This overlay will guide you through the buttons:

| |
|
वज्रदंष्टं हतं श्रुत्वा रावणो राक्षसेश्वरः । बलाध्यक्षमुवाचेदं कृताञ्जलिमुपस्थितम् ॥ 1 ॥
वज्रदंष्टम् हतम् श्रुत्वा रावणः राक्षसेश्वरः । बलाध्यक्षम् उवाच इदम् कृताञ्जलिम् उपस्थितम् ॥ १ ॥
vajradaṃṣṭam hatam śrutvā rāvaṇaḥ rākṣaseśvaraḥ . balādhyakṣam uvāca idam kṛtāñjalim upasthitam .. 1 ..
शीघ्रं निर्यान्तु दुर्धर्षा राक्षसा भीमविक्रमाः । अकम्पनं पुरस्कृत्य सर्वशस्त्रप्रकोविदम् ॥ 2 ॥
शीघ्रम् निर्यान्तु दुर्धर्षाः राक्षसाः भीम-विक्रमाः । अकम्पनम् पुरस्कृत्य सर्व-शस्त्र-प्रकोविदम् ॥ २ ॥
śīghram niryāntu durdharṣāḥ rākṣasāḥ bhīma-vikramāḥ . akampanam puraskṛtya sarva-śastra-prakovidam .. 2 ..
एष शास्ता च गोप्ता च नेता च युधि सत्तमः । भूतिकामश्च मे नित्यं नित्यं च समरप्रियः ॥ 3 ॥
एष शास्ता च गोप्ता च नेता च युधि सत्तमः । भूति-कामः च मे नित्यम् नित्यम् च समर-प्रियः ॥ ३ ॥
eṣa śāstā ca goptā ca netā ca yudhi sattamaḥ . bhūti-kāmaḥ ca me nityam nityam ca samara-priyaḥ .. 3 ..
एष जेष्यति काकत्स्थौ सुग्रीवं च महाबलम् । वानरांश्चापरान् घोरान् हनिष्यति च संशयः ॥ 4 ॥
एष जेष्यति काकत्स्थौ सुग्रीवम् च महा-बलम् । वानरान् च अपरान् घोरान् हनिष्यति च संशयः ॥ ४ ॥
eṣa jeṣyati kākatsthau sugrīvam ca mahā-balam . vānarān ca aparān ghorān haniṣyati ca saṃśayaḥ .. 4 ..
परिगृह्य स तामाज्ञां रावणस्य महाबल । बलम् सम्प्रेरयामासः तदा लघुपराक्रमः। ॥ 5 ॥
परिगृह्य स ताम् आज्ञाम् रावणस्य महा-बल । बलम् सम्प्रेरयामासः तदा लघुपराक्रमः। ॥ ५ ॥
parigṛhya sa tām ājñām rāvaṇasya mahā-bala . balam samprerayāmāsaḥ tadā laghuparākramaḥ. .. 5 ..
ततो नानाप्रहरणा भीमाक्षा भीमदर्शनाः । निष्पेतू राक्षसा मुख्या बलाध्यक्षप्रचोदिताः ॥ 6 ॥
ततस् नाना प्रहरणाः भीम-अक्षाः भीम-दर्शनाः । निष्पेतुः राक्षसाः मुख्याः बलाध्यक्ष-प्रचोदिताः ॥ ६ ॥
tatas nānā praharaṇāḥ bhīma-akṣāḥ bhīma-darśanāḥ . niṣpetuḥ rākṣasāḥ mukhyāḥ balādhyakṣa-pracoditāḥ .. 6 ..
रथमास्थाय विपुलं तप्तकाञ्चनकुण्डलः । मेघाभो मेघवर्णश्च मेघस्वनमहास्वनः ॥ 7 ॥
रथम् आस्थाय विपुलम् तप्त-काञ्चन-कुण्डलः । मेघ-आभः मेघ-वर्णः च मेघ-स्वन-महा-स्वनः ॥ ७ ॥
ratham āsthāya vipulam tapta-kāñcana-kuṇḍalaḥ . megha-ābhaḥ megha-varṇaḥ ca megha-svana-mahā-svanaḥ .. 7 ..
राक्षसैः संवृतो घोरैस्तदा निर्यात्यकम्पनः । न हि कम्पयितुं शक्यः सुरैरपि महामृधे ॥ 8 ॥
राक्षसैः संवृतः घोरैः तदा निर्याति अकम्पनः । न हि कम्पयितुम् शक्यः सुरैः अपि महा-मृधे ॥ ८ ॥
rākṣasaiḥ saṃvṛtaḥ ghoraiḥ tadā niryāti akampanaḥ . na hi kampayitum śakyaḥ suraiḥ api mahā-mṛdhe .. 8 ..
