This overlay will guide you through the buttons:

| |
|
बहूनि नाम वर्षाणि गतस्य सुमहद्वनम्। शृणोम्यहं प्रीतिकरं मम नाथस्य कीर्तनम्॥ १॥
बहूनि नाम वर्षाणि गतस्य सु महत् वनम्। शृणोमि अहम् प्रीति-करम् मम नाथस्य कीर्तनम्॥ १॥
bahūni nāma varṣāṇi gatasya su mahat vanam. śṛṇomi aham prīti-karam mama nāthasya kīrtanam.. 1..
कल्याणी बत गाथेयं लौकिकी प्रतिभाति माम्। एति जीवन्तमानन्दो नरं वर्षशतादपि॥ २॥
कल्याणी बत गाथा इयम् लौकिकी प्रतिभाति माम्। एति जीवन्तम् आनन्दः नरम् वर्ष-शतात् अपि॥ २॥
kalyāṇī bata gāthā iyam laukikī pratibhāti mām. eti jīvantam ānandaḥ naram varṣa-śatāt api.. 2..
राघवस्य हरीणां च कथमासीत् समागमः। कस्मिन् देशे किमाश्रित्य तत्त्वमाख्याहि पृच्छतः॥ ३॥
राघवस्य हरीणाम् च कथम् आसीत् समागमः। कस्मिन् देशे किम् आश्रित्य तत् त्वम् आख्याहि पृच्छतः॥ ३॥
rāghavasya harīṇām ca katham āsīt samāgamaḥ. kasmin deśe kim āśritya tat tvam ākhyāhi pṛcchataḥ.. 3..
स पृष्टो राजपुत्रेण बृस्यां समुपवेशितः। आचचक्षे ततः सर्वं रामस्य चरितं वने॥ ४॥
स पृष्टः राज-पुत्रेण बृस्याम् समुपवेशितः। आचचक्षे ततस् सर्वम् रामस्य चरितम् वने॥ ४॥
sa pṛṣṭaḥ rāja-putreṇa bṛsyām samupaveśitaḥ. ācacakṣe tatas sarvam rāmasya caritam vane.. 4..
यथा प्रव्राजितो रामो मातुर्दत्तौ वरौ तव। यथा च पुत्रशोकेन राजा दशरथो मृतः॥ ५॥
यथा प्रव्राजितः रामः मातुः दत्तौ वरौ तव। यथा च पुत्र-शोकेन राजा दशरथः मृतः॥ ५॥
yathā pravrājitaḥ rāmaḥ mātuḥ dattau varau tava. yathā ca putra-śokena rājā daśarathaḥ mṛtaḥ.. 5..
यथा दूतैस्त्वमानीतस्तूर्णं राजगृहात् प्रभो। त्वयायोध्यां प्रविष्टेन यथा राज्यं न चेप्सितम्॥ ६॥
यथा दूतैः त्वम् आनीतः तूर्णम् राज-गृहात् प्रभो। त्वया अयोध्याम् प्रविष्टेन यथा राज्यम् न च ईप्सितम्॥ ६॥
yathā dūtaiḥ tvam ānītaḥ tūrṇam rāja-gṛhāt prabho. tvayā ayodhyām praviṣṭena yathā rājyam na ca īpsitam.. 6..
चित्रकूटगिरिं गत्वा राज्येनामित्रकर्शनः। निमन्त्रितस्त्वया भ्राता धर्ममाचरता सताम्॥ ७॥
चित्रकूट-गिरिम् गत्वा राज्येन अमित्र-कर्शनः। निमन्त्रितः त्वया भ्राता धर्मम् आचरता सताम्॥ ७॥
citrakūṭa-girim gatvā rājyena amitra-karśanaḥ. nimantritaḥ tvayā bhrātā dharmam ācaratā satām.. 7..
