This overlay will guide you through the buttons:

| |
|
नरवानरराजौ तौ स च वायुसुतः कपिः । जाम्बवानृक्षराजश्च राक्षसश्च विभीषणः ॥ 1 ॥
नर-वानर-राजौ तौ स च वायु-सुतः कपिः । जाम्बवान् ऋक्ष-राजः च राक्षसः च विभीषणः ॥ १ ॥
nara-vānara-rājau tau sa ca vāyu-sutaḥ kapiḥ . jāmbavān ṛkṣa-rājaḥ ca rākṣasaḥ ca vibhīṣaṇaḥ .. 1 ..
अङ्गदो वालिपुत्रश्च सौमित्रिः शरभः कपिः । सुषेणः सहदायादो मैन्दो द्विविद एव च ॥ 2 ॥
अङ्गदः वालि-पुत्रः च सौमित्रिः शरभः कपिः । सुषेणः सहदायादः मैन्दः द्विविदः एव च ॥ २ ॥
aṅgadaḥ vāli-putraḥ ca saumitriḥ śarabhaḥ kapiḥ . suṣeṇaḥ sahadāyādaḥ maindaḥ dvividaḥ eva ca .. 2 ..
गजो गवाक्षो कुमुदो नलोऽथ पनसस्तथा । अमित्रविषयं प्राप्ताः समवेताः समर्थयन् ॥ 3 ॥
गजः गवाक्षः कुमुदः नलः अथ पनसः तथा । अमित्र-विषयम् प्राप्ताः समवेताः समर्थयन् ॥ ३ ॥
gajaḥ gavākṣaḥ kumudaḥ nalaḥ atha panasaḥ tathā . amitra-viṣayam prāptāḥ samavetāḥ samarthayan .. 3 ..
इयं सा लक्ष्यते लङ्का पुरी रावणपालिता । सासुरोरगगन्धर्वैरमरैरपि दुर्जया ॥ 4 ॥
इयम् सा लक्ष्यते लङ्का पुरी रावण-पालिता । स असुर-उरग-गन्धर्वैः अमरैः अपि दुर्जया ॥ ४ ॥
iyam sā lakṣyate laṅkā purī rāvaṇa-pālitā . sa asura-uraga-gandharvaiḥ amaraiḥ api durjayā .. 4 ..
कार्यसिद्धिं पुरस्कृत्य मन्त्रयध्वं विनिर्णये । नित्यं संनिहितो ह्यत्र रावणो राक्षसाधिपः ॥ 5 ॥
कार्य-सिद्धिम् पुरस्कृत्य मन्त्रयध्वम् विनिर्णये । नित्यम् संनिहितः हि अत्र रावणः राक्षस-अधिपः ॥ ५ ॥
kārya-siddhim puraskṛtya mantrayadhvam vinirṇaye . nityam saṃnihitaḥ hi atra rāvaṇaḥ rākṣasa-adhipaḥ .. 5 ..
अथ तेषु ब्रुवाणेषु रावणावरजोऽब्रवीत् । वाक्यमग्राम्यपदवत्पुष्कलार्थं विभीषणः ॥ 6 ॥
अथ तेषु ब्रुवाणेषु रावण-अवरजः अब्रवीत् । वाक्यम् अग्राम्य-पद-वत् पुष्कल-अर्थम् विभीषणः ॥ ६ ॥
atha teṣu bruvāṇeṣu rāvaṇa-avarajaḥ abravīt . vākyam agrāmya-pada-vat puṣkala-artham vibhīṣaṇaḥ .. 6 ..
अनलः शरभश्चैव सम्पातिः प्रघसस्तथा । गत्वा लङ्कां ममामात्याः पुरीं पुनरिहागताः ॥ 7 ॥
अनलः शरभः च एव सम्पातिः प्रघसः तथा । गत्वा लङ्काम् मम अमात्याः पुरीम् पुनर् इह आगताः ॥ ७ ॥
analaḥ śarabhaḥ ca eva sampātiḥ praghasaḥ tathā . gatvā laṅkām mama amātyāḥ purīm punar iha āgatāḥ .. 7 ..
