| |
|

This overlay will guide you through the buttons:

अथ विंशोऽध्यायः.
अथ विंशः अध्यायः।
atha viṃśaḥ adhyāyaḥ.
रक्षादीपविधिः
अतः परं प्रवक्ष्यामि रक्षादीपविधिक्रमं । सौवर्णं राजतंवापि ताम्रंवापि स्वशक्तितः ॥ २०.१ ॥
अतस् परम् प्रवक्ष्यामि रक्षा-दीप-विधि-क्रमम् । सौवर्णम् राजतम् वा अपि ताम्रम् वा अपि स्व-शक्तितः ॥ २०।१ ॥
atas param pravakṣyāmi rakṣā-dīpa-vidhi-kramam . sauvarṇam rājatam vā api tāmram vā api sva-śaktitaḥ .. 20.1 ..
द्वात्रिंशदङ्गुलं श्रेष्ठं मध्यमं पादहीनतः । अधमं विंशदङ्गुल्यं समवृत्तन्तु कारयेथ् ॥ २०.२ ॥
द्वात्रिंशत्-अङ्गुलम् श्रेष्ठम् मध्यमम् पाद-हीनतः । अधमम् विंशत्-अङ्गुल्यम् सम-वृत्-तन्तु कारयेथ् ॥ २०।२ ॥
dvātriṃśat-aṅgulam śreṣṭham madhyamam pāda-hīnataḥ . adhamam viṃśat-aṅgulyam sama-vṛt-tantu kārayeth .. 20.2 ..
अष्टदिक्षु च मध्येच चतुर्दिक्षु च वा तथा । केवलं कर्णिकां वाथ कर्णिकायान्तु विस्तृतं ॥ २०.३ ॥
अष्ट-दिक्षु च चतुर्-दिक्षु च वा तथा । केवलम् कर्णिकाम् वा अथ कर्णिकायान् तु विस्तृतम् ॥ २०।३ ॥
aṣṭa-dikṣu ca catur-dikṣu ca vā tathā . kevalam karṇikām vā atha karṇikāyān tu vistṛtam .. 20.3 ..
तदर्धमुन्नतं विन्द्याद्गण्डायामं षडङ्गुलं । द्व्यङ्गुलं तु परीणाहं तदूर्थ्वे भागविस्तृतं ॥ २०.४ ॥
तद्-अर्धम् उन्नतम् विन्द्यात् गण्ड-आयामम् षष्-अङ्गुलम् । द्वि-अङ्गुलम् तु परीणाहम् भाग-विस्तृतम् ॥ २०।४ ॥
tad-ardham unnatam vindyāt gaṇḍa-āyāmam ṣaṣ-aṅgulam . dvi-aṅgulam tu parīṇāham bhāga-vistṛtam .. 20.4 ..
तदर्धं विस्तृतोत्सेधं दीपबात्रं प्रकल्प्य च । अलभेशालिपिष्टं वा गोमये वा समाहरेथ् ॥ २०.५ ॥
तद्-अर्धम् विस्तृत-उत्सेधम् दीप-बात्रम् प्रकल्प्य च । वा गोमये वा समाहरेथ् ॥ २०।५ ॥
tad-ardham vistṛta-utsedham dīpa-bātram prakalpya ca . vā gomaye vā samāhareth .. 20.5 ..
तत्तत्थ्साने तु विन्यस्य पात्रेसंयोजयेत्ततः । आढकं वा तदर्धं वा पिण्डार्धं च चरुंपचेथ् ॥ २०.६ ॥
तु विन्यस्य पात्रे संयोजयेत् ततस् । आढकम् वा तद्-अर्धम् वा पिण्ड-अर्धम् च चरुम् ॥ २०।६ ॥
tu vinyasya pātre saṃyojayet tatas . āḍhakam vā tad-ardham vā piṇḍa-ardham ca carum .. 20.6 ..
हारिद्रचूर्ण संयुक्तं पात्रे प्रक्षिप्य मन्त्रविथ् । आज्येन स्राव्य संमृज्य मुष्टिमात्रं दृढीकृतं ॥ २०.७ ॥
हारिद्र-चूर्ण-संयुक्तम् पात्रे प्रक्षिप्य । आज्येन स्राव्य संमृज्य मुष्टि-मात्रम् दृढीकृतम् ॥ २०।७ ॥
hāridra-cūrṇa-saṃyuktam pātre prakṣipya . ājyena srāvya saṃmṛjya muṣṭi-mātram dṛḍhīkṛtam .. 20.7 ..
