This overlay will guide you through the buttons:

| |
|
महोदरमहापार्श्वौ हतौ दृष्ट्वा स रावणः। तस्मिंश्च निहते वीरे विरूपाक्षे महाबले॥ १॥
महोदर-महापार्श्वौ हतौ दृष्ट्वा स रावणः। तस्मिन् च निहते वीरे विरूपाक्षे महा-बले॥ १॥
mahodara-mahāpārśvau hatau dṛṣṭvā sa rāvaṇaḥ. tasmin ca nihate vīre virūpākṣe mahā-bale.. 1..
आविवेश महान् क्रोधो रावणं तु महामृधे। सूतं संचोदयामास वाक्यं चेदमुवाच ह॥ २॥
आविवेश महान् क्रोधः रावणम् तु महा-मृधे। सूतम् संचोदयामास वाक्यम् च इदम् उवाच ह॥ २॥
āviveśa mahān krodhaḥ rāvaṇam tu mahā-mṛdhe. sūtam saṃcodayāmāsa vākyam ca idam uvāca ha.. 2..
निहतानाममात्यानां रुद्धस्य नगरस्य च। दुःखमेवापनेष्यामि हत्वा तौ रामलक्ष्मणौ॥ ३॥
निहतानाम् अमात्यानाम् रुद्धस्य नगरस्य च। दुःखम् एव अपनेष्यामि हत्वा तौ राम-लक्ष्मणौ॥ ३॥
nihatānām amātyānām ruddhasya nagarasya ca. duḥkham eva apaneṣyāmi hatvā tau rāma-lakṣmaṇau.. 3..
रामवृक्षं रणे हन्मि सीतापुष्पफलप्रदम्। प्रशाखा यस्य सुग्रीवो जाम्बवान् कुमुदो नलः॥ ४॥
राम-वृक्षम् रणे हन्मि सीता-पुष्प-फल-प्रदम्। प्रशाखाः यस्य सुग्रीवः जाम्बवान् कुमुदः नलः॥ ४॥
rāma-vṛkṣam raṇe hanmi sītā-puṣpa-phala-pradam. praśākhāḥ yasya sugrīvaḥ jāmbavān kumudaḥ nalaḥ.. 4..
द्विविदश्चैव मैन्दश्च अङ्गदो गन्धमादनः। हनूमांश्च सुषेणश्च सर्वे च हरियूथपाः॥ ५॥
द्विविदः च एव मैन्दः च अङ्गदः गन्धमादनः। हनूमान् च सुषेणः च सर्वे च हरि-यूथपाः॥ ५॥
dvividaḥ ca eva maindaḥ ca aṅgadaḥ gandhamādanaḥ. hanūmān ca suṣeṇaḥ ca sarve ca hari-yūthapāḥ.. 5..
स दिशो दश घोषेण रथस्यातिरथो महान्। नादयन् प्रययौ तूर्णं राघवं चाभ्यधावत॥ ६॥
स दिशः दश घोषेण रथस्य अतिरथः महान्। नादयन् प्रययौ तूर्णम् राघवम् च अभ्यधावत॥ ६॥
sa diśaḥ daśa ghoṣeṇa rathasya atirathaḥ mahān. nādayan prayayau tūrṇam rāghavam ca abhyadhāvata.. 6..
पूरिता तेन शब्देन सनदीगिरिकानना। संचचाल मही सर्वा त्रस्तसिंहमृगद्विजा॥ ७॥
पूरिता तेन शब्देन स नदीगिरि-कानना। संचचाल मही सर्वा त्रस्त-सिंह-मृग-द्विजा॥ ७॥
pūritā tena śabdena sa nadīgiri-kānanā. saṃcacāla mahī sarvā trasta-siṃha-mṛga-dvijā.. 7..
तामसं सुमहाघोरं चकारास्त्रं सुदारुणम्। निर्ददाह कपीन् सर्वांस्ते प्रपेतुः समन्ततः॥ ८॥
तामसम् सु महा-घोरम् चकार अस्त्रम् सु दारुणम्। निर्ददाह कपीन् सर्वान् ते प्रपेतुः समन्ततः॥ ८॥
tāmasam su mahā-ghoram cakāra astram su dāruṇam. nirdadāha kapīn sarvān te prapetuḥ samantataḥ.. 8..
