This overlay will guide you through the buttons:

| |
|
तच्छ्रुत्वा भाषितं तस्य शत्रुघ्नस्य महात्मनः । क्रोधामाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ॥ ७.६९.१ ॥
तत् श्रुत्वा भाषितम् तस्य शत्रुघ्नस्य महात्मनः । क्रोधाम् आहारयत् तीव्रम् तिष्ठ तिष्ठ इति च अब्रवीत् ॥ ७।६९।१ ॥
tat śrutvā bhāṣitam tasya śatrughnasya mahātmanaḥ . krodhām āhārayat tīvram tiṣṭha tiṣṭha iti ca abravīt .. 7.69.1 ..
पाणौ पाणिं विनिष्पिष्य दन्तान्कटकटाय्य च । लवणो रघुशार्दूलमाह्वयामास चासकृत् ॥ ७.६९.२ ॥
पाणौ पाणिम् विनिष्पिष्य दन्तान् कटकटाय्य च । लवणः रघु-शार्दूलम् आह्वयामास च असकृत् ॥ ७।६९।२ ॥
pāṇau pāṇim viniṣpiṣya dantān kaṭakaṭāyya ca . lavaṇaḥ raghu-śārdūlam āhvayāmāsa ca asakṛt .. 7.69.2 ..
तं ब्रुवाणं तथा वाक्यं लवणं घोरदर्शनम् । शत्रुघ्नो देवशत्रुघ्न इदं वचनमब्रवीत् ॥ ७.६९.३ ॥
तम् ब्रुवाणम् तथा वाक्यम् लवणम् घोर-दर्शनम् । शत्रुघ्नः देव-शत्रु-घ्नः इदम् वचनम् अब्रवीत् ॥ ७।६९।३ ॥
tam bruvāṇam tathā vākyam lavaṇam ghora-darśanam . śatrughnaḥ deva-śatru-ghnaḥ idam vacanam abravīt .. 7.69.3 ..
न शत्रुघ्नस्तथा जातो यथा ऽन्ये निर्जितास्त्वया । तदद्य बाणाभिहतो व्रज त्वं यमसादनम् ॥ ७.६९.४ ॥
न शत्रुघ्नः तथा जातः यथा अन्ये निर्जिताः त्वया । तत् अद्य बाण-अभिहतः व्रज त्वम् यम-सादनम् ॥ ७।६९।४ ॥
na śatrughnaḥ tathā jātaḥ yathā anye nirjitāḥ tvayā . tat adya bāṇa-abhihataḥ vraja tvam yama-sādanam .. 7.69.4 ..
ऋषयो ऽप्यद्य पापात्मन्मया त्वां निहतं रणे । पश्यन्तु विप्रा विद्वांसस्त्रिदशा इव रावणम् ॥ ७.६९.५ ॥
ऋषयः अपि अद्य पाप-आत्मन् मया त्वाम् निहतम् रणे । पश्यन्तु विप्राः विद्वांसः त्रिदशाः इव रावणम् ॥ ७।६९।५ ॥
ṛṣayaḥ api adya pāpa-ātman mayā tvām nihatam raṇe . paśyantu viprāḥ vidvāṃsaḥ tridaśāḥ iva rāvaṇam .. 7.69.5 ..
त्वयि मद्बाणनिर्दग्धे पतिते ऽद्य निशाचर । पुरे जनपदे चापि क्षेममेव भविष्यति ॥ ७.६९.६ ॥
त्वयि मद्-बाण-निर्दग्धे पतिते अद्य निशाचर । पुरे जनपदे च अपि क्षेमम् एव भविष्यति ॥ ७।६९।६ ॥
tvayi mad-bāṇa-nirdagdhe patite adya niśācara . pure janapade ca api kṣemam eva bhaviṣyati .. 7.69.6 ..
अद्य मद्बाहुनिष्क्रान्तः शरो वज्रनिभाननः । प्रवेक्ष्यते ते हृदयं पद्ममंशुरिवार्कजः ॥ ७.६९.७ ॥
अद्य मद्-बाहु-निष्क्रान्तः शरः वज्र-निभ-आननः । प्रवेक्ष्यते ते हृदयम् पद्मम् अंशुः इव अर्क-जः ॥ ७।६९।७ ॥
adya mad-bāhu-niṣkrāntaḥ śaraḥ vajra-nibha-ānanaḥ . pravekṣyate te hṛdayam padmam aṃśuḥ iva arka-jaḥ .. 7.69.7 ..
