This overlay will guide you through the buttons:

| |
|
तस्मिन् प्रतिहतेऽस्त्रे तु रावणो राक्षसाधिपः। क्रोधं च द्विगुणं चक्रे क्रोधाच्चास्त्रमनन्तरम्॥ १॥
तस्मिन् प्रतिहते अस्त्रे तु रावणः राक्षस-अधिपः। क्रोधम् च द्विगुणम् चक्रे क्रोधात् च अस्त्रम् अनन्तरम्॥ १॥
tasmin pratihate astre tu rāvaṇaḥ rākṣasa-adhipaḥ. krodham ca dviguṇam cakre krodhāt ca astram anantaram.. 1..
मयेन विहितं रौद्रमन्यदस्त्रं महाद्युतिः। उत्स्रष्टुं रावणो भीमं राघवाय प्रचक्रमे॥ २॥
मयेन विहितम् रौद्रम् अन्यत् अस्त्रम् महा-द्युतिः। उत्स्रष्टुम् रावणः भीमम् राघवाय प्रचक्रमे॥ २॥
mayena vihitam raudram anyat astram mahā-dyutiḥ. utsraṣṭum rāvaṇaḥ bhīmam rāghavāya pracakrame.. 2..
ततः शूलानि निश्चेरुर्गदाश्च मुसलानि च। कार्मुकाद् दीप्यमानानि वज्रसाराणि सर्वशः॥ ३॥
ततस् शूलानि निश्चेरुः गदाः च मुसलानि च। कार्मुकात् दीप्यमानानि वज्र-साराणि सर्वशस्॥ ३॥
tatas śūlāni niśceruḥ gadāḥ ca musalāni ca. kārmukāt dīpyamānāni vajra-sārāṇi sarvaśas.. 3..
मुद्गराः कूटपाशाश्च दीप्ताश्चाशनयस्तथा। निष्पेतुर्विविधास्तीक्ष्णा वाता इव युगक्षये॥ ४॥
मुद्गराः कूटपाशाः च दीप्ताः च अशनयः तथा। निष्पेतुः विविधाः तीक्ष्णाः वाताः इव युग-क्षये॥ ४॥
mudgarāḥ kūṭapāśāḥ ca dīptāḥ ca aśanayaḥ tathā. niṣpetuḥ vividhāḥ tīkṣṇāḥ vātāḥ iva yuga-kṣaye.. 4..
तदस्त्रं राघवः श्रीमानुत्तमास्त्रविदां वरः। जघान परमास्त्रेण गान्धर्वेण महाद्युतिः॥ ५॥
तत् अस्त्रम् राघवः श्रीमान् उत्तम-अस्त्र-विदाम् वरः। जघान परम-अस्त्रेण गान्धर्वेण महा-द्युतिः॥ ५॥
tat astram rāghavaḥ śrīmān uttama-astra-vidām varaḥ. jaghāna parama-astreṇa gāndharveṇa mahā-dyutiḥ.. 5..
तस्मिन् प्रतिहतेऽस्त्रे तु राघवेण महात्मना। रावणः क्रोधताम्राक्षः सौरमस्त्रमुदीरयत्॥ ६॥
तस्मिन् प्रतिहते अस्त्रे तु राघवेण महात्मना। रावणः क्रोध-ताम्र-अक्षः सौरम् अस्त्रम् उदीरयत्॥ ६॥
tasmin pratihate astre tu rāghaveṇa mahātmanā. rāvaṇaḥ krodha-tāmra-akṣaḥ sauram astram udīrayat.. 6..
ततश्चक्राणि निष्पेतुर्भास्वराणि महान्ति च। कार्मुकाद् भीमवेगस्य दशग्रीवस्य धीमतः॥ ७॥
ततस् चक्राणि निष्पेतुः भास्वराणि महान्ति च। कार्मुकात् भीम-वेगस्य दशग्रीवस्य धीमतः॥ ७॥
tatas cakrāṇi niṣpetuḥ bhāsvarāṇi mahānti ca. kārmukāt bhīma-vegasya daśagrīvasya dhīmataḥ.. 7..
तैरासीद् गगनं दीप्तं सम्पतद्भिः समन्ततः। पतद्भिश्च दिशो दीप्ताश्चन्द्रसूर्यग्रहैरिव॥ ८॥
तैः आसीत् गगनम् दीप्तम् सम्पतद्भिः समन्ततः। पतद्भिः च दिशः दीप्ताः चन्द्र-सूर्य-ग्रहैः इव॥ ८॥
taiḥ āsīt gaganam dīptam sampatadbhiḥ samantataḥ. patadbhiḥ ca diśaḥ dīptāḥ candra-sūrya-grahaiḥ iva.. 8..