उत्पपात रजो भूमौ तैर्भग्नैः सम्प्रधावितैः। नहि तत् सहितुं शेकुर्ब्रह्मणा निर्मितं स्वयम्॥ ९॥
उत्पपात रजः भूमौ तैः भग्नैः सम्प्रधावितैः। नहि तत् सहितुम् शेकुः ब्रह्मणा निर्मितम् स्वयम्॥ ९॥
utpapāta rajaḥ bhūmau taiḥ bhagnaiḥ sampradhāvitaiḥ. nahi tat sahitum śekuḥ brahmaṇā nirmitam svayam.. 9..
तान्यनीकान्यनेकानि रावणस्य शरोत्तमैः। दृष्ट्वा भग्नानि शतशो राघवः पर्यवस्थितः॥ १०॥
तानि अनीकानि अनेकानि रावणस्य शर-उत्तमैः। दृष्ट्वा भग्नानि शतशस् राघवः पर्यवस्थितः॥ १०॥
tāni anīkāni anekāni rāvaṇasya śara-uttamaiḥ. dṛṣṭvā bhagnāni śataśas rāghavaḥ paryavasthitaḥ.. 10..
ततो राक्षसशार्दूलो विद्राव्य हरिवाहिनीम्। स ददर्श ततो रामं तिष्ठन्तमपराजितम्॥ ११॥
ततस् राक्षस-शार्दूलः विद्राव्य हरि-वाहिनीम्। स ददर्श ततस् रामम् तिष्ठन्तम् अपराजितम्॥ ११॥
tatas rākṣasa-śārdūlaḥ vidrāvya hari-vāhinīm. sa dadarśa tatas rāmam tiṣṭhantam aparājitam.. 11..
लक्ष्मणेन सह भ्रात्रा विष्णुना वासवं यथा। आलिखन्तमिवाकाशमवष्टभ्य महद् धनुः॥ १२॥
लक्ष्मणेन सह भ्रात्रा विष्णुना वासवम् यथा। आलिखन्तम् इव आकाशम् अवष्टभ्य महत् धनुः॥ १२॥
lakṣmaṇena saha bhrātrā viṣṇunā vāsavam yathā. ālikhantam iva ākāśam avaṣṭabhya mahat dhanuḥ.. 12..
पद्मपत्रविशालाक्षं दीर्घबाहुमरिंदमम्। ततो रामो महातेजाः सौमित्रिसहितो बली॥ १३॥
पद्म-पत्र-विशाल-अक्षम् दीर्घ-बाहुम् अरिंदमम्। ततस् रामः महा-तेजाः सौमित्रि-सहितः बली॥ १३॥
padma-patra-viśāla-akṣam dīrgha-bāhum ariṃdamam. tatas rāmaḥ mahā-tejāḥ saumitri-sahitaḥ balī.. 13..
वानरांश्च रणे भग्नानापतन्तं च रावणम्। समीक्ष्य राघवो हृष्टो मध्ये जग्राह कार्मुकम्॥ १४॥
वानरान् च रणे भग्नान् आपतन्तम् च रावणम्। समीक्ष्य राघवः हृष्टः मध्ये जग्राह कार्मुकम्॥ १४॥
vānarān ca raṇe bhagnān āpatantam ca rāvaṇam. samīkṣya rāghavaḥ hṛṣṭaḥ madhye jagrāha kārmukam.. 14..
विस्फारयितुमारेभे ततः स धनुरुत्तमम्। महावेगं महानादं निर्भिन्दन्निव मेदिनीम्॥ १५॥
विस्फारयितुम् आरेभे ततस् स धनुः उत्तमम्। महा-वेगम् महा-नादम् निर्भिन्दन् इव मेदिनीम्॥ १५॥
visphārayitum ārebhe tatas sa dhanuḥ uttamam. mahā-vegam mahā-nādam nirbhindan iva medinīm.. 15..