भूत्वा शकुनयः सर्वे प्रविष्टाश् च रिपोर्बलम् । विधानं विहितं यच्च तद्दृष्ट्वा समुपस्थिताः ॥ 8 ॥
भूत्वा शकुनयः सर्वे प्रविष्टाः च रिपोः बलम् । विधानम् विहितम् यत् च तत् दृष्ट्वा समुपस्थिताः ॥ ८ ॥
bhūtvā śakunayaḥ sarve praviṣṭāḥ ca ripoḥ balam . vidhānam vihitam yat ca tat dṛṣṭvā samupasthitāḥ .. 8 ..
संविधानं यथाहुस्ते रावणस्य दुरात्मनः । राम तद्ब्रुवतः सर्वं यथातथ्येन मे शृणु ॥ 9 ॥
संविधानम् यथा आहुः ते रावणस्य दुरात्मनः । राम तत् ब्रुवतः सर्वम् यथातथ्येन मे शृणु ॥ ९ ॥
saṃvidhānam yathā āhuḥ te rāvaṇasya durātmanaḥ . rāma tat bruvataḥ sarvam yathātathyena me śṛṇu .. 9 ..
पूर्वं प्रहस्तः सबलो द्वारमासाद्य तिष्ठति । दक्षिणं च महावीर्यौ महापार्श्वमहोदरौ ॥ 10 ॥
पूर्वम् प्रहस्तः स बलः द्वारम् आसाद्य तिष्ठति । दक्षिणम् च महा-वीर्यौ महापार्श्व-महोदरौ ॥ १० ॥
pūrvam prahastaḥ sa balaḥ dvāram āsādya tiṣṭhati . dakṣiṇam ca mahā-vīryau mahāpārśva-mahodarau .. 10 ..
इन्द्रजित्पश्चिमद्वारं राक्षसैर्बहुभिर्वृतः । पट्टसासिधनुष्मद्भिः शूलमुद्गरपाणिभिः ॥ 11 ॥
इन्द्रजित् पश्चिम-द्वारम् राक्षसैः बहुभिः वृतः । पट्टस-असि-धनुष्मद्भिः शूल-मुद्गर-पाणिभिः ॥ ११ ॥
indrajit paścima-dvāram rākṣasaiḥ bahubhiḥ vṛtaḥ . paṭṭasa-asi-dhanuṣmadbhiḥ śūla-mudgara-pāṇibhiḥ .. 11 ..
नानाप्रहरणैः शूरैरावृतो रावणात्मजः । राक्षसानां सहस्रैस्तु बहुभिः शस्त्रपाणिभिः ॥ 12 ॥
नाना प्रहरणैः शूरैः आवृतः रावण-आत्मजः । राक्षसानाम् सहस्रैः तु बहुभिः शस्त्र-पाणिभिः ॥ १२ ॥
nānā praharaṇaiḥ śūraiḥ āvṛtaḥ rāvaṇa-ātmajaḥ . rākṣasānām sahasraiḥ tu bahubhiḥ śastra-pāṇibhiḥ .. 12 ..
युक्तः परमसंविग्नो राक्षसैर्बहुभिर्वृतः । उत्तरं नगरद्वारं रावणः स्वयमास्थितः ॥ 13 ॥
युक्तः परम-संविग्नः राक्षसैः बहुभिः वृतः । उत्तरम् नगर-द्वारम् रावणः स्वयम् आस्थितः ॥ १३ ॥
yuktaḥ parama-saṃvignaḥ rākṣasaiḥ bahubhiḥ vṛtaḥ . uttaram nagara-dvāram rāvaṇaḥ svayam āsthitaḥ .. 13 ..
विरूपाक्षस्तु महता शूलखड्गधनुष्मता । बलेन राक्षसैः सार्धं मध्यमं गुल्ममास्थितः ॥ 14 ॥
विरूपाक्षः तु महता शूल-खड्ग-धनुष्मता । बलेन राक्षसैः सार्धम् मध्यमम् गुल्मम् आस्थितः ॥ १४ ॥
virūpākṣaḥ tu mahatā śūla-khaḍga-dhanuṣmatā . balena rākṣasaiḥ sārdham madhyamam gulmam āsthitaḥ .. 14 ..
एतानेवंविधान्गुल्माँल्लङ्कायां समुदीक्ष्य ते । मामकाः सचिवाः सर्वे शीघ्रं पुनरिहागताः ॥ 15 ॥
एतान् एवंविधान् गुल्मान् लङ्कायाम् समुदीक्ष्य ते । मामकाः सचिवाः सर्वे शीघ्रम् पुनर् इह आगताः ॥ १५ ॥
etān evaṃvidhān gulmān laṅkāyām samudīkṣya te . māmakāḥ sacivāḥ sarve śīghram punar iha āgatāḥ .. 15 ..