दशपिण्डां स्तदर्धं वा साक्षते च समाहरेथ् । जलेन कुंभमापूर्य सर्वगन्धसमायुतं ॥ २०.८ ॥
दश-पिण्डाम् वा स अक्षते च समाहरेथ् । जलेन कुंभम् आपूर्य सर्वगन्ध-समायुतम् ॥ २०।८ ॥
daśa-piṇḍām vā sa akṣate ca samāhareth . jalena kuṃbham āpūrya sarvagandha-samāyutam .. 20.8 ..
कुशकूर्चान्विनिक्षिप्यपल्लवैरपि भूषयेथ् । अष्टमङ्गलसंयुक्तं पाद्याचमनसंयुतं ॥ २०.९ ॥
कुश-कूर्चान् विनिक्षिप्य पल्लवैः अपि । अष्टमङ्गल-संयुक्तम् पाद्य-आचमन-संयुतम् ॥ २०।९ ॥
kuśa-kūrcān vinikṣipya pallavaiḥ api . aṣṭamaṅgala-saṃyuktam pādya-ācamana-saṃyutam .. 20.9 ..
पुष्पगन्धसमायुक्तं धूपदीपार्घ्य संयुतं । पृधक्पात्रे समाहृत्य देवदेवं च पूजयेथ् ॥ २०.१० ॥
पुष्प-गन्ध-समायुक्तम् धूप-दीप-अर्घ्य-संयुतम् । पृधक् पात्रे समाहृत्य देवदेवम् च पूजयेथ् ॥ २०।१० ॥
puṣpa-gandha-samāyuktam dhūpa-dīpa-arghya-saṃyutam . pṛdhak pātre samāhṛtya devadevam ca pūjayeth .. 20.10 ..
शङ्खध्वनिसमायुक्तं वंशध्वनिसमायुतं । भेरीमृदङ्गसुषिरवाद्यघोषसमायुतं ॥ २०.११ ॥
शङ्ख-ध्वनि-समायुक्तम् वंश-ध्वनि-समायुतम् । भेरी-मृदङ्ग-सुषिर-वाद्य-घोष-समायुतम् ॥ २०।११ ॥
śaṅkha-dhvani-samāyuktam vaṃśa-dhvani-samāyutam . bherī-mṛdaṅga-suṣira-vādya-ghoṣa-samāyutam .. 20.11 ..
स्तोत्रध्वनिसमायुक्तं स्वक्तिसूक्तसमन्वितं । दासीभिश्चाथ वा भक्तैस्स्वहस्तोपरि धारयेथ् ॥ २०.१२ ॥
स्तोत्र-ध्वनि-समायुक्तम् सु अक्ति-सूक्त-समन्वितम् । दासीभिः च अथ वा भक्तैः स्व-हस्त-उपरि ॥ २०।१२ ॥
stotra-dhvani-samāyuktam su akti-sūkta-samanvitam . dāsībhiḥ ca atha vā bhaktaiḥ sva-hasta-upari .. 20.12 ..
प्रदक्षिणं शनैर्गत्वा देवालयमुपाव्रजेथ् । आचार्यं पूजयित्वातु देवदेवं प्रणम्यच ॥ २०.१३ ॥
प्रदक्षिणम् शनैस् गत्वा देवालयम् उपाव्रजेथ् । आचार्यम् पूजयित्वा तु देवदेवम् प्रणम्य च ॥ २०।१३ ॥
pradakṣiṇam śanais gatvā devālayam upāvrajeth . ācāryam pūjayitvā tu devadevam praṇamya ca .. 20.13 ..
रक्षादीपं समादाय श्रिये जातऽ इति ब्रुवन् । बिंबमूर्ध्नि तु संयोज्यत्रिः प्रदक्षिणमाचरेथ् ॥ २०.१४ ॥
रक्षा-दीपम् समादाय श्रिये जातः इति ब्रुवन् । बिंब-मूर्ध्नि तु संयोज्य त्रिस् प्रदक्षिणम् आचरेथ् ॥ २०।१४ ॥
rakṣā-dīpam samādāya śriye jātaḥ iti bruvan . biṃba-mūrdhni tu saṃyojya tris pradakṣiṇam ācareth .. 20.14 ..