स्थितेन राज्ञो वचने यथा राज्यं विसर्जितम्। आर्यस्य पादुके गृह्य यथासि पुनरागतः॥ ८॥
स्थितेन राज्ञः वचने यथा राज्यम् विसर्जितम्। आर्यस्य पादुके गृह्य यथा असि पुनर् आगतः॥ ८॥
sthitena rājñaḥ vacane yathā rājyam visarjitam. āryasya pāduke gṛhya yathā asi punar āgataḥ.. 8..
सर्वमेतन्महाबाहो यथावद् विदितं तव। त्वयि प्रतिप्रयाते तु यद् वृत्तं तन्निबोध मे॥ ९॥
सर्वम् एतत् महा-बाहो यथावत् विदितम् तव। त्वयि प्रतिप्रयाते तु यत् वृत्तम् तत् निबोध मे॥ ९॥
sarvam etat mahā-bāho yathāvat viditam tava. tvayi pratiprayāte tu yat vṛttam tat nibodha me.. 9..
अपयाते त्वयि तदा समुद्भ्रान्तमृगद्विजम्। परिद्यूनमिवात्यर्थं तद् वनं समपद्यत॥ १०॥
अपयाते त्वयि तदा समुद्भ्रान्त-मृग-द्विजम्। परिद्यूनम् इव अत्यर्थम् तत् वनम् समपद्यत॥ १०॥
apayāte tvayi tadā samudbhrānta-mṛga-dvijam. paridyūnam iva atyartham tat vanam samapadyata.. 10..
तद्धस्तिमृदितं घोरं सिंहव्याघ्रमृगाकुलम्। प्रविवेशाथ विजनं स महद् दण्डकावनम्॥ ११॥
तत् हस्ति-मृदितम् घोरम् सिंह-व्याघ्र-मृग-आकुलम्। प्रविवेश अथ विजनम् स महत् दण्डक-वनम्॥ ११॥
tat hasti-mṛditam ghoram siṃha-vyāghra-mṛga-ākulam. praviveśa atha vijanam sa mahat daṇḍaka-vanam.. 11..
तेषां पुरस्ताद् बलवान् गच्छतां गहने वने। विनदन् सुमहानादं विराधः प्रत्यदृश्यत॥ १२॥
तेषाम् पुरस्तात् बलवान् गच्छताम् गहने वने। विनदन् सु महा-नादम् विराधः प्रत्यदृश्यत॥ १२॥
teṣām purastāt balavān gacchatām gahane vane. vinadan su mahā-nādam virādhaḥ pratyadṛśyata.. 12..
तमुत्क्षिप्य महानादमूर्ध्वबाहुमधोमुखम्। निखाते प्रक्षिपन्ति स्म नदन्तमिव कुञ्जरम्॥ १३॥
तम् उत्क्षिप्य महा-नादम् ऊर्ध्व-बाहुम् अधोमुखम्। निखाते प्रक्षिपन्ति स्म नदन्तम् इव कुञ्जरम्॥ १३॥
tam utkṣipya mahā-nādam ūrdhva-bāhum adhomukham. nikhāte prakṣipanti sma nadantam iva kuñjaram.. 13..
तत् कृत्वा दुष्करं कर्म भ्रातरौ रामलक्ष्मणौ। सायाह्ने शरभङ्गस्य रम्यमाश्रममीयतुः॥ १४॥
तत् कृत्वा दुष्करम् कर्म भ्रातरौ राम-लक्ष्मणौ। सायाह्ने शरभङ्गस्य रम्यम् आश्रमम् ईयतुः॥ १४॥
tat kṛtvā duṣkaram karma bhrātarau rāma-lakṣmaṇau. sāyāhne śarabhaṅgasya ramyam āśramam īyatuḥ.. 14..
