This overlay will guide you through the buttons:

| |
|
तयोः संवदतोरेवं रामलक्ष्मणयोस्तदा । वासन्तिकी निशा प्राप्ता न शीता न च घर्मदा ॥ ७.६०.१ ॥
तयोः संवदतोः एवम् राम-लक्ष्मणयोः तदा । वासन्तिकी निशा प्राप्ता न शीता न च घर्म-दा ॥ ७।६०।१ ॥
tayoḥ saṃvadatoḥ evam rāma-lakṣmaṇayoḥ tadā . vāsantikī niśā prāptā na śītā na ca gharma-dā .. 7.60.1 ..
ततः प्रभाते विमले कृतपौर्वाह्णिकक्रियः । अभिचक्राम काकुत्स्थो दर्शनं पौरकार्यवित् ॥ ७.६०.२ ॥
ततस् प्रभाते विमले कृत-पौर्वाह्णिक-क्रियः । अभिचक्राम काकुत्स्थः दर्शनम् पौर-कार्य-विद् ॥ ७।६०।२ ॥
tatas prabhāte vimale kṛta-paurvāhṇika-kriyaḥ . abhicakrāma kākutsthaḥ darśanam paura-kārya-vid .. 7.60.2 ..
ततः सुमन्त्रस्त्वागम्य राघवं वाक्यमब्रवीत् । एते प्रतिहता राजन्द्वारि तिष्ठन्ति तापसाः ॥ ७.६०.३ ॥
ततस् सुमन्त्रः तु आगम्य राघवम् वाक्यम् अब्रवीत् । एते प्रतिहताः राजन् द्वारि तिष्ठन्ति तापसाः ॥ ७।६०।३ ॥
tatas sumantraḥ tu āgamya rāghavam vākyam abravīt . ete pratihatāḥ rājan dvāri tiṣṭhanti tāpasāḥ .. 7.60.3 ..
भार्गवच्यवनं चैव पुरस्कृत्य महर्षयः । दर्शनं ते महाराज्ञश्चोदयन्ति कृतत्वराः । प्रीयमाणा नरव्याघ्र यमुनातीरवासिनः ॥ ७.६०.४ ॥
भार्गव-च्यवनम् च एव पुरस्कृत्य महा-ऋषयः । दर्शनम् ते महा-राज्ञः चोदयन्ति कृत-त्वराः । प्रीयमाणाः नर-व्याघ्र यमुना-तीर-वासिनः ॥ ७।६०।४ ॥
bhārgava-cyavanam ca eva puraskṛtya mahā-ṛṣayaḥ . darśanam te mahā-rājñaḥ codayanti kṛta-tvarāḥ . prīyamāṇāḥ nara-vyāghra yamunā-tīra-vāsinaḥ .. 7.60.4 ..
तस्य तद्वचनं श्रुत्वा रामः प्रोवाच धर्मवित् । प्रवेश्यन्तां महाभागा भार्गवप्रमुखा द्विजाः ॥ ७.६०.५ ॥
तस्य तत् वचनम् श्रुत्वा रामः प्रोवाच धर्म-विद् । प्रवेश्यन्ताम् महाभागाः भार्गव-प्रमुखाः द्विजाः ॥ ७।६०।५ ॥
tasya tat vacanam śrutvā rāmaḥ provāca dharma-vid . praveśyantām mahābhāgāḥ bhārgava-pramukhāḥ dvijāḥ .. 7.60.5 ..
राज्ञस्त्वाज्ञां पुरस्कृत्य द्वाःस्थो मूर्ध्नि कृताञ्जलिः । प्रवेशयामास तदा तापसान्सुदुरासदान् ॥ ७.६०.६ ॥
राज्ञः तु आज्ञाम् पुरस्कृत्य द्वाःस्थः मूर्ध्नि कृताञ्जलिः । प्रवेशयामास तदा तापसान् सु दुरासदान् ॥ ७।६०।६ ॥
rājñaḥ tu ājñām puraskṛtya dvāḥsthaḥ mūrdhni kṛtāñjaliḥ . praveśayāmāsa tadā tāpasān su durāsadān .. 7.60.6 ..
