This overlay will guide you through the buttons:

| |
|
इति प्रतिसमादिष्टो हनूमान् मारुतात्मजः। प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः॥ १॥
इति प्रतिसमादिष्टः हनूमान् मारुतात्मजः। प्रविवेश पुरीम् लङ्काम् पूज्यमानः निशाचरैः॥ १॥
iti pratisamādiṣṭaḥ hanūmān mārutātmajaḥ. praviveśa purīm laṅkām pūjyamānaḥ niśācaraiḥ.. 1..
प्रविश्य च पुरीं लङ्कामनुज्ञाप्य विभीषणम्। ततस्तेनाभ्यनुज्ञातो हनूमान् वृक्षवाटिकाम्॥ २॥
प्रविश्य च पुरीम् लङ्काम् अनुज्ञाप्य विभीषणम्। ततस् तेन अभ्यनुज्ञातः हनूमान् वृक्ष-वाटिकाम्॥ २॥
praviśya ca purīm laṅkām anujñāpya vibhīṣaṇam. tatas tena abhyanujñātaḥ hanūmān vṛkṣa-vāṭikām.. 2..
सम्प्रविश्य यथान्यायं सीताया विदितो हरिः। ददर्श मृजया हीनां सातङ्कां रोहिणीमिव॥ ३॥
सम्प्रविश्य यथान्यायम् सीतायाः विदितः हरिः। ददर्श मृजया हीनाम् स आतङ्काम् रोहिणीम् इव॥ ३॥
sampraviśya yathānyāyam sītāyāḥ viditaḥ hariḥ. dadarśa mṛjayā hīnām sa ātaṅkām rohiṇīm iva.. 3..
वृक्षमूले निरानन्दां राक्षसीभिः परीवृताम्। निभृतः प्रणतः प्रह्वः सोऽभिगम्याभिवाद्य च॥ ४॥
वृक्ष-मूले निरानन्दाम् राक्षसीभिः परीवृताम्। निभृतः प्रणतः प्रह्वः सः अभिगम्य अभिवाद्य च॥ ४॥
vṛkṣa-mūle nirānandām rākṣasībhiḥ parīvṛtām. nibhṛtaḥ praṇataḥ prahvaḥ saḥ abhigamya abhivādya ca.. 4..
दृष्ट्वा तमागतं देवी हनूमन्तं महाबलम्। तूष्णीमास्त तदा दृष्ट्वा स्मृत्वा हृष्टाभवत् तदा॥ ५॥
दृष्ट्वा तम् आगतम् देवी हनूमन्तम् महा-बलम्। तूष्णीम् आस्त तदा दृष्ट्वा स्मृत्वा हृष्टा अभवत् तदा॥ ५॥
dṛṣṭvā tam āgatam devī hanūmantam mahā-balam. tūṣṇīm āsta tadā dṛṣṭvā smṛtvā hṛṣṭā abhavat tadā.. 5..
सौम्यं तस्या मुखं दृष्ट्वा हनूमान् प्लवगोत्तमः। रामस्य वचनं सर्वमाख्यातुमुपचक्रमे॥ ६॥
सौम्यम् तस्याः मुखम् दृष्ट्वा हनूमान् प्लवग-उत्तमः। रामस्य वचनम् सर्वम् आख्यातुम् उपचक्रमे॥ ६॥
saumyam tasyāḥ mukham dṛṣṭvā hanūmān plavaga-uttamaḥ. rāmasya vacanam sarvam ākhyātum upacakrame.. 6..
वैदेहि कुशली रामः सहसुग्रीवलक्ष्मणः। कुशलं चाह सिद्धार्थो हतशत्रुरमित्रजित्॥ ७॥
वैदेहि कुशली रामः सह सुग्रीव-लक्ष्मणः। कुशलम् च आह सिद्धार्थः हत-शत्रुः अमित्र-जित्॥ ७॥
vaidehi kuśalī rāmaḥ saha sugrīva-lakṣmaṇaḥ. kuśalam ca āha siddhārthaḥ hata-śatruḥ amitra-jit.. 7..
विभीषणसहायेन रामेण हरिभिः सह। निहतो रावणो देवि लक्ष्मणेन च वीर्यवान्॥ ८॥
विभीषण-सहायेन रामेण हरिभिः सह। निहतः रावणः देवि लक्ष्मणेन च वीर्यवान्॥ ८॥
vibhīṣaṇa-sahāyena rāmeṇa haribhiḥ saha. nihataḥ rāvaṇaḥ devi lakṣmaṇena ca vīryavān.. 8..
