| |
|

This overlay will guide you through the buttons:

अथ षोडशोऽध्यायः
atha ṣoḍaśo'dhyāyaḥ
दशावतारकल्पः(कृष्णः)
अथातस्संप्रवक्ष्यामि कृष्णस्य स्थापनं बुधाः । कृष्णस्यालयमुद्दिष्टं कुंभाकारविमानके ॥ १६.१ ॥
athātassaṃpravakṣyāmi kṛṣṇasya sthāpanaṃ budhāḥ . kṛṣṇasyālayamuddiṣṭaṃ kuṃbhākāravimānake .. 16.1 ..
कूटे वा गोपुरे वापि पर्वताकृतिकेऽपिवा । कृष्णस्य बालरूपस्य वयसा तालमानकं ॥ १६.२ ॥
kūṭe vā gopure vāpi parvatākṛtike'pivā . kṛṣṇasya bālarūpasya vayasā tālamānakaṃ .. 16.2 ..
एकवर्षं समारभ्य यावत्बञ्चाब्दमादराथ् । तालत्रयक्रमेणैव यथायोगं प्रकल्पयेथ् ॥ १६.३ ॥
ekavarṣaṃ samārabhya yāvatbañcābdamādarāth . tālatrayakrameṇaiva yathāyogaṃ prakalpayeth .. 16.3 ..
वेदवर्षं समारभ्यषट्तालत्रयमेव वा । सप्तवर्षं समारभ्य सप्ततालत्रयं तथा ॥ १६.४ ॥
vedavarṣaṃ samārabhyaṣaṭtālatrayameva vā . saptavarṣaṃ samārabhya saptatālatrayaṃ tathā .. 16.4 ..
दशवर्षं समारभ्य अष्टतालत्रयं तथा । त्रयोदश समारभ्य नवतालत्रयं तथा ॥ १६.५ ॥
daśavarṣaṃ samārabhya aṣṭatālatrayaṃ tathā . trayodaśa samārabhya navatālatrayaṃ tathā .. 16.5 ..
एवं वयःक्रमेणैव तालमानं तथोच्यते । तिष्ठन्तमेकपीठस्थं रुक्मिण्या सत्यभामया ॥ १६.६ ॥
evaṃ vayaḥkrameṇaiva tālamānaṃ tathocyate . tiṣṭhantamekapīṭhasthaṃ rukmiṇyā satyabhāmayā .. 16.6 ..
कृष्णं च बालवपुषं श्यामलं पीतवाससं । रुक्मिणीं कनकाभां तां सत्यभामां च श्यामलां ॥ १६.७ ॥
kṛṣṇaṃ ca bālavapuṣaṃ śyāmalaṃ pītavāsasaṃ . rukmiṇīṃ kanakābhāṃ tāṃ satyabhāmāṃ ca śyāmalāṃ .. 16.7 ..
वासुदेवं गुडाकेशं सर्वाभरणभूषितं । क्रीडयष्टिधरं देवं त्रिभङ्गध्यानसंयुतं ॥ १६.८ ॥
vāsudevaṃ guḍākeśaṃ sarvābharaṇabhūṣitaṃ . krīḍayaṣṭidharaṃ devaṃ tribhaṅgadhyānasaṃyutaṃ .. 16.8 ..
स्वस्तिकं दक्षिणं पादं वामपादं तु कुञ्चितं । तिष्ठन्तमङ्गुलिस्थाने चांगुष्ठस्थितिमाचरेथ् ॥ १६.९ ॥
svastikaṃ dakṣiṇaṃ pādaṃ vāmapādaṃ tu kuñcitaṃ . tiṣṭhantamaṅgulisthāne cāṃguṣṭhasthitimācareth .. 16.9 ..
किञ्चित्कुञ्चितजान्वन्तवामपादस्थितिर्भवेथ् । वक्त्रं चैव तथा गात्रं कटिभागं तथैव च. ॥ १६.१० ॥
kiñcitkuñcitajānvantavāmapādasthitirbhaveth . vaktraṃ caiva tathā gātraṃ kaṭibhāgaṃ tathaiva ca. .. 16.10 ..
त्रिषुमार्गेषु भङ्गित्वात्त्रिभङ्गित्वं विधीयते । वक्त्रं दक्षिणतो भागे मध्यभागं तु वामतः ॥ १६.११ ॥
triṣumārgeṣu bhaṅgitvāttribhaṅgitvaṃ vidhīyate . vaktraṃ dakṣiṇato bhāge madhyabhāgaṃ tu vāmataḥ .. 16.11 ..
कटीर्दक्षिणतो भागे भङ्गत्रयमुदाहृतं । दक्षिणं कटिकं हस्तं क्रीडायष्टिसमन्वितं ॥ १६.१२ ॥
kaṭīrdakṣiṇato bhāge bhaṅgatrayamudāhṛtaṃ . dakṣiṇaṃ kaṭikaṃ hastaṃ krīḍāyaṣṭisamanvitaṃ .. 16.12 ..
दक्षिणे यष्टिहस्तन्तु नाभिसूत्रादधोन्नतं । भूतवेदगुणाङ्गुल्या विधिना सहितालतः? ॥ १६.१३ ॥
dakṣiṇe yaṣṭihastantu nābhisūtrādadhonnataṃ . bhūtavedaguṇāṅgulyā vidhinā sahitālataḥ? .. 16.13 ..
वामं देव्योर्भुजासक्तं वामहस्तमधोमुखं । हिक्कासूत्रादधो वामं कूर्परं स्याद्दशाङ्गुलं ॥ १६.१४ ॥
vāmaṃ devyorbhujāsaktaṃ vāmahastamadhomukhaṃ . hikkāsūtrādadho vāmaṃ kūrparaṃ syāddaśāṅgulaṃ .. 16.14 ..
षट्सप्ताष्टांगुलाधिक्योन्नतं वा कालयेत्क्रमाथ् । वामहस्ततलाग्रन्तु नाभिमात्रन्तु योजयेथ् ॥ १६.१५ ॥
ṣaṭsaptāṣṭāṃgulādhikyonnataṃ vā kālayetkramāth . vāmahastatalāgrantu nābhimātrantu yojayeth .. 16.15 ..