तानि चिच्छेद बाणौघैश्चक्राणि तु स राघवः। आयुधानि च चित्राणि रावणस्य चमूमुखे॥ ९॥
तानि चिच्छेद बाण-ओघैः चक्राणि तु स राघवः। आयुधानि च चित्राणि रावणस्य चमू-मुखे॥ ९॥
tāni ciccheda bāṇa-oghaiḥ cakrāṇi tu sa rāghavaḥ. āyudhāni ca citrāṇi rāvaṇasya camū-mukhe.. 9..
तदस्त्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपः। विव्याध दशभिर्बाणै रामं सर्वेषु मर्मसु॥ १०॥
तत् अस्त्रम् तु हतम् दृष्ट्वा रावणः राक्षस-अधिपः। विव्याध दशभिः बाणैः रामम् सर्वेषु मर्मसु॥ १०॥
tat astram tu hatam dṛṣṭvā rāvaṇaḥ rākṣasa-adhipaḥ. vivyādha daśabhiḥ bāṇaiḥ rāmam sarveṣu marmasu.. 10..
स विद्धो दशभिर्बाणैर्महाकार्मुकनिःसृतैः। रावणेन महातेजा न प्राकम्पत राघवः॥ ११॥
स विद्धः दशभिः बाणैः महा-कार्मुक-निःसृतैः। रावणेन महा-तेजाः न प्राकम्पत राघवः॥ ११॥
sa viddhaḥ daśabhiḥ bāṇaiḥ mahā-kārmuka-niḥsṛtaiḥ. rāvaṇena mahā-tejāḥ na prākampata rāghavaḥ.. 11..
ततो विव्याध गात्रेषु सर्वेषु समितिंजयः। राघवस्तु सुसंक्रुद्धो रावणं बहुभिः शरैः॥ १२॥
ततस् विव्याध गात्रेषु सर्वेषु समितिंजयः। राघवः तु सु संक्रुद्धः रावणम् बहुभिः शरैः॥ १२॥
tatas vivyādha gātreṣu sarveṣu samitiṃjayaḥ. rāghavaḥ tu su saṃkruddhaḥ rāvaṇam bahubhiḥ śaraiḥ.. 12..
एतस्मिन्नन्तरे क्रुद्धो राघवस्यानुजो बली। लक्ष्मणः सायकान् सप्त जग्राह परवीरहा॥ १३॥
एतस्मिन् अन्तरे क्रुद्धः राघवस्य अनुजः बली। लक्ष्मणः सायकान् सप्त जग्राह पर-वीर-हा॥ १३॥
etasmin antare kruddhaḥ rāghavasya anujaḥ balī. lakṣmaṇaḥ sāyakān sapta jagrāha para-vīra-hā.. 13..
तैः सायकैर्महावेगै रावणस्य महाद्युतिः। ध्वजं मनुष्यशीर्षं तु तस्य चिच्छेद नैकधा॥ १४॥
तैः सायकैः महा-वेगैः रावणस्य महा-द्युतिः। ध्वजम् मनुष्य-शीर्षम् तु तस्य चिच्छेद ना एकधा॥ १४॥
taiḥ sāyakaiḥ mahā-vegaiḥ rāvaṇasya mahā-dyutiḥ. dhvajam manuṣya-śīrṣam tu tasya ciccheda nā ekadhā.. 14..
सारथेश्चापि बाणेन शिरो ज्वलितकुण्डलम्। जहार लक्ष्मणः श्रीमान् नैर्ऋतस्य महाबलः॥ १५॥
सारथेः च अपि बाणेन शिरः ज्वलित-कुण्डलम्। जहार लक्ष्मणः श्रीमान् नैरृतस्य महा-बलः॥ १५॥
sāratheḥ ca api bāṇena śiraḥ jvalita-kuṇḍalam. jahāra lakṣmaṇaḥ śrīmān nairṛtasya mahā-balaḥ.. 15..
तस्य बाणैश्च चिच्छेद धनुर्गजकरोपमम्। लक्ष्मणो राक्षसेन्द्रस्य पञ्चभिर्निशितैस्तदा॥ १६॥
तस्य बाणैः च चिच्छेद धनुः गज-कर-उपमम्। लक्ष्मणः राक्षस-इन्द्रस्य पञ्चभिः निशितैः तदा॥ १६॥
tasya bāṇaiḥ ca ciccheda dhanuḥ gaja-kara-upamam. lakṣmaṇaḥ rākṣasa-indrasya pañcabhiḥ niśitaiḥ tadā.. 16..