रावणस्य च बाणौघै रामविस्फारितेन च। शब्देन राक्षसास्तेन पेतुश्च शतशस्तदा॥ १६॥
रावणस्य च बाण-ओघैः राम-विस्फारितेन च। शब्देन राक्षसाः तेन पेतुः च शतशस् तदा॥ १६॥
rāvaṇasya ca bāṇa-oghaiḥ rāma-visphāritena ca. śabdena rākṣasāḥ tena petuḥ ca śataśas tadā.. 16..
तयोः शरपथं प्राप्य रावणो राजपुत्रयोः। स बभौ च यथा राहुः समीपे शशिसूर्ययोः॥ १७॥
तयोः शर-पथम् प्राप्य रावणः राज-पुत्रयोः। स बभौ च यथा राहुः समीपे शशि-सूर्ययोः॥ १७॥
tayoḥ śara-patham prāpya rāvaṇaḥ rāja-putrayoḥ. sa babhau ca yathā rāhuḥ samīpe śaśi-sūryayoḥ.. 17..
तमिच्छन् प्रथमं योद्धुं लक्ष्मणो निशितैः शरैः। मुमोच धनुरायम्य शरानग्निशिखोपमान्॥ १८॥
तम् इच्छन् प्रथमम् योद्धुम् लक्ष्मणः निशितैः शरैः। मुमोच धनुः आयम्य शरान् अग्नि-शिखा-उपमान्॥ १८॥
tam icchan prathamam yoddhum lakṣmaṇaḥ niśitaiḥ śaraiḥ. mumoca dhanuḥ āyamya śarān agni-śikhā-upamān.. 18..
तान् मुक्तमात्रानाकाशे लक्ष्मणेन धनुष्मता। बाणान् बाणैर्महातेजा रावणः प्रत्यवारयत्॥ १९॥
तान् मुक्त-मात्रान् आकाशे लक्ष्मणेन धनुष्मता। बाणान् बाणैः महा-तेजाः रावणः प्रत्यवारयत्॥ १९॥
tān mukta-mātrān ākāśe lakṣmaṇena dhanuṣmatā. bāṇān bāṇaiḥ mahā-tejāḥ rāvaṇaḥ pratyavārayat.. 19..
एकमेकेन बाणेन त्रिभिस्त्रीन् दशभिर्दश। लक्ष्मणस्य प्रचिच्छेद दर्शयन् पाणिलाघवम्॥ २०॥
एकम् एकेन बाणेन त्रिभिः त्रीन् दशभिः दश। लक्ष्मणस्य प्रचिच्छेद दर्शयन् पाणि-लाघवम्॥ २०॥
ekam ekena bāṇena tribhiḥ trīn daśabhiḥ daśa. lakṣmaṇasya praciccheda darśayan pāṇi-lāghavam.. 20..
अभ्यतिक्रम्य सौमित्रिं रावणः समितिंजयः। आससाद रणे रामं स्थितं शैलमिवापरम्॥ २१॥
अभ्यतिक्रम्य सौमित्रिम् रावणः समितिंजयः। आससाद रणे रामम् स्थितम् शैलम् इव अपरम्॥ २१॥
abhyatikramya saumitrim rāvaṇaḥ samitiṃjayaḥ. āsasāda raṇe rāmam sthitam śailam iva aparam.. 21..
स राघवं समासाद्य क्रोधसंरक्तलोचनः। व्यसृजच्छरवर्षाणि रावणो राक्षसेश्वरः॥ २२॥
स राघवम् समासाद्य क्रोध-संरक्त-लोचनः। व्यसृजत् शर-वर्षाणि रावणः राक्षसेश्वरः॥ २२॥
sa rāghavam samāsādya krodha-saṃrakta-locanaḥ. vyasṛjat śara-varṣāṇi rāvaṇaḥ rākṣaseśvaraḥ.. 22..
शरधारास्ततो रामो रावणस्य धनुश्च्युताः। दृष्ट्वैवापतिताः शीघ्रं भल्लाञ्जग्राह सत्वरम्॥ २३॥
शर-धाराः ततस् रामः रावणस्य धनुः-च्युताः। दृष्ट्वा एव आपतिताः शीघ्रम् भल्लान् जग्राह स त्वरम्॥ २३॥
śara-dhārāḥ tatas rāmaḥ rāvaṇasya dhanuḥ-cyutāḥ. dṛṣṭvā eva āpatitāḥ śīghram bhallān jagrāha sa tvaram.. 23..