शरभङ्गे दिवं प्राप्ते रामः सत्यपराक्रमः। अभिवाद्य मुनीन् सर्वाञ्जनस्थानमुपागमत्॥ १५॥
शरभङ्गे दिवम् प्राप्ते रामः सत्य-पराक्रमः। अभिवाद्य मुनीन् सर्वान् जनस्थानम् उपागमत्॥ १५॥
śarabhaṅge divam prāpte rāmaḥ satya-parākramaḥ. abhivādya munīn sarvān janasthānam upāgamat.. 15..
पश्चाच्छूर्पणखा नाम रामपार्श्वमुपागता। ततो रामेण संदिष्टो लक्ष्मणः सहसोत्थितः॥ १६॥
पश्चात् शूर्पणखा नाम राम-पार्श्वम् उपागता। ततस् रामेण संदिष्टः लक्ष्मणः सहसा उत्थितः॥ १६॥
paścāt śūrpaṇakhā nāma rāma-pārśvam upāgatā. tatas rāmeṇa saṃdiṣṭaḥ lakṣmaṇaḥ sahasā utthitaḥ.. 16..
प्रगृह्य खड्गं चिच्छेद कर्णनासं महाबलः। चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्॥ १७॥
प्रगृह्य खड्गम् चिच्छेद कर्ण-नासम् महा-बलः। चतुर्दश सहस्राणि रक्षसाम् भीम-कर्मणाम्॥ १७॥
pragṛhya khaḍgam ciccheda karṇa-nāsam mahā-balaḥ. caturdaśa sahasrāṇi rakṣasām bhīma-karmaṇām.. 17..
हतानि वसता तत्र राघवेण महात्मना। एकेन सह संगम्य रामेण रणमूर्धनि॥ १८॥
हतानि वसता तत्र राघवेण महात्मना। एकेन सह संगम्य रामेण रण-मूर्धनि॥ १८॥
hatāni vasatā tatra rāghaveṇa mahātmanā. ekena saha saṃgamya rāmeṇa raṇa-mūrdhani.. 18..
अह्नश्चतुर्थभागेन निःशेषा राक्षसाः कृताः। महाबला महावीर्यास्तपसो विघ्नकारिणः॥ १९॥
अह्नः चतुर्थ-भागेन निःशेषाः राक्षसाः कृताः। महा-बलाः महा-वीर्याः तपसः विघ्न-कारिणः॥ १९॥
ahnaḥ caturtha-bhāgena niḥśeṣāḥ rākṣasāḥ kṛtāḥ. mahā-balāḥ mahā-vīryāḥ tapasaḥ vighna-kāriṇaḥ.. 19..
निहता राघवेणाजौ दण्डकारण्यवासिनः। राक्षसाश्च विनिष्पिष्टाः खरश्च निहतो रणे॥ २०॥
निहताः राघवेण आजौ दण्डक-अरण्य-वासिनः। राक्षसाः च विनिष्पिष्टाः खरः च निहतः रणे॥ २०॥
nihatāḥ rāghaveṇa ājau daṇḍaka-araṇya-vāsinaḥ. rākṣasāḥ ca viniṣpiṣṭāḥ kharaḥ ca nihataḥ raṇe.. 20..
दूषणं चाग्रतो हत्वा त्रिशिरास्तदनन्तरम्। ततस्तेनार्दिता बाला रावणं समुपागता॥ २१॥
दूषणम् च अग्रतस् हत्वा त्रिशिराः तद्-अनन्तरम्। ततस् तेन अर्दिता बाला रावणम् समुपागता॥ २१॥
dūṣaṇam ca agratas hatvā triśirāḥ tad-anantaram. tatas tena arditā bālā rāvaṇam samupāgatā.. 21..
रावणानुचरो घोरो मारीचो नाम राक्षसः। लोभयामास वैदेहीं भूत्वा रत्नमयो मृगः॥ २२॥
रावण-अनुचरः घोरः मारीचः नाम राक्षसः। लोभयामास वैदेहीम् भूत्वा रत्न-मयः मृगः॥ २२॥
rāvaṇa-anucaraḥ ghoraḥ mārīcaḥ nāma rākṣasaḥ. lobhayāmāsa vaidehīm bhūtvā ratna-mayaḥ mṛgaḥ.. 22..