नीलमेघनिभांश्चास्य सदश्वान् पर्वतोपमान्। जघानाप्लुत्य गदया रावणस्य विभीषणः॥ १७॥
नील-मेघ-निभान् च अस्य सत्-अश्वान् पर्वत-उपमान्। जघान आप्लुत्य गदया रावणस्य विभीषणः॥ १७॥
nīla-megha-nibhān ca asya sat-aśvān parvata-upamān. jaghāna āplutya gadayā rāvaṇasya vibhīṣaṇaḥ.. 17..
हताश्वात् तु तदा वेगादवप्लुत्य महारथात्। कोपमाहारयत् तीव्रं भ्रातरं प्रति रावणः॥ १८॥
हत-अश्वात् तु तदा वेगात् अवप्लुत्य महा-रथात्। कोपम् आहारयत् तीव्रम् भ्रातरम् प्रति रावणः॥ १८॥
hata-aśvāt tu tadā vegāt avaplutya mahā-rathāt. kopam āhārayat tīvram bhrātaram prati rāvaṇaḥ.. 18..
ततः शक्तिं महाशक्तिः प्रदीप्तामशनीमिव। विभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान्॥ १९॥
ततस् शक्तिम् महा-शक्तिः प्रदीप्ताम् अशनीम् इव। विभीषणाय चिक्षेप राक्षस-इन्द्रः प्रतापवान्॥ १९॥
tatas śaktim mahā-śaktiḥ pradīptām aśanīm iva. vibhīṣaṇāya cikṣepa rākṣasa-indraḥ pratāpavān.. 19..
अप्राप्तामेव तां बाणैस्त्रिभिश्चिच्छेद लक्ष्मणः। अथोदतिष्ठत् संनादो वानराणां महारणे॥ २०॥
अप्राप्ताम् एव ताम् बाणैः त्रिभिः चिच्छेद लक्ष्मणः। अथ उदतिष्ठत् संनादः वानराणाम् महा-रणे॥ २०॥
aprāptām eva tām bāṇaiḥ tribhiḥ ciccheda lakṣmaṇaḥ. atha udatiṣṭhat saṃnādaḥ vānarāṇām mahā-raṇe.. 20..
सम्पपात त्रिधा छिन्ना शक्तिः काञ्चनमालिनी। सविस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता॥ २१॥
सम्पपात त्रिधा छिन्ना शक्तिः काञ्चन-मालिनी। स विस्फुलिङ्गा ज्वलिता महा-उल्का इव दिवः च्युता॥ २१॥
sampapāta tridhā chinnā śaktiḥ kāñcana-mālinī. sa visphuliṅgā jvalitā mahā-ulkā iva divaḥ cyutā.. 21..
ततः सम्भाविततरां कालेनापि दुरासदाम्। जग्राह विपुलां शक्तिं दीप्यमानां स्वतेजसा॥ २२॥
ततस् सम्भाविततराम् कालेन अपि दुरासदाम्। जग्राह विपुलाम् शक्तिम् दीप्यमानाम् स्व-तेजसा॥ २२॥
tatas sambhāvitatarām kālena api durāsadām. jagrāha vipulām śaktim dīpyamānām sva-tejasā.. 22..
सा वेगिता बलवता रावणेन दुरात्मना। जज्वाल सुमहातेजा दीप्ताशनिसमप्रभा॥ २३॥
सा वेगिता बलवता रावणेन दुरात्मना। जज्वाल सु महा-तेजाः दीप्त-अशनि-सम-प्रभा॥ २३॥
sā vegitā balavatā rāvaṇena durātmanā. jajvāla su mahā-tejāḥ dīpta-aśani-sama-prabhā.. 23..
एतस्मिन्नन्तरे वीरो लक्ष्मणस्तं विभीषणम्। प्राणसंशयमापन्नं तूर्णमभ्यवपद्यत॥ २४॥
एतस्मिन् अन्तरे वीरः लक्ष्मणः तम् विभीषणम्। प्राण-संशयम् आपन्नम् तूर्णम् अभ्यवपद्यत॥ २४॥
etasmin antare vīraḥ lakṣmaṇaḥ tam vibhīṣaṇam. prāṇa-saṃśayam āpannam tūrṇam abhyavapadyata.. 24..
