This overlay will guide you through the buttons:

| |
|
तदा वृत्रवधं सर्वमखिलेन स लक्ष्मणः । कथयित्वा नरश्रेष्ठः कथाशेषं प्रचक्रमे ॥ ७.८६.१ ॥
तदा वृत्र-वधम् सर्वम् अखिलेन स लक्ष्मणः । कथयित्वा नर-श्रेष्ठः कथा-शेषम् प्रचक्रमे ॥ ७।८६।१ ॥
tadā vṛtra-vadham sarvam akhilena sa lakṣmaṇaḥ . kathayitvā nara-śreṣṭhaḥ kathā-śeṣam pracakrame .. 7.86.1 ..
ततो हते महावीर्ये वृत्रे देवभयङ्करे । ब्रह्महत्यावृतः शक्रः सञ्ज्ञां लेभे न वृत्रहा ॥ ७.८६.२ ॥
ततस् हते महा-वीर्ये वृत्रे देव-भयङ्करे । ब्रह्महत्या-वृतः शक्रः सञ्ज्ञाम् लेभे न वृत्रहा ॥ ७।८६।२ ॥
tatas hate mahā-vīrye vṛtre deva-bhayaṅkare . brahmahatyā-vṛtaḥ śakraḥ sañjñām lebhe na vṛtrahā .. 7.86.2 ..
सो ऽन्तमाश्रित्य लोकानां नष्टसञ्ज्ञो विचेतनः । कालं तत्रावसत्कञ्चिद्वेष्टमान इवोरगः ॥ ७.८६.३ ॥
सः अन्तम् आश्रित्य लोकानाम् नष्ट-सञ्ज्ञः विचेतनः । कालम् तत्र अवसत् कञ्चिद् वेष्टमानः इव उरगः ॥ ७।८६।३ ॥
saḥ antam āśritya lokānām naṣṭa-sañjñaḥ vicetanaḥ . kālam tatra avasat kañcid veṣṭamānaḥ iva uragaḥ .. 7.86.3 ..
अथ नष्टे सहस्राक्षे उद्विग्नमभवज्जगत् । भूमिश्च ध्वस्तसङ्काशा निःस्नेहा शुष्ककानना ॥ ७.८६.४ ॥
अथ नष्टे सहस्राक्षे उद्विग्नम् अभवत् जगत् । भूमिः च ध्वस्त-सङ्काशा निःस्नेहा शुष्क-कानना ॥ ७।८६।४ ॥
atha naṣṭe sahasrākṣe udvignam abhavat jagat . bhūmiḥ ca dhvasta-saṅkāśā niḥsnehā śuṣka-kānanā .. 7.86.4 ..
निःस्रोतसश्च ते सर्वे तु ह्रदाश्च सरितस्तथा । सङ्क्षोभश्चैव सत्त्वानामनावृष्टिकृतो ऽभवत् ॥ ७.८६.५ ॥
निःस्रोतसः च ते सर्वे तु ह्रदाः च सरितः तथा । सङ्क्षोभः च एव सत्त्वानाम् अनावृष्टि-कृतः अभवत् ॥ ७।८६।५ ॥
niḥsrotasaḥ ca te sarve tu hradāḥ ca saritaḥ tathā . saṅkṣobhaḥ ca eva sattvānām anāvṛṣṭi-kṛtaḥ abhavat .. 7.86.5 ..
क्षीयमाणे तु लोके ऽस्मिन्सम्भ्रान्तमनसः सुराः । यदुक्तं विष्णुना पूर्वं तं यज्ञं समुपानयन् ॥ ७.८६.६ ॥
क्षीयमाणे तु लोके अस्मिन् सम्भ्रान्त-मनसः सुराः । यत् उक्तम् विष्णुना पूर्वम् तम् यज्ञम् समुपानयन् ॥ ७।८६।६ ॥
kṣīyamāṇe tu loke asmin sambhrānta-manasaḥ surāḥ . yat uktam viṣṇunā pūrvam tam yajñam samupānayan .. 7.86.6 ..
ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः । तं देशं समुपाजग्मुर्यत्रेन्द्रो भयमोहितः ॥ ७.८६.७ ॥
ततस् सर्वे सुर-गणाः स उपाध्यायाः सह ऋषिभिः । तम् देशम् समुपाजग्मुः यत्र इन्द्रः भय-मोहितः ॥ ७।८६।७ ॥
tatas sarve sura-gaṇāḥ sa upādhyāyāḥ saha ṛṣibhiḥ . tam deśam samupājagmuḥ yatra indraḥ bhaya-mohitaḥ .. 7.86.7 ..
