This overlay will guide you through the buttons:

| |
|
ततो रामो महातेजा धनुरादाय वीर्यवान् । किरीटिनं महाकायं कुम्भकर्णं ददर्श ह ॥ १॥
ततस् रामः महा-तेजाः धनुः आदाय वीर्यवान् । किरीटिनम् महा-कायम् कुम्भकर्णम् ददर्श ह ॥ १॥
tatas rāmaḥ mahā-tejāḥ dhanuḥ ādāya vīryavān . kirīṭinam mahā-kāyam kumbhakarṇam dadarśa ha .. 1..
तं दृष्ट्वा राक्षसश्रेष्ठं पर्वताकारदर्शनम् । क्रममाणमिवाकाशं पुरा नारायणं प्रभुम् ॥ २॥
तम् दृष्ट्वा राक्षस-श्रेष्ठम् पर्वत-आकार-दर्शनम् । क्रममाणम् इव आकाशम् पुरा नारायणम् प्रभुम् ॥ २॥
tam dṛṣṭvā rākṣasa-śreṣṭham parvata-ākāra-darśanam . kramamāṇam iva ākāśam purā nārāyaṇam prabhum .. 2..
सतोयाम्बुदसङ्काशं काञ्चनाङ्गदभूषणम् । दृष्ट्वा पुनः प्रदुद्राव वानराणां महाचमूः ॥ ३॥
स तोय-अम्बुद-सङ्काशम् काञ्चन-अङ्गद-भूषणम् । दृष्ट्वा पुनर् प्रदुद्राव वानराणाम् महा-चमूः ॥ ३॥
sa toya-ambuda-saṅkāśam kāñcana-aṅgada-bhūṣaṇam . dṛṣṭvā punar pradudrāva vānarāṇām mahā-camūḥ .. 3..
विद्रुतां वाहिनीं दृष्ट्वा वर्धमानं च राक्षसं । सविस्मयमिदं रामो विभीषणमुवाच ह ॥ ४॥
विद्रुताम् वाहिनीम् दृष्ट्वा वर्धमानम् च राक्षसम् । स विस्मयम् इदम् रामः विभीषणम् उवाच ह ॥ ४॥
vidrutām vāhinīm dṛṣṭvā vardhamānam ca rākṣasam . sa vismayam idam rāmaḥ vibhīṣaṇam uvāca ha .. 4..
कोऽसौ पर्वतसङ्कशः किरीटी हरिलोचनः । लङ्कायां दृश्यते वीरः सविद्युदिव तोयदः ॥ ५॥
कः असौ पर्वत-सङ्कशः किरीटी हरि-लोचनः । लङ्कायाम् दृश्यते वीरः स विद्युत् इव तोयदः ॥ ५॥
kaḥ asau parvata-saṅkaśaḥ kirīṭī hari-locanaḥ . laṅkāyām dṛśyate vīraḥ sa vidyut iva toyadaḥ .. 5..
पृथिव्याः केतुभूतोऽसौ महानेकोऽत्र दृश्यते । यं दृष्ट्वा वानराः सर्वे विद्रवन्ति ततस्ततः ॥ ६॥
पृथिव्याः केतु-भूतः असौ महान् एकः अत्र दृश्यते । यम् दृष्ट्वा वानराः सर्वे विद्रवन्ति ततस् ततस् ॥ ६॥
pṛthivyāḥ ketu-bhūtaḥ asau mahān ekaḥ atra dṛśyate . yam dṛṣṭvā vānarāḥ sarve vidravanti tatas tatas .. 6..
आचक्ष्व मे महान्कोऽसौ रक्षो वा यदि वासुरः । न मयैवंविधं भूतं दृष्टपूर्वं कदा चन ॥ ७॥
आचक्ष्व मे महान् कः असौ रक्षः वा यदि वा असुरः । न मया एवंविधम् भूतम् दृष्ट-पूर्वम् कदा चन ॥ ७॥
ācakṣva me mahān kaḥ asau rakṣaḥ vā yadi vā asuraḥ . na mayā evaṃvidham bhūtam dṛṣṭa-pūrvam kadā cana .. 7..
