This overlay will guide you through the buttons:

| |
|
ते रावणवधं दृष्ट्वा देवगन्धर्वदानवाः। जग्मुः स्वैः स्वैर्विमानैस्ते कथयन्तः शुभाः कथाः॥ १॥
ते रावण-वधम् दृष्ट्वा देव-गन्धर्व-दानवाः। जग्मुः स्वैः स्वैः विमानैः ते कथयन्तः शुभाः कथाः॥ १॥
te rāvaṇa-vadham dṛṣṭvā deva-gandharva-dānavāḥ. jagmuḥ svaiḥ svaiḥ vimānaiḥ te kathayantaḥ śubhāḥ kathāḥ.. 1..
रावणस्य वधं घोरं राघवस्य पराक्रमम्। सुयुद्धं वानराणां च सुग्रीवस्य च मन्त्रितम्॥ २॥
रावणस्य वधम् घोरम् राघवस्य पराक्रमम्। सु युद्धम् वानराणाम् च सुग्रीवस्य च मन्त्रितम्॥ २॥
rāvaṇasya vadham ghoram rāghavasya parākramam. su yuddham vānarāṇām ca sugrīvasya ca mantritam.. 2..
अनुरागं च वीर्यं च मारुतेर्लक्ष्मणस्य च। पतिव्रतात्वं सीताया हनूमति पराक्रमम्॥ ३॥
अनुरागम् च वीर्यम् च मारुतेः लक्ष्मणस्य च। पतिव्रता-त्वम् सीतायाः हनूमति पराक्रमम्॥ ३॥
anurāgam ca vīryam ca māruteḥ lakṣmaṇasya ca. pativratā-tvam sītāyāḥ hanūmati parākramam.. 3..
कथयन्तो महाभागा जग्मुर्हृष्टा यथागतम्। राघवस्तु रथं दिव्यमिन्द्रदत्तं शिखिप्रभम्॥ ४॥
कथयन्तः महाभागाः जग्मुः हृष्टाः यथागतम्। राघवः तु रथम् दिव्यम् इन्द्र-दत्तम् शिखि-प्रभम्॥ ४॥
kathayantaḥ mahābhāgāḥ jagmuḥ hṛṣṭāḥ yathāgatam. rāghavaḥ tu ratham divyam indra-dattam śikhi-prabham.. 4..
अनुज्ञाप्य महाबाहुर्मातलिं प्रत्यपूजयत्। राघवेणाभ्यनुज्ञातो मातलिः शक्रसारथिः॥ ५॥
अनुज्ञाप्य महा-बाहुः मातलिम् प्रत्यपूजयत्। राघवेण अभ्यनुज्ञातः मातलिः शक्र-सारथिः॥ ५॥
anujñāpya mahā-bāhuḥ mātalim pratyapūjayat. rāghaveṇa abhyanujñātaḥ mātaliḥ śakra-sārathiḥ.. 5..
दिव्यं तं रथमास्थाय दिवमेवोत्पपात ह। तस्मिंस्तु दिवमारूढे सरथे रथिनां वरः॥ ६॥
दिव्यम् तम् रथम् आस्थाय दिवम् एव उत्पपात ह। तस्मिन् तु दिवम् आरूढे स रथे रथिनाम् वरः॥ ६॥
divyam tam ratham āsthāya divam eva utpapāta ha. tasmin tu divam ārūḍhe sa rathe rathinām varaḥ.. 6..
राघवः परमप्रीतः सुग्रीवं परिषस्वजे। परिष्वज्य च सुग्रीवं लक्ष्मणेनाभिवादितः॥ ७॥
राघवः परम-प्रीतः सुग्रीवम् परिषस्वजे। परिष्वज्य च सुग्रीवम् लक्ष्मणेन अभिवादितः॥ ७॥
rāghavaḥ parama-prītaḥ sugrīvam pariṣasvaje. pariṣvajya ca sugrīvam lakṣmaṇena abhivāditaḥ.. 7..
पूज्यमानो हरिगणैराजगाम बलालयम्। अथोवाच स काकुत्स्थः समीपपरिवर्तिनम्॥ ८॥
पूज्यमानः हरि-गणैः आजगाम बल-आलयम्। अथा उवाच स काकुत्स्थः समीप-परिवर्तिनम्॥ ८॥
pūjyamānaḥ hari-gaṇaiḥ ājagāma bala-ālayam. athā uvāca sa kākutsthaḥ samīpa-parivartinam.. 8..
सौमित्रिं सत्त्वसम्पन्नं लक्ष्मणं दीप्ततेजसम्। विभीषणमिमं सौम्य लङ्कायामभिषेचय॥ ९॥
सौमित्रिम् सत्त्व-सम्पन्नम् लक्ष्मणम् दीप्त-तेजसम्। विभीषणम् इमम् सौम्य लङ्कायाम् अभिषेचय॥ ९॥
saumitrim sattva-sampannam lakṣmaṇam dīpta-tejasam. vibhīṣaṇam imam saumya laṅkāyām abhiṣecaya.. 9..
