This overlay will guide you through the buttons:

| |
|
श्रुत्वा हनूमतो वाक्यं यथावदनुपूर्वशः । ततोऽब्रवीन्महातेजा रामः सत्यपराक्रमः ॥ 1 ॥
श्रुत्वा हनूमतः वाक्यम् यथावत् अनुपूर्वशस् । ततस् अब्रवीत् महा-तेजाः रामः सत्य-पराक्रमः ॥ १ ॥
śrutvā hanūmataḥ vākyam yathāvat anupūrvaśas . tatas abravīt mahā-tejāḥ rāmaḥ satya-parākramaḥ .. 1 ..
यांनि वेदयसे लङ्कां पुरीं भीमस्य रक्षसः । क्षिप्रमेनां वधिष्यामि सत्यमेतद्ब्रवीमि ते ॥ 2 ॥
यांनि वेदयसे लङ्काम् पुरीम् भीमस्य रक्षसः । क्षिप्रम् एनाम् वधिष्यामि सत्यम् एतत् ब्रवीमि ते ॥ २ ॥
yāṃni vedayase laṅkām purīm bhīmasya rakṣasaḥ . kṣipram enām vadhiṣyāmi satyam etat bravīmi te .. 2 ..
अस्मिन्मुहूर्ते सुग्रीव प्रयाणमभिरोचये । युक्तो मुहूर्तो विजयः प्राप्तो मध्यं दिवाकरः ॥ 3 ॥
अस्मिन् मुहूर्ते सुग्रीव प्रयाणम् अभिरोचये । युक्तः मुहूर्तः विजयः प्राप्तः मध्यम् दिवाकरः ॥ ३ ॥
asmin muhūrte sugrīva prayāṇam abhirocaye . yuktaḥ muhūrtaḥ vijayaḥ prāptaḥ madhyam divākaraḥ .. 3 ..
सीतां हृत्वा तु मे जातु क्वासौ यास्यति यास्यत: । सीता श्रुत्वाभियानं मे अशामेष्यति जीविते । जीवितान्तेऽ मृतं स्पृष्टवा पीत्वा विषमिवातुरः ॥ 4 ॥
सीताम् हृत्वा तु मे जातु क्व असौ यास्यति यास्यत । सीता श्रुत्वा अभियानम् मे जीविते । जीवितान्ते मृतम् स्पृष्टवा पीत्वा विषम् इव आतुरः ॥ ४ ॥
sītām hṛtvā tu me jātu kva asau yāsyati yāsyata . sītā śrutvā abhiyānam me jīvite . jīvitānte mṛtam spṛṣṭavā pītvā viṣam iva āturaḥ .. 4 ..
उत्तरा फल्गुनी ह्यद्य श्वस्तु हस्तेन योक्ष्यते । अभिप्रयाम सुग्रीव सर्वानीकसमावृताः ॥ 5 ॥
उत्तरा फल्गुनी हि अद्य श्वस् तु हस्तेन योक्ष्यते । अभिप्रयाम सुग्रीव सर्व-अनीक-समावृताः ॥ ५ ॥
uttarā phalgunī hi adya śvas tu hastena yokṣyate . abhiprayāma sugrīva sarva-anīka-samāvṛtāḥ .. 5 ..
निमित्तानि च धन्यानि यानि प्रादुर्भवन्ति मे । निहत्य रावणं सीतामानयिष्यामि जानकीम् ॥ 6 ॥
निमित्तानि च धन्यानि यानि प्रादुर्भवन्ति मे । निहत्य रावणम् सीताम् आनयिष्यामि जानकीम् ॥ ६ ॥
nimittāni ca dhanyāni yāni prādurbhavanti me . nihatya rāvaṇam sītām ānayiṣyāmi jānakīm .. 6 ..
उपरिष्टाद्धि नयनं स्फुरमाणमिदं मम । विजयं समनुप्राप्तं शंसतीव मनोरथम् ॥ 7 ॥
उपरिष्टात् हि नयनम् स्फुरमाणम् इदम् मम । विजयम् समनुप्राप्तम् शंसति इव मनोरथम् ॥ ७ ॥
upariṣṭāt hi nayanam sphuramāṇam idam mama . vijayam samanuprāptam śaṃsati iva manoratham .. 7 ..
ततो वानरराजेन लक्ष्मणेन सुपूजितः । उवाच रामो धर्मात्मा पुनरप्यर्धकोविदः ॥ 8 ॥
ततस् वानर-राजेन लक्ष्मणेन सु पूजितः । उवाच रामः धर्म-आत्मा पुनर् अपि अर्ध-कोविदः ॥ ८ ॥
tatas vānara-rājena lakṣmaṇena su pūjitaḥ . uvāca rāmaḥ dharma-ātmā punar api ardha-kovidaḥ .. 8 ..
अग्रे यातु बलस्यास्य नीलो मार्गमवेक्षितुम् । वृतः शतसहस्रेण वानराणां तरस्विनाम् ॥ 9 ॥
अग्रे यातु बलस्य अस्य नीलः मार्गम् अवेक्षितुम् । वृतः शत-सहस्रेण वानराणाम् तरस्विनाम् ॥ ९ ॥
agre yātu balasya asya nīlaḥ mārgam avekṣitum . vṛtaḥ śata-sahasreṇa vānarāṇām tarasvinām .. 9 ..
फलमूलवता नील शीतकाननवारिणा । पथा मधुमता चाशु सेनां सेनापते नय ॥ 10 ॥
फल-मूलवता नील शीत-कानन-वारिणा । पथा मधुमता च आशु सेनाम् सेनापते नय ॥ १० ॥
phala-mūlavatā nīla śīta-kānana-vāriṇā . pathā madhumatā ca āśu senām senāpate naya .. 10 ..
दूषयेयुर्दुरात्मानः पथि मूलफलोदकम् । राक्षसाः परिरक्षेथास्तेभ्यस्त्वं नित्यमुद्यतः ॥ 11 ॥
दूषयेयुः दुरात्मानः पथि मूल-फल-उदकम् । राक्षसाः परिरक्षेथाः तेभ्यः त्वम् नित्यम् उद्यतः ॥ ११ ॥
dūṣayeyuḥ durātmānaḥ pathi mūla-phala-udakam . rākṣasāḥ parirakṣethāḥ tebhyaḥ tvam nityam udyataḥ .. 11 ..
निम्नेषु वनदुर्गेषु वनेषु च वनौकसः । अभिप्लुत्याभिपश्येयुः परेषां निहतं बलम् ॥ 12 ॥
निम्नेषु वन-दुर्गेषु वनेषु च वनौकसः । अभिप्लुत्य अभिपश्येयुः परेषाम् निहतम् बलम् ॥ १२ ॥
nimneṣu vana-durgeṣu vaneṣu ca vanaukasaḥ . abhiplutya abhipaśyeyuḥ pareṣām nihatam balam .. 12 ..
यत्त फल्गु बलं किञ्चित्त दत्रैवोपपद्यताम् । एतद्धि कृत्यं घोरं नो विक्रमेण प्रयुज्यताम् ॥ 13 ॥
यत् ते फल्गु बलम् किञ्चिद् ते दत्रा एव उपपद्यताम् । एतत् हि कृत्यम् घोरम् नः विक्रमेण प्रयुज्यताम् ॥ १३ ॥
yat te phalgu balam kiñcid te datrā eva upapadyatām . etat hi kṛtyam ghoram naḥ vikrameṇa prayujyatām .. 13 ..
सागरौघनिभं भीममग्रानीकं महाबलाः । कपिसिंहा प्रकर्षन्तु शतशोऽथ सहस्रशः ॥ 14 ॥
सागर-ओघ-निभम् भीमम् अग्र-अनीकम् महा-बलाः । कपि-सिंहा प्रकर्षन्तु शतशस् अथ सहस्रशस् ॥ १४ ॥
sāgara-ogha-nibham bhīmam agra-anīkam mahā-balāḥ . kapi-siṃhā prakarṣantu śataśas atha sahasraśas .. 14 ..
गजश्च गिरिसङ्काशो गवयश्च महाबलः । गवाक्षश्चाग्रतो यान्तु गवां दृप्ता इवर्षभाः ॥ 15 ॥
गजः च गिरि-सङ्काशः गवयः च महा-बलः । गवाक्षः च अग्रतस् यान्तु गवाम् दृप्ताः इव ऋषभाः ॥ १५ ॥
gajaḥ ca giri-saṅkāśaḥ gavayaḥ ca mahā-balaḥ . gavākṣaḥ ca agratas yāntu gavām dṛptāḥ iva ṛṣabhāḥ .. 15 ..