प्रियमाख्यामि ते देवि भूयश्च त्वां सभाजये। तव प्रभावाद् धर्मज्ञे महान् रामेण संयुगे॥ ९॥
प्रियम् आख्यामि ते देवि भूयस् च त्वाम् सभाजये। तव प्रभावात् धर्म-ज्ञे महान् रामेण संयुगे॥ ९॥
priyam ākhyāmi te devi bhūyas ca tvām sabhājaye. tava prabhāvāt dharma-jñe mahān rāmeṇa saṃyuge.. 9..
लब्धोऽयं विजयः सीते स्वस्था भव गतज्वरा। रावणश्च हतः शत्रुर्लङ्का चैव वशीकृता॥ १०॥
लब्धः अयम् विजयः सीते स्वस्था भव गत-ज्वरा। रावणः च हतः शत्रुः लङ्का च एव वशीकृता॥ १०॥
labdhaḥ ayam vijayaḥ sīte svasthā bhava gata-jvarā. rāvaṇaḥ ca hataḥ śatruḥ laṅkā ca eva vaśīkṛtā.. 10..
मया ह्यलब्धनिद्रेण धृतेन तव निर्जये। प्रतिज्ञैषा विनिस्तीर्णा बद्ध्वा सेतुं महोदधौ॥ ११॥
मया हि अलब्ध-निद्रेण धृतेन तव निर्जये। प्रतिज्ञा एषा विनिस्तीर्णा बद्ध्वा सेतुम् महा-उदधौ॥ ११॥
mayā hi alabdha-nidreṇa dhṛtena tava nirjaye. pratijñā eṣā vinistīrṇā baddhvā setum mahā-udadhau.. 11..
सम्भ्रमश्च न कर्तव्यो वर्तन्त्या रावणालये। विभीषणविधेयं हि लङ्कैश्वर्यमिदं कृतम्॥ १२॥
सम्भ्रमः च न कर्तव्यः वर्तन्त्याः रावण-आलये। विभीषण-विधेयम् हि लङ्का-ऐश्वर्यम् इदम् कृतम्॥ १२॥
sambhramaḥ ca na kartavyaḥ vartantyāḥ rāvaṇa-ālaye. vibhīṣaṇa-vidheyam hi laṅkā-aiśvaryam idam kṛtam.. 12..
तदाश्वसिहि विस्रब्धं स्वगृहे परिवर्तसे। अयं चाभ्येति संहृष्टस्त्वद्दर्शनसमुत्सुकः॥ १३॥
तदा आश्वसिहि विस्रब्धम् स्व-गृहे परिवर्तसे। अयम् च अभ्येति संहृष्टः त्वद्-दर्शन-समुत्सुकः॥ १३॥
tadā āśvasihi visrabdham sva-gṛhe parivartase. ayam ca abhyeti saṃhṛṣṭaḥ tvad-darśana-samutsukaḥ.. 13..
एवमुक्ता तु सा देवी सीता शशिनिभानना। प्रहर्षेणावरुद्धा सा व्याहर्तुं न शशाक ह॥ १४॥
एवम् उक्ता तु सा देवी सीता शशि-निभ-आनना। प्रहर्षेण अवरुद्धा सा व्याहर्तुम् न शशाक ह॥ १४॥
evam uktā tu sā devī sītā śaśi-nibha-ānanā. praharṣeṇa avaruddhā sā vyāhartum na śaśāka ha.. 14..
ततोऽब्रवीद्धरिवरः सीतामप्रतिजल्पतीम्। किं त्वं चिन्तयसे देवि किं च मां नाभिभाषसे॥ १५॥
ततस् अब्रवीत् हरिवरः सीताम् अप्रतिजल्पतीम्। किम् त्वम् चिन्तयसे देवि किम् च माम् न अभिभाषसे॥ १५॥
tatas abravīt harivaraḥ sītām apratijalpatīm. kim tvam cintayase devi kim ca mām na abhibhāṣase.. 15..