सम्पृष्टो राजपुत्रेण रामेणाक्लिष्टकार्मणा । विभीषणो महाप्राज्ञः काकुत्स्थमिदमब्रवीत् ॥ ८॥
सम्पृष्टः राज-पुत्रेण रामेण अक्लिष्ट-कार्मणा । विभीषणः महा-प्राज्ञः काकुत्स्थम् इदम् अब्रवीत् ॥ ८॥
sampṛṣṭaḥ rāja-putreṇa rāmeṇa akliṣṭa-kārmaṇā . vibhīṣaṇaḥ mahā-prājñaḥ kākutstham idam abravīt .. 8..
येन वैवस्वतो युद्धे वासवश्च पराजितः । सैष विश्रवसः पुत्रः कुम्भकर्णः प्रतापवान् ॥ ९॥
येन वैवस्वतः युद्धे वासवः च पराजितः । स एष विश्रवसः पुत्रः कुम्भकर्णः प्रतापवान् ॥ ९॥
yena vaivasvataḥ yuddhe vāsavaḥ ca parājitaḥ . sa eṣa viśravasaḥ putraḥ kumbhakarṇaḥ pratāpavān .. 9..
एतेन देवा युधि दानवाश्च यक्षा भुजङ्गाः पिशिताशनाश्च । गन्धर्वविद्याधरकिंनराश्च सहस्रशो राघव सम्प्रभग्नाः ॥ १०॥
एतेन देवाः युधि दानवाः च यक्षाः भुजङ्गाः पिशित-अशनाः च । गन्धर्व-विद्याधर-किंनराः च सहस्रशस् राघव सम्प्रभग्नाः ॥ १०॥
etena devāḥ yudhi dānavāḥ ca yakṣāḥ bhujaṅgāḥ piśita-aśanāḥ ca . gandharva-vidyādhara-kiṃnarāḥ ca sahasraśas rāghava samprabhagnāḥ .. 10..
शूलपाणिं विरूपाक्षं कुम्भकर्णं महाबलम् । हन्तुं न शेकुस्त्रिदशाः कालोऽयमिति मोहिताः ॥ ११॥
शूलपाणिम् विरूप-अक्षम् कुम्भकर्णम् महा-बलम् । हन्तुम् न शेकुः त्रिदशाः कालः अयम् इति मोहिताः ॥ ११॥
śūlapāṇim virūpa-akṣam kumbhakarṇam mahā-balam . hantum na śekuḥ tridaśāḥ kālaḥ ayam iti mohitāḥ .. 11..
प्रकृत्या ह्येष तेजस्वी कुम्भकर्णो महाबलः । अन्येषां राक्षसेन्द्राणां वरदानकृतं बलम् ॥ १२॥
प्रकृत्या हि एष तेजस्वी कुम्भकर्णः महा-बलः । अन्येषाम् राक्षस-इन्द्राणाम् वर-दान-कृतम् बलम् ॥ १२॥
prakṛtyā hi eṣa tejasvī kumbhakarṇaḥ mahā-balaḥ . anyeṣām rākṣasa-indrāṇām vara-dāna-kṛtam balam .. 12..
बालेन जातमात्रेण क्षुधार्तेन महात्मना । भक्षितानि सहस्राणि प्रजानां सुबहून्यपि ॥ १३॥
बालेन जात-मात्रेण क्षुधा-आर्तेन महात्मना । भक्षितानि सहस्राणि प्रजानाम् सु बहूनि अपि ॥ १३॥
bālena jāta-mātreṇa kṣudhā-ārtena mahātmanā . bhakṣitāni sahasrāṇi prajānām su bahūni api .. 13..
तेषु सम्भक्ष्यमाणेषु प्रजा भयनिपीडिताः । यान्ति स्म शरणं शक्रं तमप्यर्थं न्यवेदयन् ॥ १४॥
तेषु सम्भक्ष्यमाणेषु प्रजाः भय-निपीडिताः । यान्ति स्म शरणम् शक्रम् तम् अपि अर्थम् न्यवेदयन् ॥ १४॥
teṣu sambhakṣyamāṇeṣu prajāḥ bhaya-nipīḍitāḥ . yānti sma śaraṇam śakram tam api artham nyavedayan .. 14..