ताञ्छरौघांस्ततो भल्लैस्तीक्ष्णैश्चिच्छेद राघवः। दीप्यमानान् महाघोराञ्छरानाशीविषोपमान्॥ २४॥
तान् शर-ओघान् ततस् भल्लैः तीक्ष्णैः चिच्छेद राघवः। दीप्यमानान् महा-घोरान् शरान् आशीविष-उपमान्॥ २४॥
tān śara-oghān tatas bhallaiḥ tīkṣṇaiḥ ciccheda rāghavaḥ. dīpyamānān mahā-ghorān śarān āśīviṣa-upamān.. 24..
राघवो रावणं तूर्णं रावणो राघवं तथा। अन्योन्यं विविधैस्तीक्ष्णैः शरवर्षैर्ववर्षतुः॥ २५॥
राघवः रावणम् तूर्णम् रावणः राघवम् तथा। अन्योन्यम् विविधैः तीक्ष्णैः शर-वर्षैः ववर्षतुः॥ २५॥
rāghavaḥ rāvaṇam tūrṇam rāvaṇaḥ rāghavam tathā. anyonyam vividhaiḥ tīkṣṇaiḥ śara-varṣaiḥ vavarṣatuḥ.. 25..
चेरतुश्च चिरं चित्रं मण्डलं सव्यदक्षिणम्। बाणवेगात् समुत्क्षिप्तावन्योन्यमपराजितौ॥ २६॥
चेरतुः च चिरम् चित्रम् मण्डलम् सव्य-दक्षिणम्। बाण-वेगात् समुत्क्षिप्तौ अन्योन्यम् अपराजितौ॥ २६॥
ceratuḥ ca ciram citram maṇḍalam savya-dakṣiṇam. bāṇa-vegāt samutkṣiptau anyonyam aparājitau.. 26..
तयोर्भूतानि वित्रेसुर्युगपत् सम्प्रयुध्यतोः। रौद्रयोः सायकमुचोर्यमान्तकनिकाशयोः॥ २७॥
तयोः भूतानि वित्रेसुः युगपद् सम्प्रयुध्यतोः। रौद्रयोः सायक-मुचोः यम-अन्तक-निकाशयोः॥ २७॥
tayoḥ bhūtāni vitresuḥ yugapad samprayudhyatoḥ. raudrayoḥ sāyaka-mucoḥ yama-antaka-nikāśayoḥ.. 27..
सततं विविधैर्बाणैर्बभूव गगनं तदा। घनैरिवातपापाये विद्युन्मालासमाकुलैः॥ २८॥
सततम् विविधैः बाणैः बभूव गगनम् तदा। घनैः इव आतप-अपाये विद्युत्-माला-समाकुलैः॥ २८॥
satatam vividhaiḥ bāṇaiḥ babhūva gaganam tadā. ghanaiḥ iva ātapa-apāye vidyut-mālā-samākulaiḥ.. 28..
गवाक्षितमिवाकाशं बभूव शरवृष्टिभिः। महावेगैः सुतीक्ष्णाग्रैर्गृध्रपत्रैः सुवाजितैः॥ २९॥
गवाक्षितम् इव आकाशम् बभूव शर-वृष्टिभिः। महा-वेगैः सु तीक्ष्ण-अग्रैः गृध्र-पत्रैः सु वाजितैः॥ २९॥
gavākṣitam iva ākāśam babhūva śara-vṛṣṭibhiḥ. mahā-vegaiḥ su tīkṣṇa-agraiḥ gṛdhra-patraiḥ su vājitaiḥ.. 29..
शरान्धकारमाकाशं चक्रतुः परमं तदा। गतेऽस्तं तपने चापि महामेघाविवोत्थितौ॥ ३०॥
शर-अन्धकारम् आकाशम् चक्रतुः परमम् तदा। गते अस्तम् तपने च अपि महा-मेघौ इव उत्थितौ॥ ३०॥
śara-andhakāram ākāśam cakratuḥ paramam tadā. gate astam tapane ca api mahā-meghau iva utthitau.. 30..