यातु वानरवाहिन्या वानरः प्लवतां पतिः । पालयन्दक्षिणं पार्श्वमृषभो वानरर्षभः ॥ 16 ॥
यातु वानर-वाहिन्या वानरः प्लवताम् पतिः । पालयन् दक्षिणम् पार्श्वम् ऋषभः वानर-ऋषभः ॥ १६ ॥
yātu vānara-vāhinyā vānaraḥ plavatām patiḥ . pālayan dakṣiṇam pārśvam ṛṣabhaḥ vānara-ṛṣabhaḥ .. 16 ..
गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः । यातु वानरवाहिन्याः सव्यं पार्श्वमधिष्ठितः ॥ 17 ॥
गन्धहस्ती इव दुर्धर्षः तरस्वी गन्धमादनः । यातु वानर-वाहिन्याः सव्यम् पार्श्वम् अधिष्ठितः ॥ १७ ॥
gandhahastī iva durdharṣaḥ tarasvī gandhamādanaḥ . yātu vānara-vāhinyāḥ savyam pārśvam adhiṣṭhitaḥ .. 17 ..
यास्यामि बलमध्येऽहं बलौघमभिहर्षयन् । अधिरुह्य हनूमन्तमैरावतमिवेश्वरः ॥ 18 ॥
यास्यामि बल-मध्ये अहम् बल-ओघम् अभिहर्षयन् । अधिरुह्य हनूमन्तम् ऐरावतम् इव ईश्वरः ॥ १८ ॥
yāsyāmi bala-madhye aham bala-ogham abhiharṣayan . adhiruhya hanūmantam airāvatam iva īśvaraḥ .. 18 ..
अङ्गदेनैष संयातु लक्ष्मणश्चान्तकोपमः । सार्वभौमेण भूतेशो द्रविणाधिपतिर्यथा ॥ 19 ॥
अङ्गदेन एष संयातु लक्ष्मणः च अन्तक-उपमः । सार्वभौमेण भूत-ईशः द्रविणाधिपतिः यथा ॥ १९ ॥
aṅgadena eṣa saṃyātu lakṣmaṇaḥ ca antaka-upamaḥ . sārvabhaumeṇa bhūta-īśaḥ draviṇādhipatiḥ yathā .. 19 ..
जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः । ऋक्षराजो महासत्त्वः कुक्षिं रक्षन्तु ते त्रयः ॥ 20 ॥
जाम्बवान् च सुषेणः च वेगदर्शी च वानरः । ऋक्ष-राजः महा-सत्त्वः कुक्षिम् रक्षन्तु ते त्रयः ॥ २० ॥
jāmbavān ca suṣeṇaḥ ca vegadarśī ca vānaraḥ . ṛkṣa-rājaḥ mahā-sattvaḥ kukṣim rakṣantu te trayaḥ .. 20 ..
राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः । व्यादिदेश महावीर्यान्वानरान्वानरर्षभः ॥ 21 ॥
राघवस्य वचः श्रुत्वा सुग्रीवः वाहिनीपतिः । व्यादिदेश महा-वीर्यान् वानरान् वानर-ऋषभः ॥ २१ ॥
rāghavasya vacaḥ śrutvā sugrīvaḥ vāhinīpatiḥ . vyādideśa mahā-vīryān vānarān vānara-ṛṣabhaḥ .. 21 ..
ते वानरगणाः सर्वे समुत्पत्य युयुत्सवः । गुहाभ्यः शिखरेभ्यश्च आशु पुप्लुविरे तदा ॥ 22 ॥
ते वानर-गणाः सर्वे समुत्पत्य युयुत्सवः । गुहाभ्यः शिखरेभ्यः च आशु पुप्लुविरे तदा ॥ २२ ॥
te vānara-gaṇāḥ sarve samutpatya yuyutsavaḥ . guhābhyaḥ śikharebhyaḥ ca āśu pupluvire tadā .. 22 ..
ततो वानरराजेन लक्ष्मणेन च पूजितः । जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् ॥ 23 ॥
ततस् वानर-राजेन लक्ष्मणेन च पूजितः । जगाम रामः धर्म-आत्मा स सैन्यः दक्षिणाम् दिशम् ॥ २३ ॥
tatas vānara-rājena lakṣmaṇena ca pūjitaḥ . jagāma rāmaḥ dharma-ātmā sa sainyaḥ dakṣiṇām diśam .. 23 ..
शतैः शतसहस्रैश्च कोटीभिरयुतैरपि । वारणाभिश्च हरिभिर्ययौ परिवृतस्तदा ॥ 24 ॥
शतैः शत-सहस्रैः च कोटीभिः अयुतैः अपि । वारणाभिः च हरिभिः ययौ परिवृतः तदा ॥ २४ ॥
śataiḥ śata-sahasraiḥ ca koṭībhiḥ ayutaiḥ api . vāraṇābhiḥ ca haribhiḥ yayau parivṛtaḥ tadā .. 24 ..
तं यान्तमनुयाति स्म महती हरिवाहिनी । हृष्टाः प्रमुदिताः सर्वे सुग्रीवेणाभिपालिताः ॥ 25 ॥
तम् यान्तम् अनुयाति स्म महती हरि-वाहिनी । हृष्टाः प्रमुदिताः सर्वे सुग्रीवेण अभिपालिताः ॥ २५ ॥
tam yāntam anuyāti sma mahatī hari-vāhinī . hṛṣṭāḥ pramuditāḥ sarve sugrīveṇa abhipālitāḥ .. 25 ..
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः । क्ष्वेलन्तो निनदन्तश्च जग्मुर्वै दक्षिणां दिशम् ॥ 26 ॥
आप्लवन्तः प्लवन्तः च गर्जन्तः च प्लवङ्गमाः । क्ष्वेलन्तः निनदन्तः च जग्मुः वै दक्षिणाम् दिशम् ॥ २६ ॥
āplavantaḥ plavantaḥ ca garjantaḥ ca plavaṅgamāḥ . kṣvelantaḥ ninadantaḥ ca jagmuḥ vai dakṣiṇām diśam .. 26 ..
भक्षयन्तः सुगन्धीनि मधूनि च फलानि च । उद्वहन्तो महावृक्षान्मञ्जरीपुञ्जधारिणः ॥ 27 ॥
भक्षयन्तः सुगन्धीनि मधूनि च फलानि च । उद्वहन्तः महा-वृक्षान् मञ्जरी-पुञ्ज-धारिणः ॥ २७ ॥
bhakṣayantaḥ sugandhīni madhūni ca phalāni ca . udvahantaḥ mahā-vṛkṣān mañjarī-puñja-dhāriṇaḥ .. 27 ..
अन्योन्यं सहसा दृष्टा निर्वहन्ति क्षिपन्ति च । पतन्तश्चोत्पतन्त्यन्ये पातयन्त्यपरे परान् ॥ 28 ॥
अन्योन्यम् सहसा दृष्टाः निर्वहन्ति क्षिपन्ति च । पतन्तः च उत्पतन्ति अन्ये पातयन्ति अपरे परान् ॥ २८ ॥
anyonyam sahasā dṛṣṭāḥ nirvahanti kṣipanti ca . patantaḥ ca utpatanti anye pātayanti apare parān .. 28 ..
रावणो नो निहन्तव्यः सर्वे च रजनीचराः । इति गर्जन्ति हरयो राघवस्य समीपतः ॥ 29 ॥
रावणः नः निहन्तव्यः सर्वे च रजनीचराः । इति गर्जन्ति हरयः राघवस्य समीपतस् ॥ २९ ॥
rāvaṇaḥ naḥ nihantavyaḥ sarve ca rajanīcarāḥ . iti garjanti harayaḥ rāghavasya samīpatas .. 29 ..
पुरस्तादृषभ्हो वीरो नीलः कुमुद एव च । पथानं शोधयन्ति स्म वानरैर्बहुभिः सह ॥ 30 ॥
पुरस्तात् ऋषभ्हः वीरः नीलः कुमुदः एव च । पथानम् शोधयन्ति स्म वानरैः बहुभिः सह ॥ ३० ॥
purastāt ṛṣabhhaḥ vīraḥ nīlaḥ kumudaḥ eva ca . pathānam śodhayanti sma vānaraiḥ bahubhiḥ saha .. 30 ..
मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च । बहुभिर्बलिभिर्भीमैर्वृताः शत्रुनिबर्हणः ॥ 31 ॥
मध्ये तु राजा सुग्रीवः रामः लक्ष्मणः एव च । बहुभिः बलिभिः भीमैः वृताः शत्रु-निबर्हणः ॥ ३१ ॥
madhye tu rājā sugrīvaḥ rāmaḥ lakṣmaṇaḥ eva ca . bahubhiḥ balibhiḥ bhīmaiḥ vṛtāḥ śatru-nibarhaṇaḥ .. 31 ..