शतं समधिकं तत्र दीप्यमानं स्वतेजसा । प्रविष्टं राजभवनं तापसानां महात्मनाम् ॥ ७.६०.७ ॥
शतम् समधिकम् तत्र दीप्यमानम् स्व-तेजसा । प्रविष्टम् राज-भवनम् तापसानाम् महात्मनाम् ॥ ७।६०।७ ॥
śatam samadhikam tatra dīpyamānam sva-tejasā . praviṣṭam rāja-bhavanam tāpasānām mahātmanām .. 7.60.7 ..
ते द्विजाः पूर्णकलशैः सर्वतीर्थाम्बुसत्कृतैः । गृहीत्वा फलमूलं च रामस्याभ्याहरन्बहु ॥ ७.६०.८ ॥
ते द्विजाः पूर्ण-कलशैः सर्व-तीर्थ-अम्बु-सत्कृतैः । गृहीत्वा फल-मूलम् च रामस्य अभ्याहरन् बहु ॥ ७।६०।८ ॥
te dvijāḥ pūrṇa-kalaśaiḥ sarva-tīrtha-ambu-satkṛtaiḥ . gṛhītvā phala-mūlam ca rāmasya abhyāharan bahu .. 7.60.8 ..
प्रतिगृह्य तु तत्सर्वं रामः प्रीतिपुरस्कृतः । तीर्थोदकानि सर्वाणि फलानि विविधानि च ॥ ७.६०.९ ॥
प्रतिगृह्य तु तत् सर्वम् रामः प्रीति-पुरस्कृतः । तीर्थ-उदकानि सर्वाणि फलानि विविधानि च ॥ ७।६०।९ ॥
pratigṛhya tu tat sarvam rāmaḥ prīti-puraskṛtaḥ . tīrtha-udakāni sarvāṇi phalāni vividhāni ca .. 7.60.9 ..
उवाच च महाबाहुः सर्वानेव महामुनीन् । इमान्यासनमुख्यानि यथार्हमुपविश्यताम् ॥ ७.६०.१० ॥
उवाच च महा-बाहुः सर्वान् एव महा-मुनीन् । इमानि आसन-मुख्यानि यथार्हम् उपविश्यताम् ॥ ७।६०।१० ॥
uvāca ca mahā-bāhuḥ sarvān eva mahā-munīn . imāni āsana-mukhyāni yathārham upaviśyatām .. 7.60.10 ..
रामस्य भाषितं श्रुत्वा सर्व एव महर्षयः । बृसीषु रुचिराख्यासु निषेदुः काञ्चनीषु ते ॥ ७.६०.११ ॥
रामस्य भाषितम् श्रुत्वा सर्वे एव महा-ऋषयः । बृसीषु रुचिर-आख्यासु निषेदुः काञ्चनीषु ते ॥ ७।६०।११ ॥
rāmasya bhāṣitam śrutvā sarve eva mahā-ṛṣayaḥ . bṛsīṣu rucira-ākhyāsu niṣeduḥ kāñcanīṣu te .. 7.60.11 ..
उपविष्टानृषींस्तत्र दृष्ट्वा परपुरञ्जयः । प्रयतः प्राञ्जलिर्भूत्वा राघवो वाक्यमब्रवीत् ॥ ७.६०.१२ ॥
उपविष्टान् ऋषीन् तत्र दृष्ट्वा परपुरञ्जयः । प्रयतः प्राञ्जलिः भूत्वा राघवः वाक्यम् अब्रवीत् ॥ ७।६०।१२ ॥
upaviṣṭān ṛṣīn tatra dṛṣṭvā parapurañjayaḥ . prayataḥ prāñjaliḥ bhūtvā rāghavaḥ vākyam abravīt .. 7.60.12 ..