स कुम्भकर्णं कुपितो महेन्द्रो जघान वज्रेण शितेन वज्री । स शक्रवज्राभिहतो महात्मा चचाल कोपाच्च भृशं ननाद ॥ १५॥
स कुम्भकर्णम् कुपितः महा-इन्द्रः जघान वज्रेण शितेन वज्री । स शक्र-वज्र-अभिहतः महात्मा चचाल कोपात् च भृशम् ननाद ॥ १५॥
sa kumbhakarṇam kupitaḥ mahā-indraḥ jaghāna vajreṇa śitena vajrī . sa śakra-vajra-abhihataḥ mahātmā cacāla kopāt ca bhṛśam nanāda .. 15..
तस्य नानद्यमानस्य कुम्भकर्णस्य रक्षसः । श्रुत्वा निनादं वित्रस्ता प्रजा भूयो वितत्रसुः ॥ १६॥
तस्य नानद्यमानस्य कुम्भकर्णस्य रक्षसः । श्रुत्वा निनादम् वित्रस्ता प्रजाः भूयस् वितत्रसुः ॥ १६॥
tasya nānadyamānasya kumbhakarṇasya rakṣasaḥ . śrutvā ninādam vitrastā prajāḥ bhūyas vitatrasuḥ .. 16..
ततः क्रुध्दो महेन्द्रस्य कुम्भकर्णो महाबलः । निकृष्यैरावताद् दन्तं जघानोरसि वासवम् ॥ १७॥
ततस् क्रुध्दः महा-इन्द्रस्य कुम्भकर्णः महा-बलः । निकृष्य ऐरावतात् दन्तम् जघान उरसि वासवम् ॥ १७॥
tatas krudhdaḥ mahā-indrasya kumbhakarṇaḥ mahā-balaḥ . nikṛṣya airāvatāt dantam jaghāna urasi vāsavam .. 17..
कुम्भकर्णप्रहारार्तो विजज्वाल स वासवः । ततो विषेदुः सहसा देव ब्रह्मर्षिदानवाः ॥ १८॥
कुम्भकर्ण-प्रहार-आर्तः विजज्वाल स वासवः । ततस् विषेदुः सहसा देव ब्रह्मर्षि-दानवाः ॥ १८॥
kumbhakarṇa-prahāra-ārtaḥ vijajvāla sa vāsavaḥ . tatas viṣeduḥ sahasā deva brahmarṣi-dānavāḥ .. 18..
प्रजाभिः सह शक्रश्च ययौ स्थानं स्वयम्भुवः । कुम्भकर्णस्य दौरात्म्यं शशंसुस्ते प्रजापतेः । प्रजानां भक्षणं चापि देवानां चापि धर्षणम् ॥ १९॥
प्रजाभिः सह शक्रः च ययौ स्थानम् स्वयम्भुवः । कुम्भकर्णस्य दौरात्म्यम् शशंसुः ते प्रजापतेः । प्रजानाम् भक्षणम् च अपि देवानाम् च अपि धर्षणम् ॥ १९॥
prajābhiḥ saha śakraḥ ca yayau sthānam svayambhuvaḥ . kumbhakarṇasya daurātmyam śaśaṃsuḥ te prajāpateḥ . prajānām bhakṣaṇam ca api devānām ca api dharṣaṇam .. 19..
प्रजानांभक्षणंचापिधर्षणं च दिवौकसाम् । आश्रमध्वंसनंचापिपरस्त्रीहरणंभृशम् ॥ 20 ॥
प्रजानाम् भक्षणम् च अपि धर्षणम् च दिवौकसाम् । आश्रम-ध्वंसनम् च अपि पर-स्त्री-हरणम् भृशम् ॥ २० ॥
prajānām bhakṣaṇam ca api dharṣaṇam ca divaukasām . āśrama-dhvaṃsanam ca api para-strī-haraṇam bhṛśam .. 20 ..