तं विमोक्षयितुं वीरश्चापमायम्य लक्ष्मणः। रावणं शक्तिहस्तं वै शरवर्षैरवाकिरत्॥ २५॥
तम् विमोक्षयितुम् वीरः चापम् आयम्य लक्ष्मणः। रावणम् शक्ति-हस्तम् वै शर-वर्षैः अवाकिरत्॥ २५॥
tam vimokṣayitum vīraḥ cāpam āyamya lakṣmaṇaḥ. rāvaṇam śakti-hastam vai śara-varṣaiḥ avākirat.. 25..
कीर्यमाणः शरौघेण विसृष्टेन महात्मना। न प्रहर्तुं मनश्चक्रे विमुखीकृतविक्रमः॥ २६॥
कीर्यमाणः शर-ओघेण विसृष्टेन महात्मना। न प्रहर्तुम् मनः चक्रे विमुखीकृत-विक्रमः॥ २६॥
kīryamāṇaḥ śara-ogheṇa visṛṣṭena mahātmanā. na prahartum manaḥ cakre vimukhīkṛta-vikramaḥ.. 26..
मोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावणः। लक्ष्मणाभिमुखस्तिष्ठन्निदं वचनमब्रवीत्॥ २७॥
मोक्षितम् भ्रातरम् दृष्ट्वा लक्ष्मणेन स रावणः। लक्ष्मण-अभिमुखः तिष्ठन् इदम् वचनम् अब्रवीत्॥ २७॥
mokṣitam bhrātaram dṛṣṭvā lakṣmaṇena sa rāvaṇaḥ. lakṣmaṇa-abhimukhaḥ tiṣṭhan idam vacanam abravīt.. 27..
मोक्षितस्ते बलश्लाघिन् यस्मादेवं विभीषणः। विमुच्य राक्षसं शक्तिस्त्वयीयं विनिपात्यते॥ २८॥
मोक्षितः ते बल-श्लाघिन् यस्मात् एवम् विभीषणः। विमुच्य राक्षसम् शक्तिः त्वयि इयम् विनिपात्यते॥ २८॥
mokṣitaḥ te bala-ślāghin yasmāt evam vibhīṣaṇaḥ. vimucya rākṣasam śaktiḥ tvayi iyam vinipātyate.. 28..
एषा ते हृदयं भित्त्वा शक्तिर्लोहितलक्षणा। मद्बाहुपरिघोत्सृष्टा प्राणानादाय यास्यति॥ २९॥
एषा ते हृदयम् भित्त्वा शक्तिः लोहित-लक्षणा। मद्-बाहु-परिघ-उत्सृष्टा प्राणान् आदाय यास्यति॥ २९॥
eṣā te hṛdayam bhittvā śaktiḥ lohita-lakṣaṇā. mad-bāhu-parigha-utsṛṣṭā prāṇān ādāya yāsyati.. 29..
इत्येवमुक्त्वा तां शक्तिमष्टघण्टां महास्वनाम्। मयेन मायाविहिताममोघां शत्रुघातिनीम्॥ ३०॥
इति एवम् उक्त्वा ताम् शक्तिम् अष्ट-घण्टाम् महा-स्वनाम्। मयेन माया-विहिताम् अमोघाम् शत्रु-घातिनीम्॥ ३०॥
iti evam uktvā tām śaktim aṣṭa-ghaṇṭām mahā-svanām. mayena māyā-vihitām amoghām śatru-ghātinīm.. 30..
लक्ष्मणाय समुद्दिश्य ज्वलन्तीमिव तेजसा। रावणः परमक्रुद्धश्चिक्षेप च ननाद च॥ ३१॥
लक्ष्मणाय समुद्दिश्य ज्वलन्तीम् इव तेजसा। रावणः परम-क्रुद्धः चिक्षेप च ननाद च॥ ३१॥
lakṣmaṇāya samuddiśya jvalantīm iva tejasā. rāvaṇaḥ parama-kruddhaḥ cikṣepa ca nanāda ca.. 31..
सा क्षिप्ता भीमवेगेन वज्राशनिसमस्वना। शक्तिरभ्यपतद् वेगाल्लक्ष्मणं रणमूर्धनि॥ ३२॥
सा क्षिप्ता भीम-वेगेन वज्र-अशनि-सम-स्वना। शक्तिः अभ्यपतत् वेगात् लक्ष्मणम् रण-मूर्धनि॥ ३२॥
sā kṣiptā bhīma-vegena vajra-aśani-sama-svanā. śaktiḥ abhyapatat vegāt lakṣmaṇam raṇa-mūrdhani.. 32..