हरिः शतबलिर्वीरः कोटीभिर्दशभिर्वृतः । सर्वामेको ह्यवष्टभ्य ररक्ष हरिवाहिनीम् ॥ 32 ॥
हरिः शतबलिः वीरः कोटीभिः दशभिः वृतः । सर्वाम् एकः हि अवष्टभ्य ररक्ष हरि-वाहिनीम् ॥ ३२ ॥
hariḥ śatabaliḥ vīraḥ koṭībhiḥ daśabhiḥ vṛtaḥ . sarvām ekaḥ hi avaṣṭabhya rarakṣa hari-vāhinīm .. 32 ..
कोटीशतपरीवारः केसरी पनसो गजः । अर्कश्चातिबलः पार्श्वमेकं तस्याभिरक्षति ॥ 33 ॥
। अर्कः च अतिबलः पार्श्वम् एकम् तस्य अभिरक्षति ॥ ३३ ॥
. arkaḥ ca atibalaḥ pārśvam ekam tasya abhirakṣati .. 33 ..
सुषेणो जाम्बवांश्चैव ऋक्षैर्बहुभिरावृतः । सुग्रीवं पुरतः कृत्वा जघनं संररक्षतुः ॥ 34 ॥
सुषेणः जाम्बवान् च एव ऋक्षैः बहुभिः आवृतः । सुग्रीवम् पुरतस् कृत्वा जघनम् संररक्षतुः ॥ ३४ ॥
suṣeṇaḥ jāmbavān ca eva ṛkṣaiḥ bahubhiḥ āvṛtaḥ . sugrīvam puratas kṛtvā jaghanam saṃrarakṣatuḥ .. 34 ..
तेषां सेनापतिर्वीरो नीलो वानरपुङ्गवः । सम्पतन्पततां श्रेष्ठस्तद्बलं पर्यपालयत् ॥ 35 ॥
तेषाम् सेनापतिः वीरः नीलः वानर-पुङ्गवः । सम्पतन् पतताम् श्रेष्ठः तत् बलम् पर्यपालयत् ॥ ३५ ॥
teṣām senāpatiḥ vīraḥ nīlaḥ vānara-puṅgavaḥ . sampatan patatām śreṣṭhaḥ tat balam paryapālayat .. 35 ..
दरीमिखः प्रजङ्घश्च जम्भोऽथ रभसः कपिः । सर्वतश्च ययुर्वीरास्त्वरयन्तः प्लवङ्गमान् ॥ 36 ॥
दरीमिखः प्रजङ्घः च जम्भः अथ रभसः कपिः । सर्वतस् च ययुः वीराः त्वरयन्तः प्लवङ्गमान् ॥ ३६ ॥
darīmikhaḥ prajaṅghaḥ ca jambhaḥ atha rabhasaḥ kapiḥ . sarvatas ca yayuḥ vīrāḥ tvarayantaḥ plavaṅgamān .. 36 ..
एवं ते हरिशार्दूला गच्छन्तो बलदर्पिताः । अपश्यंस्ते गिरिश्रेष्ठं सह्यं द्रुमलतायुतम् ॥ 37 ॥
एवम् ते हरि-शार्दूलाः गच्छन्तः बल-दर्पिताः । अपश्यन् ते गिरि-श्रेष्ठम् सह्यम् द्रुम-लता-युतम् ॥ ३७ ॥
evam te hari-śārdūlāḥ gacchantaḥ bala-darpitāḥ . apaśyan te giri-śreṣṭham sahyam druma-latā-yutam .. 37 ..
सरांसि च सुपुल्लानि तटाकानि वनानि च । रामस्य शासनं ज्ञात्वा भीमकोपस्य भीतवत् ॥ 38 ॥
सरांसि च सु पुल्लानि तटाकानि वनानि च । रामस्य शासनम् ज्ञात्वा भीम-कोपस्य भीत-वत् ॥ ३८ ॥
sarāṃsi ca su pullāni taṭākāni vanāni ca . rāmasya śāsanam jñātvā bhīma-kopasya bhīta-vat .. 38 ..
वर्जयन्नगराभ्याशां स्तथा जनपदानपि । सागरौघनिभं भीमं तद्वानरबलं महत् ॥ 39 ॥
वर्जयन् नगर-अभ्याशान् स् तथा जनपदान् अपि । सागर-ओघ-निभम् भीमम् तत् वानर-बलम् महत् ॥ ३९ ॥
varjayan nagara-abhyāśān s tathā janapadān api . sāgara-ogha-nibham bhīmam tat vānara-balam mahat .. 39 ..
निःससर्प महाघोषं भीमवेग इवार्णवः । तस्य दाशरथेः पार्श्वे शूरास्ते कपिकुञ्जराः ॥ 40 ॥
निःससर्प महा-घोषम् भीम-वेगः इव अर्णवः । तस्य दाशरथेः पार्श्वे शूराः ते कपि-कुञ्जराः ॥ ४० ॥
niḥsasarpa mahā-ghoṣam bhīma-vegaḥ iva arṇavaḥ . tasya dāśaratheḥ pārśve śūrāḥ te kapi-kuñjarāḥ .. 40 ..
तूर्णमापुप्लुवुः सर्वे सदश्वा इव चोदिताः । कपिभ्यामुह्यमानौ तौ शुशुभते नरर्षभौ ॥ 41 ॥
तूर्णम् आपुप्लुवुः सर्वे सत्-अश्वाः इव चोदिताः । कपिभ्याम् उह्यमानौ तौ शुशुभते नर-ऋषभौ ॥ ४१ ॥
tūrṇam āpupluvuḥ sarve sat-aśvāḥ iva coditāḥ . kapibhyām uhyamānau tau śuśubhate nara-ṛṣabhau .. 41 ..
जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् । तमङ्गदगतो रामं लक्ष्मणश्शुभया गिरा ॥ 42 ॥
जगाम रामः धर्म-आत्मा स सैन्यः दक्षिणाम् दिशम् । तम् अङ्गद-गतः रामम् लक्ष्मणः शुभया गिरा ॥ ४२ ॥
jagāma rāmaḥ dharma-ātmā sa sainyaḥ dakṣiṇām diśam . tam aṅgada-gataḥ rāmam lakṣmaṇaḥ śubhayā girā .. 42 ..
महद्भ्यामिव संस्पृष्टौ ग्राहाभ्यां चन्द्रभास्करौ । तमङ्गदगतो रामं लक्ष्मणः शुभया गिरा ॥ 43 ॥
महद्भ्याम् इव संस्पृष्टौ ग्राहाभ्याम् चन्द्र-भास्करौ । तम् अङ्गद-गतः रामम् लक्ष्मणः शुभया गिरा ॥ ४३ ॥
mahadbhyām iva saṃspṛṣṭau grāhābhyām candra-bhāskarau . tam aṅgada-gataḥ rāmam lakṣmaṇaḥ śubhayā girā .. 43 ..
उवाच प्रतिपूर्णार्थः स्मृतिमान्प्रतिभानवान् । हृतामवाप्य वैदेहीं क्षिप्रं हत्वा च रावणम् ॥ 44 ॥
उवाच प्रतिपूर्ण-अर्थः स्मृतिमान् प्रतिभानवान् । हृताम् अवाप्य वैदेहीम् क्षिप्रम् हत्वा च रावणम् ॥ ४४ ॥
uvāca pratipūrṇa-arthaḥ smṛtimān pratibhānavān . hṛtām avāpya vaidehīm kṣipram hatvā ca rāvaṇam .. 44 ..
समृद्धार्थः समृद्धार्थामयोध्यां प्रतियास्यसि । महान्ति च निमित्तानि दिवि भूमौ च राघव ॥ 45 ॥
समृद्ध-अर्थः समृद्ध-अर्थाम् अयोध्याम् प्रतियास्यसि । महान्ति च निमित्तानि दिवि भूमौ च राघव ॥ ४५ ॥
samṛddha-arthaḥ samṛddha-arthām ayodhyām pratiyāsyasi . mahānti ca nimittāni divi bhūmau ca rāghava .. 45 ..
शुभान्ति तव पश्यामि सर्वाण्येवार्थसिद्धये । अनु वाति शुभो वायुः सेनां मृदुहितः सुखः ॥ 46 ॥
शुभान्ति तव पश्यामि सर्वाणि एव अर्थ-सिद्धये । अनु वाति शुभः वायुः सेनाम् मृदु-हितः सुखः ॥ ४६ ॥
śubhānti tava paśyāmi sarvāṇi eva artha-siddhaye . anu vāti śubhaḥ vāyuḥ senām mṛdu-hitaḥ sukhaḥ .. 46 ..
पूर्णवल्गुस्वराश्चेमे प्रवदन्ति मृगद्विजाः । प्रसन्नाश्च दिशः सर्वा विमलश्च दिवाकरः ॥ 47 ॥
पूर्ण-वल्गु-स्वराः च इमे प्रवदन्ति मृग-द्विजाः । प्रसन्नाः च दिशः सर्वाः विमलः च दिवाकरः ॥ ४७ ॥
pūrṇa-valgu-svarāḥ ca ime pravadanti mṛga-dvijāḥ . prasannāḥ ca diśaḥ sarvāḥ vimalaḥ ca divākaraḥ .. 47 ..