सा राममब्रवीद् दृष्ट्वा वैदेही गृह्यतामिति। अयं मनोहरः कान्त आश्रमो नो भविष्यति॥ २३॥
सा रामम् अब्रवीत् दृष्ट्वा वैदेही गृह्यताम् इति। अयम् मनोहरः कान्तः आश्रमः नः भविष्यति॥ २३॥
sā rāmam abravīt dṛṣṭvā vaidehī gṛhyatām iti. ayam manoharaḥ kāntaḥ āśramaḥ naḥ bhaviṣyati.. 23..
ततो रामो धनुष्पाणिर्मृगं तमनुधावति। स तं जघान धावन्तं शरेणानतपर्वणा॥ २४॥
ततस् रामः धनुष्पाणिः मृगम् तम् अनुधावति। स तम् जघान धावन्तम् शरेण आनत-पर्वणा॥ २४॥
tatas rāmaḥ dhanuṣpāṇiḥ mṛgam tam anudhāvati. sa tam jaghāna dhāvantam śareṇa ānata-parvaṇā.. 24..
अथ सौम्य दशग्रीवो मृगं याति तु राघवे। लक्ष्मणे चापि निष्क्रान्ते प्रविवेशाश्रमं तदा॥ २५॥
अथ सौम्य दशग्रीवः मृगम् याति तु राघवे। लक्ष्मणे च अपि निष्क्रान्ते प्रविवेश आश्रमम् तदा॥ २५॥
atha saumya daśagrīvaḥ mṛgam yāti tu rāghave. lakṣmaṇe ca api niṣkrānte praviveśa āśramam tadā.. 25..
जग्राह तरसा सीतां ग्रहः खे रोहिणीमिव। त्रातुकामं ततो युद्धे हत्वा गृध्रं जटायुषम्॥ २६॥
जग्राह तरसा सीताम् ग्रहः खे रोहिणीम् इव। त्रातु-कामम् ततस् युद्धे हत्वा गृध्रम् जटायुषम्॥ २६॥
jagrāha tarasā sītām grahaḥ khe rohiṇīm iva. trātu-kāmam tatas yuddhe hatvā gṛdhram jaṭāyuṣam.. 26..
प्रगृह्य सहसा सीतां जगामाशु स राक्षसः। ततस्त्वद्भुतसंकाशाः स्थिताः पर्वतमूर्धनि॥ २७॥
प्रगृह्य सहसा सीताम् जगाम आशु स राक्षसः। ततस् तु अद्भुत-संकाशाः स्थिताः पर्वत-मूर्धनि॥ २७॥
pragṛhya sahasā sītām jagāma āśu sa rākṣasaḥ. tatas tu adbhuta-saṃkāśāḥ sthitāḥ parvata-mūrdhani.. 27..
सीतां गृहीत्वा गच्छन्तं वानराः पर्वतोपमाः। ददृशुर्विस्मिताकारा रावणं राक्षसाधिपम्॥ २८॥
सीताम् गृहीत्वा गच्छन्तम् वानराः पर्वत-उपमाः। ददृशुः विस्मित-आकाराः रावणम् राक्षस-अधिपम्॥ २८॥
sītām gṛhītvā gacchantam vānarāḥ parvata-upamāḥ. dadṛśuḥ vismita-ākārāḥ rāvaṇam rākṣasa-adhipam.. 28..
ततः शीघ्रतरं गत्वा तद् विमानं मनोजवम्। आरुह्य सह वैदेह्या पुष्पकं स महाबलः॥ २९॥
ततस् शीघ्रतरम् गत्वा तत् विमानम् मनोजवम्। आरुह्य सह वैदेह्या पुष्पकम् स महा-बलः॥ २९॥
tatas śīghrataram gatvā tat vimānam manojavam. āruhya saha vaidehyā puṣpakam sa mahā-balaḥ.. 29..