अकम्पनस्ततस्तेषामादित्य इव तेजसा । तस्य निधावमानस्य संरब्धस्य युयुत्सया ॥ 9 ॥
अकम्पनः ततस् तेषाम् आदित्यः इव तेजसा । तस्य निधावमानस्य संरब्धस्य युयुत्सया ॥ ९ ॥
akampanaḥ tatas teṣām ādityaḥ iva tejasā . tasya nidhāvamānasya saṃrabdhasya yuyutsayā .. 9 ..
अकस्माद् दैन्यमागच्छद्धयानां रथवाहिनाम् । व्यस्फुरन्नयनं चास्य सव्यं युद्धाभिनन्दिनः ॥ 10 ॥
अकस्मात् दैन्यम् आगच्छत् हयानाम् रथ-वाहिनाम् । व्यस्फुरत् नयनम् च अस्य सव्यम् युद्ध-अभिनन्दिनः ॥ १० ॥
akasmāt dainyam āgacchat hayānām ratha-vāhinām . vyasphurat nayanam ca asya savyam yuddha-abhinandinaḥ .. 10 ..
विवर्णो मुखवर्णश्च गद्गदश्चाभवत्स्वरः । अभवत्सुदिने चापि दुर्दिने रूक्षमारुतम् ॥ 11 ॥
विवर्णः मुख-वर्णः च गद्गदः च अभवत् स्वरः । अभवत् सुदिने च अपि दुर्दिने रूक्ष-मारुतम् ॥ ११ ॥
vivarṇaḥ mukha-varṇaḥ ca gadgadaḥ ca abhavat svaraḥ . abhavat sudine ca api durdine rūkṣa-mārutam .. 11 ..
ऊचुः खगा मृगाः सर्वे वाचः क्रूरा भयावहाः । स सिंहोपचितस्कन्धः शार्दूलसमविक्रमः ॥ 12 ॥
ऊचुः खगाः मृगाः सर्वे वाचः क्रूराः भय-आवहाः । स सिंह-उपचित-स्कन्धः शार्दूल-सम-विक्रमः ॥ १२ ॥
ūcuḥ khagāḥ mṛgāḥ sarve vācaḥ krūrāḥ bhaya-āvahāḥ . sa siṃha-upacita-skandhaḥ śārdūla-sama-vikramaḥ .. 12 ..
तानुत्पातानचिन्त्यैव निर्जगाम रणाजिरम् । तदा निर्गच्छतस्तस्य रक्षसः सह राक्षसैः ॥ 13 ॥
तान् उत्पातान् अ चिन्त्य एव निर्जगाम रण-अजिरम् । तदा निर्गच्छतः तस्य रक्षसः सह राक्षसैः ॥ १३ ॥
tān utpātān a cintya eva nirjagāma raṇa-ajiram . tadā nirgacchataḥ tasya rakṣasaḥ saha rākṣasaiḥ .. 13 ..
बभूव सुमहान्नादः क्षोभयन्निव सागरम् । तेन शब्देन वित्रस्ता वानराणां महाचमूः ॥ 14 ॥
बभूव सु महान् नादः क्षोभयन् इव सागरम् । तेन शब्देन वित्रस्ता वानराणाम् महा-चमूः ॥ १४ ॥
babhūva su mahān nādaḥ kṣobhayan iva sāgaram . tena śabdena vitrastā vānarāṇām mahā-camūḥ .. 14 ..
द्रुमशैलप्रहरणा योद्धुं समवतिष्ठत । तेषां युद्धं महारौद्रं सञ्जज्ञे कपिरक्षसाम् ॥ 15 ॥
द्रुम-शैल-प्रहरणाः योद्धुम् समवतिष्ठत । तेषाम् युद्धम् महा-रौद्रम् सञ्जज्ञे कपि-रक्षसाम् ॥ १५ ॥
druma-śaila-praharaṇāḥ yoddhum samavatiṣṭhata . teṣām yuddham mahā-raudram sañjajñe kapi-rakṣasām .. 15 ..
रामरावणयोरर्थे समभित्यक्तजीविनाम् । सर्वे ह्यतिबलाः शूराः सर्वे पर्वतसंनिभाः ॥ 16 ॥
राम-रावणयोः अर्थे समभित्यक्त-जीविनाम् । सर्वे हि अतिबलाः शूराः सर्वे पर्वत-संनिभाः ॥ १६ ॥
rāma-rāvaṇayoḥ arthe samabhityakta-jīvinām . sarve hi atibalāḥ śūrāḥ sarve parvata-saṃnibhāḥ .. 16 ..
