This overlay will guide you through the buttons:

| |
|
तथोक्ते तानृषीन्रामः प्रत्युवाच कृताञ्जलिः । किमाहारः किमाचारो लवणः क्व च वर्तते ॥ ७.६२.१ ॥
तथा उक्ते तान् ऋषीन् रामः प्रत्युवाच कृताञ्जलिः । किमाहारः किमाचारः लवणः क्व च वर्तते ॥ ७।६२।१ ॥
tathā ukte tān ṛṣīn rāmaḥ pratyuvāca kṛtāñjaliḥ . kimāhāraḥ kimācāraḥ lavaṇaḥ kva ca vartate .. 7.62.1 ..
राघवस्य वचः श्रुत्वा ऋषयः सर्व एव ते । ततो निवेदयामासुर्लवणो ववृधे यथा ॥ ७.६२.२ ॥
राघवस्य वचः श्रुत्वा ऋषयः सर्वे एव ते । ततस् निवेदयामासुः लवणः ववृधे यथा ॥ ७।६२।२ ॥
rāghavasya vacaḥ śrutvā ṛṣayaḥ sarve eva te . tatas nivedayāmāsuḥ lavaṇaḥ vavṛdhe yathā .. 7.62.2 ..
आहारः सर्वसत्त्वानि विशेषेण च तापसाः । आचारो रौद्रता नित्यं वासो मधुवने तथा ॥ ७.६२.३ ॥
आहारः सर्व-सत्त्वानि विशेषेण च तापसाः । आचारः रौद्र-ता नित्यम् वासः मधुवने तथा ॥ ७।६२।३ ॥
āhāraḥ sarva-sattvāni viśeṣeṇa ca tāpasāḥ . ācāraḥ raudra-tā nityam vāsaḥ madhuvane tathā .. 7.62.3 ..
हत्वा बहुसहस्राणि सिंहव्याघ्रमृगद्विपान् । मानुषांश्चैव कुरुते नित्यमाहारमाह्निकम् ॥ ७.६२.४ ॥
हत्वा बहु-सहस्राणि सिंह-व्याघ्र-मृग-द्विपान् । मानुषान् च एव कुरुते नित्यम् आहारम् आह्निकम् ॥ ७।६२।४ ॥
hatvā bahu-sahasrāṇi siṃha-vyāghra-mṛga-dvipān . mānuṣān ca eva kurute nityam āhāram āhnikam .. 7.62.4 ..
ततो ऽन्तराणि सत्त्वानि खादते स महाबलः । संहारे समनुप्राप्ते व्यादितास्य इवान्तकः ॥ ७.६२.५ ॥
ततस् अन्तराणि सत्त्वानि खादते स महा-बलः । संहारे समनुप्राप्ते व्यादित-आस्यः इव अन्तकः ॥ ७।६२।५ ॥
tatas antarāṇi sattvāni khādate sa mahā-balaḥ . saṃhāre samanuprāpte vyādita-āsyaḥ iva antakaḥ .. 7.62.5 ..
तच्छ्रुत्वा राघवो वाक्यमुवाच स महामुनीन् । घातयिष्यामि तद्रक्षो ह्यपगच्छतु वो भयम् ॥ ७.६२.६ ॥
तत् श्रुत्वा राघवः वाक्यम् उवाच स महा-मुनीन् । घातयिष्यामि तत् रक्षः हि अपगच्छतु वः भयम् ॥ ७।६२।६ ॥
tat śrutvā rāghavaḥ vākyam uvāca sa mahā-munīn . ghātayiṣyāmi tat rakṣaḥ hi apagacchatu vaḥ bhayam .. 7.62.6 ..
प्रतिज्ञाय तथा तेषां मुनीनामुग्रतेजसाम् । स भ्रातऽन्सहितान्सर्वानुवाच रघुनन्दनः ॥ ७.६२.७ ॥
प्रतिज्ञाय तथा तेषाम् मुनीनाम् उग्र-तेजसाम् । स भ्रात सहितान् सर्वान् उवाच रघुनन्दनः ॥ ७।६२।७ ॥
pratijñāya tathā teṣām munīnām ugra-tejasām . sa bhrāta sahitān sarvān uvāca raghunandanaḥ .. 7.62.7 ..