वेणुं च तरवेगं तु हस्ताभ्यां पीडयेत्क्रमाथ् । ऊर्ध्वकायसमं वेणुं क्रीडायष्टिं तु तत्समं ॥ १६.१६ ॥
veṇuṃ ca taravegaṃ tu hastābhyāṃ pīḍayetkramāth . ūrdhvakāyasamaṃ veṇuṃ krīḍāyaṣṭiṃ tu tatsamaṃ .. 16.16 ..
त्रिणतं श्यामलाङ्गं च द्विभुजं रक्तवाससं । चतुर्भुजं वा कुर्वीत शङ्खचक्रधरं परं ॥ १६.१७ ॥
triṇataṃ śyāmalāṅgaṃ ca dvibhujaṃ raktavāsasaṃ . caturbhujaṃ vā kurvīta śaṅkhacakradharaṃ paraṃ .. 16.17 ..
सुस्थितं वामपादेन दक्षिणेनैव बन्धयेथ् । सर्वाभरणसंयुक्तं सुन्दरं स्ॐयलोचनं ॥ १६.१८ ॥
susthitaṃ vāmapādena dakṣiṇenaiva bandhayeth . sarvābharaṇasaṃyuktaṃ sundaraṃ s_oṃyalocanaṃ .. 16.18 ..
देवीभ्यां सहितं कुर्या द्रहितं वात्र केचन । देवस्य वामे गरुडं प्राञ्जलीकृत्य नुस्थितं ॥ १६.१९ ॥
devībhyāṃ sahitaṃ kuryā drahitaṃ vātra kecana . devasya vāme garuḍaṃ prāñjalīkṛtya nusthitaṃ .. 16.19 ..
पक्षद्वययुतं कुर्यात्तालपत्रस्य मूलवथ् । नवनीतनटं कुर्यात्तथा कालीयमर्दनं ॥ १६.२० ॥
pakṣadvayayutaṃ kuryāttālapatrasya mūlavath . navanītanaṭaṃ kuryāttathā kālīyamardanaṃ .. 16.20 ..
पार्थसारथिरूपं तु देव्योश्च रहितं क्रमाथ् । पीठं च प्रतिमोत्सेथं पञ्चभागं त्रिभागिकं ॥ १६.२१ ॥
pārthasārathirūpaṃ tu devyośca rahitaṃ kramāth . pīṭhaṃ ca pratimotsethaṃ pañcabhāgaṃ tribhāgikaṃ .. 16.21 ..
नवांशात्सप्तभागं चत्रिभागद्वयमुच्यते । लौकिकप्रतिमोत्सेधं मानांगुलमिति क्रमाथ् ॥ १६.२२ ॥
navāṃśātsaptabhāgaṃ catribhāgadvayamucyate . laukikapratimotsedhaṃ mānāṃgulamiti kramāth .. 16.22 ..
प्रथमं तु नवाङ्गुल्यं द्वद्व्यङ्गुलविवर्धनं । नवसंख्यमिति प्रोक्तं मानमेवं विधीयते ॥ १६.२३ ॥
prathamaṃ tu navāṅgulyaṃ dvadvyaṅgulavivardhanaṃ . navasaṃkhyamiti proktaṃ mānamevaṃ vidhīyate .. 16.23 ..
एतेन तु त्रिभेदं स्यादुत्तमाधममध्यमं । मानंप्रमाणमुन्मानं लंबमानोपमानकं ॥ १६.२४ ॥
etena tu tribhedaṃ syāduttamādhamamadhyamaṃ . mānaṃpramāṇamunmānaṃ laṃbamānopamānakaṃ .. 16.24 ..
पञ्चतालमिति प्रोक्तं लंबमानं विधीयते । सात्त्विकं राजसं चैव तामसं तु विवर्जयेथ् ॥ १६.२५ ॥
pañcatālamiti proktaṃ laṃbamānaṃ vidhīyate . sāttvikaṃ rājasaṃ caiva tāmasaṃ tu vivarjayeth .. 16.25 ..
दक्षिणं मानमुद्धृत्य नाभिसूत्रप्रमाणकं । कटियोनिसमं वाथ दक्षिणं पादमेव हि ॥ १६.२६ ॥
dakṣiṇaṃ mānamuddhṛtya nābhisūtrapramāṇakaṃ . kaṭiyonisamaṃ vātha dakṣiṇaṃ pādameva hi .. 16.26 ..
दण्डहस्तन्तु मानेन मूर्ध्नि केशाक्षमेव वा । अभयं दक्षिणं हस्तं भ्रूमात्रं कूर्परादयः ॥ १६.२७ ॥
daṇḍahastantu mānena mūrdhni keśākṣameva vā . abhayaṃ dakṣiṇaṃ hastaṃ bhrūmātraṃ kūrparādayaḥ .. 16.27 ..
दक्षिणेन मुखं चैव किञ्चित्प्रहसिताननं । केशकंबलमित्युक्तं सूत्रं वामाश्रयं भवेथ् ॥ १६.२८ ॥
dakṣiṇena mukhaṃ caiva kiñcitprahasitānanaṃ . keśakaṃbalamityuktaṃ sūtraṃ vāmāśrayaṃ bhaveth .. 16.28 ..
उष्णीषस्थपदे मध्ये नासाग्रे पुटवामके । नाभिमध्यगते वापि मुष्कमालोरुदक्षिणे ॥ १६.२९ ॥
uṣṇīṣasthapade madhye nāsāgre puṭavāmake . nābhimadhyagate vāpi muṣkamālorudakṣiṇe .. 16.29 ..
पादे दक्षिणपाण्यन्ते अग्रान्मकुटवामके । लंबयेन्मध्यसूत्रं चेदन्यत्सूत्रं न कारयेथ् ॥ १६.३० ॥
pāde dakṣiṇapāṇyante agrānmakuṭavāmake . laṃbayenmadhyasūtraṃ cedanyatsūtraṃ na kārayeth .. 16.30 ..