एवमुक्तो महावृक्षं लवणः क्रोधमूर्च्छितः । शत्रुघ्नोरसि चिक्षेप स च तं शतधाच्छिनत् ॥ ७.६९.८ ॥
एवम् उक्तः महा-वृक्षम् लवणः क्रोध-मूर्च्छितः । शत्रुघ्न-उरसि चिक्षेप स च तम् शतधा आच्छिनत् ॥ ७।६९।८ ॥
evam uktaḥ mahā-vṛkṣam lavaṇaḥ krodha-mūrcchitaḥ . śatrughna-urasi cikṣepa sa ca tam śatadhā ācchinat .. 7.69.8 ..
तद्दृष्ट्वा विफलं कर्म राक्षसः पुनरेव तु । पादपान्सुबहून्गृह्य शत्रुघ्नायासृजद्बली ॥ ७.६९.९ ॥
तत् दृष्ट्वा विफलम् कर्म राक्षसः पुनर् एव तु । पादपान् सु बहून् गृह्य शत्रुघ्नाय असृजत् बली ॥ ७।६९।९ ॥
tat dṛṣṭvā viphalam karma rākṣasaḥ punar eva tu . pādapān su bahūn gṛhya śatrughnāya asṛjat balī .. 7.69.9 ..
शत्रुघ्नश्चापि तेजस्वी वृक्षानापततो बहून् । त्रिभिश्चतुर्भिरेकैकं चिच्छेद नतपर्वभिः ॥ ७.६९.१० ॥
शत्रुघ्नः च अपि तेजस्वी वृक्षान् आपततः बहून् । त्रिभिः चतुर्भिः एकैकम् चिच्छेद नत-पर्वभिः ॥ ७।६९।१० ॥
śatrughnaḥ ca api tejasvī vṛkṣān āpatataḥ bahūn . tribhiḥ caturbhiḥ ekaikam ciccheda nata-parvabhiḥ .. 7.69.10 ..
ततो बाणमयं वर्षं व्यसृजद्राक्षसोरसि । शत्रुघ्नो वीर्यसम्पन्नो विव्यथे न स राक्षसः ॥ ७.६९.११ ॥
ततस् बाण-मयम् वर्षम् व्यसृजत् राक्षस-उरसि । शत्रुघ्नः वीर्य-सम्पन्नः विव्यथे न स राक्षसः ॥ ७।६९।११ ॥
tatas bāṇa-mayam varṣam vyasṛjat rākṣasa-urasi . śatrughnaḥ vīrya-sampannaḥ vivyathe na sa rākṣasaḥ .. 7.69.11 ..
ततः प्रहस्य लवणो वृक्षमुद्यम्य वीर्यवान् । शिरस्यभ्यहनच्छूरं स्रस्ताङ्गः स मुमोह वै ॥ ७.६९.१२ ॥
ततस् प्रहस्य लवणः वृक्षम् उद्यम्य वीर्यवान् । शिरसि अभ्यहनत् शूरम् स्रस्त-अङ्गः स मुमोह वै ॥ ७।६९।१२ ॥
tatas prahasya lavaṇaḥ vṛkṣam udyamya vīryavān . śirasi abhyahanat śūram srasta-aṅgaḥ sa mumoha vai .. 7.69.12 ..
तस्मिन्निपतिते वीरे हाहाकारो महानभूत् । ऋषीणां देवसङ्घानां गन्धर्वाप्सरसां तथा ॥ ७.६९.१३ ॥
तस्मिन् निपतिते वीरे हाहाकारः महान् अभूत् । ऋषीणाम् देव-सङ्घानाम् गन्धर्व-अप्सरसाम् तथा ॥ ७।६९।१३ ॥
tasmin nipatite vīre hāhākāraḥ mahān abhūt . ṛṣīṇām deva-saṅghānām gandharva-apsarasām tathā .. 7.69.13 ..