किमागमनकार्यं वः किं करोमि समाहितः । आज्ञाप्यो ऽहं महर्षीणां सर्वकामकरः सुखम् ॥ ७.६०.१३ ॥
किम् आगमन-कार्यम् वः किम् करोमि समाहितः । आज्ञाप्यः अहम् महा-ऋषीणाम् सर्व-काम-करः सुखम् ॥ ७।६०।१३ ॥
kim āgamana-kāryam vaḥ kim karomi samāhitaḥ . ājñāpyaḥ aham mahā-ṛṣīṇām sarva-kāma-karaḥ sukham .. 7.60.13 ..
इदं राज्यं च सकलं जीवितं च हृदि स्थितम् । सर्वमेतद्द्विदार्थं मे सत्यमेतद्ब्रवीमि वः ॥ ७.६०.१४ ॥
इदम् राज्यम् च सकलम् जीवितम् च हृदि स्थितम् । सर्वम् एतत् द्विद-अर्थम् मे सत्यम् एतत् ब्रवीमि वः ॥ ७।६०।१४ ॥
idam rājyam ca sakalam jīvitam ca hṛdi sthitam . sarvam etat dvida-artham me satyam etat bravīmi vaḥ .. 7.60.14 ..
तस्य तद्वचनं श्रुत्वा साधुकारो महानभूत् । ऋषीणामुग्रतपसां यमुनातीरवासिनाम् ॥ ७.६०.१५ ॥
तस्य तत् वचनम् श्रुत्वा साधुकारः महान् अभूत् । ऋषीणाम् उग्र-तपसाम् यमुना-तीर-वासिनाम् ॥ ७।६०।१५ ॥
tasya tat vacanam śrutvā sādhukāraḥ mahān abhūt . ṛṣīṇām ugra-tapasām yamunā-tīra-vāsinām .. 7.60.15 ..
ऊचुश्च ते महात्मानो हर्षेण महता वृताः । उपपन्नं नरश्रेष्ठ तवैव भुवि नान्यतः ॥ ७.६०.१६ ॥
ऊचुः च ते महात्मानः हर्षेण महता वृताः । उपपन्नम् नर-श्रेष्ठ तव एव भुवि न अन्यतस् ॥ ७।६०।१६ ॥
ūcuḥ ca te mahātmānaḥ harṣeṇa mahatā vṛtāḥ . upapannam nara-śreṣṭha tava eva bhuvi na anyatas .. 7.60.16 ..
बहवः पार्थिवा राजन्नतिक्रान्ता महाबलाः । कार्यस्य गौरवं मत्वा प्रतिज्ञां नाभ्यरोचयन् ॥ ७.६०.१७ ॥
बहवः पार्थिवाः राजन् अतिक्रान्ताः महा-बलाः । कार्यस्य गौरवम् मत्वा प्रतिज्ञाम् न अभ्यरोचयन् ॥ ७।६०।१७ ॥
bahavaḥ pārthivāḥ rājan atikrāntāḥ mahā-balāḥ . kāryasya gauravam matvā pratijñām na abhyarocayan .. 7.60.17 ..
त्वया पुनर्ब्राह्मणगौरवादियं कृता प्रतिज्ञा ह्यनवेक्ष्य कारणम् । ततश्च कर्ता ह्यसि नात्र संशयो महाभयात्ऺत्रातुमृषींस्त्वमर्हसि ॥ ७.६०.१८ ॥
त्वया पुनर् ब्राह्मण-गौरवात् इयम् कृता प्रतिज्ञा हि अन् अवेक्ष्य कारणम् । ततस् च कर्ता हि असि न अत्र संशयः महा-भयात् त्रातुम् ऋषीन् त्वम् अर्हसि ॥ ७।६०।१८ ॥
tvayā punar brāhmaṇa-gauravāt iyam kṛtā pratijñā hi an avekṣya kāraṇam . tatas ca kartā hi asi na atra saṃśayaḥ mahā-bhayāt trātum ṛṣīn tvam arhasi .. 7.60.18 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षष्टितमः सर्गः ॥ ६० ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे षष्टितमः सर्गः ॥ ६० ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe ṣaṣṭitamaḥ sargaḥ .. 60 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In