उष्णीषमङ्गुलार्धं च मुखमष्टांगुलं भवेथ् । गलमर्थांगुलं तस्य ग्रीवान्तं द्व्यङ्गुलं भवेथ् ॥ १६.३१ ॥
uṣṇīṣamaṅgulārdhaṃ ca mukhamaṣṭāṃgulaṃ bhaveth . galamarthāṃgulaṃ tasya grīvāntaṃ dvyaṅgulaṃ bhaveth .. 16.31 ..
हिक्कान्तं हृदयान्तं च नाभ्यन्तं मेढ्रमूलकं । अष्टादशांगुलं चैव मूर्ध्वकायं विधीयते ॥ १६.३२ ॥
hikkāntaṃ hṛdayāntaṃ ca nābhyantaṃ meḍhramūlakaṃ . aṣṭādaśāṃgulaṃ caiva mūrdhvakāyaṃ vidhīyate .. 16.32 ..
त्रयोदशांगुलं चैव मूरुदीर्ङं विधीयते । जानुस्स्याद्द्व्यङ्गुलं चैव जङ्घा चोरुश्च तत्समा ॥ १६.३३ ॥
trayodaśāṃgulaṃ caiva mūrudīrṅaṃ vidhīyate . jānussyāddvyaṅgulaṃ caiva jaṅghā coruśca tatsamā .. 16.33 ..
चरणं द्व्यङ्गुलं चैव मानमेव न संशयः । हीक्कासूत्रान्ततो बाहुर्दशाङ्गुलमिति स्मृतं ॥ १६.३४ ॥
caraṇaṃ dvyaṅgulaṃ caiva mānameva na saṃśayaḥ . hīkkāsūtrāntato bāhurdaśāṅgulamiti smṛtaṃ .. 16.34 ..
प्रकोष्ठमष्टाङ्गुलायामं सप्ताङ्गुलतलायतं । मुखं मुखविशालं स्यात्कर्णविस्तारमङ्गुलं ॥ १६.३५ ॥
prakoṣṭhamaṣṭāṅgulāyāmaṃ saptāṅgulatalāyataṃ . mukhaṃ mukhaviśālaṃ syātkarṇavistāramaṅgulaṃ .. 16.35 ..
ग्रीवाविस्तारमेवं स्याच्चतुरङ्गुल चतुर्यवं । अभयं बाहुमानं चतुर्विंशतिरङ्गुलं ॥ १६.३६ ॥
grīvāvistāramevaṃ syāccaturaṅgula caturyavaṃ . abhayaṃ bāhumānaṃ caturviṃśatiraṅgulaṃ .. 16.36 ..
कक्षयोरन्तरं चैव चतुर्दशांगुल विस्तरं । ऊरुर्दशांगुलं चैव श्रोणिरेकादशांगुलं ॥ १६.३७ ॥
kakṣayorantaraṃ caiva caturdaśāṃgula vistaraṃ . ūrurdaśāṃgulaṃ caiva śroṇirekādaśāṃgulaṃ .. 16.37 ..
कटिविस्तारमेवं स्यात्त्रयोदशांगुलमिष्यते । ऊरुमूलसुविस्तारमष्टांगुलमिति क्रमाथ् ॥ १६.३८ ॥
kaṭivistāramevaṃ syāttrayodaśāṃgulamiṣyate . ūrumūlasuvistāramaṣṭāṃgulamiti kramāth .. 16.38 ..
षडङ्गुलं जानुतारं जङ्घातारं च सप्तकं । त्षङ्गुलार्धं च विज्ञेयं नालिकाविस्तरं भवेथ् ॥ १६.३९ ॥
ṣaḍaṅgulaṃ jānutāraṃ jaṅghātāraṃ ca saptakaṃ . tṣaṅgulārdhaṃ ca vijñeyaṃ nālikāvistaraṃ bhaveth .. 16.39 ..
पादविस्तारमेवोक्तं सर्वलक्षणसंयुतं । कलापकुसुमश्यामं शङ्खचक्रगदाम्बुजं ॥ १६.४० ॥
pādavistāramevoktaṃ sarvalakṣaṇasaṃyutaṃ . kalāpakusumaśyāmaṃ śaṅkhacakragadāmbujaṃ .. 16.40 ..
अनेकरत्नं स छन्नं कौस्तुभोद्भासि वक्षसं । तारहारावलीरम्यं गरुडोपरि संस्थितं ॥ १६.४१ ॥
anekaratnaṃ sa channaṃ kaustubhodbhāsi vakṣasaṃ . tārahārāvalīramyaṃ garuḍopari saṃsthitaṃ .. 16.41 ..
देवीभ्यां सहितं कुर्यात्कृष्णं बृन्दावने रतं । आलोल कुन्तलोद्भासि मुखचन्द्र विराजितं ॥ १६.४२ ॥
devībhyāṃ sahitaṃ kuryātkṛṣṇaṃ bṛndāvane rataṃ . ālola kuntalodbhāsi mukhacandra virājitaṃ .. 16.42 ..
अतिरक्ताधरोष्ठं च रक्तपाणिद्वयांचितं । वामपादं समाकुञ्च्य चोत्तानीकृत्य दक्षिणं ॥ १६.४३ ॥
atiraktādharoṣṭhaṃ ca raktapāṇidvayāṃcitaṃ . vāmapādaṃ samākuñcya cottānīkṛtya dakṣiṇaṃ .. 16.43 ..
दक्षिणं चाभयं हस्तं नवनीतयुतं तथा । वामं प्रसार्य चोत्तानं सर्वाभरणभूषितं ॥ १६.४४ ॥
dakṣiṇaṃ cābhayaṃ hastaṃ navanītayutaṃ tathā . vāmaṃ prasārya cottānaṃ sarvābharaṇabhūṣitaṃ .. 16.44 ..
