This overlay will guide you through the buttons:

| |
|
नारदस्य तु तद्वाक्यं श्रुत्वा ऽमृतमयं तदा । प्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत् ॥ ७.७५.१ ॥
नारदस्य तु तत् वाक्यम् श्रुत्वा अमृत-मयम् तदा । प्रहर्षम् अतुलम् लेभे लक्ष्मणम् च इदम् अब्रवीत् ॥ ७।७५।१ ॥
nāradasya tu tat vākyam śrutvā amṛta-mayam tadā . praharṣam atulam lebhe lakṣmaṇam ca idam abravīt .. 7.75.1 ..
गच्छ सौम्य द्विजश्रेष्ठं समाश्वासय सुव्रतम् । बालस्य तु शरीरं तत्तैलद्रोण्यां निधापय ॥ ७.७५.२ ॥
गच्छ सौम्य द्विजश्रेष्ठम् समाश्वासय सुव्रतम् । बालस्य तु शरीरम् तत् तैल-द्रोण्याम् निधापय ॥ ७।७५।२ ॥
gaccha saumya dvijaśreṣṭham samāśvāsaya suvratam . bālasya tu śarīram tat taila-droṇyām nidhāpaya .. 7.75.2 ..
गन्धैश्च परमोदारैस्तैलैश्चापि सुगन्धिभिः । यथा न क्षीयते बालस्तथा सौम्य विधीयताम् ॥ ७.७५.३ ॥
गन्धैः च परम-उदारैः तैलैः च अपि सुगन्धिभिः । यथा न क्षीयते बालः तथा सौम्य विधीयताम् ॥ ७।७५।३ ॥
gandhaiḥ ca parama-udāraiḥ tailaiḥ ca api sugandhibhiḥ . yathā na kṣīyate bālaḥ tathā saumya vidhīyatām .. 7.75.3 ..
यथा शरीरो बालस्य गुप्तः सन् शिष्टकर्मणः । विपत्तिः परिभेदो वा न भवेच्च तथा कुरु ॥ ७.७५.४ ॥
यथा शरीरः बालस्य गुप्तः सन् शिष्टकर्मणः । विपत्तिः परिभेदः वा न भवेत् च तथा कुरु ॥ ७।७५।४ ॥
yathā śarīraḥ bālasya guptaḥ san śiṣṭakarmaṇaḥ . vipattiḥ paribhedaḥ vā na bhavet ca tathā kuru .. 7.75.4 ..
एवमादिश्य काकुत्स्थो लक्ष्मणं शुभलक्षणम् । मनसा पुष्पकं दध्यावागच्छेति महायशाः ॥ ७.७५.५ ॥
एवम् आदिश्य काकुत्स्थः लक्ष्मणम् शुभ-लक्षणम् । मनसा पुष्पकम् दध्यौ आगच्छ इति महा-यशाः ॥ ७।७५।५ ॥
evam ādiśya kākutsthaḥ lakṣmaṇam śubha-lakṣaṇam . manasā puṣpakam dadhyau āgaccha iti mahā-yaśāḥ .. 7.75.5 ..
इङ्गितं स तु विज्ञाय पुष्पको हेमभूषितः । आजगाम मुहूर्तेन समीपे राघवस्य वै ॥ ७.७५.६ ॥
इङ्गितम् स तु विज्ञाय पुष्पकः हेम-भूषितः । आजगाम मुहूर्तेन समीपे राघवस्य वै ॥ ७।७५।६ ॥
iṅgitam sa tu vijñāya puṣpakaḥ hema-bhūṣitaḥ . ājagāma muhūrtena samīpe rāghavasya vai .. 7.75.6 ..
सो ऽब्रवीत्प्रणतो भूत्वा अयमस्मि नराधिप । वश्यस्तव महाबाहो किङ्करः समुपस्थितः ॥ ७.७५.७ ॥
सः अब्रवीत् प्रणतः भूत्वा अयम् अस्मि नराधिप । वश्यः तव महा-बाहो किङ्करः समुपस्थितः ॥ ७।७५।७ ॥
saḥ abravīt praṇataḥ bhūtvā ayam asmi narādhipa . vaśyaḥ tava mahā-bāho kiṅkaraḥ samupasthitaḥ .. 7.75.7 ..