तामनुव्याहरच्छक्तिमापतन्तीं स राघवः। स्वस्त्यस्तु लक्ष्मणायेति मोघा भव हतोद्यमा॥ ३३॥
ताम् अनुव्याहरत् शक्तिम् आपतन्तीम् स राघवः। स्वस्ति अस्तु लक्ष्मणाय इति मोघा भव हत-उद्यमा॥ ३३॥
tām anuvyāharat śaktim āpatantīm sa rāghavaḥ. svasti astu lakṣmaṇāya iti moghā bhava hata-udyamā.. 33..
रावणेन रणे शक्तिः क्रुद्धेनाशीविषोपमा। मुक्ताऽऽशूरस्य भीतस्य लक्ष्मणस्य ममज्ज सा॥ ३४॥
रावणेन रणे शक्तिः क्रुद्धेन आशीविष-उपमा। मुक्ता आशूरस्य भीतस्य लक्ष्मणस्य ममज्ज सा॥ ३४॥
rāvaṇena raṇe śaktiḥ kruddhena āśīviṣa-upamā. muktā āśūrasya bhītasya lakṣmaṇasya mamajja sā.. 34..
न्यपतत् सा महावेगा लक्ष्मणस्य महोरसि। जिह्वेवोरगराजस्य दीप्यमाना महाद्युतिः॥ ३५॥
न्यपतत् सा महा-वेगा लक्ष्मणस्य महा-उरसि। जिह्वा इव उरग-राजस्य दीप्यमाना महा-द्युतिः॥ ३५॥
nyapatat sā mahā-vegā lakṣmaṇasya mahā-urasi. jihvā iva uraga-rājasya dīpyamānā mahā-dyutiḥ.. 35..
ततो रावणवेगेन सुदूरमवगाढया। शक्त्या विभिन्नहृदयः पपात भुवि लक्ष्मणः॥ ३६॥
ततस् रावण-वेगेन सु दूरम् अवगाढया। शक्त्या विभिन्न-हृदयः पपात भुवि लक्ष्मणः॥ ३६॥
tatas rāvaṇa-vegena su dūram avagāḍhayā. śaktyā vibhinna-hṛdayaḥ papāta bhuvi lakṣmaṇaḥ.. 36..
तदवस्थं समीपस्थो लक्ष्मणं प्रेक्ष्य राघवः। भ्रातृस्नेहान्महातेजा विषण्णहृदयोऽभवत्॥ ३७॥
तद्-अवस्थम् समीप-स्थः लक्ष्मणम् प्रेक्ष्य राघवः। भ्रातृ-स्नेहात् महा-तेजाः विषण्ण-हृदयः अभवत्॥ ३७॥
tad-avastham samīpa-sthaḥ lakṣmaṇam prekṣya rāghavaḥ. bhrātṛ-snehāt mahā-tejāḥ viṣaṇṇa-hṛdayaḥ abhavat.. 37..
स मुहूर्तमिव ध्यात्वा बाष्पपर्याकुलेक्षणः। बभूव संरब्धतरो युगान्त इव पावकः॥ ३८॥
स मुहूर्तम् इव ध्यात्वा बाष्प-पर्याकुल-ईक्षणः। बभूव संरब्धतरः युगान्ते इव पावकः॥ ३८॥
sa muhūrtam iva dhyātvā bāṣpa-paryākula-īkṣaṇaḥ. babhūva saṃrabdhataraḥ yugānte iva pāvakaḥ.. 38..
न विषादस्य कालोऽयमिति संचिन्त्य राघवः। चक्रे सुतुमलं युद्धं रावणस्य वधे धृतः। सर्वयत्नेन महता लक्ष्मणं परिवीक्ष्य च॥ ३९॥
न विषादस्य कालः अयम् इति संचिन्त्य राघवः। चक्रे सु तुमलम् युद्धम् रावणस्य वधे धृतः। सर्व-यत्नेन महता लक्ष्मणम् परिवीक्ष्य च॥ ३९॥
na viṣādasya kālaḥ ayam iti saṃcintya rāghavaḥ. cakre su tumalam yuddham rāvaṇasya vadhe dhṛtaḥ. sarva-yatnena mahatā lakṣmaṇam parivīkṣya ca.. 39..