प्रविवेश तदा लङ्कां रावणो राक्षसेश्वरः। तां सुवर्णपरिष्कारे शुभे महति वेश्मनि॥ ३०॥
प्रविवेश तदा लङ्काम् रावणः राक्षसेश्वरः। ताम् सुवर्ण-परिष्कारे शुभे महति वेश्मनि॥ ३०॥
praviveśa tadā laṅkām rāvaṇaḥ rākṣaseśvaraḥ. tām suvarṇa-pariṣkāre śubhe mahati veśmani.. 30..
प्रवेश्य मैथिलीं वाक्यैः सान्त्वयामास रावणः। तृणवद् भाषितं तस्य तं च नैर्ऋतपुङ्गवम्॥ ३१॥
प्रवेश्य मैथिलीम् वाक्यैः सान्त्वयामास रावणः। तृण-वत् भाषितम् तस्य तम् च नैरृत-पुङ्गवम्॥ ३१॥
praveśya maithilīm vākyaiḥ sāntvayāmāsa rāvaṇaḥ. tṛṇa-vat bhāṣitam tasya tam ca nairṛta-puṅgavam.. 31..
अचिन्तयन्ती वैदेही ह्यशोकवनिकां गता। न्यवर्तत तदा रामो मृगं हत्वा तदा वने॥ ३२॥
अ चिन्तयन्ती वैदेही हि अशोक-वनिकाम् गता। न्यवर्तत तदा रामः मृगम् हत्वा तदा वने॥ ३२॥
a cintayantī vaidehī hi aśoka-vanikām gatā. nyavartata tadā rāmaḥ mṛgam hatvā tadā vane.. 32..
निवर्तमानः काकुत्स्थो दृष्ट्वा गृध्रं स विव्यथे। गृध्रं हतं तदा दृष्ट्वा रामः प्रियतरं पितुः॥ ३३॥
निवर्तमानः काकुत्स्थः दृष्ट्वा गृध्रम् स विव्यथे। गृध्रम् हतम् तदा दृष्ट्वा रामः प्रियतरम् पितुः॥ ३३॥
nivartamānaḥ kākutsthaḥ dṛṣṭvā gṛdhram sa vivyathe. gṛdhram hatam tadā dṛṣṭvā rāmaḥ priyataram pituḥ.. 33..
मार्गमाणस्तु वैदेहीं राघवः सहलक्ष्मणः। गोदावरीमनुचरन् वनोद्देशांश्च पुष्पितान्॥ ३४॥
मार्गमाणः तु वैदेहीम् राघवः सहलक्ष्मणः। गोदावरीम् अनुचरन् वन-उद्देशान् च पुष्पितान्॥ ३४॥
mārgamāṇaḥ tu vaidehīm rāghavaḥ sahalakṣmaṇaḥ. godāvarīm anucaran vana-uddeśān ca puṣpitān.. 34..
आसेदतुर्महारण्ये कबन्धं नाम राक्षसम्। ततः कबन्धवचनाद् रामः सत्यपराक्रमः॥ ३५॥
आसेदतुः महा-अरण्ये कबन्धम् नाम राक्षसम्। ततस् कबन्ध-वचनात् रामः सत्य-पराक्रमः॥ ३५॥
āsedatuḥ mahā-araṇye kabandham nāma rākṣasam. tatas kabandha-vacanāt rāmaḥ satya-parākramaḥ.. 35..