तमवज्ञाय तु हतं शत्रुघ्नं भुवि पातितम् । रक्षो लब्धान्तरमपि न विवेश स्वमालयम् ॥ ७.६९.१४ ॥
तम् अवज्ञाय तु हतम् शत्रुघ्नम् भुवि पातितम् । रक्षः लब्ध-अन्तरम् अपि न विवेश स्वम् आलयम् ॥ ७।६९।१४ ॥
tam avajñāya tu hatam śatrughnam bhuvi pātitam . rakṣaḥ labdha-antaram api na viveśa svam ālayam .. 7.69.14 ..
नापि शूलं प्रजग्राह तं दृष्ट्वा भुवि पातितम् । ततो हत इति ज्ञात्वा तान्भक्षान्समुदावहत् ॥ ७.६९.१५ ॥
न अपि शूलम् प्रजग्राह तम् दृष्ट्वा भुवि पातितम् । ततस् हतः इति ज्ञात्वा तान् भक्षान् समुदावहत् ॥ ७।६९।१५ ॥
na api śūlam prajagrāha tam dṛṣṭvā bhuvi pātitam . tatas hataḥ iti jñātvā tān bhakṣān samudāvahat .. 7.69.15 ..
मुहूर्ताल्लब्धसञ्ज्ञस्तु पुनस्तस्थौ धृतायुधः । शत्रुघ्नो वै पुरद्वारि ऋषिभिः सम्प्रपूजितः ॥ ७.६९.१६ ॥
मुहूर्तात् लब्ध-सञ्ज्ञः तु पुनर् तस्थौ धृत-आयुधः । शत्रुघ्नः वै पुर-द्वारि ऋषिभिः सम्प्रपूजितः ॥ ७।६९।१६ ॥
muhūrtāt labdha-sañjñaḥ tu punar tasthau dhṛta-āyudhaḥ . śatrughnaḥ vai pura-dvāri ṛṣibhiḥ samprapūjitaḥ .. 7.69.16 ..
ततो दिव्यममोघं तं जग्राह शरमुत्तमम् । ज्वलन्तं तेजसा घोरं पूरयन्तं दिशो दश ॥ ७.६९.१७ ॥
ततस् दिव्यम् अमोघम् तम् जग्राह शरम् उत्तमम् । ज्वलन्तम् तेजसा घोरम् पूरयन्तम् दिशः दश ॥ ७।६९।१७ ॥
tatas divyam amogham tam jagrāha śaram uttamam . jvalantam tejasā ghoram pūrayantam diśaḥ daśa .. 7.69.17 ..
वज्राननं वज्रवेगं मेरुमन्दरसन्निभम् । नतं पर्वसु सर्वेषु संयुगेष्वपराजितम् ॥ ७.६९.१८ ॥
वज्र-आननम् वज्र-वेगम् मेरु-मन्दर-सन्निभम् । नतम् पर्वसु सर्वेषु संयुगेषु अपराजितम् ॥ ७।६९।१८ ॥
vajra-ānanam vajra-vegam meru-mandara-sannibham . natam parvasu sarveṣu saṃyugeṣu aparājitam .. 7.69.18 ..
असृक्चन्दनदिग्धाङ्गं चारुपत्रं पतत्रिणम् । दानवेन्द्राचलेन्द्राणामसुराणां च दारणम् ॥ ७.६९.१९ ॥
असृज्-चन्दन-दिग्ध-अङ्गम् चारु-पत्रम् पतत्रिणम् । दानव-इन्द्र-अचल-इन्द्राणाम् असुराणाम् च दारणम् ॥ ७।६९।१९ ॥
asṛj-candana-digdha-aṅgam cāru-patram patatriṇam . dānava-indra-acala-indrāṇām asurāṇām ca dāraṇam .. 7.69.19 ..
तं दीप्तमिव कालाग्निं युगान्ते समुपस्थिते । दृष्ट्वा सर्वाणि भूतानि परित्रासमुपागमन् ॥ ७.६९.२० ॥
तम् दीप्तम् इव कालाग्निम् युग-अन्ते समुपस्थिते । दृष्ट्वा सर्वाणि भूतानि परित्रासम् उपागमन् ॥ ७।६९।२० ॥
tam dīptam iva kālāgnim yuga-ante samupasthite . dṛṣṭvā sarvāṇi bhūtāni paritrāsam upāgaman .. 7.69.20 ..