स ददर्श ततो रामः शक्त्या भिन्नं महाहवे। लक्ष्मणं रुधिरादिग्धं सपन्नगमिवाचलम्॥ ४०॥
स ददर्श ततस् रामः शक्त्या भिन्नम् महा-आहवे। लक्ष्मणम् रुधिर-आदिग्धम् स पन्नगम् इव अचलम्॥ ४०॥
sa dadarśa tatas rāmaḥ śaktyā bhinnam mahā-āhave. lakṣmaṇam rudhira-ādigdham sa pannagam iva acalam.. 40..
तामपि प्रहितां शक्तिं रावणेन बलीयसा। यत्नतस्ते हरिश्रेष्ठा न शेकुरवमर्दितुम्॥ ४१॥
ताम् अपि प्रहिताम् शक्तिम् रावणेन बलीयसा। यत्नतः ते हरि-श्रेष्ठाः न शेकुः अवमर्दितुम्॥ ४१॥
tām api prahitām śaktim rāvaṇena balīyasā. yatnataḥ te hari-śreṣṭhāḥ na śekuḥ avamarditum.. 41..
अर्दिताश्चैव बाणौघैस्ते प्रवेकेण रक्षसाम्। सौमित्रेः सा विनिर्भिद्य प्रविष्टा धरणीतलम्॥ ४२॥
अर्दिताः च एव बाण-ओघैः ते प्रवेकेण रक्षसाम्। सौमित्रेः सा विनिर्भिद्य प्रविष्टा धरणी-तलम्॥ ४२॥
arditāḥ ca eva bāṇa-oghaiḥ te pravekeṇa rakṣasām. saumitreḥ sā vinirbhidya praviṣṭā dharaṇī-talam.. 42..
तां कराभ्यां परामृश्य रामः शक्तिं भयावहाम्। बभञ्ज समरे क्रुद्धो बलवान् विचकर्ष च॥ ४३॥
ताम् कराभ्याम् परामृश्य रामः शक्तिम् भय-आवहाम्। बभञ्ज समरे क्रुद्धः बलवान् विचकर्ष च॥ ४३॥
tām karābhyām parāmṛśya rāmaḥ śaktim bhaya-āvahām. babhañja samare kruddhaḥ balavān vicakarṣa ca.. 43..
तस्य निष्कर्षतः शक्तिं रावणेन बलीयसा। शराः सर्वेषु गात्रेषु पातिता मर्मभेदिनः॥ ४४॥
तस्य निष्कर्षतः शक्तिम् रावणेन बलीयसा। शराः सर्वेषु गात्रेषु पातिताः मर्म-भेदिनः॥ ४४॥
tasya niṣkarṣataḥ śaktim rāvaṇena balīyasā. śarāḥ sarveṣu gātreṣu pātitāḥ marma-bhedinaḥ.. 44..
अचिन्तयित्वा तान् बाणान् समाश्लिष्य च लक्ष्मणम्। अब्रवीच्च हनूमन्तं सुग्रीवं च महाकपिम्॥ ४५॥
अ चिन्तयित्वा तान् बाणान् समाश्लिष्य च लक्ष्मणम्। अब्रवीत् च हनूमन्तम् सुग्रीवम् च महा-कपिम्॥ ४५॥
a cintayitvā tān bāṇān samāśliṣya ca lakṣmaṇam. abravīt ca hanūmantam sugrīvam ca mahā-kapim.. 45..
लक्ष्मणं परिवार्यैवं तिष्ठध्वं वानरोत्तमाः। पराक्रमस्य कालोऽयं सम्प्राप्तो मे चिरेप्सितः॥ ४६॥
लक्ष्मणम् परिवार्य एवम् तिष्ठध्वम् वानर-उत्तमाः। पराक्रमस्य कालः अयम् सम्प्राप्तः मे चिर-ईप्सितः॥ ४६॥
lakṣmaṇam parivārya evam tiṣṭhadhvam vānara-uttamāḥ. parākramasya kālaḥ ayam samprāptaḥ me cira-īpsitaḥ.. 46..
पापात्मायं दशग्रीवो वध्यतां पापनिश्चयः। कांक्षितं चातकस्येव घर्मान्ते मेघदर्शनम्॥ ४७॥
पाप-आत्मा अयम् दशग्रीवः वध्यताम् पाप-निश्चयः। कांक्षितम् चातकस्य इव घर्म-अन्ते मेघ-दर्शनम्॥ ४७॥
pāpa-ātmā ayam daśagrīvaḥ vadhyatām pāpa-niścayaḥ. kāṃkṣitam cātakasya iva gharma-ante megha-darśanam.. 47..