उशना च प्रसन्नार्चिरनु त्वां भार्गवो गतः । ब्रह्मराशिर्विशुद्धश्च शुद्धाश्च परमर्षयः । अर्चिष्मन्तः प्रकाशन्ते ध्रुवं सर्वे प्रदक्षिणम् ॥ 48 ॥
उशना च प्रसन्न-अर्चिः अनु त्वाम् भार्गवः गतः । ब्रह्मराशिः विशुद्धः च शुद्धाः च परम-ऋषयः । अर्चिष्मन्तः प्रकाशन्ते ध्रुवम् सर्वे प्रदक्षिणम् ॥ ४८ ॥
uśanā ca prasanna-arciḥ anu tvām bhārgavaḥ gataḥ . brahmarāśiḥ viśuddhaḥ ca śuddhāḥ ca parama-ṛṣayaḥ . arciṣmantaḥ prakāśante dhruvam sarve pradakṣiṇam .. 48 ..
त्रिशङ्कुर्विमलो भाति राजर्षिः सपुरोहितः । पितामहवरोऽस्माकमिष्क्वाकूणां महात्मनाम् ॥ 49 ॥
त्रिशङ्कुः विमलः भाति राजर्षिः स पुरोहितः । पितामह-वरः अस्माकम् इष्क्वाकूणाम् महात्मनाम् ॥ ४९ ॥
triśaṅkuḥ vimalaḥ bhāti rājarṣiḥ sa purohitaḥ . pitāmaha-varaḥ asmākam iṣkvākūṇām mahātmanām .. 49 ..
विमले च प्रकाशेते विशाखे निरुपद्रवे । नक्षत्रं परमस्माकमिक्ष्वाकूणां महात्मनाम् ॥ 50 ॥
विमले च प्रकाशेते विशाखे निरुपद्रवे । नक्षत्रम् परम् अस्माकम् इक्ष्वाकूणाम् महात्मनाम् ॥ ५० ॥
vimale ca prakāśete viśākhe nirupadrave . nakṣatram param asmākam ikṣvākūṇām mahātmanām .. 50 ..
नैरृतं नैरृतानां च नक्षत्रमभिपीड्यते । मूलं मूलवता स्पृष्टं धूप्यते धूमकेतुना ॥ 51 ॥
नैरृतम् नैरृतानाम् च नक्षत्रम् अभिपीड्यते । मूलम् मूलवता स्पृष्टम् धूप्यते धूमकेतुना ॥ ५१ ॥
nairṛtam nairṛtānām ca nakṣatram abhipīḍyate . mūlam mūlavatā spṛṣṭam dhūpyate dhūmaketunā .. 51 ..
सरं चैतद्विनाशाय राक्षसानाम् उपस्थितम् । काले कालगृहीतानां नकत्रं ग्रहपीडितम् ॥ 52 ॥
सरम् च एतद्-विनाशाय राक्षसानाम् उपस्थितम् । काले काल-गृहीतानाम् नकत्रम् ग्रह-पीडितम् ॥ ५२ ॥
saram ca etad-vināśāya rākṣasānām upasthitam . kāle kāla-gṛhītānām nakatram graha-pīḍitam .. 52 ..
प्रसन्नाः सुरसाश्चापो वनानि फलवन्ति च । प्रवान्त्यभ्यधिकं गन्धा यथर्तुकुसुमा द्रुमाः ॥ 53 ॥
प्रसन्नाः सुरसाः च अपः वनानि फलवन्ति च । प्रवान्ति अभ्यधिकम् गन्धाः यथा ऋतु-कुसुमाः द्रुमाः ॥ ५३ ॥
prasannāḥ surasāḥ ca apaḥ vanāni phalavanti ca . pravānti abhyadhikam gandhāḥ yathā ṛtu-kusumāḥ drumāḥ .. 53 ..
व्यूढानि कपिसैन्यानि प्रकाशन्तेऽधिकं प्रभो । देवानामिव सैन्यानि सङ्ग्रामे तारकामये । एवमार्य समीक्ष्यैतान्प्रीतो भवितुमर्हसि ॥ 54 ॥
व्यूढानि कपि-सैन्यानि प्रकाशन्ते अधिकम् प्रभो । देवानाम् इव सैन्यानि सङ्ग्रामे तारका-मये । एवम् आर्य समीक्ष्य एतान् प्रीतः भवितुम् अर्हसि ॥ ५४ ॥
vyūḍhāni kapi-sainyāni prakāśante adhikam prabho . devānām iva sainyāni saṅgrāme tārakā-maye . evam ārya samīkṣya etān prītaḥ bhavitum arhasi .. 54 ..
इति भ्रातरमाश्वास्य हृष्टः सौमित्रिरब्रवीत् । अथावृत्य महीं कृत्स्नां जगाम महती चमूः ॥ 55 ॥
इति भ्रातरम् आश्वास्य हृष्टः सौमित्रिः अब्रवीत् । अथ आवृत्य महीम् कृत्स्नाम् जगाम महती चमूः ॥ ५५ ॥
iti bhrātaram āśvāsya hṛṣṭaḥ saumitriḥ abravīt . atha āvṛtya mahīm kṛtsnām jagāma mahatī camūḥ .. 55 ..
ऋक्षवानरशार्दूलैर्नखदंष्ट्रायुधैर्वृता । कराग्रैश्चरणाग्रैश्च वानरैरुद्धतं रजः ॥ 56 ॥
ऋक्ष-वानर-शार्दूलैः नख-दंष्ट्र-आयुधैः वृता । कर-अग्रैः चरण-अग्रैः च वानरैः उद्धतम् रजः ॥ ५६ ॥
ṛkṣa-vānara-śārdūlaiḥ nakha-daṃṣṭra-āyudhaiḥ vṛtā . kara-agraiḥ caraṇa-agraiḥ ca vānaraiḥ uddhatam rajaḥ .. 56 ..
भीममन्तर्दधे लोकं निवार्य सवितुः प्रभाम् । सपर्वतवनाकाशां दक्षिणां हरिवाहिनी ॥ 57 ॥
भीमम् अन्तर्दधे लोकम् निवार्य सवितुः प्रभाम् । स पर्वत-वन-आकाशाम् दक्षिणाम् हरि-वाहिनी ॥ ५७ ॥
bhīmam antardadhe lokam nivārya savituḥ prabhām . sa parvata-vana-ākāśām dakṣiṇām hari-vāhinī .. 57 ..
छादयन्ती ययौ भीमा द्यामिवाम्बुदसन्ततिः । उत्तरन्त्यां च सेनायां स्सततं बहुयोजनम् ॥ 58 ॥
छादयन्ती ययौ भीमा द्याम् इव अम्बुद-सन्ततिः । उत्तरन्त्याम् च सेनायाम् बहु-योजनम् ॥ ५८ ॥
chādayantī yayau bhīmā dyām iva ambuda-santatiḥ . uttarantyām ca senāyām bahu-yojanam .. 58 ..
नदीस्रोतांसि सर्वाणि सस्यन्दुर्विपरीतवत् । सरांसि विमलाम्भांसि द्रुमाकीर्णांश्च पर्वता ॥ 59 ॥
नदी-स्रोतांसि सर्वाणि सस्यन्दुः विपरीत-वत् । सरांसि विमल-अम्भांसि द्रुम-आकीर्णान् च पर्वता ॥ ५९ ॥
nadī-srotāṃsi sarvāṇi sasyanduḥ viparīta-vat . sarāṃsi vimala-ambhāṃsi druma-ākīrṇān ca parvatā .. 59 ..
समान् भूमिप्रदेशांश्च वनानि फलवन्ति च । मध्येन च समन्ताच्च तिर्यक्चाथश्च समाऽविशत् ॥ 60 ॥
समान् भूमि-प्रदेशान् च वनानि फलवन्ति च । मध्येन च समन्तात् च तिर्यक् च अथ च समाऽविशत् ॥ ६० ॥
samān bhūmi-pradeśān ca vanāni phalavanti ca . madhyena ca samantāt ca tiryak ca atha ca samā'viśat .. 60 ..
समावृत्य महीं कृत्स्नां जगाम महती चमूः । तेहृष्टवदना स्सर्वे जग्मुर्मारुतरंहसः ॥ 61 ॥
समावृत्य महीम् कृत्स्नाम् जगाम महती चमूः । ते हृष्ट-वदनाः स्सर्वे जग्मुः मारुत-रंहसः ॥ ६१ ॥
samāvṛtya mahīm kṛtsnām jagāma mahatī camūḥ . te hṛṣṭa-vadanāḥ ssarve jagmuḥ māruta-raṃhasaḥ .. 61 ..