भाषितं रुचिरं श्रुत्वा पुष्पकस्य नराधिपः । अभिवाद्य महर्षींस्तान् विमानं सो ऽध्यरोहत ॥ ७.७५.८ ॥
भाषितम् रुचिरम् श्रुत्वा पुष्पकस्य नराधिपः । अभिवाद्य महा-ऋषीन् तान् विमानम् सः अध्यरोहत ॥ ७।७५।८ ॥
bhāṣitam ruciram śrutvā puṣpakasya narādhipaḥ . abhivādya mahā-ṛṣīn tān vimānam saḥ adhyarohata .. 7.75.8 ..
धनुर्गृहीत्वा तूणी च खड्गं च रुचिरप्रभम् । निक्षिप्य नगरे वीरौ सौमित्रिभरतावुभौ ॥ ७.७५.९ ॥
धनुः गृहीत्वा तूणी च खड्गम् च रुचिर-प्रभम् । निक्षिप्य नगरे वीरौ सौमित्रि-भरतौ उभौ ॥ ७।७५।९ ॥
dhanuḥ gṛhītvā tūṇī ca khaḍgam ca rucira-prabham . nikṣipya nagare vīrau saumitri-bharatau ubhau .. 7.75.9 ..
प्रायात्प्रतीचीं हरितं विचिन्वंश्च ततस्ततः । उत्तरामगमच्छ्रीमान्दिशं हिमवता वृताम् ॥ ७.७५.१० ॥
प्रायात् प्रतीचीम् हरितम् विचिन्वन् च ततस् ततस् । उत्तराम् अगमत् श्रीमान् दिशम् हिमवता वृताम् ॥ ७।७५।१० ॥
prāyāt pratīcīm haritam vicinvan ca tatas tatas . uttarām agamat śrīmān diśam himavatā vṛtām .. 7.75.10 ..
अपश्यमानस्तत्रापि स्वल्पमप्यथ दुष्कृतम् । पूर्वामपि दिशं सर्वामथो ऽपश्यन्नराधिपः ॥ ७.७५.११ ॥
अपश्यमानः तत्र अपि सु अल्पम् अपि अथ दुष्कृतम् । पूर्वाम् अपि दिशम् सर्वाम् अथो अपश्यत् नराधिपः ॥ ७।७५।११ ॥
apaśyamānaḥ tatra api su alpam api atha duṣkṛtam . pūrvām api diśam sarvām atho apaśyat narādhipaḥ .. 7.75.11 ..
प्रविशुद्धसमाचारामादर्शतलनिर्मलाम् । पुष्पकस्थो महाबाहुस्तदापश्यन्नराधिपः ॥ ७.७५.१२ ॥
प्रविशुद्ध-समाचाराम् आदर्श-तल-निर्मलाम् । पुष्पक-स्थः महा-बाहुः तदा अपश्यत् नराधिपः ॥ ७।७५।१२ ॥
praviśuddha-samācārām ādarśa-tala-nirmalām . puṣpaka-sthaḥ mahā-bāhuḥ tadā apaśyat narādhipaḥ .. 7.75.12 ..
दक्षिणां दिशमाक्रामत्ततो राजर्षिनन्दनः । शैवलस्योत्तरे पार्श्वे ददर्श सुमहत्सरः ॥ ७.७५.१३ ॥
दक्षिणाम् दिशम् आक्रामत् ततस् राजर्षि-नन्दनः । शैवलस्य उत्तरे पार्श्वे ददर्श सु महत् सरः ॥ ७।७५।१३ ॥
dakṣiṇām diśam ākrāmat tatas rājarṣi-nandanaḥ . śaivalasya uttare pārśve dadarśa su mahat saraḥ .. 7.75.13 ..
तस्मिन्सरसि तप्यन्तं तापसं सुमहत्तपः । ददर्श राघवः श्रीमाँल्लम्बमानमधोमुखम् ॥ ७.७५.१४ ॥
तस्मिन् सरसि तप्यन्तम् तापसम् सु महत् तपः । ददर्श राघवः श्रीमान् लम्बमानम् अधोमुखम् ॥ ७।७५।१४ ॥
tasmin sarasi tapyantam tāpasam su mahat tapaḥ . dadarśa rāghavaḥ śrīmān lambamānam adhomukham .. 7.75.14 ..