सांबरं तु प्रकुर्वीत विगतांबरमेव वा । एवं तु विधिना कुर्यान्नवनितनटं बुधः ॥ १६.४५ ॥
sāṃbaraṃ tu prakurvīta vigatāṃbarameva vā . evaṃ tu vidhinā kuryānnavanitanaṭaṃ budhaḥ .. 16.45 ..
एवमेव प्रकुर्वीत कालीयाहिफणोपरि । नृत्यन्तं परमात्मानमुत्तानाकुञ्चिताङ्घ्रिकं ॥ १६.४६ ॥
evameva prakurvīta kālīyāhiphaṇopari . nṛtyantaṃ paramātmānamuttānākuñcitāṅghrikaṃ .. 16.46 ..
दक्षिणे तु करे कुर्यान्नवनीतस्य खण्डकं । अहिपुच्छं करे वापि कुर्यात्कालीयमर्दनं ॥ १६.४७ ॥
dakṣiṇe tu kare kuryānnavanītasya khaṇḍakaṃ . ahipucchaṃ kare vāpi kuryātkālīyamardanaṃ .. 16.47 ..
नीलोत्पलदलश्यामं पीतांबरसुशोभितं । चतुर्भुजं शङ्खचक्रमूर्ध्वपाणिद्वये धृतं ॥ १६.४८ ॥
nīlotpaladalaśyāmaṃ pītāṃbarasuśobhitaṃ . caturbhujaṃ śaṅkhacakramūrdhvapāṇidvaye dhṛtaṃ .. 16.48 ..
अधःपाणिद्वये वेणुं वादयन्तं मुदान्वितं । सर्वालङ्कारसंयुक्तं गरुडोपरि संस्थितं ॥ १६.४९ ॥
adhaḥpāṇidvaye veṇuṃ vādayantaṃ mudānvitaṃ . sarvālaṅkārasaṃyuktaṃ garuḍopari saṃsthitaṃ .. 16.49 ..
देवीभ्यां सहितं देवं मुनिभिः परिवेष्टितं । कृष्णमेवं प्रकुर्वीत सन्तानार्थी विशेषतः ॥ १६.५० ॥
devībhyāṃ sahitaṃ devaṃ munibhiḥ pariveṣṭitaṃ . kṛṣṇamevaṃ prakurvīta santānārthī viśeṣataḥ .. 16.50 ..
कलापकुसुम श्यामं पूर्णचन्द्रनिभानसं । बर्हिबर्हकृतोत्तंसं सर्वालङ्कारसंयुतं ॥ १६.५१ ॥
kalāpakusuma śyāmaṃ pūrṇacandranibhānasaṃ . barhibarhakṛtottaṃsaṃ sarvālaṅkārasaṃyutaṃ .. 16.51 ..
युवतीवेषलावण्यं श्रीवत्सांकितवक्षसं । स्मेरारुणाधरन्यस्तवेणुं त्रैलोक्यमोहनं ॥ १६.५२ ॥
yuvatīveṣalāvaṇyaṃ śrīvatsāṃkitavakṣasaṃ . smerāruṇādharanyastaveṇuṃ trailokyamohanaṃ .. 16.52 ..
अक्षमालां च विद्यां च कुर्यादूर्ध्वकरद्वये । वेणुं करद्वये कुर्याच्चतुर्भुजयुतं हरिं ॥ १६.५३ ॥
akṣamālāṃ ca vidyāṃ ca kuryādūrdhvakaradvaye . veṇuṃ karadvaye kuryāccaturbhujayutaṃ hariṃ .. 16.53 ..
तपनीयलसत्कान्त्याभ्राजत्कमलहन्तया । निरीक्ष्यमाणचरणं वामपार्श्वस्थया श्रिया ॥ १६.५४ ॥
tapanīyalasatkāntyābhrājatkamalahantayā . nirīkṣyamāṇacaraṇaṃ vāmapārśvasthayā śriyā .. 16.54 ..
हेमसिंहासने रम्ये राज्ञीभिस्तु निषेवितं । चन्द्रमण्डलसंकाशश्वेतछत्रेणशोभितं ॥ १६.५५ ॥
hemasiṃhāsane ramye rājñībhistu niṣevitaṃ . candramaṇḍalasaṃkāśaśvetachatreṇaśobhitaṃ .. 16.55 ..
नारदाद्यैर्मुनिगणैज्ञान्नार्थिभिरुपासितं । इन्द्रादिदेवताबृन्धैः प्रणतं परमेश्वरं ॥ १६.५६ ॥
nāradādyairmunigaṇaijñānnārthibhirupāsitaṃ . indrādidevatābṛndhaiḥ praṇataṃ parameśvaraṃ .. 16.56 ..
एवं कृष्णं प्रकुर्वीत जगन्मोहनविग्रहं । गोपीभिरावृतं गोभिः परमानन्दविग्रहं ॥ १६.५७ ॥
evaṃ kṛṣṇaṃ prakurvīta jaganmohanavigrahaṃ . gopībhirāvṛtaṃ gobhiḥ paramānandavigrahaṃ .. 16.57 ..
व्यत्यस्य दक्षिणं पादं वामे न्यस्य च सुस्थितं । चतुर्भुजं शङ्खचक्रधरमूर्ध्वकरद्वये ॥ १६.५८ ॥
vyatyasya dakṣiṇaṃ pādaṃ vāme nyasya ca susthitaṃ . caturbhujaṃ śaṅkhacakradharamūrdhvakaradvaye .. 16.58 ..
धृत्वा वेदमयं वेणुमन्यहस्तद्वयेन च । अङ्गुलीभिर्मुदा वेणुसुषिराणि च पूरयन् ॥ १६.५९ ॥
dhṛtvā vedamayaṃ veṇumanyahastadvayena ca . aṅgulībhirmudā veṇusuṣirāṇi ca pūrayan .. 16.59 ..