ऋष्यमूकगिरिं गत्वा सुग्रीवेण समागतः। तयोः समागमः पूर्वं प्रीत्या हार्दो व्यजायत॥ ३६॥
ऋष्यमूक-गिरिम् गत्वा सुग्रीवेण समागतः। तयोः समागमः पूर्वम् प्रीत्या हार्दः व्यजायत॥ ३६॥
ṛṣyamūka-girim gatvā sugrīveṇa samāgataḥ. tayoḥ samāgamaḥ pūrvam prītyā hārdaḥ vyajāyata.. 36..
भ्रात्रा निरस्तः क्रुद्धेन सुग्रीवो वालिना पुरा। इतरेतरसंवादात् प्रगाढः प्रणयस्तयोः॥ ३७॥
भ्रात्रा निरस्तः क्रुद्धेन सुग्रीवः वालिना पुरा। इतरेतर-संवादात् प्रगाढः प्रणयः तयोः॥ ३७॥
bhrātrā nirastaḥ kruddhena sugrīvaḥ vālinā purā. itaretara-saṃvādāt pragāḍhaḥ praṇayaḥ tayoḥ.. 37..
रामः स्वबाहुवीर्येण स्वराज्यं प्रत्यपादयत्। वालिनं समरे हत्वा महाकायं महाबलम्॥ ३८॥
रामः स्व-बाहु-वीर्येण स्व-राज्यम् प्रत्यपादयत्। वालिनम् समरे हत्वा महा-कायम् महा-बलम्॥ ३८॥
rāmaḥ sva-bāhu-vīryeṇa sva-rājyam pratyapādayat. vālinam samare hatvā mahā-kāyam mahā-balam.. 38..
सुग्रीवः स्थापितो राज्ये सहितः सर्ववानरैः। रामाय प्रतिजानीते राजपुत्र्यास्तु मार्गणम्॥ ३९॥
सुग्रीवः स्थापितः राज्ये सहितः सर्व-वानरैः। रामाय प्रतिजानीते राज-पुत्र्याः तु मार्गणम्॥ ३९॥
sugrīvaḥ sthāpitaḥ rājye sahitaḥ sarva-vānaraiḥ. rāmāya pratijānīte rāja-putryāḥ tu mārgaṇam.. 39..
आदिष्टा वानरेन्द्रेण सुग्रीवेण महात्मना। दश कोट्यः प्लवङ्गानां सर्वाः प्रस्थापिता दिशः॥ ४०॥
आदिष्टाः वानर-इन्द्रेण सुग्रीवेण महात्मना। दश कोट्यः प्लवङ्गानाम् सर्वाः प्रस्थापिताः दिशः॥ ४०॥
ādiṣṭāḥ vānara-indreṇa sugrīveṇa mahātmanā. daśa koṭyaḥ plavaṅgānām sarvāḥ prasthāpitāḥ diśaḥ.. 40..
तेषां नो विप्रकृष्टानां विन्ध्ये पर्वतसत्तमे। भृशं शोकाभितप्तानां महान् कालोऽत्यवर्तत॥ ४१॥
तेषाम् नः विप्रकृष्टानाम् विन्ध्ये पर्वत-सत्तमे। भृशम् शोक-अभितप्तानाम् महान् कालः अत्यवर्तत॥ ४१॥
teṣām naḥ viprakṛṣṭānām vindhye parvata-sattame. bhṛśam śoka-abhitaptānām mahān kālaḥ atyavartata.. 41..
भ्राता तु गृध्रराजस्य सम्पातिर्नाम वीर्यवान्। समाख्याति स्म वसतीं सीतां रावणमन्दिरे॥ ४२॥
भ्राता तु गृध्र-राजस्य सम्पातिः नाम वीर्यवान्। समाख्याति स्म वसतीम् सीताम् रावण-मन्दिरे॥ ४२॥
bhrātā tu gṛdhra-rājasya sampātiḥ nāma vīryavān. samākhyāti sma vasatīm sītām rāvaṇa-mandire.. 42..