एवमुक्ता हनुमता सीता धर्मपथे स्थिता। अब्रवीत् परमप्रीता बाष्पगद्गदया गिरा॥ १६॥
एवम् उक्ता हनुमता सीता धर्म-पथे स्थिता। अब्रवीत् परम-प्रीता बाष्प-गद्गदया गिरा॥ १६॥
evam uktā hanumatā sītā dharma-pathe sthitā. abravīt parama-prītā bāṣpa-gadgadayā girā.. 16..
प्रियमेतदुपश्रुत्य भर्तुर्विजयसंश्रितम्। प्रहर्षवशमापन्ना निर्वाक्यास्मि क्षणान्तरम्॥ १७॥
प्रियम् एतत् उपश्रुत्य भर्तुः विजय-संश्रितम्। प्रहर्ष-वशम् आपन्ना निर्वाक्या अस्मि क्षण-अन्तरम्॥ १७॥
priyam etat upaśrutya bhartuḥ vijaya-saṃśritam. praharṣa-vaśam āpannā nirvākyā asmi kṣaṇa-antaram.. 17..
नहि पश्यामि सदृशं चिन्तयन्ती प्लवंगम। आख्यानकस्य भवतो दातुं प्रत्यभिनन्दनम्॥ १८॥
नहि पश्यामि सदृशम् चिन्तयन्ती प्लवंगम। आख्यानकस्य भवतः दातुम् प्रत्यभिनन्दनम्॥ १८॥
nahi paśyāmi sadṛśam cintayantī plavaṃgama. ākhyānakasya bhavataḥ dātum pratyabhinandanam.. 18..
न हि पश्यामि तत् सौम्य पृथिव्यामपि वानर। सदृशं यत्प्रियाख्याने तव दत्त्वा भवेत् सुखम्॥ १९॥
न हि पश्यामि तत् सौम्य पृथिव्याम् अपि वानर। सदृशम् यत् प्रिय-आख्याने तव दत्त्वा भवेत् सुखम्॥ १९॥
na hi paśyāmi tat saumya pṛthivyām api vānara. sadṛśam yat priya-ākhyāne tava dattvā bhavet sukham.. 19..
हिरण्यं वा सुवर्णं वा रत्नानि विविधानि च। राज्यं वा त्रिषु लोकेषु एतन्नार्हति भाषितम्॥ २०॥
हिरण्यम् वा सुवर्णम् वा रत्नानि विविधानि च। राज्यम् वा त्रिषु लोकेषु एतत् न अर्हति भाषितम्॥ २०॥
hiraṇyam vā suvarṇam vā ratnāni vividhāni ca. rājyam vā triṣu lokeṣu etat na arhati bhāṣitam.. 20..
एवमुक्तस्तु वैदेह्या प्रत्युवाच प्लवंगमः। प्रगृहीताञ्जलिर्हर्षात् सीतायाः प्रमुखे स्थितः॥ २१॥
एवम् उक्तः तु वैदेह्या प्रत्युवाच प्लवंगमः। प्रगृहीत-अञ्जलिः हर्षात् सीतायाः प्रमुखे स्थितः॥ २१॥
evam uktaḥ tu vaidehyā pratyuvāca plavaṃgamaḥ. pragṛhīta-añjaliḥ harṣāt sītāyāḥ pramukhe sthitaḥ.. 21..
भर्तुः प्रियहिते युक्ते भर्तुर्विजयकांक्षिणि। स्निग्धमेवंविधं वाक्यं त्वमेवार्हस्यनिन्दिते॥ २२॥
भर्तुः प्रिय-हिते युक्ते भर्तुः विजय-कांक्षिणि। स्निग्धम् एवंविधम् वाक्यम् त्वम् एव अर्हसि अनिन्दिते॥ २२॥
bhartuḥ priya-hite yukte bhartuḥ vijaya-kāṃkṣiṇi. snigdham evaṃvidham vākyam tvam eva arhasi anindite.. 22..
तवैतद् वचनं सौम्ये सारवत् स्निग्धमेव च। रत्नौघाद् विविधाच्चापि देवराज्याद् विशिष्यते॥ २३॥
तव एतत् वचनम् सौम्ये सारवत् स्निग्धम् एव च। रत्न-ओघात् विविधात् च अपि देव-राज्यात् विशिष्यते॥ २३॥
tava etat vacanam saumye sāravat snigdham eva ca. ratna-oghāt vividhāt ca api deva-rājyāt viśiṣyate.. 23..
