रविश्यैव नृपस्तदानीं श्वभ्रं महारत्नविभूषितं तत् । सम्पादयामास तदा महात्मा शापं द्विजाभ्यां हि रुषा विमुक्तम् ॥ ७.५४.१९ ॥
एवम् प्रविश्य एव नृपः तदानीम् श्वभ्रम् महा-रत्न-विभूषितम् तत् । सम्पादयामास तदा महात्मा शापम् द्विजाभ्याम् हि रुषा विमुक्तम् ॥ ७।५४।१९ ॥
evam praviśya eva nṛpaḥ tadānīm śvabhram mahā-ratna-vibhūṣitam tat . sampādayāmāsa tadā mahātmā śāpam dvijābhyām hi ruṣā vimuktam .. 7.54.19 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुःपञ्चाशः सर्गः ॥ ५४ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे चतुःपञ्चाशः सर्गः ॥ ५४ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe catuḥpañcāśaḥ sargaḥ .. 54 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In