अस्मिन् मुहूर्ते नचिरात् सत्यं प्रतिशृणोमि वः। अरावणमरामं वा जगद् द्रक्ष्यथ वानराः॥ ४८॥
अस्मिन् मुहूर्ते नचिरात् सत्यम् प्रतिशृणोमि वः। अरावणम् अरामम् वा जगत् द्रक्ष्यथ वानराः॥ ४८॥
asmin muhūrte nacirāt satyam pratiśṛṇomi vaḥ. arāvaṇam arāmam vā jagat drakṣyatha vānarāḥ.. 48..
राज्यनाशं वने वासं दण्डके परिधावनम्। वैदेह्याश्च परामर्शो रक्षोभिश्च समागमम्॥ ४९॥
राज्य-नाशम् वने वासम् दण्डके परिधावनम्। वैदेह्याः च परामर्शः रक्षोभिः च समागमम्॥ ४९॥
rājya-nāśam vane vāsam daṇḍake paridhāvanam. vaidehyāḥ ca parāmarśaḥ rakṣobhiḥ ca samāgamam.. 49..
प्राप्तं दुःखं महाघोरं क्लेशश्च निरयोपमः। अद्य सर्वमहं त्यक्ष्ये निहत्वा रावणं रणे॥ ५०॥
प्राप्तम् दुःखम् महा-घोरम् क्लेशः च निरय-उपमः। अद्य सर्वम् अहम् त्यक्ष्ये निहत्वा रावणम् रणे॥ ५०॥
prāptam duḥkham mahā-ghoram kleśaḥ ca niraya-upamaḥ. adya sarvam aham tyakṣye nihatvā rāvaṇam raṇe.. 50..
सुग्रीवश्च कृतो राज्ये निहत्वा वालिनं रणे। यदर्थं सागरः क्रान्तः सेतुर्बद्धश्च सागरे॥ ५१॥
सुग्रीवः च कृतः राज्ये निहत्वा वालिनम् रणे। यद्-अर्थम् सागरः क्रान्तः सेतुः बद्धः च सागरे॥ ५१॥
sugrīvaḥ ca kṛtaḥ rājye nihatvā vālinam raṇe. yad-artham sāgaraḥ krāntaḥ setuḥ baddhaḥ ca sāgare.. 51..
सोऽयमद्य रणे पापश्चक्षुर्विषयमागतः। चक्षुर्विषयमागत्य नायं जीवितुमर्हति॥ ५२॥
सः अयम् अद्य रणे पापः चक्षुः-विषयम् आगतः। चक्षुः-विषयम् आगत्य न अयम् जीवितुम् अर्हति॥ ५२॥
saḥ ayam adya raṇe pāpaḥ cakṣuḥ-viṣayam āgataḥ. cakṣuḥ-viṣayam āgatya na ayam jīvitum arhati.. 52..
दृष्टिं दृष्टिविषस्येव सर्पस्य मम रावणः। यथा वा वैनतेयस्य दृष्टिं प्राप्तो भुजंगमः॥ ५३॥
दृष्टिम् दृष्टिविषस्य इव सर्पस्य मम रावणः। यथा वा वैनतेयस्य दृष्टिम् प्राप्तः भुजंगमः॥ ५३॥
dṛṣṭim dṛṣṭiviṣasya iva sarpasya mama rāvaṇaḥ. yathā vā vainateyasya dṛṣṭim prāptaḥ bhujaṃgamaḥ.. 53..
सुखं पश्यत दुर्धर्षा युद्धं वानरपुङ्गवाः। आसीनाः पर्वताग्रेषु ममेदं रावणस्य च॥ ५४॥
सुखम् पश्यत दुर्धर्षाः युद्धम् वानर-पुङ्गवाः। आसीनाः पर्वत-अग्रेषु मम इदम् रावणस्य च॥ ५४॥
sukham paśyata durdharṣāḥ yuddham vānara-puṅgavāḥ. āsīnāḥ parvata-agreṣu mama idam rāvaṇasya ca.. 54..
अद्य पश्यन्तु रामस्य रामत्वं मम संयुगे। त्रयो लोकाः सगन्धर्वाः सदेवाः सर्षिचारणाः॥ ५५॥
अद्य पश्यन्तु रामस्य राम-त्वम् मम संयुगे। त्रयः लोकाः स गन्धर्वाः स देवाः स ऋषि-चारणाः॥ ५५॥
adya paśyantu rāmasya rāma-tvam mama saṃyuge. trayaḥ lokāḥ sa gandharvāḥ sa devāḥ sa ṛṣi-cāraṇāḥ.. 55..