सोऽहं दुःखपरीतानां दुःखं तज्ज्ञातिनां नुदन्। आत्मवीर्यं समास्थाय योजनानां शतं प्लुतः। तत्राहमेकामद्राक्षमशोकवनिकां गताम्॥ ४३॥
सः अहम् दुःख-परीतानाम् दुःखम् तद्-ज्ञातिनाम् नुदन्। आत्म-वीर्यम् समास्थाय योजनानाम् शतम् प्लुतः। तत्र अहम् एकाम् अद्राक्षम् अशोक-वनिकाम् गताम्॥ ४३॥
saḥ aham duḥkha-parītānām duḥkham tad-jñātinām nudan. ātma-vīryam samāsthāya yojanānām śatam plutaḥ. tatra aham ekām adrākṣam aśoka-vanikām gatām.. 43..
कौशेयवस्त्रां मलिनां निरानन्दां दृढव्रताम्। तया समेत्य विधिवत् पृष्ट्वा सर्वमनिन्दिताम्॥ ४४॥
कौशेय-वस्त्राम् मलिनाम् निरानन्दाम् दृढ-व्रताम्। तया समेत्य विधिवत् पृष्ट्वा सर्वम् अनिन्दिताम्॥ ४४॥
kauśeya-vastrām malinām nirānandām dṛḍha-vratām. tayā sametya vidhivat pṛṣṭvā sarvam aninditām.. 44..
अभिज्ञानं मया दत्तं रामनामाङ्गुलीयकम्। अभिज्ञानं मणिं लब्ध्वा चरितार्थोऽहमागतः॥ ४५॥
अभिज्ञानम् मया दत्तम् राम-नाम-अङ्गुलीयकम्। अभिज्ञानम् मणिम् लब्ध्वा चरितार्थः अहम् आगतः॥ ४५॥
abhijñānam mayā dattam rāma-nāma-aṅgulīyakam. abhijñānam maṇim labdhvā caritārthaḥ aham āgataḥ.. 45..
मया च पुनरागम्य रामस्याक्लिष्टकर्मणः। अभिज्ञानं मया दत्तमर्चिष्मान् स महामणिः॥ ४६॥
मया च पुनर् आगम्य रामस्य अक्लिष्ट-कर्मणः। अभिज्ञानम् मया दत्तम् अर्चिष्मान् स महा-मणिः॥ ४६॥
mayā ca punar āgamya rāmasya akliṣṭa-karmaṇaḥ. abhijñānam mayā dattam arciṣmān sa mahā-maṇiḥ.. 46..
श्रुत्वा तां मैथिलीं रामस्त्वाशशंसे च जीवितम्। जीवितान्तमनुप्राप्तः पीत्वामृतमिवातुरः॥ ४७॥
श्रुत्वा ताम् मैथिलीम् रामः तु आशशंसे च जीवितम्। जीवित-अन्तम् अनुप्राप्तः पीत्वा अमृतम् इव आतुरः॥ ४७॥
śrutvā tām maithilīm rāmaḥ tu āśaśaṃse ca jīvitam. jīvita-antam anuprāptaḥ pītvā amṛtam iva āturaḥ.. 47..
उद्योजयिष्यन्नुद्योगं दध्रे लङ्कावधे मनः। जिघांसुरिव लोकान्ते सर्वाँल्लोकान् विभावसुः॥ ४८॥
उद्योजयिष्यन् उद्योगम् दध्रे लङ्का-वधे मनः। जिघांसुः इव लोक-अन्ते सर्वान् लोकान् विभावसुः॥ ४८॥
udyojayiṣyan udyogam dadhre laṅkā-vadhe manaḥ. jighāṃsuḥ iva loka-ante sarvān lokān vibhāvasuḥ.. 48..
ततः समुद्रमासाद्य नलं सेतुमकारयत्। अतरत् कपिवीराणां वाहिनी तेन सेतुना॥ ४९॥
ततस् समुद्रम् आसाद्य नलम् सेतुम् अकारयत्। अतरत् कपि-वीराणाम् वाहिनी तेन सेतुना॥ ४९॥
tatas samudram āsādya nalam setum akārayat. atarat kapi-vīrāṇām vāhinī tena setunā.. 49..