हरयो राघवस्यार्थे समारोपितविक्रमाः । हर्षंवीर्य बलोद्रेकान्दर्शयन्तः परस्परम् ॥ 62 ॥
हरयः राघवस्य अर्थे समारोपित-विक्रमाः । हर्षम् वीर्य बल-उद्रेकान् दर्शयन्तः परस्परम् ॥ ६२ ॥
harayaḥ rāghavasya arthe samāropita-vikramāḥ . harṣam vīrya bala-udrekān darśayantaḥ parasparam .. 62 ..
यौवनोत्सेकजान्दर्पाद्विविधांश्चक्रुरध्वनि । तत्र केचिद्द्रुतं जग्मुरुत्पेतुश्च तथापरे ॥ 63 ॥
यौवन-उत्सेक-जान् दर्पात् विविधान् चक्रुः अध्वनि । तत्र केचिद् द्रुतम् जग्मुः उत्पेतुः च तथा अपरे ॥ ६३ ॥
yauvana-utseka-jān darpāt vividhān cakruḥ adhvani . tatra kecid drutam jagmuḥ utpetuḥ ca tathā apare .. 63 ..
केचित्किलकिलां चक्रुर्वानरा वनगोचराः । प्रास्पोटयंश्च पुच्छानि सन्निजग्मु: पदान्यपि ॥ 64 ॥
केचिद् किलकिलाम् चक्रुः वानराः वन-गोचराः । प्रास्पोटयन् च पुच्छानि सन्निजग्मुः पदानि अपि ॥ ६४ ॥
kecid kilakilām cakruḥ vānarāḥ vana-gocarāḥ . prāspoṭayan ca pucchāni sannijagmuḥ padāni api .. 64 ..
भुजावनिक्षिप्य शैलांश्च द्रुमानन्ये बभञ्जिरे । आरोहन्तश्च शृङ्गाणि गिरीणां गिरिगोचराः ॥ 65 ॥
भुजौ अ निक्षिप्य शैलान् च द्रुमान् अन्ये बभञ्जिरे । आरोहन्तः च शृङ्गाणि गिरीणाम् गिरि-गोचराः ॥ ६५ ॥
bhujau a nikṣipya śailān ca drumān anye babhañjire . ārohantaḥ ca śṛṅgāṇi girīṇām giri-gocarāḥ .. 65 ..
महानादान्प्रमुञ्चन्ति क्ष्वेळ्वामन्ये प्रचक्रिरे । ऊरुवेगैश्च ममृदुर्लताजालान्यनेकशः ॥ 66 ॥
महा-नादान् प्रमुञ्चन्ति क्ष्वेळ्वाम् अन्ये प्रचक्रिरे । ऊरु-वेगैः च ममृदुः लता-जालानि अनेकशस् ॥ ६६ ॥
mahā-nādān pramuñcanti kṣvel̤vām anye pracakrire . ūru-vegaiḥ ca mamṛduḥ latā-jālāni anekaśas .. 66 ..
जृम्भमाणाश्च विक्रान्ता विचिक्रीडुश्शिलाद्रुमै । शतश्शतसहस्रैश्च कोटिभिश्च सहस्रशः ॥ 67 ॥
जृम्भमाणाः च विक्रान्ताः विचिक्रीडुः शिला-द्रुमैः । शतः शत-सहस्रैः च कोटिभिः च सहस्रशस् ॥ ६७ ॥
jṛmbhamāṇāḥ ca vikrāntāḥ vicikrīḍuḥ śilā-drumaiḥ . śataḥ śata-sahasraiḥ ca koṭibhiḥ ca sahasraśas .. 67 ..
वानराणां सुघोराणां श्रीमत्परिवृता मही । सा स्म याति दिवारात्रं महती हरिवाहिनी। प्रहृष्टप्रमुदिता सेना सुग्रीवेणाभिरक्षिता ॥ 68 ॥
वानराणाम् सु घोराणाम् श्रीमत्-परिवृता मही । सा स्म याति दिवारात्रम् महती हरि-वाहिनी। प्रहृष्ट-प्रमुदिता सेना सुग्रीवेण अभिरक्षिता ॥ ६८ ॥
vānarāṇām su ghorāṇām śrīmat-parivṛtā mahī . sā sma yāti divārātram mahatī hari-vāhinī. prahṛṣṭa-pramuditā senā sugrīveṇa abhirakṣitā .. 68 ..
वनरास्त्वरितं यान्ति सर्वे युद्धाभिनन्दनः । मुमोक्षयिषवः सीतां मुहूर्तं क्वापि नासत ॥ 69 ॥
वनराः त्वरितम् यान्ति सर्वे युद्ध-अभिनन्दनः । मुमोक्षयिषवः सीताम् मुहूर्तम् क्वापि न आसत ॥ ६९ ॥
vanarāḥ tvaritam yānti sarve yuddha-abhinandanaḥ . mumokṣayiṣavaḥ sītām muhūrtam kvāpi na āsata .. 69 ..
ततः पादपसम्बाधं नानामृगसमाकुलम् । सह्यपर्वतमासेदुर्मलयं च मही धरम् ॥ 70 ॥
ततस् पादप-सम्बाधम् नाना मृग-समाकुलम् । सह्य-पर्वतम् आसेदुः मलयम् च मही धरम् ॥ ७० ॥
tatas pādapa-sambādham nānā mṛga-samākulam . sahya-parvatam āseduḥ malayam ca mahī dharam .. 70 ..
काननानि विचित्राणि नदीप्रस्रवणानि च । पश्यन्नपि ययौ रामः सह्यस्य मलयस्य च ॥ 71 ॥
काननानि विचित्राणि नदी-प्रस्रवणानि च । पश्यन् अपि ययौ रामः सह्यस्य मलयस्य च ॥ ७१ ॥
kānanāni vicitrāṇi nadī-prasravaṇāni ca . paśyan api yayau rāmaḥ sahyasya malayasya ca .. 71 ..
चम्पकांस्तिलकांश्चूतानशोकान्सिन्दुवारकान् । तिमिशान् करवीरांश्च भञ्जन्ति स्म प्लवङ्गमाः ॥ 72 ॥
चम्पकान् तिलकान् चूतान् अशोकान् सिन्दुवारकान् । तिमिशान् करवीरान् च भञ्जन्ति स्म प्लवङ्गमाः ॥ ७२ ॥
campakān tilakān cūtān aśokān sinduvārakān . timiśān karavīrān ca bhañjanti sma plavaṅgamāḥ .. 72 ..
अङ्कोलांश्च करञ्चांश्च प्लक्षन्यग्रोधतिन्दुकान् । जम्बुकामलकान्नापान्भजन्ति स्म प्लवङ्गमाः ॥ 73 ॥
अङ्कोलान् च करञ्चान् च प्लक्ष-न्यग्रोध-तिन्दुकान् । जम्बुक-आमलकान् नापान् भजन्ति स्म प्लवङ्गमाः ॥ ७३ ॥
aṅkolān ca karañcān ca plakṣa-nyagrodha-tindukān . jambuka-āmalakān nāpān bhajanti sma plavaṅgamāḥ .. 73 ..
प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः । वायुवेगप्रचलिताः पुष्पैरवकिरन्ति तान् ॥ 74 ॥
प्रस्तरेषु च रम्येषु विविधाः कानन-द्रुमाः । वायु-वेग-प्रचलिताः पुष्पैः अवकिरन्ति तान् ॥ ७४ ॥
prastareṣu ca ramyeṣu vividhāḥ kānana-drumāḥ . vāyu-vega-pracalitāḥ puṣpaiḥ avakiranti tān .. 74 ..
मारुतस्सुखसंस्पर्शो वाति चन्दनशीतलः । षटपदैरनुकूजद्भिर्वनेषु मधुगन्धिषु ॥ 75 ॥
मारुतः सुख-संस्पर्शः वाति चन्दन-शीतलः । षटपदैः अनुकूजद्भिः वनेषु मधु-गन्धिषु ॥ ७५ ॥
mārutaḥ sukha-saṃsparśaḥ vāti candana-śītalaḥ . ṣaṭapadaiḥ anukūjadbhiḥ vaneṣu madhu-gandhiṣu .. 75 ..
अधिकं शैलराजस्तु धातुभिस्सुविभूषितः । धातुभ्यःप्रसृतो रेणुर्वायुवेग विघट्टितः ॥ 76 ॥
अधिकम् शैलराजः तु धातुभिः सु विभूषितः । धातुभ्यः प्रसृतः रेणुः वायु-वेग विघट्टितः ॥ ७६ ॥
adhikam śailarājaḥ tu dhātubhiḥ su vibhūṣitaḥ . dhātubhyaḥ prasṛtaḥ reṇuḥ vāyu-vega vighaṭṭitaḥ .. 76 ..