ते तु दृष्ट्वा सहस्राक्षमावृतं ब्रह्महत्यया । तं पुरस्कृत्य देवेशमश्वमेधमुपाक्रमन् ॥ ७.८६.८ ॥
ते तु दृष्ट्वा सहस्राक्षम् आवृतम् ब्रह्महत्यया । तम् पुरस्कृत्य देवेशम् अश्वमेधम् उपाक्रमन् ॥ ७।८६।८ ॥
te tu dṛṣṭvā sahasrākṣam āvṛtam brahmahatyayā . tam puraskṛtya deveśam aśvamedham upākraman .. 7.86.8 ..
ततो ऽश्वमेधः सुमहान्महेन्द्रस्य महात्मनः । ववृधे ब्रह्महत्ययाः पावनार्थं नरेश्वर ॥ ७.८६.९ ॥
ततस् अश्वमेधः सु महान् महेन्द्रस्य महात्मनः । ववृधे ब्रह्महत्ययाः पावन-अर्थम् नरेश्वर ॥ ७।८६।९ ॥
tatas aśvamedhaḥ su mahān mahendrasya mahātmanaḥ . vavṛdhe brahmahatyayāḥ pāvana-artham nareśvara .. 7.86.9 ..
ततो यज्ञे समाप्ते तु ब्रह्महत्या महात्मनः । अभिगम्याब्रवीद्वाक्यं क्व मे स्थानं विधास्यथ ॥ ७.८६.१० ॥
ततस् यज्ञे समाप्ते तु ब्रह्महत्या महात्मनः । अभिगम्य अब्रवीत् वाक्यम् क्व मे स्थानम् विधास्यथ ॥ ७।८६।१० ॥
tatas yajñe samāpte tu brahmahatyā mahātmanaḥ . abhigamya abravīt vākyam kva me sthānam vidhāsyatha .. 7.86.10 ..
ते तामूचुस्तदा देवास्तुष्टाः प्रीतिसमन्विताः । चतुर्धा विभजात्मानमात्मनैव दुरासदे ॥ ७.८६.११ ॥
ते ताम् ऊचुः तदा देवाः तुष्टाः प्रीति-समन्विताः । चतुर्धा विभज आत्मानम् आत्मना एव दुरासदे ॥ ७।८६।११ ॥
te tām ūcuḥ tadā devāḥ tuṣṭāḥ prīti-samanvitāḥ . caturdhā vibhaja ātmānam ātmanā eva durāsade .. 7.86.11 ..
देवानां भाषितं श्रुत्वा ब्रह्महत्या महात्मनाम् । सन्निधौ स्थानमन्यत्र वरयामास दुर्वसा ॥ ७.८६.१२ ॥
देवानाम् भाषितम् श्रुत्वा ब्रह्महत्या महात्मनाम् । सन्निधौ स्थानम् अन्यत्र वरयामास दुर्वसा ॥ ७।८६।१२ ॥
devānām bhāṣitam śrutvā brahmahatyā mahātmanām . sannidhau sthānam anyatra varayāmāsa durvasā .. 7.86.12 ..
एकेनांशेन वत्स्यामि पूर्णोदासु नदीषु वै । चतुरो वार्षिकान्मासान्दर्पघ्नी कामवारिणी ॥ ७.८६.१३ ॥
एकेन अंशेन वत्स्यामि पूर्ण-उदासु नदीषु वै । चतुरः वार्षिकान् मासान् दर्प-घ्नी काम-वारिणी ॥ ७।८६।१३ ॥
ekena aṃśena vatsyāmi pūrṇa-udāsu nadīṣu vai . caturaḥ vārṣikān māsān darpa-ghnī kāma-vāriṇī .. 7.86.13 ..
भूम्यामहं सर्वकालमेकेनांशेन सर्वदा । वसिष्यामि न सन्देहः सत्येनैतद्ब्रवीमि वः ॥ ७.८६.१४ ॥
भूम्याम् अहम् सर्वकालम् एकेन अंशेन सर्वदा । वसिष्यामि न सन्देहः सत्येन एतत् ब्रवीमि वः ॥ ७।८६।१४ ॥
bhūmyām aham sarvakālam ekena aṃśena sarvadā . vasiṣyāmi na sandehaḥ satyena etat bravīmi vaḥ .. 7.86.14 ..