अनुरक्तं च भक्तं च तथा पूर्वोपकारिणम्। एष मे परमः कामो यदिमं रावणानुजम्॥ १०॥
अनुरक्तम् च भक्तम् च तथा पूर्व-उपकारिणम्। एष मे परमः कामः यत् इमम् रावण-अनुजम्॥ १०॥
anuraktam ca bhaktam ca tathā pūrva-upakāriṇam. eṣa me paramaḥ kāmaḥ yat imam rāvaṇa-anujam.. 10..
लङ्कायां सौम्य पश्येयमभिषिक्तं विभीषणम्। एवमुक्तस्तु सौमित्री राघवेण महात्मना॥ ११॥
लङ्कायाम् सौम्य पश्येयम् अभिषिक्तम् विभीषणम्। एवम् उक्तः तु सौमित्रिः राघवेण महात्मना॥ ११॥
laṅkāyām saumya paśyeyam abhiṣiktam vibhīṣaṇam. evam uktaḥ tu saumitriḥ rāghaveṇa mahātmanā.. 11..
तथेत्युक्त्वा सुसंहृष्टः सौवर्णं घटमाददे। तं घटं वानरेन्द्राणां हस्ते दत्त्वा मनोजवान्॥ १२॥
तथा इति उक्त्वा सु संहृष्टः सौवर्णम् घटम् आददे। तम् घटम् वानर-इन्द्राणाम् हस्ते दत्त्वा मनोजवान्॥ १२॥
tathā iti uktvā su saṃhṛṣṭaḥ sauvarṇam ghaṭam ādade. tam ghaṭam vānara-indrāṇām haste dattvā manojavān.. 12..
व्यादिदेश महासत्त्वान् समुद्रसलिलं तदा। अतिशीघ्रं ततो गत्वा वानरास्ते मनोजवाः॥ १३॥
व्यादिदेश महा-सत्त्वान् समुद्र-सलिलम् तदा। अति शीघ्रम् ततस् गत्वा वानराः ते मनोजवाः॥ १३॥
vyādideśa mahā-sattvān samudra-salilam tadā. ati śīghram tatas gatvā vānarāḥ te manojavāḥ.. 13..
आगतास्तु जलं गृह्य समुद्राद् वानरोत्तमाः। ततस्त्वेकं घटं गृह्य संस्थाप्य परमासने॥ १४॥
आगताः तु जलम् गृह्य समुद्रात् वानर-उत्तमाः। ततस् तु एकम् घटम् गृह्य संस्थाप्य परम-आसने॥ १४॥
āgatāḥ tu jalam gṛhya samudrāt vānara-uttamāḥ. tatas tu ekam ghaṭam gṛhya saṃsthāpya parama-āsane.. 14..
घटेन तेन सौमित्रिरभ्यषिञ्चद् विभीषणम्। लङ्कायां रक्षसां मध्ये राजानं रामशासनात्॥ १५॥
घटेन तेन सौमित्रिः अभ्यषिञ्चत् विभीषणम्। लङ्कायाम् रक्षसाम् मध्ये राजानम् राम-शासनात्॥ १५॥
ghaṭena tena saumitriḥ abhyaṣiñcat vibhīṣaṇam. laṅkāyām rakṣasām madhye rājānam rāma-śāsanāt.. 15..
विधिना मन्त्रदृष्टेन सुहृद्गणसमावृतम्। अभ्यषिञ्चस्तदा सर्वे राक्षसा वानरास्तथा॥ १६॥
विधिना मन्त्र-दृष्टेन सुहृद्-गण-समावृतम्। अभ्यषिञ्चः तदा सर्वे राक्षसाः वानराः तथा॥ १६॥
vidhinā mantra-dṛṣṭena suhṛd-gaṇa-samāvṛtam. abhyaṣiñcaḥ tadā sarve rākṣasāḥ vānarāḥ tathā.. 16..
प्रहर्षमतुलं गत्वा तुष्टुवू राममेव हि। तस्यामात्या जहृषिरे भक्ता ये चास्य राक्षसाः॥ १७॥
प्रहर्षम् अतुलम् गत्वा तुष्टुवुः रामम् एव हि। तस्य अमात्याः जहृषिरे भक्ताः ये च अस्य राक्षसाः॥ १७॥
praharṣam atulam gatvā tuṣṭuvuḥ rāmam eva hi. tasya amātyāḥ jahṛṣire bhaktāḥ ye ca asya rākṣasāḥ.. 17..
दृष्ट्वाभिषिक्तं लङ्कायां राक्षसेन्द्रं विभीषणम्। राघवः परमां प्रीतिं जगाम सहलक्ष्मणः॥ १८॥
दृष्ट्वा अभिषिक्तम् लङ्कायाम् राक्षस-इन्द्रम् विभीषणम्। राघवः परमाम् प्रीतिम् जगाम सहलक्ष्मणः॥ १८॥
dṛṣṭvā abhiṣiktam laṅkāyām rākṣasa-indram vibhīṣaṇam. rāghavaḥ paramām prītim jagāma sahalakṣmaṇaḥ.. 18..