सदेवासुरगन्धर्वं मुनिभिः साप्सरोगणम् । जगद्धि सर्वमस्वस्थं पितामहमुपस्थितम् ॥ ७.६९.२१ ॥
स देव-असुर-गन्धर्वम् मुनिभिः स अप्सरः-गणम् । जगत् हि सर्वम् अस्वस्थम् पितामहम् उपस्थितम् ॥ ७।६९।२१ ॥
sa deva-asura-gandharvam munibhiḥ sa apsaraḥ-gaṇam . jagat hi sarvam asvastham pitāmaham upasthitam .. 7.69.21 ..
उवाच देवदेवेशं वरदं प्रपितामहम् । देवानां भयसंमोहो लोकानां सङ्क्षयं प्रति ॥ ७.६९.२२ ॥
उवाच देवदेवेशम् वर-दम् प्रपितामहम् । देवानाम् भय-संमोहः लोकानाम् सङ्क्षयम् प्रति ॥ ७।६९।२२ ॥
uvāca devadeveśam vara-dam prapitāmaham . devānām bhaya-saṃmohaḥ lokānām saṅkṣayam prati .. 7.69.22 ..
नेदृशं दृष्टपूर्वं च न श्रुतं प्रपितामह । देवानां भयसम्मोहो लोकानां सङ्क्षयं प्रति ॥ ७.६९.२३ ॥
न ईदृशम् दृष्ट-पूर्वम् च न श्रुतम् प्रपितामह । देवानाम् भय-सम्मोहः लोकानाम् सङ्क्षयम् प्रति ॥ ७।६९।२३ ॥
na īdṛśam dṛṣṭa-pūrvam ca na śrutam prapitāmaha . devānām bhaya-sammohaḥ lokānām saṅkṣayam prati .. 7.69.23 ..
तेषां तद्वचनं श्रुत्वा ब्रह्मा लोकपितामहः । भयकारणमाचष्ट लोकानामभयङ्करः । उवाच मधुरां वाणीं शृणुध्वं सर्वदेवताः ॥ ७.६९.२४ ॥
तेषाम् तत् वचनम् श्रुत्वा ब्रह्मा लोकपितामहः । भय-कारणम् आचष्ट लोकानाम् अभयङ्करः । उवाच मधुराम् वाणीम् शृणुध्वम् सर्व-देवताः ॥ ७।६९।२४ ॥
teṣām tat vacanam śrutvā brahmā lokapitāmahaḥ . bhaya-kāraṇam ācaṣṭa lokānām abhayaṅkaraḥ . uvāca madhurām vāṇīm śṛṇudhvam sarva-devatāḥ .. 7.69.24 ..
वधाय लवणस्याजौ शरः शत्रुघ्नधारितः । तेजसा तस्य सम्मूढाः सर्वे स्मः सुरसत्तमाः ॥ ७.६९.२५ ॥
वधाय लवणस्य आजौ शरः शत्रुघ्न-धारितः । तेजसा तस्य सम्मूढाः सर्वे स्मः सुर-सत्तमाः ॥ ७।६९।२५ ॥
vadhāya lavaṇasya ājau śaraḥ śatrughna-dhāritaḥ . tejasā tasya sammūḍhāḥ sarve smaḥ sura-sattamāḥ .. 7.69.25 ..
एष पूर्वस्य देवस्य लोककर्तुः सनातनः । शरस्तेजोमयो वत्सा येन वै भयमागतम् ॥ ७.६९.२६ ॥
एष पूर्वस्य देवस्य लोककर्तुः सनातनः । शरः तेजः-मयः वत्साः येन वै भयम् आगतम् ॥ ७।६९।२६ ॥
eṣa pūrvasya devasya lokakartuḥ sanātanaḥ . śaraḥ tejaḥ-mayaḥ vatsāḥ yena vai bhayam āgatam .. 7.69.26 ..
एष वै कैटभस्यार्थे मधुनश्च महाशरः । सृष्टो महात्मना तेन वधार्थे दैत्ययोस्तयोः ॥ ७.६९.२७ ॥
एष वै कैटभस्य अर्थे मधुनः च महा-शरः । सृष्टः महात्मना तेन वध-अर्थे दैत्ययोः तयोः ॥ ७।६९।२७ ॥
eṣa vai kaiṭabhasya arthe madhunaḥ ca mahā-śaraḥ . sṛṣṭaḥ mahātmanā tena vadha-arthe daityayoḥ tayoḥ .. 7.69.27 ..