एवं प्रजा यदि त्वेष भक्षयिष्यति नित्यशः । अचिरेणैव कालेन शून्यो लोको भविष्यति ॥ 21 ॥
एवम् प्रजाः यदि तु एष भक्षयिष्यति नित्यशस् । अचिरेण एव कालेन शून्यः लोकः भविष्यति ॥ २१ ॥
evam prajāḥ yadi tu eṣa bhakṣayiṣyati nityaśas . acireṇa eva kālena śūnyaḥ lokaḥ bhaviṣyati .. 21 ..
वासवस्य वचः श्रुत्वा सर्वलोकपितामहः । रक्षांस्यावाहयामास कुम्भकर्णं ददर्श ह ॥ 22 ॥
वासवस्य वचः श्रुत्वा सर्व-लोक-पितामहः । रक्षांसि आवाहयामास कुम्भकर्णम् ददर्श ह ॥ २२ ॥
vāsavasya vacaḥ śrutvā sarva-loka-pitāmahaḥ . rakṣāṃsi āvāhayāmāsa kumbhakarṇam dadarśa ha .. 22 ..
कुम्भकर्णं समीक्ष्यैव वितत्रास प्रजापतिः । कुम्भकर्णमथाश्वास्तः स्वयम्भूरिदमब्रवीत् ॥ 23 ॥
कुम्भकर्णम् समीक्ष्य एव वितत्रास प्रजापतिः । कुम्भकर्णम् अथ आश्वास्तः स्वयम्भूः इदम् अब्रवीत् ॥ २३ ॥
kumbhakarṇam samīkṣya eva vitatrāsa prajāpatiḥ . kumbhakarṇam atha āśvāstaḥ svayambhūḥ idam abravīt .. 23 ..
ध्रुवं लोकविनाशाय पौरस्त्येनासि निर्मितः । तस्मात्त्वमद्य प्रभृति मृतकल्पः शयिष्यसि ॥ 24 ॥
ध्रुवम् लोक-विनाशाय पौरस्त्येन असि निर्मितः । तस्मात् त्वम् अद्य प्रभृति मृत-कल्पः शयिष्यसि ॥ २४ ॥
dhruvam loka-vināśāya paurastyena asi nirmitaḥ . tasmāt tvam adya prabhṛti mṛta-kalpaḥ śayiṣyasi .. 24 ..
ब्रह्मशापाभिभूतोऽथ निपपाताग्रतः प्रभोः । ततः परमसम्भ्रान्तो रावणो वाक्यमब्रवीत् ॥ 25 ॥
ब्रह्म-शाप-अभिभूतः अथ निपपात अग्रतस् प्रभोः । ततस् परम-सम्भ्रान्तः रावणः वाक्यम् अब्रवीत् ॥ २५ ॥
brahma-śāpa-abhibhūtaḥ atha nipapāta agratas prabhoḥ . tatas parama-sambhrāntaḥ rāvaṇaḥ vākyam abravīt .. 25 ..
प्रवृद्धः काञ्चनो वृक्षः फलकाले निकृत्यते । न नप्तारं स्वकं न्याय्यं शप्तुमेवं प्रजापते ॥ 26 ॥
प्रवृद्धः काञ्चनः वृक्षः फल-काले निकृत्यते । न नप्तारम् स्वकम् न्याय्यम् शप्तुम् एवम् प्रजापते ॥ २६ ॥
pravṛddhaḥ kāñcanaḥ vṛkṣaḥ phala-kāle nikṛtyate . na naptāram svakam nyāyyam śaptum evam prajāpate .. 26 ..
न मिथ्यावचनश्च त्वं स्वप्स्यत्येष न संशयः । कालस्तु क्रियतामस्य शयने जागरे तथा ॥ 27 ॥
न मिथ्या वचनः च त्वम् स्वप्स्यति एष न संशयः । कालः तु क्रियताम् अस्य शयने जागरे तथा ॥ २७ ॥
na mithyā vacanaḥ ca tvam svapsyati eṣa na saṃśayaḥ . kālaḥ tu kriyatām asya śayane jāgare tathā .. 27 ..