हरयो राक्षसाश्चैव परस्परजिघंसवः । तेषां विनर्दातां शब्दः संयुगेऽतितरस्विनाम् ॥ 17 ॥
हरयः राक्षसाः च एव परस्पर-जिघंसवः । तेषाम् विनर्दाताम् शब्दः संयुगे अतितरस्विनाम् ॥ १७ ॥
harayaḥ rākṣasāḥ ca eva paraspara-jighaṃsavaḥ . teṣām vinardātām śabdaḥ saṃyuge atitarasvinām .. 17 ..
शुश्रुवे सुमहान्क्रोधादन्योन्यमभिगर्जताम् । रजश्चारुणवर्णाभं सुभीममभवद्भृशम् ॥ 18 ॥
शुश्रुवे सु महान् क्रोधात् अन्योन्यम् अभिगर्जताम् । रजः च अरुण-वर्ण-आभम् सु भीमम् अभवत् भृशम् ॥ १८ ॥
śuśruve su mahān krodhāt anyonyam abhigarjatām . rajaḥ ca aruṇa-varṇa-ābham su bhīmam abhavat bhṛśam .. 18 ..
उद्धूतं हरिरक्षोभिः संरुरोध दिशो दश । अन्योन्यं रजसा तेन कौशेयोद्धूतपाण्डुना ॥ 19 ॥
उद्धूतम् हरि-रक्षोभिः संरुरोध दिशः दश । अन्योन्यम् रजसा तेन कौशेय-उद्धूत-पाण्डुना ॥ १९ ॥
uddhūtam hari-rakṣobhiḥ saṃrurodha diśaḥ daśa . anyonyam rajasā tena kauśeya-uddhūta-pāṇḍunā .. 19 ..
संवृतानि च भूतानि ददृशुर्न रणाजिरे । न ध्वजो न पताकावा वर्म वा तुरगोऽपि वा ॥ 20 ॥
संवृतानि च भूतानि ददृशुः न रण-अजिरे । न ध्वजः न पताका-वा वर्म वा तुरगः अपि वा ॥ २० ॥
saṃvṛtāni ca bhūtāni dadṛśuḥ na raṇa-ajire . na dhvajaḥ na patākā-vā varma vā turagaḥ api vā .. 20 ..
आयुधं स्यन्दनं वापि ददृशे तेन रेणुना । शब्दश्च सुमहांस्तेषां नर्दतामभिधावताम् ॥ 21 ॥
आयुधम् स्यन्दनम् वा अपि ददृशे तेन रेणुना । शब्दः च सु महान् तेषाम् नर्दताम् अभिधावताम् ॥ २१ ॥
āyudham syandanam vā api dadṛśe tena reṇunā . śabdaḥ ca su mahān teṣām nardatām abhidhāvatām .. 21 ..
श्रूयते तुमुले युद्धे न रूपाणि चकाशिरे । हरीनेव सुसङ्क्रुद्धा हरयो जघ्नुराहवे ॥ 22 ॥
श्रूयते तुमुले युद्धे न रूपाणि चकाशिरे । हरीन् एव सु सङ्क्रुद्धाः हरयः जघ्नुः आहवे ॥ २२ ॥
śrūyate tumule yuddhe na rūpāṇi cakāśire . harīn eva su saṅkruddhāḥ harayaḥ jaghnuḥ āhave .. 22 ..
राक्षसाश्चापि रक्षांसि निजघ्नुस्तिमिरे तदा । परांश्चैव विनिघ्नन्तः स्वांश्च वानरराक्षसाः ॥ 23 ॥
राक्षसाः च अपि रक्षांसि निजघ्नुः तिमिरे तदा । परान् च एव विनिघ्नन्तः स्वान् च वानर-राक्षसाः ॥ २३ ॥
rākṣasāḥ ca api rakṣāṃsi nijaghnuḥ timire tadā . parān ca eva vinighnantaḥ svān ca vānara-rākṣasāḥ .. 23 ..
रुधिरार्द्रं तदा चक्रुर्महीं पङ्कानुलेपनाम् । ततस्तु रुधिरौघेण सिक्तं व्यपगतं रजः ॥ 24 ॥
रुधिर-आर्द्रम् तदा चक्रुः महीम् पङ्क-अनुलेपनाम् । ततस् तु रुधिर-ओघेण सिक्तम् व्यपगतम् रजः ॥ २४ ॥
rudhira-ārdram tadā cakruḥ mahīm paṅka-anulepanām . tatas tu rudhira-ogheṇa siktam vyapagatam rajaḥ .. 24 ..