दिव्यगान्धर्वगीतार्तं त्रिभङ्गेन च संस्थितं । एवं कृष्णं प्रकुर्वीत वेणुनादनटं बुधः ॥ १६.६० ॥
divyagāndharvagītārtaṃ tribhaṅgena ca saṃsthitaṃ . evaṃ kṛṣṇaṃ prakurvīta veṇunādanaṭaṃ budhaḥ .. 16.60 ..
सर्वभूषणसंयुक्तं ब्रह्मसूत्रसमन्वितं । रक्तांबरधरं चैव श्यामलं कमलेक्षणं ॥ १६.६१ ॥
sarvabhūṣaṇasaṃyuktaṃ brahmasūtrasamanvitaṃ . raktāṃbaradharaṃ caiva śyāmalaṃ kamalekṣaṇaṃ .. 16.61 ..
रुक्मिणीसत्यभामाभ्यां पार्श्वयोरुपशोभितं । रुक्मिणीं रुक्मवर्णाभां सत्यां श्यामनिभां तथा ॥ १६.६२ ॥
rukmiṇīsatyabhāmābhyāṃ pārśvayorupaśobhitaṃ . rukmiṇīṃ rukmavarṇābhāṃ satyāṃ śyāmanibhāṃ tathā .. 16.62 ..
वसुदेवं देवकीं च पुरतो दक्षिणे तथा । यशोदां नन्दगोपं च देवेशं वीक्ष्य सुस्थितं ॥ १६.६३ ॥
vasudevaṃ devakīṃ ca purato dakṣiṇe tathā . yaśodāṃ nandagopaṃ ca deveśaṃ vīkṣya susthitaṃ .. 16.63 ..
प्रद्युम्नं च तथा सांबं वामे कुर्यात्सलक्षणं । दामं सुमनसं चैव कुर्यादन्यां च गोपिकां ॥ १६.६४ ॥
pradyumnaṃ ca tathā sāṃbaṃ vāme kuryātsalakṣaṇaṃ . dāmaṃ sumanasaṃ caiva kuryādanyāṃ ca gopikāṃ .. 16.64 ..
कर्णाग्रान्तन्तु कृष्णस्य सुमन्तुं वाममाश्रितं । कक्षबाहुसमं वापि कारयेद्युक्तितः क्रमाथ् ॥ १६.६५ ॥
karṇāgrāntantu kṛṣṇasya sumantuṃ vāmamāśritaṃ . kakṣabāhusamaṃ vāpi kārayedyuktitaḥ kramāth .. 16.65 ..
नवतालेन मानेन कुर्यात्तान्समलङ्कृतान् । देवकीं वसुदेवं च कृष्णवर्णौ प्रकल्पयेथ् ॥ १६.६६ ॥
navatālena mānena kuryāttānsamalaṅkṛtān . devakīṃ vasudevaṃ ca kṛṣṇavarṇau prakalpayeth .. 16.66 ..
यशोदां गौरवर्णाञ्च कर्बुरं नन्दमाचरेथ् । प्रद्युम्नं श्यामवर्णं च सांबं कालाञ्जनप्रभं ॥ १६.६७ ॥
yaśodāṃ gauravarṇāñca karburaṃ nandamācareth . pradyumnaṃ śyāmavarṇaṃ ca sāṃbaṃ kālāñjanaprabhaṃ .. 16.67 ..
दामं रक्तनिभं चैव गौरं सुमनसं तथा । सुमन्तुं श्वेतवर्णं च कल्बयेद्विधिना बुधः ॥ १६.६८ ॥
dāmaṃ raktanibhaṃ caiva gauraṃ sumanasaṃ tathā . sumantuṃ śvetavarṇaṃ ca kalbayedvidhinā budhaḥ .. 16.68 ..
एवं कृष्णं प्रकुर्वीत लीलामानुषविग्रहं । चतुर्मूर्तिक्रमश्चैषां वासाधिकरणोक्तवथ् ॥ १६.६९ ॥
evaṃ kṛṣṇaṃ prakurvīta līlāmānuṣavigrahaṃ . caturmūrtikramaścaiṣāṃ vāsādhikaraṇoktavath .. 16.69 ..
धृत्वा पुष्पमयीं यष्टिं दक्षिणेवतु पाणिना । न्यस्यान्यं चैव भूमिस्थराजदण्डस्य मूर्धवि ॥ १६.७० ॥
dhṛtvā puṣpamayīṃ yaṣṭiṃ dakṣiṇevatu pāṇinā . nyasyānyaṃ caiva bhūmistharājadaṇḍasya mūrdhavi .. 16.70 ..
राजार्हाभरणैर्युक्तं रुक्मीण्या सहितं प्रभुं । एवे कृष्णं प्रकुर्वीत राजगोपालविग्रहं ॥ १६.७१ ॥
rājārhābharaṇairyuktaṃ rukmīṇyā sahitaṃ prabhuṃ . eve kṛṣṇaṃ prakurvīta rājagopālavigrahaṃ .. 16.71 ..
पीतांबरधरं देवं ज्ञानमुद्रालसत्करं । वेणुमन्यकरे धृत्वा सुखासीनं शुचिस्मितं ॥ १६.७२ ॥
pītāṃbaradharaṃ devaṃ jñānamudrālasatkaraṃ . veṇumanyakare dhṛtvā sukhāsīnaṃ śucismitaṃ .. 16.72 ..
उपास्यमानं मुनिभिर्देवीभ्यां रहितं हरिं । कृष्णमेवं प्रकुर्वीद ज्ञानगोपालविग्रहं ॥ १६.७३ ॥
upāsyamānaṃ munibhirdevībhyāṃ rahitaṃ hariṃ . kṛṣṇamevaṃ prakurvīda jñānagopālavigrahaṃ .. 16.73 ..
स्वर्णप्रभमुदाराङ्गमष्टबाहुं जगत्प्रभुं । इक्षुचापांकुशान्वेणुं शङ्खारिसुमसायकान् ॥ १६.७४ ॥
svarṇaprabhamudārāṅgamaṣṭabāhuṃ jagatprabhuṃ . ikṣucāpāṃkuśānveṇuṃ śaṅkhārisumasāyakān .. 16.74 ..