रावणस्य वचः श्रुत्वा स्वयम्भूरिदमब्रवीत् । शयिता ह्येष षण्मासानेकाहं जागरिष्यति ॥ 28 ॥
रावणस्य वचः श्रुत्वा स्वयम्भूः इदम् अब्रवीत् । शयिता हि एष षष्-मासान् एक-अहम् जागरिष्यति ॥ २८ ॥
rāvaṇasya vacaḥ śrutvā svayambhūḥ idam abravīt . śayitā hi eṣa ṣaṣ-māsān eka-aham jāgariṣyati .. 28 ..
एकेनाह्ना त्वसौ वीरश्चरन्भूमिं बुभुक्षितः । व्यात्तास्यो भक्षयेल्लोकान्सङ्क्रुद्ध इव पावकः ॥ 29 ॥
एकेन अह्ना तु असौ वीरः चरन् भूमिम् बुभुक्षितः । व्यात्त-आस्यः भक्षयेत् लोकान् सङ्क्रुद्धः इव पावकः ॥ २९ ॥
ekena ahnā tu asau vīraḥ caran bhūmim bubhukṣitaḥ . vyātta-āsyaḥ bhakṣayet lokān saṅkruddhaḥ iva pāvakaḥ .. 29 ..
सोऽसौ व्यसनमापन्नः कुम्भकर्णमबोधयत् । त्वत्पराक्रमभीतश्च राजा सम्प्रति रावणः ॥ 30 ॥
सः असौ व्यसनम् आपन्नः कुम्भकर्णम् अबोधयत् । त्वद्-पराक्रम-भीतः च राजा सम्प्रति रावणः ॥ ३० ॥
saḥ asau vyasanam āpannaḥ kumbhakarṇam abodhayat . tvad-parākrama-bhītaḥ ca rājā samprati rāvaṇaḥ .. 30 ..
स एष निर्गतो वीरः शिबिराद्भीमविक्रमः । वानरान्भृशसङ्क्रुद्धो भक्षयन्परिधावति ॥ 31 ॥
सः एष निर्गतः वीरः शिबिरात् भीम-विक्रमः । वानरान् भृश-सङ्क्रुद्धः भक्षयन् परिधावति ॥ ३१ ॥
saḥ eṣa nirgataḥ vīraḥ śibirāt bhīma-vikramaḥ . vānarān bhṛśa-saṅkruddhaḥ bhakṣayan paridhāvati .. 31 ..
कुम्भकर्णं समीक्ष्यैव हरयो विप्रदुद्रुवुः । कथमेनं रणे क्रुद्धं वारयिष्यन्ति वानराः ॥ 32 ॥
कुम्भकर्णम् समीक्ष्य एव हरयः विप्रदुद्रुवुः । कथम् एनम् रणे क्रुद्धम् वारयिष्यन्ति वानराः ॥ ३२ ॥
kumbhakarṇam samīkṣya eva harayaḥ vipradudruvuḥ . katham enam raṇe kruddham vārayiṣyanti vānarāḥ .. 32 ..
उच्यन्तां वानराः सर्वे यन्त्रमेतत्समुच्छ्रितम् । इति विज्ञाय हरयो भविष्यन्तीह निर्भयाः ॥ 33 ॥
उच्यन्ताम् वानराः सर्वे यन्त्रम् एतत् समुच्छ्रितम् । इति विज्ञाय हरयः भविष्यन्ति इह निर्भयाः ॥ ३३ ॥
ucyantām vānarāḥ sarve yantram etat samucchritam . iti vijñāya harayaḥ bhaviṣyanti iha nirbhayāḥ .. 33 ..