अर्थतश्च मया प्राप्ता देवराज्यादयो गुणाः। हतशत्रुं विजयिनं रामं पश्यामि सुस्थितम्॥ २४॥
अर्थतः च मया प्राप्ताः देव-राज्य-आदयः गुणाः। हत-शत्रुम् विजयिनम् रामम् पश्यामि सुस्थितम्॥ २४॥
arthataḥ ca mayā prāptāḥ deva-rājya-ādayaḥ guṇāḥ. hata-śatrum vijayinam rāmam paśyāmi susthitam.. 24..
तस्य तद् वचनं श्रुत्वा मैथिली जनकात्मजा। ततः शुभतरं वाक्यमुवाच पवनात्मजम्॥ २५॥
तस्य तत् वचनम् श्रुत्वा मैथिली जनकात्मजा। ततस् शुभतरम् वाक्यम् उवाच पवनात्मजम्॥ २५॥
tasya tat vacanam śrutvā maithilī janakātmajā. tatas śubhataram vākyam uvāca pavanātmajam.. 25..
अतिलक्षणसम्पन्नं माधुर्यगुणभूषणम्। बुद्ध्या ह्यष्टाङ्गया युक्तं त्वमेवार्हसि भाषितुम्॥ २६॥
अति लक्षण-सम्पन्नम् माधुर्य-गुण-भूषणम्। बुद्ध्या हि अष्ट-अङ्गया युक्तम् त्वम् एव अर्हसि भाषितुम्॥ २६॥
ati lakṣaṇa-sampannam mādhurya-guṇa-bhūṣaṇam. buddhyā hi aṣṭa-aṅgayā yuktam tvam eva arhasi bhāṣitum.. 26..
श्लाघनीयोऽनिलस्य त्वं सुतः परमधार्मिकः। बलं शौर्यं श्रुतं सत्त्वं विक्रमो दाक्ष्यमुत्तमम्॥ २७॥
श्लाघनीयः अनिलस्य त्वम् सुतः परम-धार्मिकः। बलम् शौर्यम् श्रुतम् सत्त्वम् विक्रमः दाक्ष्यम् उत्तमम्॥ २७॥
ślāghanīyaḥ anilasya tvam sutaḥ parama-dhārmikaḥ. balam śauryam śrutam sattvam vikramaḥ dākṣyam uttamam.. 27..
तेजः क्षमा धृतिः स्थैर्यं विनीतत्वं न संशयः। एते चान्ये च बहवो गुणास्त्वय्येव शोभनाः॥ २८॥
तेजः क्षमा धृतिः स्थैर्यम् विनीत-त्वम् न संशयः। एते च अन्ये च बहवः गुणाः त्वयि एव शोभनाः॥ २८॥
tejaḥ kṣamā dhṛtiḥ sthairyam vinīta-tvam na saṃśayaḥ. ete ca anye ca bahavaḥ guṇāḥ tvayi eva śobhanāḥ.. 28..
अथोवाच पुनः सीतामसम्भ्रान्तो विनीतवत्। प्रगृहीताञ्जलिर्हर्षात् सीतायाः प्रमुखे स्थितः॥ २९॥
अथा उवाच पुनर् सीताम् असम्भ्रान्तः विनीत-वत्। प्रगृहीत-अञ्जलिः हर्षात् सीतायाः प्रमुखे स्थितः॥ २९॥
athā uvāca punar sītām asambhrāntaḥ vinīta-vat. pragṛhīta-añjaliḥ harṣāt sītāyāḥ pramukhe sthitaḥ.. 29..
इमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे। हन्तुमिच्छामि ताः सर्वा याभिस्त्वं तर्जिता पुरा॥ ३०॥
इमाः तु खलु राक्षस्यः यदि त्वम् अनुमन्यसे। हन्तुम् इच्छामि ताः सर्वाः याभिः त्वम् तर्जिता पुरा॥ ३०॥
imāḥ tu khalu rākṣasyaḥ yadi tvam anumanyase. hantum icchāmi tāḥ sarvāḥ yābhiḥ tvam tarjitā purā.. 30..