बिभ्रन्तं रमया श्लिष्टदिव्यमङ्गलविग्रहं । सर्वाभरणसंयुक्तं योगिनाममृतप्रदं ॥ १६.७५ ॥
bibhrantaṃ ramayā śliṣṭadivyamaṅgalavigrahaṃ . sarvābharaṇasaṃyuktaṃ yogināmamṛtapradaṃ .. 16.75 ..
एवं सम्मोहनं कुर्यात्कृष्णं गोपालविग्रहं । गवां गोपकुमाराणां गोपीनां रक्षणायवै ॥ १६.७६ ॥
evaṃ sammohanaṃ kuryātkṛṣṇaṃ gopālavigrahaṃ . gavāṃ gopakumārāṇāṃ gopīnāṃ rakṣaṇāyavai .. 16.76 ..
नगं गोवर्धनं नाम दधार भगवान्हरिः । वामेनोद्धृतहस्तेन बिभ्रन्तं नगमुत्तमं ॥ १६.७७ ॥
nagaṃ govardhanaṃ nāma dadhāra bhagavānhariḥ . vāmenoddhṛtahastena bibhrantaṃ nagamuttamaṃ .. 16.77 ..
कटिन्यस्तान्य हस्तं च पद्महस्तमधापि वा । शङ्खचक्रधरं देवङ्कुर्याच्चैव चतुर्भुजं ॥ १६.७८ ॥
kaṭinyastānya hastaṃ ca padmahastamadhāpi vā . śaṅkhacakradharaṃ devaṅkuryāccaiva caturbhujaṃ .. 16.78 ..
एवं कृष्णं प्रकुर्वीत गोवर्धनधरं हरिं । पुरा महति संग्रामे पार्थं रक्षितवान्हरिः ॥ १६.७९ ॥
evaṃ kṛṣṇaṃ prakurvīta govardhanadharaṃ hariṃ . purā mahati saṃgrāme pārthaṃ rakṣitavānhariḥ .. 16.79 ..
पार्थं रथस्थितं कुर्याच्छरतूणीरसंयुतं । समीक्षमाणं देवेशं स्यन्दनस्थं स्वपार्श्वगं ॥ १६.८० ॥
pārthaṃ rathasthitaṃ kuryāccharatūṇīrasaṃyutaṃ . samīkṣamāṇaṃ deveśaṃ syandanasthaṃ svapārśvagaṃ .. 16.80 ..
श्यामवर्णं महाबाहु कृष्णमुद्बद्धकुन्तलं । बिभ्रन्तं दक्षिणे पाशं शङ्खं वामकरे तधा ॥ १६.८१ ॥
śyāmavarṇaṃ mahābāhu kṛṣṇamudbaddhakuntalaṃ . bibhrantaṃ dakṣiṇe pāśaṃ śaṅkhaṃ vāmakare tadhā .. 16.81 ..
अर्जुनस्य मुखं वीक्ष्य स्मयमानं महारथं । एवं कृष्णं प्रकुर्वीत पार्थसारथिविग्रहं ॥ १६.८२ ॥
arjunasya mukhaṃ vīkṣya smayamānaṃ mahārathaṃ . evaṃ kṛṣṇaṃ prakurvīta pārthasārathivigrahaṃ .. 16.82 ..
वामजानुसमाकुञ्च्य दीर्घमन्यं प्रसार्य च । तथै वाविथ्य सन्न्यस्य भूम्यां वामकरं पुरः ॥ १६.८३ ॥
vāmajānusamākuñcya dīrghamanyaṃ prasārya ca . tathai vāvithya sannyasya bhūmyāṃ vāmakaraṃ puraḥ .. 16.83 ..
आकुञ्चितान्यपादेव चासनस्थितिशोभिना । अन्यहस्तेन संधार्य नवनीतं नवं नवं ॥ १६.८४ ॥
ākuñcitānyapādeva cāsanasthitiśobhinā . anyahastena saṃdhārya navanītaṃ navaṃ navaṃ .. 16.84 ..
मुहुरालोकयन्तं तद्दर्शनीयं विशेषतः । एवं कृष्णं प्रकुर्वीत बालगौपालविग्रहं ॥ १६.८५ ॥
muhurālokayantaṃ taddarśanīyaṃ viśeṣataḥ . evaṃ kṛṣṇaṃ prakurvīta bālagaupālavigrahaṃ .. 16.85 ..
पुरा संदर्तसमये संहृतेषु जगत्सु च । वटपत्रे विनिद्राणो बभूव भगवान्हरिः ॥ १६.८६ ॥
purā saṃdartasamaye saṃhṛteṣu jagatsu ca . vaṭapatre vinidrāṇo babhūva bhagavānhariḥ .. 16.86 ..
वटपत्रे शयानं तु बालरूपं परात्परं । आकृष्य दक्षिणं पादं वामहस्तेन लीलया ॥ १६.८७ ॥
vaṭapatre śayānaṃ tu bālarūpaṃ parātparaṃ . ākṛṣya dakṣiṇaṃ pādaṃ vāmahastena līlayā .. 16.87 ..
पादाङ्गुष्ठं मुखे न्यस्य धास्यन्तं हसिताननं । दक्षिणेन तु हस्तेन वहन्तं दक्षिणोरुकं ॥ १६.८८ ॥
pādāṅguṣṭhaṃ mukhe nyasya dhāsyantaṃ hasitānanaṃ . dakṣiṇena tu hastena vahantaṃ dakṣiṇorukaṃ .. 16.88 ..
प्रसारितेतरपदं दिव्यालङ्कारशोभितं । वटपत्रं प्रकुर्वीत विशालं चाधराग्रकं ॥ १६.८९ ॥
prasāritetarapadaṃ divyālaṅkāraśobhitaṃ . vaṭapatraṃ prakurvīta viśālaṃ cādharāgrakaṃ .. 16.89 ..