सुमहद्वानरानीकं छादयामास सर्वतः । गिरिप्रस्थेषु रम्येषु सर्वत सम्प्र पुष्पिताः ॥ 77 ॥
सु महत् वानर-अनीकम् छादयामास सर्वतस् । गिरि-प्रस्थेषु रम्येषु सम्प्र पुष्पिताः ॥ ७७ ॥
su mahat vānara-anīkam chādayāmāsa sarvatas . giri-prastheṣu ramyeṣu sampra puṣpitāḥ .. 77 ..
केतक्यः सिन्दुवाराश्च वासन्त्यश्च मनोरमाः । माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च पुष्पिताः ॥ 78 ॥
केतक्यः सिन्दुवाराः च वासन्त्यः च मनोरमाः । माधव्यः गन्ध-पूर्णाः च कुन्द-गुल्माः च पुष्पिताः ॥ ७८ ॥
ketakyaḥ sinduvārāḥ ca vāsantyaḥ ca manoramāḥ . mādhavyaḥ gandha-pūrṇāḥ ca kunda-gulmāḥ ca puṣpitāḥ .. 78 ..
चिरिबिल्वा मधूकाश्च वञ्जुला प्रियकास्तथा । सुफूर्जकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः ॥ 79 ॥
चिरिबिल्वाः मधूकाः च प्रियकाः तथा । सुफूर्जकाः तिलकाः च एव नागवृक्षाः च पुष्पिताः ॥ ७९ ॥
ciribilvāḥ madhūkāḥ ca priyakāḥ tathā . suphūrjakāḥ tilakāḥ ca eva nāgavṛkṣāḥ ca puṣpitāḥ .. 79 ..
चूताः पाटलयकाश्चैव कोविदाराश्च पुष्पिताः । मुचुलिन्दार्जुनाश्चैव शिंशुपाः कुटजास्तथा ॥ 80 ॥
चूताः पाटलयकाः च एव कोविदाराः च पुष्पिताः । मुचुलिन्द-अर्जुनाः च एव शिंशुपाः कुटजाः तथा ॥ ८० ॥
cūtāḥ pāṭalayakāḥ ca eva kovidārāḥ ca puṣpitāḥ . muculinda-arjunāḥ ca eva śiṃśupāḥ kuṭajāḥ tathā .. 80 ..
हिन्तालास्तिनिशाश्चैव चूर्णका नीपकास्तथा । नीलाशोकाश्च वरणा अङ्कोलाः पद्मकास्तथा ॥ 81 ॥
हिन्तालाः तिनिशाः च एव चूर्णकाः नीपकाः तथा । नील-अशोकाः च वरणाः अङ्कोलाः पद्मकाः तथा ॥ ८१ ॥
hintālāḥ tiniśāḥ ca eva cūrṇakāḥ nīpakāḥ tathā . nīla-aśokāḥ ca varaṇāḥ aṅkolāḥ padmakāḥ tathā .. 81 ..
प्रीयमाणैः प्लवंगैस्तु सर्वे पर्याकुलीकृतां । वाप्यस्तस्मिन् गिरौ शिता: पल्वलानि तथैव च ॥ 82 ॥
प्रीयमाणैः प्लवंगैः तु सर्वे पर्याकुलीकृताम् । वाप्यः तस्मिन् गिरौ शिताः पल्वलानि तथा एव च ॥ ८२ ॥
prīyamāṇaiḥ plavaṃgaiḥ tu sarve paryākulīkṛtām . vāpyaḥ tasmin girau śitāḥ palvalāni tathā eva ca .. 82 ..
चक्रवाकानुचरिताः कारण्डवनिषेविताः । प्लवैः क्रौञ्चेश्च सङ्कीर्णा वराहमृग सेविताः ॥ 83 ॥
चक्रवाक-अनुचरिताः कारण्डव-निषेविताः । प्लवैः क्रौञ्चेः च सङ्कीर्णाः वराह-मृग सेविताः ॥ ८३ ॥
cakravāka-anucaritāḥ kāraṇḍava-niṣevitāḥ . plavaiḥ krauñceḥ ca saṅkīrṇāḥ varāha-mṛga sevitāḥ .. 83 ..
ऋक्षैस्तरक्षुभिस्सिम्हैश्शार्दूलैश्च भयावहैः । व्यालैश्च बहुभिर्भीमै स्सेव्यमाना स्समन्ततः ॥ 84 ॥
ऋक्षैः तरक्षुभिः सिम्हैः शार्दूलैः च भय-आवहैः । व्यालैः च बहुभिः भीमैः स्सेव्यमानाः स्समन्ततः ॥ ८४ ॥
ṛkṣaiḥ tarakṣubhiḥ simhaiḥ śārdūlaiḥ ca bhaya-āvahaiḥ . vyālaiḥ ca bahubhiḥ bhīmaiḥ ssevyamānāḥ ssamantataḥ .. 84 ..
पद्मैस्सौगन्दिकैः पुल्लैः कुमुदैश्चोत्पलैस्तथा । वारिजैर्विविधैः पुष्पै रम्यास्तत्र जलाशयाः ॥ 85 ॥
पद्मैः सौगन्दिकैः पुल्लैः कुमुदैः च उत्पलैः तथा । वारि-जैः विविधैः पुष्पैः रम्याः तत्र जलाशयाः ॥ ८५ ॥
padmaiḥ saugandikaiḥ pullaiḥ kumudaiḥ ca utpalaiḥ tathā . vāri-jaiḥ vividhaiḥ puṣpaiḥ ramyāḥ tatra jalāśayāḥ .. 85 ..
तस्य सानुषु कूजन्ति नानाद्विजगणास्तथा । स्नात्वा पीत्वोदकान्यत्र जले क्रीडन्ति वानराः ॥ 86 ॥
तस्य सानुषु कूजन्ति नाना द्विज-गणाः तथा । स्नात्वा पीत्वा उदकानि अत्र जले क्रीडन्ति वानराः ॥ ८६ ॥
tasya sānuṣu kūjanti nānā dvija-gaṇāḥ tathā . snātvā pītvā udakāni atra jale krīḍanti vānarāḥ .. 86 ..
अन्योन्यं प्लावयन्ति स्म शैलमारुह्य वानराः । फलान्यमृतगन्धीनि मूलानि कुसुमानि च ॥ 87 ॥
अन्योन्यम् प्लावयन्ति स्म शैलम् आरुह्य वानराः । फलानि अमृत-गन्धीनि मूलानि कुसुमानि च ॥ ८७ ॥
anyonyam plāvayanti sma śailam āruhya vānarāḥ . phalāni amṛta-gandhīni mūlāni kusumāni ca .. 87 ..
बभञ्जुर्वानरास्तत्र पादपानां बलोत्कटाः । द्रोणमात्रप्रमाणानि लम्बमानानि वानराः ॥ 88 ॥
बभञ्जुः वानराः तत्र पादपानाम् बल-उत्कटाः । द्रोण-मात्र-प्रमाणानि लम्बमानानि वानराः ॥ ८८ ॥
babhañjuḥ vānarāḥ tatra pādapānām bala-utkaṭāḥ . droṇa-mātra-pramāṇāni lambamānāni vānarāḥ .. 88 ..
ययुः पिबन्तो हृष्टास्ते मधूनि मधुपिङ्गलाः । पादपानवभञ्जन्तो विकर्षन्तस्तथा लताः ॥ 89 ॥
ययुः पिबन्तः हृष्टाः ते मधूनि मधु-पिङ्गलाः । पादपान् अवभञ्जन्तः विकर्षन्तः तथा लताः ॥ ८९ ॥
yayuḥ pibantaḥ hṛṣṭāḥ te madhūni madhu-piṅgalāḥ . pādapān avabhañjantaḥ vikarṣantaḥ tathā latāḥ .. 89 ..
विधमन्तो गिरिवरान्प्रययुः प्लवगर्षभाः । वृक्षेभ्योऽन्ये तु कपयो नर्दन्तो मधुदर्पिताः ॥ 90 ॥
विधमन्तः गिरि-वरान् प्रययुः प्लवग-ऋषभाः । वृक्षेभ्यः अन्ये तु कपयः नर्दन्तः मधु-दर्पिताः ॥ ९० ॥
vidhamantaḥ giri-varān prayayuḥ plavaga-ṛṣabhāḥ . vṛkṣebhyaḥ anye tu kapayaḥ nardantaḥ madhu-darpitāḥ .. 90 ..