स तद् राज्यं महत् प्राप्य रामदत्तं विभीषणः। सान्त्वयित्वा प्रकृतयस्ततो राममुपागमत्॥ १९॥
स तत् राज्यम् महत् प्राप्य राम-दत्तम् विभीषणः। सान्त्वयित्वा प्रकृतयः ततस् रामम् उपागमत्॥ १९॥
sa tat rājyam mahat prāpya rāma-dattam vibhīṣaṇaḥ. sāntvayitvā prakṛtayaḥ tatas rāmam upāgamat.. 19..
दध्यक्षतान् मोदकांश्च लाजाः सुमनसस्तथा। आजह्रुरथ संहृष्टाः पौरास्तस्मै निशाचराः॥ २०॥
दधि-अक्षतान् मोदकान् च लाजाः सुमनसः तथा। आजह्रुः अथ संहृष्टाः पौराः तस्मै निशाचराः॥ २०॥
dadhi-akṣatān modakān ca lājāḥ sumanasaḥ tathā. ājahruḥ atha saṃhṛṣṭāḥ paurāḥ tasmai niśācarāḥ.. 20..
स तान् गृहीत्वा दुर्धर्षो राघवाय न्यवेदयत्। मङ्गल्यं मङ्गलं सर्वं लक्ष्मणाय च वीर्यवान्॥ २१॥
स तान् गृहीत्वा दुर्धर्षः राघवाय न्यवेदयत्। मङ्गल्यम् मङ्गलम् सर्वम् लक्ष्मणाय च वीर्यवान्॥ २१॥
sa tān gṛhītvā durdharṣaḥ rāghavāya nyavedayat. maṅgalyam maṅgalam sarvam lakṣmaṇāya ca vīryavān.. 21..
कृतकार्यं समृद्धार्थं दृष्ट्वा रामो विभीषणम्। प्रतिजग्राह तत् सर्वं तस्यैव प्रतिकाम्यया॥ २२॥
कृत-कार्यम् समृद्ध-अर्थम् दृष्ट्वा रामः विभीषणम्। प्रतिजग्राह तत् सर्वम् तस्य एव प्रतिकाम्यया॥ २२॥
kṛta-kāryam samṛddha-artham dṛṣṭvā rāmaḥ vibhīṣaṇam. pratijagrāha tat sarvam tasya eva pratikāmyayā.. 22..
ततः शैलोपमं वीरं प्राञ्जलिं प्रणतं स्थितम्। उवाचेदं वचो रामो हनूमन्तं प्लवङ्गमम्॥ २३॥
ततस् शैल-उपमम् वीरम् प्राञ्जलिम् प्रणतम् स्थितम्। उवाच इदम् वचः रामः हनूमन्तम् प्लवङ्गमम्॥ २३॥
tatas śaila-upamam vīram prāñjalim praṇatam sthitam. uvāca idam vacaḥ rāmaḥ hanūmantam plavaṅgamam.. 23..
अनुज्ञाप्य महाराजमिमं सौम्य विभीषणम्। प्रविश्य नगरीं लङ्कां कौशलं ब्रूहि मैथिलीम्॥ २४॥
अनुज्ञाप्य महा-राजम् इमम् सौम्य विभीषणम्। प्रविश्य नगरीम् लङ्काम् कौशलम् ब्रूहि मैथिलीम्॥ २४॥
anujñāpya mahā-rājam imam saumya vibhīṣaṇam. praviśya nagarīm laṅkām kauśalam brūhi maithilīm.. 24..
वैदेह्यै मां च कुशलं सुग्रीवं च सलक्ष्मणम्। आचक्ष्व वदतां श्रेष्ठ रावणं च हतं रणे॥ २५॥
वैदेह्यै माम् च कुशलम् सुग्रीवम् च स लक्ष्मणम्। आचक्ष्व वदताम् श्रेष्ठ रावणम् च हतम् रणे॥ २५॥
vaidehyai mām ca kuśalam sugrīvam ca sa lakṣmaṇam. ācakṣva vadatām śreṣṭha rāvaṇam ca hatam raṇe.. 25..
प्रियमेतदिहाख्याहि वैदेह्यास्त्वं हरीश्वर। प्रतिगृह्य तु संदेशमुपावर्तितुमर्हसि॥ २६॥
प्रियम् एतत् इह आख्याहि वैदेह्याः त्वम् हरि-ईश्वर। प्रतिगृह्य तु संदेशम् उपावर्तितुम् अर्हसि॥ २६॥
priyam etat iha ākhyāhi vaidehyāḥ tvam hari-īśvara. pratigṛhya tu saṃdeśam upāvartitum arhasi.. 26..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In