शरीरशवसङ्कीर्णा बभूव च वसुन्धरा । द्रुमशक्तिशिलाप्रासैर्गदापरिघतोमरैः ॥ 25 ॥
शरीर-शव-सङ्कीर्णा बभूव च वसुन्धरा । द्रुम-शक्ति-शिला-प्रासैः गदा-परिघ-तोमरैः ॥ २५ ॥
śarīra-śava-saṅkīrṇā babhūva ca vasundharā . druma-śakti-śilā-prāsaiḥ gadā-parigha-tomaraiḥ .. 25 ..
हरयो राक्षसास्तूर्णं जघ्नुरन्योन्यमोजसा । बाहुभिः परिघाकारैर्युध्यन्तः पर्वतोपमाः ॥ 26 ॥
हरयः राक्षसाः तूर्णम् जघ्नुः अन्योन्यम् ओजसा । बाहुभिः परिघ-आकारैः युध्यन्तः पर्वत-उपमाः ॥ २६ ॥
harayaḥ rākṣasāḥ tūrṇam jaghnuḥ anyonyam ojasā . bāhubhiḥ parigha-ākāraiḥ yudhyantaḥ parvata-upamāḥ .. 26 ..
हरयो भीमकर्माणो राक्षसाञ्जघ्नुराहवे । राक्षसाश्चापि सङ्क्रुद्धाः प्रासतोमरपाणयः ॥ 27 ॥
हरयः भीम-कर्माणः राक्षसान् जघ्नुः आहवे । राक्षसाः च अपि सङ्क्रुद्धाः प्रास-तोमर-पाणयः ॥ २७ ॥
harayaḥ bhīma-karmāṇaḥ rākṣasān jaghnuḥ āhave . rākṣasāḥ ca api saṅkruddhāḥ prāsa-tomara-pāṇayaḥ .. 27 ..
कपीन्निजघ्निरे तत्र शस्त्रैः परमदारुणैः । अकम्पन सुसङ्क्रुद्धो राक्षसानां चमूपतिः ॥ 28 ॥
कपीन् निजघ्निरे तत्र शस्त्रैः परम-दारुणैः । अकम्पन सु सङ्क्रुद्धः राक्षसानाम् चमूपतिः ॥ २८ ॥
kapīn nijaghnire tatra śastraiḥ parama-dāruṇaiḥ . akampana su saṅkruddhaḥ rākṣasānām camūpatiḥ .. 28 ..
सम्हर्षयति तान् सर्वान् राक्षसान् भीमविक्रमान् । हरयस्त्वपि रक्षांसि महाद्रुममहाश्मभिः ॥ 29 ॥
सम्हर्षयति तान् सर्वान् राक्षसान् भीम-विक्रमान् । हरयः तु अपि रक्षांसि महा-द्रुम-महा-अश्मभिः ॥ २९ ॥
samharṣayati tān sarvān rākṣasān bhīma-vikramān . harayaḥ tu api rakṣāṃsi mahā-druma-mahā-aśmabhiḥ .. 29 ..
विदारयन्त्यभिक्रम्य शस्त्राण्याच्छिद्य वीर्यतः । एतस्मिन्नन्तरे वीरा हरयः कुमुदो नलः ॥ 30 ॥
विदारयन्ति अभिक्रम्य शस्त्राणि आच्छिद्य वीर्यतः । एतस्मिन् अन्तरे वीराः हरयः कुमुदः नलः ॥ ३० ॥
vidārayanti abhikramya śastrāṇi ācchidya vīryataḥ . etasmin antare vīrāḥ harayaḥ kumudaḥ nalaḥ .. 30 ..
मैन्दश्च परमक्रुद्धश् चक्रुर्वेगमनुत्तमम् । ते तु वृक्षैर्महावेगा राक्षसानां चमूमुखे ॥ 31 ॥
मैन्दः च परम-क्रुद्धः चक्रुः वेगम् अनुत्तमम् । ते तु वृक्षैः महा-वेगाः राक्षसानाम् चमू-मुखे ॥ ३१ ॥
maindaḥ ca parama-kruddhaḥ cakruḥ vegam anuttamam . te tu vṛkṣaiḥ mahā-vegāḥ rākṣasānām camū-mukhe .. 31 ..
कदनं सुमह चक्रुर्लीलया हरियूथपाः । ममन्थू राक्षसान् सर्वे नानराप्रहरणैर्भृशम् ॥ 32 ॥
कदनम् सु मह चक्रुः लीलया हरि-यूथपाः । ममन्थुः राक्षसान् सर्वे नानरा-प्रहरणैः भृशम् ॥ ३२ ॥
kadanam su maha cakruḥ līlayā hari-yūthapāḥ . mamanthuḥ rākṣasān sarve nānarā-praharaṇaiḥ bhṛśam .. 32 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In