गजानां च सहस्रं च रथानामयुतं पुरे । हयानामयुते द्वे च साग्रकोटी च रक्षसाम् ॥ 16 ॥
गजानाम् च सहस्रम् च रथानाम् अयुतम् पुरे । हयानाम् अयुते द्वे च साग्र-कोटी च रक्षसाम् ॥ १६ ॥
gajānām ca sahasram ca rathānām ayutam pure . hayānām ayute dve ca sāgra-koṭī ca rakṣasām .. 16 ..
विक्रान्ता बलवन्तश्च संयुगेष्वाततायिनः । इष्टा राक्षसराजस्य नित्यमेते निशाचराः ॥ 17 ॥
विक्रान्ताः बलवन्तः च संयुगेषु आततायिनः । इष्टाः राक्षस-राजस्य नित्यम् एते निशाचराः ॥ १७ ॥
vikrāntāḥ balavantaḥ ca saṃyugeṣu ātatāyinaḥ . iṣṭāḥ rākṣasa-rājasya nityam ete niśācarāḥ .. 17 ..
एकैकस्यात्र युद्धार्थे राक्षसस्य विशां पते । परिवारः सहस्राणां सहस्रमुपतिष्ठते ॥ 18 ॥
एकैकस्य अत्र युद्ध-अर्थे राक्षसस्य विशाम् पते । परिवारः सहस्राणाम् सहस्रम् उपतिष्ठते ॥ १८ ॥
ekaikasya atra yuddha-arthe rākṣasasya viśām pate . parivāraḥ sahasrāṇām sahasram upatiṣṭhate .. 18 ..
एतां प्रवृत्तिं लङ्कायां मन्त्रिप्रोक्तं विभीषणः । एवमुक्त्वा महाबाहू राक्षसांस्तानदर्शयत् ॥ 19 ॥
एताम् प्रवृत्तिम् लङ्कायाम् मन्त्रि-प्रोक्तम् विभीषणः । एवम् उक्त्वा महा-बाहुः राक्षसान् तान् अदर्शयत् ॥ १९ ॥
etām pravṛttim laṅkāyām mantri-proktam vibhīṣaṇaḥ . evam uktvā mahā-bāhuḥ rākṣasān tān adarśayat .. 19 ..
लङ्कायां सचिवै सर्वं रामाय प्रत्यवेदयत् । रामं कमलपत्राक्षमिदमुत्तरमब्रवीत् ॥ 20 ॥
लङ्कायाम् सचिवैः सर्वम् रामाय प्रत्यवेदयत् । रामम् कमल-पत्र-अक्षम् इदम् उत्तरम् अब्रवीत् ॥ २० ॥
laṅkāyām sacivaiḥ sarvam rāmāya pratyavedayat . rāmam kamala-patra-akṣam idam uttaram abravīt .. 20 ..
रावणावरजः श्रीमान् रामप्रियचिकीर्षया । कुबेरं तु यदा राम रावणः प्रत्ययुध्यत ॥ 21 ॥
। कुबेरम् तु यदा राम रावणः प्रत्ययुध्यत ॥ २१ ॥
. kuberam tu yadā rāma rāvaṇaḥ pratyayudhyata .. 21 ..
षष्टिः शतसहस्राणि तदा निर्यान्ति राक्षसाः । पराक्रमेण वीर्येण तेजसा सत्त्वगौरवात् । सदृशा योऽत्र दर्पेण रावणस्य दुरात्मनः ॥ 22 ॥
षष्टिः शत-सहस्राणि तदा निर्यान्ति राक्षसाः । पराक्रमेण वीर्येण तेजसा सत्त्व-गौरवात् । सदृशाः यः अत्र दर्पेण रावणस्य दुरात्मनः ॥ २२ ॥
ṣaṣṭiḥ śata-sahasrāṇi tadā niryānti rākṣasāḥ . parākrameṇa vīryeṇa tejasā sattva-gauravāt . sadṛśāḥ yaḥ atra darpeṇa rāvaṇasya durātmanaḥ .. 22 ..