अन्ये वृक्षान्प्रपद्यन्ते प्रपतन्त्यपि चापरे । बभूव वसुधा तैस्तु सम्पूर्णा हरिपुङ्गवैः । यथा कमलकेदारैः पक्वैरिव वसुन्धरा ॥ 91 ॥
अन्ये वृक्षान् प्रपद्यन्ते प्रपतन्ति अपि च अपरे । बभूव वसुधा तैः तु सम्पूर्णा हरि-पुङ्गवैः । यथा कमल-केदारैः पक्वैः इव वसुन्धरा ॥ ९१ ॥
anye vṛkṣān prapadyante prapatanti api ca apare . babhūva vasudhā taiḥ tu sampūrṇā hari-puṅgavaiḥ . yathā kamala-kedāraiḥ pakvaiḥ iva vasundharā .. 91 ..
महेन्द्रमथ सम्प्राप्य रामो राजीवलोचनः । अध्यारोहन्महाबाहुः शिखरं द्रुमभूषितम् ॥ 92 ॥
महेन्द्रम् अथ सम्प्राप्य रामः राजीव-लोचनः । अध्यारोहत् महा-बाहुः शिखरम् द्रुम-भूषितम् ॥ ९२ ॥
mahendram atha samprāpya rāmaḥ rājīva-locanaḥ . adhyārohat mahā-bāhuḥ śikharam druma-bhūṣitam .. 92 ..
ततः शिखरमारुह्य रामो दशरथात्मजः । कूर्ममीनसमाकीर्णमपश्यत्सलिलाशयम् ॥ 93 ॥
ततस् शिखरम् आरुह्य रामः दशरथ-आत्मजः । कूर्म-मीन-समाकीर्णम् अपश्यत् सलिलाशयम् ॥ ९३ ॥
tatas śikharam āruhya rāmaḥ daśaratha-ātmajaḥ . kūrma-mīna-samākīrṇam apaśyat salilāśayam .. 93 ..
ते सह्यं समतिक्रम्य मलयं च महागिरिम् । आसेदुरानुपूर्व्येण समुद्रं भीमनिःस्वनम् ॥ 94 ॥
ते सह्यम् समतिक्रम्य मलयम् च महा-गिरिम् । आसेदुः आनुपूर्व्येण समुद्रम् भीम-निःस्वनम् ॥ ९४ ॥
te sahyam samatikramya malayam ca mahā-girim . āseduḥ ānupūrvyeṇa samudram bhīma-niḥsvanam .. 94 ..
अवरुह्य जगामाशु वेलावनमनुत्तमम् । रामो रमयतां श्रेष्ठः ससुग्रीवः सलक्ष्मणः ॥ 95 ॥
अवरुह्य जगाम आशु वेला-वनम् अनुत्तमम् । रामः रमयताम् श्रेष्ठः स सुग्रीवः स लक्ष्मणः ॥ ९५ ॥
avaruhya jagāma āśu velā-vanam anuttamam . rāmaḥ ramayatām śreṣṭhaḥ sa sugrīvaḥ sa lakṣmaṇaḥ .. 95 ..
अथ धौतोपलतलां तोयौघैः सहसोत्थितैः । वेलामासाद्य विपुलां रामो वचनमब्रवीत् ॥ 96 ॥
अथ धौत-उपल-तलाम् तोय-ओघैः सहसा उत्थितैः । वेलाम् आसाद्य विपुलाम् रामः वचनम् अब्रवीत् ॥ ९६ ॥
atha dhauta-upala-talām toya-oghaiḥ sahasā utthitaiḥ . velām āsādya vipulām rāmaḥ vacanam abravīt .. 96 ..
एते वयमनुप्राप्ताः सुग्रीव वरुणालयम् । इहेदानीं विचिन्ता सा या न पूर्वं समुत्थिता ॥ 97 ॥
एते वयम् अनुप्राप्ताः सुग्रीव वरुणालयम् । इह इदानीम् विचिन्ता सा या न पूर्वम् समुत्थिता ॥ ९७ ॥
ete vayam anuprāptāḥ sugrīva varuṇālayam . iha idānīm vicintā sā yā na pūrvam samutthitā .. 97 ..
अतः परमतीरोऽयं सागरः सरितां पति । न चायमनुपायेन शक्यस्तरितुमर्णवः ॥ 98 ॥
अतस् परम-तीरः अयम् सागरः सरिताम् पति । न च अयम् अनुपायेन शक्यः तरितुम् अर्णवः ॥ ९८ ॥
atas parama-tīraḥ ayam sāgaraḥ saritām pati . na ca ayam anupāyena śakyaḥ taritum arṇavaḥ .. 98 ..
तदिहैव निवेशोऽस्तु मन्त्रः प्रस्तूयताम् इह । यथेदं वानरबलं परं पारमवाप्नुयात् ॥ 99 ॥
तत् इह एव निवेशः अस्तु मन्त्रः प्रस्तूयताम् इह । यथा इदम् वानर-बलम् परम् पारम् अवाप्नुयात् ॥ ९९ ॥
tat iha eva niveśaḥ astu mantraḥ prastūyatām iha . yathā idam vānara-balam param pāram avāpnuyāt .. 99 ..
इतीव स महाबाहुः सीताहरणकर्शितः । रामः सागरमासाद्य वासमाज्ञापयत्तदा ॥ 100 ॥
इति इव स महा-बाहुः सीता-हरण-कर्शितः । रामः सागरम् आसाद्य वासम् आज्ञापयत् तदा ॥ १०० ॥
iti iva sa mahā-bāhuḥ sītā-haraṇa-karśitaḥ . rāmaḥ sāgaram āsādya vāsam ājñāpayat tadā .. 100 ..
सर्वा स्सेना निवेश्यन्तां वेलायां हरिपुङ्गव । सम्प्राप्तो मन्त्रकालो नः सागरस्येह लङ्घने ॥ 101 ॥
सर्वाः स्सेनाः निवेश्यन्ताम् वेलायाम् हरि-पुङ्गव । सम्प्राप्तः मन्त्र-कालः नः सागरस्य इह लङ्घने ॥ १०१ ॥
sarvāḥ ssenāḥ niveśyantām velāyām hari-puṅgava . samprāptaḥ mantra-kālaḥ naḥ sāgarasya iha laṅghane .. 101 ..
स्वां स्वां सेनां समुत्सृज्य मा च कश् चित्कुतो व्रजेत् । गच्छन्तु वानराः शूरा ज्ञेयं छन्नं भयं च नः ॥ 102 ॥
स्वाम् स्वाम् सेनाम् समुत्सृज्य मा च कः चित् कुतस् व्रजेत् । गच्छन्तु वानराः शूराः ज्ञेयम् छन्नम् भयम् च नः ॥ १०२ ॥
svām svām senām samutsṛjya mā ca kaḥ cit kutas vrajet . gacchantu vānarāḥ śūrāḥ jñeyam channam bhayam ca naḥ .. 102 ..
रामस्य वचनं श्रुत्वा सुग्रीवः सहलक्ष्मणः । सेनां न्यवेशयत्तीरे सागरस्य द्रुमायुते ॥ 103 ॥
रामस्य वचनम् श्रुत्वा सुग्रीवः सहलक्ष्मणः । सेनाम् न्यवेशयत् तीरे सागरस्य द्रुम-आयुते ॥ १०३ ॥
rāmasya vacanam śrutvā sugrīvaḥ sahalakṣmaṇaḥ . senām nyaveśayat tīre sāgarasya druma-āyute .. 103 ..
विरराज समीपस्थं सागरस्य तु तद्बलम् । मधुपाण्डुजलः श्रीमान्द्वितीय इव सागरः ॥ 104 ॥
विरराज समीप-स्थम् सागरस्य तु तत् बलम् । मधु-पाण्डु-जलः श्रीमान् द्वितीयः इव सागरः ॥ १०४ ॥
virarāja samīpa-stham sāgarasya tu tat balam . madhu-pāṇḍu-jalaḥ śrīmān dvitīyaḥ iva sāgaraḥ .. 104 ..
वेलावनमुपागम्य ततस्ते हरिपुङ्गवाः । विनिविष्टाः परं पारं काङ्क्षमाणा महोदधेः ॥ 105 ॥
वेला-वनम् उपागम्य ततस् ते हरि-पुङ्गवाः । विनिविष्टाः परम् पारम् काङ्क्षमाणाः महा-उदधेः ॥ १०५ ॥
velā-vanam upāgamya tatas te hari-puṅgavāḥ . viniviṣṭāḥ param pāram kāṅkṣamāṇāḥ mahā-udadheḥ .. 105 ..
तेषां निविशमानानां सैन्यसन्नाहनिस्स्वनः । अन्तर्धाय महानादमर्णवस्य प्रशुश्रुवे ॥ 106 ॥
तेषाम् निविशमानानाम् सैन्य-सन्नाह-निस्स्वनः । अन्तर्धाय महा-नादम् अर्णवस्य प्रशुश्रुवे ॥ १०६ ॥
teṣām niviśamānānām sainya-sannāha-nissvanaḥ . antardhāya mahā-nādam arṇavasya praśuśruve .. 106 ..