तयोरभून्महायुद्धमन्योन्यवधकांक्षिणोः। अनासाद्यमचिन्त्यं च वृत्रवासवयोरिव॥ ३१॥
तयोः अभूत् महा-युद्धम् अन्योन्य-वध-कांक्षिणोः। अन् आसाद्यम् अचिन्त्यम् च वृत्र-वासवयोः इव॥ ३१॥
tayoḥ abhūt mahā-yuddham anyonya-vadha-kāṃkṣiṇoḥ. an āsādyam acintyam ca vṛtra-vāsavayoḥ iva.. 31..
उभौ हि परमेष्वासावुभौ युद्धविशारदौ। उभावस्त्रविदां मुख्यावुभौ युद्धे विचेरतुः॥ ३२॥
उभौ हि परम-इष्वासौ उभौ युद्ध-विशारदौ। उभौ अस्त्र-विदाम् मुख्यौ उभौ युद्धे विचेरतुः॥ ३२॥
ubhau hi parama-iṣvāsau ubhau yuddha-viśāradau. ubhau astra-vidām mukhyau ubhau yuddhe viceratuḥ.. 32..
उभौ हि येन व्रजतस्तेन तेन शरोर्मयः। ऊर्मयो वायुना विद्धा जग्मुः सागरयोरिव॥ ३३॥
उभौ हि येन व्रजतः तेन तेन शर-ऊर्मयः। ऊर्मयः वायुना विद्धाः जग्मुः सागरयोः इव॥ ३३॥
ubhau hi yena vrajataḥ tena tena śara-ūrmayaḥ. ūrmayaḥ vāyunā viddhāḥ jagmuḥ sāgarayoḥ iva.. 33..
ततः संसक्तहस्तस्तु रावणो लोकरावणः। नाराचमालां रामस्य ललाटे प्रत्यमुञ्चत॥ ३४॥
ततस् संसक्त-हस्तः तु रावणः लोक-रावणः। नाराच-मालाम् रामस्य ललाटे प्रत्यमुञ्चत॥ ३४॥
tatas saṃsakta-hastaḥ tu rāvaṇaḥ loka-rāvaṇaḥ. nārāca-mālām rāmasya lalāṭe pratyamuñcata.. 34..
रौद्रचापप्रयुक्तां तां नीलोत्पलदलप्रभाम्। शिरसाधारयद् रामो न व्यथामभ्यपद्यत॥ ३५॥
रौद्र-चाप-प्रयुक्ताम् ताम् नीलोत्पल-दल-प्रभाम्। शिरसा अधारयत् रामः न व्यथाम् अभ्यपद्यत॥ ३५॥
raudra-cāpa-prayuktām tām nīlotpala-dala-prabhām. śirasā adhārayat rāmaḥ na vyathām abhyapadyata.. 35..
अथ मन्त्रानपि जपन् रौद्रमस्त्रमुदीरयन्। शरान् भूयः समादाय रामः क्रोधसमन्वितः॥ ३६॥
अथ मन्त्रान् अपि जपन् रौद्रम् अस्त्रम् उदीरयन्। शरान् भूयस् समादाय रामः क्रोध-समन्वितः॥ ३६॥
atha mantrān api japan raudram astram udīrayan. śarān bhūyas samādāya rāmaḥ krodha-samanvitaḥ.. 36..
मुमोच च महातेजाश्चापमायम्य वीर्यवान्। तान् शरान् राक्षसेन्द्राय चिक्षेपाच्छिन्नसायकः॥ ३७॥
मुमोच च महा-तेजाः चापम् आयम्य वीर्यवान्। तान् शरान् राक्षस-इन्द्राय चिक्षेप आच्छिन्न-सायकः॥ ३७॥
mumoca ca mahā-tejāḥ cāpam āyamya vīryavān. tān śarān rākṣasa-indrāya cikṣepa ācchinna-sāyakaḥ.. 37..