क्लिश्यन्तीं पतिदेवां त्वामशोकवनिकां गताम्। घोररूपसमाचाराः क्रूराः क्रूरतरेक्षणाः॥ ३१॥
क्लिश्यन्तीम् पति-देवाम् त्वाम् अशोक-वनिकाम् गताम्। घोर-रूप-समाचाराः क्रूराः क्रूरतर-ईक्षणाः॥ ३१॥
kliśyantīm pati-devām tvām aśoka-vanikām gatām. ghora-rūpa-samācārāḥ krūrāḥ krūratara-īkṣaṇāḥ.. 31..
इह श्रुता मया देवि राक्षस्यो विकृताननाः। असकृत्परुषैर्वाक्यैर्वदन्त्यो रावणाज्ञया॥ ३२॥
इह श्रुताः मया देवि राक्षस्यः विकृत-आननाः। असकृत् परुषैः वाक्यैः वदन्त्यः रावण-आज्ञया॥ ३२॥
iha śrutāḥ mayā devi rākṣasyaḥ vikṛta-ānanāḥ. asakṛt paruṣaiḥ vākyaiḥ vadantyaḥ rāvaṇa-ājñayā.. 32..
विकृता विकृताकाराः क्रूराः क्रूरकचेक्षणाः। इच्छामि विविधैर्घातैर्हन्तुमेताः सुदारुणाः॥ ३३॥
विकृताः विकृत-आकाराः क्रूराः क्रूर-कच-ईक्षणाः। इच्छामि विविधैः घातैः हन्तुम् एताः सु दारुणाः॥ ३३॥
vikṛtāḥ vikṛta-ākārāḥ krūrāḥ krūra-kaca-īkṣaṇāḥ. icchāmi vividhaiḥ ghātaiḥ hantum etāḥ su dāruṇāḥ.. 33..
राक्षस्यो दारुणकथा वरमेतत् प्रयच्छ मे। मुष्टिभिः पार्ष्णिघातैश्च विशालैश्चैव बाहुभिः॥ ३४॥
राक्षस्यः दारुण-कथाः वरम् एतत् प्रयच्छ मे। मुष्टिभिः पार्ष्णि-घातैः च विशालैः च एव बाहुभिः॥ ३४॥
rākṣasyaḥ dāruṇa-kathāḥ varam etat prayaccha me. muṣṭibhiḥ pārṣṇi-ghātaiḥ ca viśālaiḥ ca eva bāhubhiḥ.. 34..
जङ्घाजानुप्रहारैश्च दन्तानां चैव पीडनैः। कर्तनैः कर्णनासानां केशानां लुञ्चनैस्तथा॥ ३५॥
जङ्घा-जानु-प्रहारैः च दन्तानाम् च एव पीडनैः। कर्तनैः कर्ण-नासानाम् केशानाम् लुञ्चनैः तथा॥ ३५॥
jaṅghā-jānu-prahāraiḥ ca dantānām ca eva pīḍanaiḥ. kartanaiḥ karṇa-nāsānām keśānām luñcanaiḥ tathā.. 35..
निपात्य हन्तुमिच्छामि तव विप्रियकारिणीः। एवं प्रहारैर्बहुभिः सम्प्रहार्य यशस्विनि॥ ३६॥
निपात्य हन्तुम् इच्छामि तव विप्रिय-कारिणीः। एवम् प्रहारैः बहुभिः सम्प्रहार्य यशस्विनि॥ ३६॥
nipātya hantum icchāmi tava vipriya-kāriṇīḥ. evam prahāraiḥ bahubhiḥ samprahārya yaśasvini.. 36..
घातये तीव्ररूपाभिर्याभिस्त्वं तर्जिता पुरा। इत्युक्ता सा हनुमता कृपणा दीनवत्सला॥ ३७॥
घातये तीव्र-रूपाभिः याभिः त्वम् तर्जिता पुरा। इति उक्ता सा हनुमता कृपणा दीन-वत्सला॥ ३७॥
ghātaye tīvra-rūpābhiḥ yābhiḥ tvam tarjitā purā. iti uktā sā hanumatā kṛpaṇā dīna-vatsalā.. 37..
हनूमन्तमुवाचेदं चिन्तयित्वा विमृश्य च। राजसंश्रयवश्यानां कुर्वतीनां पराज्ञया॥ ३८॥
हनूमन्तम् उवाच इदम् चिन्तयित्वा विमृश्य च। राज-संश्रय-वश्यानाम् कुर्वतीनाम् पर-आज्ञया॥ ३८॥
hanūmantam uvāca idam cintayitvā vimṛśya ca. rāja-saṃśraya-vaśyānām kurvatīnām para-ājñayā.. 38..