वटपत्रशयानं तु कृष्णमेवं प्रकल्पयेथ् । शङ्खचक्रगदापद्म पाशांकुशलसत्करं ॥ १६.९० ॥
vaṭapatraśayānaṃ tu kṛṣṇamevaṃ prakalpayeth . śaṅkhacakragadāpadma pāśāṃkuśalasatkaraṃ .. 16.90 ..
कराभ्यां वेणुमादाय धमन्तं सर्वमोहनं । सूर्यायुतशताभासं पीतांबरसुशोभितं ॥ १६.९१ ॥
karābhyāṃ veṇumādāya dhamantaṃ sarvamohanaṃ . sūryāyutaśatābhāsaṃ pītāṃbarasuśobhitaṃ .. 16.91 ..
नानालङ्कारसुभगं सूर्यमण्डलसंस्थितं । एवं प्रकल्पयेत्कृष्णं महान्तं सर्वमोहनं ॥ १६.९२ ॥
nānālaṅkārasubhagaṃ sūryamaṇḍalasaṃsthitaṃ . evaṃ prakalpayetkṛṣṇaṃ mahāntaṃ sarvamohanaṃ .. 16.92 ..
कृष्णरूपमसंख्यातंस्वेच्छारूपं तु कारयेथ् । कालीयमर्दनादौ तु नागकन्यादिकल्पनं ॥ १६.९३ ॥
kṛṣṇarūpamasaṃkhyātaṃsvecchārūpaṃ tu kārayeth . kālīyamardanādau tu nāgakanyādikalpanaṃ .. 16.93 ..
कल्पनं भोगभेदस्य चैवमादीन्प्रकल्पयेथ् । युक्त्या बुद्ध्या च भक्त्या च यथा स्यान्मनसः प्रियं ॥ १६.९४ ॥
kalpanaṃ bhogabhedasya caivamādīnprakalpayeth . yuktyā buddhyā ca bhaktyā ca yathā syānmanasaḥ priyaṃ .. 16.94 ..
एवं रूपं च कृत्वा तु तद्रूवं कौतुकं चरेथ् । अथवाकौतुकं बिंबं चतुर्भुजसमन्वितं ॥ १६.९५ ॥
evaṃ rūpaṃ ca kṛtvā tu tadrūvaṃ kautukaṃ careth . athavākautukaṃ biṃbaṃ caturbhujasamanvitaṃ .. 16.95 ..
अभयं वरदं पूर्वं शङ्खचक्रधरं परं । एवं चतुर्भुजं कृत्वा स्थापनारंभमाचरेथ् ॥ १६.९६ ॥
abhayaṃ varadaṃ pūrvaṃ śaṅkhacakradharaṃ paraṃ . evaṃ caturbhujaṃ kṛtvā sthāpanāraṃbhamācareth .. 16.96 ..
पूर्वोक्तयागशालायां पञ्चाग्नीन्परिकल्प्य च । पैण्डरीके प्रधानाग्नौ हौत्रशंसनमाचरेथ् ॥ १६.९७ ॥
pūrvoktayāgaśālāyāṃ pañcāgnīnparikalpya ca . paiṇḍarīke pradhānāgnau hautraśaṃsanamācareth .. 16.97 ..
कृष्णं नारायणं पुण्यं त्रिदशाधिपऽमत्यपि । रुक्मिणीं सुंदरीं देवीं रमाऽमिति च रुक्मिणीं ॥ १६.९८ ॥
kṛṣṇaṃ nārāyaṇaṃ puṇyaṃ tridaśādhipa'matyapi . rukmiṇīṃ suṃdarīṃ devīṃ ramā'miti ca rukmiṇīṃ .. 16.98 ..
सत्यरूपां सतीं चैव सन्नतीं च क्षमाऽमिति । इत्येवमुक्त्वा चावाह्य गरुडं पूर्ववत्तधा ॥ १६.९९ ॥
satyarūpāṃ satīṃ caiva sannatīṃ ca kṣamā'miti . ityevamuktvā cāvāhya garuḍaṃ pūrvavattadhā .. 16.99 ..
आवाहनक्रमेणैव निरुप्याज्याहुतीर्यजेथ् । सत्यस्सत्यस्थऽ इत्युक्त्वा शतमष्टाधिकं यजेथ् ॥ १६.१०० ॥
āvāhanakrameṇaiva nirupyājyāhutīryajeth . satyassatyastha' ityuktvā śatamaṣṭādhikaṃ yajeth .. 16.100 ..
श्रीभूम्योरिव कुर्याच्च रुक्मिणीसत्यभामयोः । पूर्वोक्तेन विधानेन स्थापनादीनि कारयेथ् ॥ १६.१०१ ॥
śrībhūmyoriva kuryācca rukmiṇīsatyabhāmayoḥ . pūrvoktena vidhānena sthāpanādīni kārayeth .. 16.101 ..
कर्की
युगान्तसमये विष्णुः कर्की नाम भविष्यति । खड्गखेटकहस्तस्तु म्लेच्छादीन्स हनिष्यति ॥ १६.१०२ ॥
yugāntasamaye viṣṇuḥ karkī nāma bhaviṣyati . khaḍgakheṭakahastastu mlecchādīnsa haniṣyati .. 16.102 ..
कूटे वा गोपुरे वापि पर्वताकृतिकेऽपि वा । कल्किरूपं प्रतिष्ठाप्य विमाने तु समर्चयेथ् ॥ १६.१०३ ॥
kūṭe vā gopure vāpi parvatākṛtike'pi vā . kalkirūpaṃ pratiṣṭhāpya vimāne tu samarcayeth .. 16.103 ..
मध्यमं दशतालेन भिन्नांजनचयप्रभं । अश्वाननं मुखं कुर्यादन्यच्चैव नराकृति ॥ १६.१०४ ॥
madhyamaṃ daśatālena bhinnāṃjanacayaprabhaṃ . aśvānanaṃ mukhaṃ kuryādanyaccaiva narākṛti .. 16.104 ..