यो ऽयमंशस्तृतीयो मे स्त्रीषु यौवनशालिषु । त्रिरात्रं दर्पपूर्णासु वशिष्ये दर्पघातिनी ॥ ७.८६.१५ ॥
यः अयम् अंशः तृतीयः मे स्त्रीषु यौवन-शालिषु । त्रि-रात्रम् दर्प-पूर्णासु वशिष्ये दर्प-घातिनी ॥ ७।८६।१५ ॥
yaḥ ayam aṃśaḥ tṛtīyaḥ me strīṣu yauvana-śāliṣu . tri-rātram darpa-pūrṇāsu vaśiṣye darpa-ghātinī .. 7.86.15 ..
हन्तारो ब्राह्मणान्ये तु मृषापूर्वमदूषकान् । तांश्चतुर्थेन भागेन संश्रयिष्ये सुरर्षभाः ॥ ७.८६.१६ ॥
हन्तारः ब्राह्मणान् ये तु मृषापूर्वम् अदूषकान् । तान् चतुर्थेन भागेन संश्रयिष्ये सुर-ऋषभाः ॥ ७।८६।१६ ॥
hantāraḥ brāhmaṇān ye tu mṛṣāpūrvam adūṣakān . tān caturthena bhāgena saṃśrayiṣye sura-ṛṣabhāḥ .. 7.86.16 ..
प्रत्यूचुस्तां ततो देवा यथा वदसि दुर्वसे । तथा भवतु तत्सर्वं साधयस्व यदीप्सितम् ॥ ७.८६.१७ ॥
प्रत्यूचुः ताम् ततस् देवाः यथा वदसि दुर्वसे । तथा भवतु तत् सर्वम् साधयस्व यत् ईप्सितम् ॥ ७।८६।१७ ॥
pratyūcuḥ tām tatas devāḥ yathā vadasi durvase . tathā bhavatu tat sarvam sādhayasva yat īpsitam .. 7.86.17 ..
ततः प्रीत्या ऽन्विता देवाः सहस्राक्षं ववन्दिरे । विज्वरः स च पूतात्मा वासवः समपद्यत ॥ ७.८६.१८ ॥
ततस् प्रीत्या अन्विताः देवाः सहस्राक्षम् ववन्दिरे । विज्वरः स च पूत-आत्मा वासवः समपद्यत ॥ ७।८६।१८ ॥
tatas prītyā anvitāḥ devāḥ sahasrākṣam vavandire . vijvaraḥ sa ca pūta-ātmā vāsavaḥ samapadyata .. 7.86.18 ..
प्रशान्तं च जगत्सर्वं सहस्राक्षे प्रतिष्ठिते । यज्ञं चाद्भुतसङ्काशं तदा शक्रो ऽभ्यपूजयत् ॥ ७.८६.१९ ॥
प्रशान्तम् च जगत् सर्वम् सहस्राक्षे प्रतिष्ठिते । यज्ञम् च अद्भुत-सङ्काशम् तदा शक्रः अभ्यपूजयत् ॥ ७।८६।१९ ॥
praśāntam ca jagat sarvam sahasrākṣe pratiṣṭhite . yajñam ca adbhuta-saṅkāśam tadā śakraḥ abhyapūjayat .. 7.86.19 ..
ईदृशो ह्यश्वमेधस्य प्रसादो रघुनन्दन । यजस्व सुमहाभाग हयमेधेन पार्थिव ॥ ७.८६.२० ॥
ईदृशः हि अश्वमेधस्य प्रसादः रघुनन्दन । यजस्व सु महाभाग हयमेधेन पार्थिव ॥ ७।८६।२० ॥
īdṛśaḥ hi aśvamedhasya prasādaḥ raghunandana . yajasva su mahābhāga hayamedhena pārthiva .. 7.86.20 ..
इति लक्ष्मणवाक्यमुत्तमं नृपतिरतीव मनोहरं महात्मा । परितोषमवाप हृष्टचेता निशमय्येन्द्रसमानविक्रमौजाः ॥ ७.८६.२१ ॥
इति लक्ष्मण-वाक्यम् उत्तमम् नृपतिः अतीव मनोहरम् महात्मा । परितोषम् अवाप हृष्ट-चेताः निशमय्य इन्द्र-समान-विक्रम-ओजाः ॥ ७।८६।२१ ॥
iti lakṣmaṇa-vākyam uttamam nṛpatiḥ atīva manoharam mahātmā . paritoṣam avāpa hṛṣṭa-cetāḥ niśamayya indra-samāna-vikrama-ojāḥ .. 7.86.21 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षडशीतितमः सर्गः ॥ ८६ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे षडशीतितमः सर्गः ॥ ८६ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe ṣaḍaśītitamaḥ sargaḥ .. 86 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In