ते महामेघसंकाशे कवचे पतिताः शराः। अवध्ये राक्षसेन्द्रस्य न व्यथां जनयंस्तदा॥ ३८॥
ते महा-मेघ-संकाशे कवचे पतिताः शराः। अवध्ये राक्षस-इन्द्रस्य न व्यथाम् जनयन् तदा॥ ३८॥
te mahā-megha-saṃkāśe kavace patitāḥ śarāḥ. avadhye rākṣasa-indrasya na vyathām janayan tadā.. 38..
पुनरेवाथ तं रामो रथस्थं राक्षसाधिपम्। ललाटे परमास्त्रेण सर्वास्त्रकुशलोऽभिनत्॥ ३९॥
पुनर् एव अथ तम् रामः रथ-स्थम् राक्षस-अधिपम्। ललाटे परम-अस्त्रेण सर्व-अस्त्र-कुशलः अभिनत्॥ ३९॥
punar eva atha tam rāmaḥ ratha-stham rākṣasa-adhipam. lalāṭe parama-astreṇa sarva-astra-kuśalaḥ abhinat.. 39..
ते भित्त्वा बाणरूपाणि पञ्चशीर्षा इवोरगाः। श्वसन्तो विविशुर्भूमिं रावणप्रतिकूलिताः॥ ४०॥
ते भित्त्वा बाण-रूपाणि पञ्च-शीर्षाः इव उरगाः। श्वसन्तः विविशुः भूमिम् रावण-प्रतिकूलिताः॥ ४०॥
te bhittvā bāṇa-rūpāṇi pañca-śīrṣāḥ iva uragāḥ. śvasantaḥ viviśuḥ bhūmim rāvaṇa-pratikūlitāḥ.. 40..
निहत्य राघवस्यास्त्रं रावणः क्रोधमूर्च्छितः। आसुरं सुमहाघोरमस्त्रं प्रादुश्चकार सः॥ ४१॥
निहत्य राघवस्य अस्त्रम् रावणः क्रोध-मूर्च्छितः। आसुरम् सु महा-घोरम् अस्त्रम् प्रादुश्चकार सः॥ ४१॥
nihatya rāghavasya astram rāvaṇaḥ krodha-mūrcchitaḥ. āsuram su mahā-ghoram astram prāduścakāra saḥ.. 41..
सिंहव्याघ्रमुखांश्चापि कङ्ककोकमुखानपि। गृध्रश्येनमुखांश्चापि शृगालवदनांस्तथा॥ ४२॥
सिंह-व्याघ्र-मुखान् च अपि कङ्क-कोक-मुखान् अपि। गृध्र-श्येन-मुखान् च अपि शृगाल-वदनान् तथा॥ ४२॥
siṃha-vyāghra-mukhān ca api kaṅka-koka-mukhān api. gṛdhra-śyena-mukhān ca api śṛgāla-vadanān tathā.. 42..
ईहामृगमुखांश्चापि व्यादितास्यान् भयावहान्। पञ्चास्याँल्लेलिहानांश्च ससर्ज निशितान् शरान्॥ ४३॥
ईहामृग-मुखान् च अपि व्यादित-आस्यान् भय-आवहान्। पञ्च-आस्यान् लेलिहानान् च ससर्ज निशितान् शरान्॥ ४३॥
īhāmṛga-mukhān ca api vyādita-āsyān bhaya-āvahān. pañca-āsyān lelihānān ca sasarja niśitān śarān.. 43..
शरान् खरमुखांश्चान्यान् वराहमुखसंश्रितान्। श्वानकुक्कुटवक्त्रांश्च मकराशीविषाननान्॥ ४४॥
शरान् खर-मुखान् च अन्यान् वराह-मुख-संश्रितान्। श्वान-कुक्कुट-वक्त्रान् च मकर-आशीविष-आननान्॥ ४४॥
śarān khara-mukhān ca anyān varāha-mukha-saṃśritān. śvāna-kukkuṭa-vaktrān ca makara-āśīviṣa-ānanān.. 44..