विधेयानां च दासीनां कः कुप्येद् वानरोत्तम। भाग्यवैषम्यदोषेण पुरस्ताद्दुष्कृतेन च॥ ३९॥
विधेयानाम् च दासीनाम् कः कुप्येत् वानर-उत्तम। भाग्य-वैषम्य-दोषेण पुरस्तात् दुष्कृतेन च॥ ३९॥
vidheyānām ca dāsīnām kaḥ kupyet vānara-uttama. bhāgya-vaiṣamya-doṣeṇa purastāt duṣkṛtena ca.. 39..
मयैतत् प्राप्यते सर्वं स्वकृतं ह्युपभुज्यते। मैवं वद महाबाहो दैवी ह्येषा परा गतिः॥ ४०॥
मया एतत् प्राप्यते सर्वम् स्व-कृतम् हि उपभुज्यते। मा एवम् वद महा-बाहो दैवी हि एषा परा गतिः॥ ४०॥
mayā etat prāpyate sarvam sva-kṛtam hi upabhujyate. mā evam vada mahā-bāho daivī hi eṣā parā gatiḥ.. 40..
प्राप्तव्यं तु दशायोगान्मयैतदिति निश्चितम्। दासीनां रावणस्याहं मर्षयामीह दुर्बला॥ ४१॥
प्राप्तव्यम् तु दशा-योगात् मया एतत् इति निश्चितम्। दासीनाम् रावणस्य अहम् मर्षयामि इह दुर्बला॥ ४१॥
prāptavyam tu daśā-yogāt mayā etat iti niścitam. dāsīnām rāvaṇasya aham marṣayāmi iha durbalā.. 41..
आज्ञप्ता राक्षसेनेह राक्षस्यस्तर्जयन्ति माम्। हते तस्मिन् न कुर्वन्ति तर्जनं मारुतात्मज॥ ४२॥
आज्ञप्ताः राक्षसेन इह राक्षस्यः तर्जयन्ति माम्। हते तस्मिन् न कुर्वन्ति तर्जनम् मारुतात्मज॥ ४२॥
ājñaptāḥ rākṣasena iha rākṣasyaḥ tarjayanti mām. hate tasmin na kurvanti tarjanam mārutātmaja.. 42..
अयं व्याघ्रसमीपे तु पुराणो धर्मसंहितः। ऋक्षेण गीतः श्लोकोऽस्ति तं निबोध प्लवंगम॥ ४३॥
अयम् व्याघ्र-समीपे तु पुराणः धर्म-संहितः। ऋक्षेण गीतः श्लोकः अस्ति तम् निबोध प्लवंगम॥ ४३॥
ayam vyāghra-samīpe tu purāṇaḥ dharma-saṃhitaḥ. ṛkṣeṇa gītaḥ ślokaḥ asti tam nibodha plavaṃgama.. 43..
न परः पापमादत्ते परेषां पापकर्मणाम्। समयो रक्षितव्यस्तु सन्तश्चारित्रभूषणाः॥ ४४॥
न परः पापम् आदत्ते परेषाम् पाप-कर्मणाम्। समयः रक्षितव्यः तु सन्तः चारित्र-भूषणाः॥ ४४॥
na paraḥ pāpam ādatte pareṣām pāpa-karmaṇām. samayaḥ rakṣitavyaḥ tu santaḥ cāritra-bhūṣaṇāḥ.. 44..
पापानां वा शुभानां वा वधार्हाणामथापि वा। कार्यं कारुण्यमार्येण न कश्चिन्नापराध्यति॥ ४५॥
पापानाम् वा शुभानाम् वा वध-अर्हाणाम् अथ अपि वा। कार्यम् कारुण्यम् आर्येण न कश्चिद् न अपराध्यति॥ ४५॥
pāpānām vā śubhānām vā vadha-arhāṇām atha api vā. kāryam kāruṇyam āryeṇa na kaścid na aparādhyati.. 45..
लोकहिंसाविहाराणां क्रूराणां पापकर्मणाम्। कुर्वतामपि पापानि नैव कार्यमशोभनम्॥ ४६॥
लोक-हिंसा-विहाराणाम् क्रूराणाम् पाप-कर्मणाम्। कुर्वताम् अपि पापानि ना एव कार्यम् अशोभनम्॥ ४६॥
loka-hiṃsā-vihārāṇām krūrāṇām pāpa-karmaṇām. kurvatām api pāpāni nā eva kāryam aśobhanam.. 46..