राघवस्तमुपागम्य तप्यन्तं तप उत्तमम् । उवाच स तदा वाक्यं धन्यस्त्वमसि सुव्रत ॥ ७.७५.१५ ॥
राघवः तम् उपागम्य तप्यन्तम् तपः उत्तमम् । उवाच स तदा वाक्यम् धन्यः त्वम् असि सुव्रत ॥ ७।७५।१५ ॥
rāghavaḥ tam upāgamya tapyantam tapaḥ uttamam . uvāca sa tadā vākyam dhanyaḥ tvam asi suvrata .. 7.75.15 ..
कस्यां योन्यां तपोवृद्ध वर्तसे दृढविक्रम । कौतूहलात्त्वां पृच्छामि रामो दाशरथिर्ह्यहम् ॥ ७.७५.१६ ॥
कस्याम् योन्याम् तपः-वृद्ध वर्तसे दृढ-विक्रम । कौतूहलात् त्वाम् पृच्छामि रामः दाशरथिः हि अहम् ॥ ७।७५।१६ ॥
kasyām yonyām tapaḥ-vṛddha vartase dṛḍha-vikrama . kautūhalāt tvām pṛcchāmi rāmaḥ dāśarathiḥ hi aham .. 7.75.16 ..
को ऽर्थो मनीषितस्तुभ्यं स्वर्गलाभः परो ऽथवा । वराश्रयो यदर्थं त्वं तपस्यसि सुदुष्करम् । यमाश्रित्य तपस्तप्तं श्रोतुमिच्छामि तापस ॥ ७.७५.१७ ॥
कः अर्थः मनीषितः तुभ्यम् स्वर्ग-लाभः परः अथवा । वर-आश्रयः यद्-अर्थम् त्वम् तपस्यसि सु दुष्करम् । यम् आश्रित्य तपः तप्तम् श्रोतुम् इच्छामि तापस ॥ ७।७५।१७ ॥
kaḥ arthaḥ manīṣitaḥ tubhyam svarga-lābhaḥ paraḥ athavā . vara-āśrayaḥ yad-artham tvam tapasyasi su duṣkaram . yam āśritya tapaḥ taptam śrotum icchāmi tāpasa .. 7.75.17 ..
ब्राह्मणो वा ऽसि भद्रं ते क्षत्रियो वा ऽसि दुर्जयः । वैश्यस्तृतीयवर्णो वा शूद्रो वा सत्यवाग्भव ॥ ७.७५.१८ ॥
ब्राह्मणः वा असि भद्रम् ते क्षत्रियः वा असि दुर्जयः । वैश्यः तृतीय-वर्णः वा शूद्रः वा सत्य-वाच् भव ॥ ७।७५।१८ ॥
brāhmaṇaḥ vā asi bhadram te kṣatriyaḥ vā asi durjayaḥ . vaiśyaḥ tṛtīya-varṇaḥ vā śūdraḥ vā satya-vāc bhava .. 7.75.18 ..
इत्येवमुक्तः स नराधिपेन ह्यवाक्छिरा दाशरथाय तस्मै । उवाच जातिं नृपपुङ्गवाय यत्कारणे चैव तपःप्रयत्नः ॥ ७.७५.१९ ॥
इति एवम् उक्तः स नराधिपेन हि अवाक् शिराः दाशरथाय तस्मै । उवाच जातिम् नृप-पुङ्गवाय यद्-कारणे च एव तपः-प्रयत्नः ॥ ७।७५।१९ ॥
iti evam uktaḥ sa narādhipena hi avāk śirāḥ dāśarathāya tasmai . uvāca jātim nṛpa-puṅgavāya yad-kāraṇe ca eva tapaḥ-prayatnaḥ .. 7.75.19 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चसप्ततितमः सर्गः ॥ ७५ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे पञ्चसप्ततितमः सर्गः ॥ ७५ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe pañcasaptatitamaḥ sargaḥ .. 75 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In