चतुर्भुजं च हस्तेषु क्रमाच्चैवायुधान्यपि । चक्रं शङ्खं च खड्गं च दधानं खेटकं तथा ॥ १६.१०५ ॥
caturbhujaṃ ca hasteṣu kramāccaivāyudhānyapi . cakraṃ śaṅkhaṃ ca khaḍgaṃ ca dadhānaṃ kheṭakaṃ tathā .. 16.105 ..
अथवा कल्पयेद्देवमश्वारूढं द्विबाहुकं । शुद्धस्फचिकसंकाशं खड्गखेटक धारिणं ॥ १६.१०६ ॥
athavā kalpayeddevamaśvārūḍhaṃ dvibāhukaṃ . śuddhasphacikasaṃkāśaṃ khaḍgakheṭaka dhāriṇaṃ .. 16.106 ..
अत्रैव कौतुकं कुर्याद्विष्णुरूपं चतुर्भुजं । पूर्वोक्तयागशालायां पञ्चाग्नीन्परिकल्प्य च ॥ १६.१०७ ॥
atraiva kautukaṃ kuryādviṣṇurūpaṃ caturbhujaṃ . pūrvoktayāgaśālāyāṃ pañcāgnīnparikalpya ca .. 16.107 ..
पैण्डरीके प्रधानाग्नौ हौत्रशंसनमाचरेथ् । कर्किणं कामरूपं च विष्णुं संहारकारणम्ऽ ॥ १६.१०८ ॥
paiṇḍarīke pradhānāgnau hautraśaṃsanamācareth . karkiṇaṃ kāmarūpaṃ ca viṣṇuṃ saṃhārakāraṇam' .. 16.108 ..
एवमावाह्य विधिना निरुप्याज्याहुतीर्यजेथ् । धूर्नो वहन्ताऽ मित्युक्त्वा शतमष्टाधिकं यजेथ् ॥ १६.१०९ ॥
evamāvāhya vidhinā nirupyājyāhutīryajeth . dhūrno vahantā' mityuktvā śatamaṣṭādhikaṃ yajeth .. 16.109 ..
उत्सवस्नपनादीनि विष्णोरिव समाचरेथ् । विष्णोर्दशावताराणामेवं प्रोक्तं तु लक्षणं ॥ १६.११० ॥
utsavasnapanādīni viṣṇoriva samācareth . viṣṇordaśāvatārāṇāmevaṃ proktaṃ tu lakṣaṇaṃ .. 16.110 ..
अनादिर्भगवान्कालो नास्य चान्तोऽपि दृश्यते । चक्रवत्परिवर्तन्ते सृष्टिस्थित्यन्तसंयमाः ॥ १६.१११ ॥
anādirbhagavānkālo nāsya cānto'pi dṛśyate . cakravatparivartante sṛṣṭisthityantasaṃyamāḥ .. 16.111 ..
अवताराश्च कीर्त्यन्ते भूयांसः परमात्मनः । धर्मसंरक्षणार्थाय दुष्टसंशिक्षणाय च ॥ १६.११२ ॥
avatārāśca kīrtyante bhūyāṃsaḥ paramātmanaḥ . dharmasaṃrakṣaṇārthāya duṣṭasaṃśikṣaṇāya ca .. 16.112 ..
सद्य आविर्भवेद्विष्णुर्यत्र भक्तानुकंपया । आविर्भावं तु तं विन्द्यात्प्रादुर्भावमथेतरथ् ॥ १६.११३ ॥
sadya āvirbhavedviṣṇuryatra bhaktānukaṃpayā . āvirbhāvaṃ tu taṃ vindyātprādurbhāvamathetarath .. 16.113 ..
आविर्भावन्तु मत्स्याद्याः पञ्च पञ्चेतरास्स्मृताः । गजेन्द्रमोक्षणादीनप्याविर्भावान्प्रचक्षते ॥ १६.११४ ॥
āvirbhāvantu matsyādyāḥ pañca pañcetarāssmṛtāḥ . gajendramokṣaṇādīnapyāvirbhāvānpracakṣate .. 16.114 ..
अन्तराले तथा विष्णोर्दक्षिणोत्तरपार्श्वयोः । कल्पयेद्रामकृष्णौ तु मुखमण्डप एव वा ॥ १६.११५ ॥
antarāle tathā viṣṇordakṣiṇottarapārśvayoḥ . kalpayedrāmakṛṣṇau tu mukhamaṇḍapa eva vā .. 16.115 ..
अथान्तर्मण्डपे वापि तथावरण मण्डपे । संस्थाप्य कौतुकं बेरं द्वयमेवेति के च न ॥ १६.११६ ॥
athāntarmaṇḍape vāpi tathāvaraṇa maṇḍape . saṃsthāpya kautukaṃ beraṃ dvayameveti ke ca na .. 16.116 ..
नारसिंहं वराहं च वामनं च त्रिविक्रमं । ध्रुवबेरं विना कृत्वा कौतुकं लक्षणान्वितं ॥ १६.११७ ॥
nārasiṃhaṃ varāhaṃ ca vāmanaṃ ca trivikramaṃ . dhruvaberaṃ vinā kṛtvā kautukaṃ lakṣaṇānvitaṃ .. 16.117 ..
स्थापयित्वा तथा विष्णोः पूजयेदग्रमण्डपे । मत्स्यकूर्मवराहाणां वामनस्य विशेषतः ॥ १६.११८ ॥
sthāpayitvā tathā viṣṇoḥ pūjayedagramaṇḍape . matsyakūrmavarāhāṇāṃ vāmanasya viśeṣataḥ .. 16.118 ..
कौतुकं विष्णुरूपं तु कुर्याच्चैव चतुर्भुजं । ध्रुवरूपं न कुर्वीत यथेष्टमितरत्रतु ॥ १६.११९ ॥
kautukaṃ viṣṇurūpaṃ tu kuryāccaiva caturbhujaṃ . dhruvarūpaṃ na kurvīta yatheṣṭamitaratratu .. 16.119 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायांसंहितायां प्रकीर्णाधिकारे षोडशोऽध्यायः
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃsaṃhitāyāṃ prakīrṇādhikāre ṣoḍaśo'dhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In