एवमुक्तस्तु हनुमान् सीतया वाक्यकोविदः। प्रत्युवाच ततः सीतां रामपत्नीमनिन्दिताम्॥ ४७॥
एवम् उक्तः तु हनुमान् सीतया वाक्य-कोविदः। प्रत्युवाच ततस् सीताम् राम-पत्नीम् अनिन्दिताम्॥ ४७॥
evam uktaḥ tu hanumān sītayā vākya-kovidaḥ. pratyuvāca tatas sītām rāma-patnīm aninditām.. 47..
युक्ता रामस्य भवती धर्मपत्नी गुणान्विता। प्रतिसंदिश मां देवि गमिष्ये यत्र राघवः॥ ४८॥
युक्ता रामस्य भवती धर्मपत्नी गुण-अन्विता। प्रतिसंदिश माम् देवि गमिष्ये यत्र राघवः॥ ४८॥
yuktā rāmasya bhavatī dharmapatnī guṇa-anvitā. pratisaṃdiśa mām devi gamiṣye yatra rāghavaḥ.. 48..
एवमुक्ता हनुमता वैदेही जनकात्मजा। साब्रवीद् द्रष्टुमिच्छामि भर्तारं भक्तवत्सलम्॥ ४९॥
एवम् उक्ता हनुमता वैदेही जनकात्मजा। सा ब्रवीत् द्रष्टुम् इच्छामि भर्तारम् भक्त-वत्सलम्॥ ४९॥
evam uktā hanumatā vaidehī janakātmajā. sā bravīt draṣṭum icchāmi bhartāram bhakta-vatsalam.. 49..
तस्यास्तद् वचनं श्रुत्वा हनूमान् मारुतात्मजः। हर्षयन् मैथिलीं वाक्यमुवाचेदं महामतिः॥ ५०॥
तस्याः तत् वचनम् श्रुत्वा हनूमान् मारुतात्मजः। हर्षयन् मैथिलीम् वाक्यम् उवाच इदम् महामतिः॥ ५०॥
tasyāḥ tat vacanam śrutvā hanūmān mārutātmajaḥ. harṣayan maithilīm vākyam uvāca idam mahāmatiḥ.. 50..
पूर्णचन्द्रमुखं रामं द्रक्ष्यस्यद्य सलक्ष्मणम्। स्थितमित्रं हतामित्रं शचीवेन्द्रं सुरेश्वरम्॥ ५१॥
पूर्ण-चन्द्र-मुखम् रामम् द्रक्ष्यसि अद्य स लक्ष्मणम्। स्थित-मित्रम् हत-अमित्रम् शचीव-इन्द्रम् सुर-ईश्वरम्॥ ५१॥
pūrṇa-candra-mukham rāmam drakṣyasi adya sa lakṣmaṇam. sthita-mitram hata-amitram śacīva-indram sura-īśvaram.. 51..
तामेवमुक्त्वा भ्राजन्तीं सीतां साक्षादिव श्रियम्। आजगाम महातेजा हनूमान् यत्र राघवः॥ ५२॥
ताम् एवम् उक्त्वा भ्राजन्तीम् सीताम् साक्षात् इव श्रियम्। आजगाम महा-तेजाः हनूमान् यत्र राघवः॥ ५२॥
tām evam uktvā bhrājantīm sītām sākṣāt iva śriyam. ājagāma mahā-tejāḥ hanūmān yatra rāghavaḥ.. 52..
सपदि हरिवरस्ततो हनूमान् प्रतिवचनं जनकेश्वरात्मजायाः। कथितमकथयद् यथाक्रमेण त्रिदशवरप्रतिमाय राघवाय॥ ५३॥
सपदि हरि-वरः ततस् हनूमान् प्रतिवचनम् जनक-ईश्वर-आत्मजायाः। कथितम् अकथयत् यथाक्रमेण त्रिदश-वर-प्रतिमाय राघवाय॥ ५३॥
sapadi hari-varaḥ tatas hanūmān prativacanam janaka-īśvara-ātmajāyāḥ. kathitam akathayat yathākrameṇa tridaśa-vara-pratimāya rāghavāya.. 53..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In