अत्र मन्युर्न कर्तव्यो रोषये त्वां न भीषये । समर्थो ह्यसि वीर्येण सुराणाम् अपि निग्रहे ॥ 23 ॥
अत्र मन्युः न कर्तव्यः रोषये त्वाम् न भीषये । समर्थः हि असि वीर्येण सुराणाम् अपि निग्रहे ॥ २३ ॥
atra manyuḥ na kartavyaḥ roṣaye tvām na bhīṣaye . samarthaḥ hi asi vīryeṇa surāṇām api nigrahe .. 23 ..
तद्भवांश्चतुरङ्गेण बलेन महता वृतः । व्यूह्येदं वानरानीकं निर्मथिष्यसि रावणम् ॥ 24 ॥
तत् भवान् चतुरङ्गेण बलेन महता वृतः । व्यूह्य इदम् वानर-अनीकम् निर्मथिष्यसि रावणम् ॥ २४ ॥
tat bhavān caturaṅgeṇa balena mahatā vṛtaḥ . vyūhya idam vānara-anīkam nirmathiṣyasi rāvaṇam .. 24 ..
रावणावरजे वाक्यमेवं ब्रुवति राघवः । शत्रूणां प्रतिघातार्थमिदं वचनमब्रवीत् ॥ 25 ॥
रावण-अवरजे वाक्यम् एवम् ब्रुवति राघवः । शत्रूणाम् प्रतिघात-अर्थम् इदम् वचनम् अब्रवीत् ॥ २५ ॥
rāvaṇa-avaraje vākyam evam bruvati rāghavaḥ . śatrūṇām pratighāta-artham idam vacanam abravīt .. 25 ..
पूर्वद्वारे तु लङ्काया नीलो वानरपुङ्गवः । प्रहस्तं प्रतियोद्धा स्याद्वानरैर्बहुभिर्वृतः ॥ 26 ॥
पूर्व-द्वारे तु लङ्कायाः नीलः वानर-पुङ्गवः । प्रहस्तम् प्रतियोद्धा स्यात् वानरैः बहुभिः वृतः ॥ २६ ॥
pūrva-dvāre tu laṅkāyāḥ nīlaḥ vānara-puṅgavaḥ . prahastam pratiyoddhā syāt vānaraiḥ bahubhiḥ vṛtaḥ .. 26 ..
अङ्गदो वालिपुत्रस्तु बलेन महता वृतः । दक्षिणे बाधतां द्वारे महापार्श्वमहोदरौ ॥ 27 ॥
अङ्गदः वालि-पुत्रः तु बलेन महता वृतः । दक्षिणे बाधताम् द्वारे महापार्श्व-महोदरौ ॥ २७ ॥
aṅgadaḥ vāli-putraḥ tu balena mahatā vṛtaḥ . dakṣiṇe bādhatām dvāre mahāpārśva-mahodarau .. 27 ..
हनूमान्पश्चिमद्वारं निपीड्य पवनात्मजः । प्रविशत्वप्रमेयात्मा बहुभिः कपिभिर्वृतः ॥ 28 ॥
हनूमान् पश्चिम-द्वारम् निपीड्य पवनात्मजः । प्रविशतु अप्रमेय-आत्मा बहुभिः कपिभिः वृतः ॥ २८ ॥
hanūmān paścima-dvāram nipīḍya pavanātmajaḥ . praviśatu aprameya-ātmā bahubhiḥ kapibhiḥ vṛtaḥ .. 28 ..
दैत्यदानवसङ्घानामृषीणां च महात्मनाम् । विप्रकारप्रियः क्षुद्रो वरदानबलान्वितः ॥ 29 ॥
दैत्य-दानव-सङ्घानाम् ऋषीणाम् च महात्मनाम् । विप्रकार-प्रियः क्षुद्रः वर-दान-बल-अन्वितः ॥ २९ ॥
daitya-dānava-saṅghānām ṛṣīṇām ca mahātmanām . viprakāra-priyaḥ kṣudraḥ vara-dāna-bala-anvitaḥ .. 29 ..
परिक्रामति यः सर्वाँल्लोकान्सन्तापयन्प्रजाः । तस्याहं राक्षसेन्द्रस्य स्वयमेव वधे धृतः ॥ 30 ॥
परिक्रामति यः सर्वान् लोकान् सन्तापयन् प्रजाः । तस्य अहम् राक्षस-इन्द्रस्य स्वयम् एव वधे धृतः ॥ ३० ॥
parikrāmati yaḥ sarvān lokān santāpayan prajāḥ . tasya aham rākṣasa-indrasya svayam eva vadhe dhṛtaḥ .. 30 ..