अद्य कर्म करिष्यामि यल्लोकाः सचराचराः। सदेवाः कथयिष्यन्ति यावद् भूमिर्धरिष्यति। समागम्य सदा लोके यथा युद्धं प्रवर्तितम्॥ ५६॥
अद्य कर्म करिष्यामि यत् लोकाः स चराचराः। स देवाः कथयिष्यन्ति यावत् भूमिः धरिष्यति। समागम्य सदा लोके यथा युद्धम् प्रवर्तितम्॥ ५६॥
adya karma kariṣyāmi yat lokāḥ sa carācarāḥ. sa devāḥ kathayiṣyanti yāvat bhūmiḥ dhariṣyati. samāgamya sadā loke yathā yuddham pravartitam.. 56..
एवमुक्त्वा शितैर्बाणैस्तप्तकाञ्चनभूषणैः। आजघान रणे रामो दशग्रीवं समाहितः॥ ५७॥
एवम् उक्त्वा शितैः बाणैः तप्त-काञ्चन-भूषणैः। आजघान रणे रामः दशग्रीवम् समाहितः॥ ५७॥
evam uktvā śitaiḥ bāṇaiḥ tapta-kāñcana-bhūṣaṇaiḥ. ājaghāna raṇe rāmaḥ daśagrīvam samāhitaḥ.. 57..
तथा प्रदीप्तैर्नाराचैर्मुसलैश्चापि रावणः। अभ्यवर्षत् तदा रामं धाराभिरिव तोयदः॥ ५८॥
तथा प्रदीप्तैः नाराचैः मुसलैः च अपि रावणः। अभ्यवर्षत् तदा रामम् धाराभिः इव तोयदः॥ ५८॥
tathā pradīptaiḥ nārācaiḥ musalaiḥ ca api rāvaṇaḥ. abhyavarṣat tadā rāmam dhārābhiḥ iva toyadaḥ.. 58..
रामरावणमुक्तानामन्योन्यमभिनिघ्नताम्। वराणां च शराणां च बभूव तुमुलः स्वनः॥ ५९॥
राम-रावण-मुक्तानाम् अन्योन्यम् अभिनिघ्नताम्। वराणाम् च शराणाम् च बभूव तुमुलः स्वनः॥ ५९॥
rāma-rāvaṇa-muktānām anyonyam abhinighnatām. varāṇām ca śarāṇām ca babhūva tumulaḥ svanaḥ.. 59..
विच्छिन्नाश्च विकीर्णाश्च रामरावणयोः शराः। अन्तरिक्षात् प्रदीप्ताग्रा निपेतुर्धरणीतले॥ ६०॥
विच्छिन्नाः च विकीर्णाः च राम-रावणयोः शराः। अन्तरिक्षात् प्रदीप्त-अग्राः निपेतुः धरणी-तले॥ ६०॥
vicchinnāḥ ca vikīrṇāḥ ca rāma-rāvaṇayoḥ śarāḥ. antarikṣāt pradīpta-agrāḥ nipetuḥ dharaṇī-tale.. 60..
तयोर्ज्यातलनिर्घोषो रामरावणयोर्महान्। त्रासनः सर्वभूतानां सम्बभूवाद्भुतोपमः॥ ६१॥
तयोः ज्या-तल-निर्घोषः राम-रावणयोः महान्। त्रासनः सर्व-भूतानाम् सम्बभूव अद्भुत-उपमः॥ ६१॥
tayoḥ jyā-tala-nirghoṣaḥ rāma-rāvaṇayoḥ mahān. trāsanaḥ sarva-bhūtānām sambabhūva adbhuta-upamaḥ.. 61..
स कीर्यमाणः शरजालवृष्टिभि-र्महात्मना दीप्तधनुष्मतार्दितः। भयात् प्रदुद्राव समेत्य रावणोयथानिलेनाभिहतो बलाहकः॥ ६२॥
स कीर्यमाणः शर-जाल-वृष्टिभिः महात्मना दीप्त-धनुष्मता अर्दितः। भयात् प्रदुद्राव समेत्य रावणः यथा अनिलेन अभिहतः बलाहकः॥ ६२॥
sa kīryamāṇaḥ śara-jāla-vṛṣṭibhiḥ mahātmanā dīpta-dhanuṣmatā arditaḥ. bhayāt pradudrāva sametya rāvaṇaḥ yathā anilena abhihataḥ balāhakaḥ.. 62..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In