प्रहस्तमवधीन्नीलः कुम्भकर्णं तु राघवः। लक्ष्मणो रावणसुतं स्वयं रामस्तु रावणम्॥ ५०॥
प्रहस्तम् अवधीत् नीलः कुम्भकर्णम् तु राघवः। लक्ष्मणः रावण-सुतम् स्वयम् रामः तु रावणम्॥ ५०॥
prahastam avadhīt nīlaḥ kumbhakarṇam tu rāghavaḥ. lakṣmaṇaḥ rāvaṇa-sutam svayam rāmaḥ tu rāvaṇam.. 50..
स शक्रेण समागम्य यमेन वरुणेन च। महेश्वरस्वयंभूभ्यां तथा दशरथेन च॥ ५१॥
स शक्रेण समागम्य यमेन वरुणेन च। महेश्वर-स्वयंभूभ्याम् तथा दशरथेन च॥ ५१॥
sa śakreṇa samāgamya yamena varuṇena ca. maheśvara-svayaṃbhūbhyām tathā daśarathena ca.. 51..
तैश्च दत्तवरः श्रीमानृषिभिश्च समागतैः। सुरर्षिभिश्च काकुत्स्थो वराँल्लेभे परंतपः॥ ५२॥
तैः च दत्त-वरः श्रीमान् ऋषिभिः च समागतैः। सुर-ऋषिभिः च काकुत्स्थः वरान् लेभे परंतपः॥ ५२॥
taiḥ ca datta-varaḥ śrīmān ṛṣibhiḥ ca samāgataiḥ. sura-ṛṣibhiḥ ca kākutsthaḥ varān lebhe paraṃtapaḥ.. 52..
स तु दत्तवरः प्रीत्या वानरैश्च समागतैः। पुष्पकेण विमानेन किष्किन्धामभ्युपागमत्॥ ५३॥
स तु दत्त-वरः प्रीत्या वानरैः च समागतैः। पुष्पकेण विमानेन किष्किन्धाम् अभ्युपागमत्॥ ५३॥
sa tu datta-varaḥ prītyā vānaraiḥ ca samāgataiḥ. puṣpakeṇa vimānena kiṣkindhām abhyupāgamat.. 53..
तां गङ्गां पुनरासाद्य वसन्तं मुनिसंनिधौ। अविघ्नं पुष्ययोगेन श्वो रामं द्रष्टुमर्हसि॥ ५४॥
ताम् गङ्गाम् पुनर् आसाद्य वसन्तम् मुनि-संनिधौ। अविघ्नम् पुष्य-योगेन श्वस् रामम् द्रष्टुम् अर्हसि॥ ५४॥
tām gaṅgām punar āsādya vasantam muni-saṃnidhau. avighnam puṣya-yogena śvas rāmam draṣṭum arhasi.. 54..
ततः स वाक्यैर्मधुरैर्हनूमतो निशम्य हृष्टो भरतः कृताञ्जलिः। उवाच वाणीं मनसः प्रहर्षिणीं चिरस्य पूर्णः खलु मे मनोरथः॥ ५५॥
ततस् स वाक्यैः मधुरैः हनूमतः निशम्य हृष्टः भरतः कृताञ्जलिः। उवाच वाणीम् मनसः प्रहर्षिणीम् चिरस्य पूर्णः खलु मे मनोरथः॥ ५५॥
tatas sa vākyaiḥ madhuraiḥ hanūmataḥ niśamya hṛṣṭaḥ bharataḥ kṛtāñjaliḥ. uvāca vāṇīm manasaḥ praharṣiṇīm cirasya pūrṇaḥ khalu me manorathaḥ.. 55..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In