को हन्ता लवणं वीरः कस्यांशः स विधीयताम् । भरतस्य महाबाहोः शत्रुघ्नस्य च धीमतः ॥ ७.६२.८ ॥
कः हन्ता लवणम् वीरः कस्य अंशः स विधीयताम् । भरतस्य महा-बाहोः शत्रुघ्नस्य च धीमतः ॥ ७।६२।८ ॥
kaḥ hantā lavaṇam vīraḥ kasya aṃśaḥ sa vidhīyatām . bharatasya mahā-bāhoḥ śatrughnasya ca dhīmataḥ .. 7.62.8 ..
राघवेणैवमुक्तस्तु भरतो वाक्यमब्रवीत् । अहमेनं वधिष्यामि ममांशः स विधीयताम् ॥ ७.६२.९ ॥
राघवेण एवम् उक्तः तु भरतः वाक्यम् अब्रवीत् । अहम् एनम् वधिष्यामि मम अंशः स विधीयताम् ॥ ७।६२।९ ॥
rāghaveṇa evam uktaḥ tu bharataḥ vākyam abravīt . aham enam vadhiṣyāmi mama aṃśaḥ sa vidhīyatām .. 7.62.9 ..
भरतस्य वचः श्रुत्वा धैर्यशौर्यसमन्वितम् । लक्ष्मणावरजस्तस्थौ हित्वा सौवर्णमासनम् ॥ ७.६२.१० ॥
भरतस्य वचः श्रुत्वा धैर्य-शौर्य-समन्वितम् । लक्ष्मण-अवरजः तस्थौ हित्वा सौवर्णम् आसनम् ॥ ७।६२।१० ॥
bharatasya vacaḥ śrutvā dhairya-śaurya-samanvitam . lakṣmaṇa-avarajaḥ tasthau hitvā sauvarṇam āsanam .. 7.62.10 ..
शत्रुघ्नस्त्वब्रवीद्वाक्यं प्रणिपत्य नराधिपम् । कृतकर्मा महाबाहुर्मध्यमो रघुनन्दनः ॥ ७.६२.११ ॥
शत्रुघ्नः तु अब्रवीत् वाक्यम् प्रणिपत्य नराधिपम् । कृत-कर्मा महा-बाहुः मध्यमः रघुनन्दनः ॥ ७।६२।११ ॥
śatrughnaḥ tu abravīt vākyam praṇipatya narādhipam . kṛta-karmā mahā-bāhuḥ madhyamaḥ raghunandanaḥ .. 7.62.11 ..
आर्येण हि पुरा शून्या त्वयोध्या परिपालिता । सन्तापं हृदये कृत्वा आर्यस्यागमनं प्रति ॥ ७.६२.१२ ॥
आर्येण हि पुरा शून्या तु अयोध्या परिपालिता । सन्तापम् हृदये कृत्वा आर्यस्य आगमनम् प्रति ॥ ७।६२।१२ ॥
āryeṇa hi purā śūnyā tu ayodhyā paripālitā . santāpam hṛdaye kṛtvā āryasya āgamanam prati .. 7.62.12 ..
दुःखानि च बहूनीह ह्यनुभूतानि पार्थिव । शयानो दुःखशय्यासु नन्दिग्रामे ऽवसत्पुरा ॥ ७.६२.१३ ॥
दुःखानि च बहूनि इह हि अनुभूतानि पार्थिव । शयानः दुःख-शय्यासु नन्दिग्रामे अवसत् पुरा ॥ ७।६२।१३ ॥
duḥkhāni ca bahūni iha hi anubhūtāni pārthiva . śayānaḥ duḥkha-śayyāsu nandigrāme avasat purā .. 7.62.13 ..
फलमूलाशनो भूत्वा जटी चीरधरस्तथा । अनुभूयेदृशं दुःखमेष राघवनन्दनः । प्रेष्ये मयि स्थिते राजन्न भूयः क्लेशमाप्नुयात् ॥ ७.६२.१४ ॥
फल-मूल-अशनः भूत्वा जटी चीर-धरः तथा । अनुभूय ईदृशम् दुःखम् एष राघव-नन्दनः । प्रेष्ये मयि स्थिते राजन् न भूयस् क्लेशम् आप्नुयात् ॥ ७।६२।१४ ॥
phala-mūla-aśanaḥ bhūtvā jaṭī cīra-dharaḥ tathā . anubhūya īdṛśam duḥkham eṣa rāghava-nandanaḥ . preṣye mayi sthite rājan na bhūyas kleśam āpnuyāt .. 7.62.14 ..