एक एव प्रजानाति विष्णुस्तेजोमयं शरम् । एषा एव तनुः पूर्वा विष्णोस्तस्य महात्मनः ॥ ७.६९.२८ ॥
एकः एव प्रजानाति विष्णुः तेजः-मयम् शरम् । एषा एव तनुः पूर्वा विष्णोः तस्य महात्मनः ॥ ७।६९।२८ ॥
ekaḥ eva prajānāti viṣṇuḥ tejaḥ-mayam śaram . eṣā eva tanuḥ pūrvā viṣṇoḥ tasya mahātmanaḥ .. 7.69.28 ..
इतो गच्छत पश्यध्वं वध्यमानं महात्मना । रामानुजेन वीरेण लवणं राक्षसोत्तमम् ॥ ७.६९.२९ ॥
इतस् गच्छत पश्यध्वम् वध्यमानम् महात्मना । राम-अनुजेन वीरेण लवणम् राक्षस-उत्तमम् ॥ ७।६९।२९ ॥
itas gacchata paśyadhvam vadhyamānam mahātmanā . rāma-anujena vīreṇa lavaṇam rākṣasa-uttamam .. 7.69.29 ..
तस्य ते देवदेवस्य निशम्य वचनं सुराः । आजग्मुर्यत्र युध्येते शत्रुघ्नलवणावुभौ ॥ ७.६९.३० ॥
तस्य ते देवदेवस्य निशम्य वचनम् सुराः । आजग्मुः यत्र युध्येते शत्रुघ्न-लवणौ उभौ ॥ ७।६९।३० ॥
tasya te devadevasya niśamya vacanam surāḥ . ājagmuḥ yatra yudhyete śatrughna-lavaṇau ubhau .. 7.69.30 ..
तं शरं दिव्यसङ्काशं शत्रुघ्नकरधारितम् । ददृशुः सर्वभूतानि युगान्ताग्निमिवोत्थितम् ॥ ७.६९.३१ ॥
तम् शरम् दिव्य-सङ्काशम् शत्रुघ्न-कर-धारितम् । ददृशुः सर्व-भूतानि युगान्त-अग्निम् इव उत्थितम् ॥ ७।६९।३१ ॥
tam śaram divya-saṅkāśam śatrughna-kara-dhāritam . dadṛśuḥ sarva-bhūtāni yugānta-agnim iva utthitam .. 7.69.31 ..
अकाशमावृतं दृष्ट्वा देवैर्हि रघुनन्दनः । सिंहनादं भृशं कृत्वा ददर्श लक्षणं पुनः ॥ ७.६९.३२ ॥
अकाशम् आवृतम् दृष्ट्वा देवैः हि रघुनन्दनः । सिंहनादम् भृशम् कृत्वा ददर्श लक्षणम् पुनर् ॥ ७।६९।३२ ॥
akāśam āvṛtam dṛṣṭvā devaiḥ hi raghunandanaḥ . siṃhanādam bhṛśam kṛtvā dadarśa lakṣaṇam punar .. 7.69.32 ..
आहूतश्च पुनस्तेन शत्रुघ्नेन महात्मना । लवणः क्रोधसंयुक्तो युद्धाय समुपस्थितः ॥ ७.६९.३३ ॥
आहूतः च पुनर् तेन शत्रुघ्नेन महात्मना । लवणः क्रोध-संयुक्तः युद्धाय समुपस्थितः ॥ ७।६९।३३ ॥
āhūtaḥ ca punar tena śatrughnena mahātmanā . lavaṇaḥ krodha-saṃyuktaḥ yuddhāya samupasthitaḥ .. 7.69.33 ..
आकर्णात्स विकृष्याथ तद्धनुर्धन्विनां वरः । तं मुमोच महाबाणं लवणस्य महोरसि ॥ ७.६९.३४ ॥
आकर्णात् स विकृष्य अथ तत् धनुः धन्विनाम् वरः । तम् मुमोच महा-बाणम् लवणस्य महा-उरसि ॥ ७।६९।३४ ॥
ākarṇāt sa vikṛṣya atha tat dhanuḥ dhanvinām varaḥ . tam mumoca mahā-bāṇam lavaṇasya mahā-urasi .. 7.69.34 ..