विभीषणवचः श्रुत्वा हेतुमत्सुमुखोद्गतम् । उवाच राघवो वाक्यं नीलं सेनापतिं तदा ॥ 34 ॥
विभीषण-वचः श्रुत्वा हेतुमत् सु मुख-उद्गतम् । उवाच राघवः वाक्यम् नीलम् सेनापतिम् तदा ॥ ३४ ॥
vibhīṣaṇa-vacaḥ śrutvā hetumat su mukha-udgatam . uvāca rāghavaḥ vākyam nīlam senāpatim tadā .. 34 ..
गच्छ सैन्यानि सर्वाणि व्यूह्य तिष्ठस्व पावके । द्वाराण्यादाय लङ्कायाश्चर्याश्चाप्यथ सङ्क्रमान् ॥ 35 ॥
गच्छ सैन्यानि सर्वाणि व्यूह्य तिष्ठस्व पावके । द्वाराणि आदाय लङ्कायाः चर्याः च अपि अथ सङ्क्रमान् ॥ ३५ ॥
gaccha sainyāni sarvāṇi vyūhya tiṣṭhasva pāvake . dvārāṇi ādāya laṅkāyāḥ caryāḥ ca api atha saṅkramān .. 35 ..
शैलशृङ्गाणि वृक्षांश्च शिलाश्चाप्युपसंहरन् । भवन्त सायुधाः सर्वे वानराः शैलपाणयः ॥ 36 ॥
शैल-शृङ्गाणि वृक्षान् च शिलाः च अपि उपसंहरन् । भवन्त स आयुधाः सर्वे वानराः शैल-पाणयः ॥ ३६ ॥
śaila-śṛṅgāṇi vṛkṣān ca śilāḥ ca api upasaṃharan . bhavanta sa āyudhāḥ sarve vānarāḥ śaila-pāṇayaḥ .. 36 ..
राघवेण समादिष्टो नीलो हरिचमूपतिः । शशास वानरानीकं यथावत् कपिकुञ्जरः ॥ 37 ॥
राघवेण समादिष्टः नीलः हरि-चमूपतिः । शशास वानर-अनीकम् यथावत् कपि-कुञ्जरः ॥ ३७ ॥
rāghaveṇa samādiṣṭaḥ nīlaḥ hari-camūpatiḥ . śaśāsa vānara-anīkam yathāvat kapi-kuñjaraḥ .. 37 ..
ततो गवाक्षः शरभो हनुमानङ्गदो नलः । शैलशृङ्गाणि शैलाभा गृहीत्वा द्वारमभ्ययुः ॥ 38 ॥
ततस् गवाक्षः शरभः हनुमान् अङ्गदः नलः । शैल-शृङ्गाणि शैल-आभाः गृहीत्वा द्वारम् अभ्ययुस् ॥ ३८ ॥
tatas gavākṣaḥ śarabhaḥ hanumān aṅgadaḥ nalaḥ . śaila-śṛṅgāṇi śaila-ābhāḥ gṛhītvā dvāram abhyayus .. 38 ..
रामवाक्यमुपश्रुत्य हरयो जितकाशिनः । पादपैरर्दयवनीरावानराःपरवाहिनीम् ॥ 39 ॥
राम-वाक्यम् उपश्रुत्य हरयः जित-काशिनः । पादपैः अर्द-यवनीरा-वानराः पर-वाहिनीम् ॥ ३९ ॥
rāma-vākyam upaśrutya harayaḥ jita-kāśinaḥ . pādapaiḥ arda-yavanīrā-vānarāḥ para-vāhinīm .. 39 ..
ततो हरीणां तदनीकमुग्रं रराज शैलोद्यतवृक्षहस्तम् । गिरेः समीपानुगतं यथैव महन्महाम्भोधरजालमुग्रम् ॥ 40 ॥
ततस् हरीणाम् तत् अनीकम् उग्रम् रराज शैल-उद्यत-वृक्ष-हस्तम् । गिरेः समीप-अनुगतम् यथा एव महत् महा-अम्भोधर-जालम् उग्रम् ॥ ४० ॥
tatas harīṇām tat anīkam ugram rarāja śaila-udyata-vṛkṣa-hastam . gireḥ samīpa-anugatam yathā eva mahat mahā-ambhodhara-jālam ugram .. 40 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In