एतांश्चान्यांश्च मायाभिः ससर्ज निशिताञ्छरान्। रामं प्रति महातेजाः क्रुद्धः सर्प इव श्वसन्॥ ४५॥
एतान् च अन्यान् च मायाभिः ससर्ज निशितान् शरान्। रामम् प्रति महा-तेजाः क्रुद्धः सर्पः इव श्वसन्॥ ४५॥
etān ca anyān ca māyābhiḥ sasarja niśitān śarān. rāmam prati mahā-tejāḥ kruddhaḥ sarpaḥ iva śvasan.. 45..
आसुरेण समाविष्टः सोऽस्त्रेण रघुपुङ्गवः। ससर्जास्त्रं महोत्साहं पावकं पावकोपमः॥ ४६॥
आसुरेण समाविष्टः सः अस्त्रेण रघु-पुङ्गवः। ससर्ज अस्त्रम् महा-उत्साहम् पावकम् पावक-उपमः॥ ४६॥
āsureṇa samāviṣṭaḥ saḥ astreṇa raghu-puṅgavaḥ. sasarja astram mahā-utsāham pāvakam pāvaka-upamaḥ.. 46..
चन्द्रार्धचन्द्रवक्त्रांश्च धूमकेतुमुखानपि। ग्रहनक्षत्रवर्णांश्च महोल्कामुखसंस्थितान्॥ ४७॥
चन्द्र-अर्ध-चन्द्र-वक्त्रान् च धूमकेतु-मुखान् अपि। ग्रह-नक्षत्र-वर्णान् च महा-उल्का-मुख-संस्थितान्॥ ४७॥
candra-ardha-candra-vaktrān ca dhūmaketu-mukhān api. graha-nakṣatra-varṇān ca mahā-ulkā-mukha-saṃsthitān.. 47..
विद्युज्जिह्वोपमांश्चापि ससर्ज विविधाञ्छरान्। ते रावणशरा घोरा राघवास्त्रसमाहताः॥ ४८॥
विद्युज्जिह्व-उपमान् च अपि ससर्ज विविधान् शरान्। ते रावण-शराः घोराः राघव-अस्त्र-समाहताः॥ ४८॥
vidyujjihva-upamān ca api sasarja vividhān śarān. te rāvaṇa-śarāḥ ghorāḥ rāghava-astra-samāhatāḥ.. 48..
विलयं जग्मुराकाशे जघ्नुश्चैव सहस्रशः। तदस्त्रं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा॥ ४९॥
विलयम् जग्मुः आकाशे जघ्नुः च एव सहस्रशस्। तत् अस्त्रम् निहतम् दृष्ट्वा रामेण अक्लिष्ट-कर्मणा॥ ४९॥
vilayam jagmuḥ ākāśe jaghnuḥ ca eva sahasraśas. tat astram nihatam dṛṣṭvā rāmeṇa akliṣṭa-karmaṇā.. 49..
हृष्टा नेदुस्ततः सर्वे कपयः कामरूपिणः। सुग्रीवाभिमुखा वीराः सम्परिक्षिप्य राघवम्॥ ५०॥
हृष्टाः नेदुः ततस् सर्वे कपयः कामरूपिणः। सुग्रीव-अभिमुखाः वीराः सम्परिक्षिप्य राघवम्॥ ५०॥
hṛṣṭāḥ neduḥ tatas sarve kapayaḥ kāmarūpiṇaḥ. sugrīva-abhimukhāḥ vīrāḥ samparikṣipya rāghavam.. 50..
ततस्तदस्त्रं विनिहत्य राघवःप्रसह्य तद् रावणबाहुनिःसृतम्। मुदान्वितो दाशरथिर्महात्माविनेदुरुच्चैर्मुदिताः कपीश्वराः॥ ५१॥
ततस् तत् अस्त्रम् विनिहत्य राघवः प्रसह्य तत् रावण-बाहु-निःसृतम्। मुदा-अन्वितः दाशरथिः महात्मा अविनेदुः उच्चैस् मुदिताः कपि-ईश्वराः॥ ५१॥
tatas tat astram vinihatya rāghavaḥ prasahya tat rāvaṇa-bāhu-niḥsṛtam. mudā-anvitaḥ dāśarathiḥ mahātmā avineduḥ uccais muditāḥ kapi-īśvarāḥ.. 51..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In