उरस्तस्य विदार्याशु प्रविवेश रसातलम् ॥ ७.६९.३५ ॥
उरः तस्य विदारी आशु प्रविवेश रसातलम् ॥ ७।६९।३५ ॥
uraḥ tasya vidārī āśu praviveśa rasātalam .. 7.69.35 ..
गत्वा रसातलं दिव्यः शरो विबुधपूजितः । पुनरेवागमत्तूर्णमिक्ष्वाकुकुलनन्दनम् ॥ ७.६९.३६ ॥
गत्वा रसातलम् दिव्यः शरः विबुध-पूजितः । पुनर् एव आगमत् तूर्णम् इक्ष्वाकु-कुल-नन्दनम् ॥ ७।६९।३६ ॥
gatvā rasātalam divyaḥ śaraḥ vibudha-pūjitaḥ . punar eva āgamat tūrṇam ikṣvāku-kula-nandanam .. 7.69.36 ..
शत्रुघ्नशरनिर्भिन्नो लवणः स निशाचरः । पपात सहसा भूमौ वज्राहत इवाचलः ॥ ७.६९.३७ ॥
शत्रुघ्न-शर-निर्भिन्नः लवणः स निशाचरः । पपात सहसा भूमौ वज्र-आहतः इव अचलः ॥ ७।६९।३७ ॥
śatrughna-śara-nirbhinnaḥ lavaṇaḥ sa niśācaraḥ . papāta sahasā bhūmau vajra-āhataḥ iva acalaḥ .. 7.69.37 ..
तच्च शूलं महत्तेन हते लवणराक्षसे । पश्यतां सर्वदेवानां रुद्रस्य वशमन्वगात् ॥ ७.६९.३८ ॥
तत् च शूलम् महत् तेन हते लवण-राक्षसे । पश्यताम् सर्व-देवानाम् रुद्रस्य वशम् अन्वगात् ॥ ७।६९।३८ ॥
tat ca śūlam mahat tena hate lavaṇa-rākṣase . paśyatām sarva-devānām rudrasya vaśam anvagāt .. 7.69.38 ..
एकेषुपातेन भृशं निपात्य लोकत्रयस्यापि रघुप्रवीरः । विनिर्बभावुत्तमचापबाणस्तमः प्रणुद्येव सहस्ररश्मिः ॥ ७.६९.३९ ॥
एक-इषु-पातेन भृशम् निपात्य लोकत्रयस्य अपि रघु-प्रवीरः । विनिर्बभौ उत्तम-चाप-बाणः तमः प्रणुद्य इव सहस्ररश्मिः ॥ ७।६९।३९ ॥
eka-iṣu-pātena bhṛśam nipātya lokatrayasya api raghu-pravīraḥ . vinirbabhau uttama-cāpa-bāṇaḥ tamaḥ praṇudya iva sahasraraśmiḥ .. 7.69.39 ..
ततो हि देवा ऋषिपन्नगाश्च प्रपूजिरे ह्यप्सरसश्च सर्वाः । दिष्ट्या जयो दाशरथेरवाप्तस्त्यक्त्वा भयं सर्प इव प्रशान्तः ॥ ७.६९.४० ॥
ततस् हि देवाः ऋषि-पन्नगाः च प्रपूजिरे हि अप्सरसः च सर्वाः । दिष्ट्या जयः दाशरथेः अवाप्तः त्यक्त्वा भयम् सर्पः इव प्रशान्तः ॥ ७।६९।४० ॥
tatas hi devāḥ ṛṣi-pannagāḥ ca prapūjire hi apsarasaḥ ca sarvāḥ . diṣṭyā jayaḥ dāśaratheḥ avāptaḥ tyaktvā bhayam sarpaḥ iva praśāntaḥ .. 7.69.40 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनसप्ततितमः सर्गः ॥ ६९ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे एकोनसप्ततितमः सर्गः ॥ ६९ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe ekonasaptatitamaḥ sargaḥ .. 69 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In