सा वानराणां ध्वजिनी सुग्रीवेणाभिपालिता । त्रिधा निविष्टा महती रामस्यार्थपराऽभवत् ॥ 107 ॥
सा वानराणाम् ध्वजिनी सुग्रीवेण अभिपालिता । त्रिधा निविष्टा महती रामस्य अर्थ-परा अभवत् ॥ १०७ ॥
sā vānarāṇām dhvajinī sugrīveṇa abhipālitā . tridhā niviṣṭā mahatī rāmasya artha-parā abhavat .. 107 ..
सा महार्णवमासाद्य हृष्टा वानरवाहिनी । वायुवेगसमाधूतं पश्यमाना महार्णवम् ॥ 108 ॥
सा महा-अर्णवम् आसाद्य हृष्टा वानर-वाहिनी । वायु-वेग-समाधूतम् पश्यमानाः महा-अर्णवम् ॥ १०८ ॥
sā mahā-arṇavam āsādya hṛṣṭā vānara-vāhinī . vāyu-vega-samādhūtam paśyamānāḥ mahā-arṇavam .. 108 ..
दूरपारमसम्बाधं रक्षोगणनिषेवितम् । पश्यन्तो वरुणावासं निषेदुर्हरियूथपाः ॥ 109 ॥
दूर-पारम् असम्बाधम् रक्षः-गण-निषेवितम् । पश्यन्तः वरुणावासम् निषेदुः हरि-यूथपाः ॥ १०९ ॥
dūra-pāram asambādham rakṣaḥ-gaṇa-niṣevitam . paśyantaḥ varuṇāvāsam niṣeduḥ hari-yūthapāḥ .. 109 ..
चण्डनक्रग्रहं घोरं क्षपादौ दिवसक्षये । हसन्तमिव फेनौघैर्नृत्यन्तमिव चोर्मिभिः ॥ 110 ॥
चण्ड-नक्र-ग्रहम् घोरम् क्षपा-आदौ दिवसक्षये । हसन्तम् इव फेन-ओघैः नृत्यन्तम् इव च ऊर्मिभिः ॥ ११० ॥
caṇḍa-nakra-graham ghoram kṣapā-ādau divasakṣaye . hasantam iva phena-oghaiḥ nṛtyantam iva ca ūrmibhiḥ .. 110 ..
चन्द्रोदये समाधूतं प्रतिचन्द्रसमाकुलम् । चण्डानिलमहाग्राहैः कीर्णं तिमितिमिङ्गिलैः ॥ 111 ॥
चन्द्र-उदये समाधूतम् प्रतिचन्द्र-समाकुलम् । चण्ड-अनिल-महा-ग्राहैः कीर्णम् तिमि-तिमिङ्गिलैः ॥ १११ ॥
candra-udaye samādhūtam praticandra-samākulam . caṇḍa-anila-mahā-grāhaiḥ kīrṇam timi-timiṅgilaiḥ .. 111 ..
दीप्तभोगैरिवाक्रीर्णं भुजङ्गैर्वरुणालयम् । अवगाढं महासत्तैर्नानाशैलसमाकुलम् ॥ 112 ॥
दीप्त-भोगैः इव आक्रीर्णम् भुजङ्गैः वरुणालयम् । अवगाढम् महा-सत्तैः नाना शैल-समाकुलम् ॥ ११२ ॥
dīpta-bhogaiḥ iva ākrīrṇam bhujaṅgaiḥ varuṇālayam . avagāḍham mahā-sattaiḥ nānā śaila-samākulam .. 112 ..
सुदुर्गं द्रुगममार्गं तमगाधमसुरालयम् । मकरैर्नागभोगैश्च विगाढा वातलोहिताः । उत्पेतुश्च निपेतुश्च प्रवृद्धा जलराशयः ॥ 113 ॥
सु दुर्गम् द्रु-गम-मार्गम् तम् अगाधम् असुर-आलयम् । मकरैः नागभोगैः च विगाढाः वात-लोहिताः । उत्पेतुः च निपेतुः च प्रवृद्धाः जल-राशयः ॥ ११३ ॥
su durgam dru-gama-mārgam tam agādham asura-ālayam . makaraiḥ nāgabhogaiḥ ca vigāḍhāḥ vāta-lohitāḥ . utpetuḥ ca nipetuḥ ca pravṛddhāḥ jala-rāśayaḥ .. 113 ..
अग्निचूर्णमिवाविद्धं भास्कराम्बुमनोरगम् । सुरारिविषयं घोरं पातालविषमं सदा ॥ 114 ॥
अग्नि-चूर्णम् इव आविद्धम् भास्कर-अम्बु-मनः-उरगम् । सुरारि-विषयम् घोरम् पाताल-विषमम् सदा ॥ ११४ ॥
agni-cūrṇam iva āviddham bhāskara-ambu-manaḥ-uragam . surāri-viṣayam ghoram pātāla-viṣamam sadā .. 114 ..
सागरं चाम्बरप्रख्यमम्बरं सागरोपमम् । सागरं चाम्बरं चेति निर्विशेषमदृश्यत ॥ 115 ॥
सागरम् च अम्बर-प्रख्यम् अम्बरम् सागर-उपमम् । सागरम् च अम्बरम् च इति निर्विशेषम् अदृश्यत ॥ ११५ ॥
sāgaram ca ambara-prakhyam ambaram sāgara-upamam . sāgaram ca ambaram ca iti nirviśeṣam adṛśyata .. 115 ..
सम्पृक्तं नभसा ह्यम्भः सम्पृक्तं च नभोऽम्भसा । तादृग्रूपे स्म दृश्येते तारा रत्नसमाकुले ॥ 116 ॥
सम्पृक्तम् नभसा हि अम्भः सम्पृक्तम् च नभः अम्भसा । तादृश्-रूपे स्म दृश्येते ताराः रत्न-समाकुले ॥ ११६ ॥
sampṛktam nabhasā hi ambhaḥ sampṛktam ca nabhaḥ ambhasā . tādṛś-rūpe sma dṛśyete tārāḥ ratna-samākule .. 116 ..
समुत्पतितमेघस्य वीच्चि मालाकुलस्य च । विशेषो न द्वयोरासीत्सागरस्याम्बरस्य च ॥ 117 ॥
समुत्पतित-मेघस्य माला-आकुलस्य च । विशेषः न द्वयोः आसीत् सागरस्य अम्बरस्य च ॥ ११७ ॥
samutpatita-meghasya mālā-ākulasya ca . viśeṣaḥ na dvayoḥ āsīt sāgarasya ambarasya ca .. 117 ..
अन्योन्यैराहताः सक्ताः सस्वनुर्भीमनिःस्वनाः । ऊर्मयः सिन्धुराजस्य महाभेर्य इवाहवे ॥ 118 ॥
अन्योन्यैः आहताः सक्ताः । ऊर्मयः सिन्धुराजस्य महा-भेर्यः इव आहवे ॥ ११८ ॥
anyonyaiḥ āhatāḥ saktāḥ . ūrmayaḥ sindhurājasya mahā-bheryaḥ iva āhave .. 118 ..
रत्नौघजलसंनादं विषक्तमिव वायुना । उत्पतन्तमिव क्रुद्धं यादोगणसमाकुलम् ॥ 119 ॥
रत्न-ओघ-जल-संनादम् विषक्तम् इव वायुना । उत्पतन्तम् इव क्रुद्धम् यादः-गण-समाकुलम् ॥ ११९ ॥
ratna-ogha-jala-saṃnādam viṣaktam iva vāyunā . utpatantam iva kruddham yādaḥ-gaṇa-samākulam .. 119 ..
ददृशुस्ते महात्मानो वाताहतजलाशयम् । अनिलोद्धूतमाकाशे प्रवल्गतमिवोर्मिभिः ॥ 120 ॥
ददृशुः ते महात्मानः वात-आहत-जलाशयम् । अनिल-उद्धूतम् आकाशे प्रवल्गतम् इव ऊर्मिभिः ॥ १२० ॥
dadṛśuḥ te mahātmānaḥ vāta-āhata-jalāśayam . anila-uddhūtam ākāśe pravalgatam iva ūrmibhiḥ .. 120 ..
ततो विस्मयमापन्ना हरयो ददृशुर्हरयस्तदा । भ्रान्तोर्मिजालसन्नादं प्रलोलमिव सागरम् ॥ 121 ॥
ततस् विस्मयम् आपन्नाः हरयः ददृशुः हरयः तदा । भ्रान्त-ऊर्मि-जाल-सत्-नादम् प्रलोलम् इव सागरम् ॥ १२१ ॥
tatas vismayam āpannāḥ harayaḥ dadṛśuḥ harayaḥ tadā . bhrānta-ūrmi-jāla-sat-nādam pralolam iva sāgaram .. 121 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In