उत्तरं नगरद्वारमहं सौमित्रिणा सह । निपीड्याभिप्रवेक्ष्यामि सबलो यत्र रावणः ॥ 31 ॥
उत्तरम् नगर-द्वारम् अहम् सौमित्रिणा सह । निपीड्य अभिप्रवेक्ष्यामि सबलः यत्र रावणः ॥ ३१ ॥
uttaram nagara-dvāram aham saumitriṇā saha . nipīḍya abhipravekṣyāmi sabalaḥ yatra rāvaṇaḥ .. 31 ..
वानरेन्द्रश्च बलवानृक्षराजश्च जाम्बवान् । राक्षसेन्द्रानुजश् चैव गुल्मे भवतु मध्यमे ॥ 32 ॥
वानर-इन्द्रः च बलवान् ऋक्ष-राजः च जाम्बवान् । राक्षस-इन्द्र-अनुजः च एव गुल्मे भवतु मध्यमे ॥ ३२ ॥
vānara-indraḥ ca balavān ṛkṣa-rājaḥ ca jāmbavān . rākṣasa-indra-anujaḥ ca eva gulme bhavatu madhyame .. 32 ..
न चैव मानुषं रूपं कार्यं हरिभिराहवे । एषा भवतु नः संज्ञा युद्धेऽस्मिन्वानरे बले ॥ 33 ॥
न च एव मानुषम् रूपम् कार्यम् हरिभिः आहवे । एषा भवतु नः संज्ञा युद्धे अस्मिन् वानरे बले ॥ ३३ ॥
na ca eva mānuṣam rūpam kāryam haribhiḥ āhave . eṣā bhavatu naḥ saṃjñā yuddhe asmin vānare bale .. 33 ..
वानरा एव निश्चिह्नं स्वजनेऽस्मिन्भविष्यति । वयं तु मानुषेणैव सप्त योत्स्यामहे परान् ॥ 34 ॥
वानराः एव निश्चिह्नम् स्व-जने अस्मिन् भविष्यति । वयम् तु मानुषेण एव सप्त योत्स्यामहे परान् ॥ ३४ ॥
vānarāḥ eva niścihnam sva-jane asmin bhaviṣyati . vayam tu mānuṣeṇa eva sapta yotsyāmahe parān .. 34 ..
अहमेव सह भ्रात्रा लक्ष्मणेन महौजसा । आत्मना पञ्चमश्चायं सखा मम विभीषणः ॥ 35 ॥
अहम् एव सह भ्रात्रा लक्ष्मणेन महा-ओजसा । आत्मना पञ्चमः च अयम् सखा मम विभीषणः ॥ ३५ ॥
aham eva saha bhrātrā lakṣmaṇena mahā-ojasā . ātmanā pañcamaḥ ca ayam sakhā mama vibhīṣaṇaḥ .. 35 ..
स रामः कार्यसिद्ध्यर्थमेवमुक्त्वा विभीषणम् । सुवेलारोहणे बुद्धिं चकार मतिमान्मतिम् ॥ 36 ॥
स रामः कार्य-सिद्धि-अर्थम् एवम् उक्त्वा विभीषणम् । सुवेल-आरोहणे बुद्धिम् चकार मतिमान् मतिम् ॥ ३६ ॥
sa rāmaḥ kārya-siddhi-artham evam uktvā vibhīṣaṇam . suvela-ārohaṇe buddhim cakāra matimān matim .. 36 ..
ततस्तु रामो महता बलेन प्रच्छाद्य सर्वां पृथिवीं महात्मा । प्रहृष्टरूपोऽभिजगाम लङ्कां कृत्वा मतिं सोऽरिवधे महात्मा ॥ 37 ॥
ततस् तु रामः महता बलेन प्रच्छाद्य सर्वाम् पृथिवीम् महात्मा । प्रहृष्ट-रूपः अभिजगाम लङ्काम् कृत्वा मतिम् सः अरि-वधे महात्मा ॥ ३७ ॥
tatas tu rāmaḥ mahatā balena pracchādya sarvām pṛthivīm mahātmā . prahṛṣṭa-rūpaḥ abhijagāma laṅkām kṛtvā matim saḥ ari-vadhe mahātmā .. 37 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In