तथा ब्रुवति शत्रुघ्ने राघवः पुनरब्रवीत् । एवं भवतु काकुत्स्थ क्रियतां मम शासनम् ॥ ७.६२.१५ ॥
तथा ब्रुवति शत्रुघ्ने राघवः पुनर् अब्रवीत् । एवम् भवतु काकुत्स्थ क्रियताम् मम शासनम् ॥ ७।६२।१५ ॥
tathā bruvati śatrughne rāghavaḥ punar abravīt . evam bhavatu kākutstha kriyatām mama śāsanam .. 7.62.15 ..
राज्ये त्वामभिषेक्ष्यामि मधोस्तु नगरे शुभे । निवेशय महाबाहो भरतं यद्यवेक्षसे ॥ ७.६२.१६ ॥
राज्ये त्वाम् अभिषेक्ष्यामि मधोः तु नगरे शुभे । निवेशय महा-बाहो भरतम् यदि अवेक्षसे ॥ ७।६२।१६ ॥
rājye tvām abhiṣekṣyāmi madhoḥ tu nagare śubhe . niveśaya mahā-bāho bharatam yadi avekṣase .. 7.62.16 ..
शूरस्त्वं कृतविद्यश्च समर्थश्च निवेशने ॥ ७.६२.१७ ॥
शूरः त्वम् कृत-विद्यः च समर्थः च निवेशने ॥ ७।६२।१७ ॥
śūraḥ tvam kṛta-vidyaḥ ca samarthaḥ ca niveśane .. 7.62.17 ..
यो हि शत्रुं समुत्पाट्य पार्थिवस्य पुनः क्षये । न विधत्ते नृपं तत्र नरकं स हि गच्छति ॥ ७.६२.१८ ॥
यः हि शत्रुम् समुत्पाट्य पार्थिवस्य पुनर् क्षये । न विधत्ते नृपम् तत्र नरकम् स हि गच्छति ॥ ७।६२।१८ ॥
yaḥ hi śatrum samutpāṭya pārthivasya punar kṣaye . na vidhatte nṛpam tatra narakam sa hi gacchati .. 7.62.18 ..
स त्वं हत्वा मधुसुतं लवणं पापनिश्चयम् । राज्यं प्रशाधि धर्मेण वाक्यं मे यद्यवेक्षसे ॥ ७.६२.१९ ॥
स त्वम् हत्वा मधु-सुतम् लवणम् पाप-निश्चयम् । राज्यम् प्रशाधि धर्मेण वाक्यम् मे यदि अवेक्षसे ॥ ७।६२।१९ ॥
sa tvam hatvā madhu-sutam lavaṇam pāpa-niścayam . rājyam praśādhi dharmeṇa vākyam me yadi avekṣase .. 7.62.19 ..
उत्तरं च न वक्तव्यं शूर वाक्यान्तरे मम । बालेन पूर्वजस्याज्ञा कर्तव्या नात्र संशयः ॥ ७.६२.२० ॥
उत्तरम् च न वक्तव्यम् शूर वाक्य-अन्तरे मम । बालेन पूर्वजस्य आज्ञा कर्तव्या न अत्र संशयः ॥ ७।६२।२० ॥
uttaram ca na vaktavyam śūra vākya-antare mama . bālena pūrvajasya ājñā kartavyā na atra saṃśayaḥ .. 7.62.20 ..
अभिषेकं च काकुत्स्थ प्रतीच्छस्व मयोद्यतम् । वसिष्ठप्रमुखैर्विप्रैर्विधिमन्त्रपुरस्कृतम् ॥ ७.६२.२१ ॥
अभिषेकम् च काकुत्स्थ प्रतीच्छस्व मया उद्यतम् । वसिष्ठ-प्रमुखैः विप्रैः विधि-मन्त्र-पुरस्कृतम् ॥ ७।६२।२१ ॥
abhiṣekam ca kākutstha pratīcchasva mayā udyatam . vasiṣṭha-pramukhaiḥ vipraiḥ vidhi-mantra-puraskṛtam .. 7.62.21 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्विषष्टितमः सर्गः ॥ ६२ ॥ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे द्विषष्टितमः सर्गः ॥ ६२ ॥ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe dviṣaṣṭitamaḥ sargaḥ .. 62 .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In