दिक्पिण्डं तु विसृज्यैव प्रोक्षयित्वा च मन्त्रविथ् । प्रदक्षिणं प्रणामं च कारयेदष्टमङ्गलैः, ॥ २०.१५ ॥
दिश्-पिण्डम् तु विसृज्य एव प्रोक्षयित्वा च । प्रदक्षिणम् प्रणामम् च कारयेत् अष्टमङ्गलैः, ॥ २०।१५ ॥
diś-piṇḍam tu visṛjya eva prokṣayitvā ca . pradakṣiṇam praṇāmam ca kārayet aṣṭamaṅgalaiḥ, .. 20.15 ..
पाद्यमाचमनं दत्वागन्धपुष्पादिभिर्यजेथ् । मुखवासं च दत्वातु स्तुतिमन्त्रैश्च वैष्णवैः ॥ २०.१६ ॥
पाद्यम् आचमनम् । मुख-वासम् च द-त्वा तु स्तुति-मन्त्रैः च वैष्णवैः ॥ २०।१६ ॥
pādyam ācamanam . mukha-vāsam ca da-tvā tu stuti-mantraiḥ ca vaiṣṇavaiḥ .. 20.16 ..
समालभ्यैव हस्ताभ्यां पुष्पदूर्वाङ्कुराक्षतैः । पादेपुष्पाञ्जलिङ्कुर्यात्कुर्याद्देवस्य मन्त्रतः ॥ २०.१७ ॥
समालभ्य एव हस्ताभ्याम् पुष्प-दूर्वा-अङ्कुर-अक्षतैः । पादे पुष्प-अञ्जलिम् कुर्यात् कुर्यात् देवस्य मन्त्रतः ॥ २०।१७ ॥
samālabhya eva hastābhyām puṣpa-dūrvā-aṅkura-akṣataiḥ . pāde puṣpa-añjalim kuryāt kuryāt devasya mantrataḥ .. 20.17 ..
आलयात्तु बहिर्गत्वा पीठपार्श्वेतु निक्षिपेथ् । कौतुके बलिबेरेपि स्नापने प्यौत्सवेऽपि च, ॥ २०.१८ ॥
आलयात् तु बहिस् गत्वा पीठ-पार्श्वे तु । कौतुके स्नापने च, ॥ २०।१८ ॥
ālayāt tu bahis gatvā pīṭha-pārśve tu . kautuke snāpane ca, .. 20.18 ..
प्रादुर्भावे च सर्वेषामाविर्भावे तथैव च । एवमेव तु कृत्वा तु भ्रामयित्वा विचक्षणः, ॥ २०.१९ ॥
प्रादुर्भावे च सर्वेषाम् आविर्भावे तथा एव च । एवम् एव तु कृत्वा तु भ्रामयित्वा विचक्षणः, ॥ २०।१९ ॥
prādurbhāve ca sarveṣām āvirbhāve tathā eva ca . evam eva tu kṛtvā tu bhrāmayitvā vicakṣaṇaḥ, .. 20.19 ..
चक्रवीशामितादीनामिन्द्रादीनां तथैव च । दर्शनं भ्रामणं चैवमाचरेच्छास्त्रवित्तमः ॥ २०.२० ॥
चक्रवीश-अमित-आदीनाम् इन्द्र-आदीनाम् तथा एव च । दर्शनम् भ्रामणम् च एवम् आचरेत् शास्त्र-वित्तमः ॥ २०।२० ॥
cakravīśa-amita-ādīnām indra-ādīnām tathā eva ca . darśanam bhrāmaṇam ca evam ācaret śāstra-vittamaḥ .. 20.20 ..
मोहादज्ञानतः कुर्यात्सर्वहानिर्भविष्यति । सायाह्ने चत्रिपूजान्ते चोत्सवान्ते च नित्यशः ॥ २०.२१ ॥
मोहात् अज्ञानतः कुर्यात् सर्व-हानिः भविष्यति । सायाह्ने च त्रि-पूजा-अन्ते च उत्सव-अन्ते च नित्यशस् ॥ २०।२१ ॥
mohāt ajñānataḥ kuryāt sarva-hāniḥ bhaviṣyati . sāyāhne ca tri-pūjā-ante ca utsava-ante ca nityaśas .. 20.21 ..
एवमेव विधानेन कारयेदुत्तमं विदुः । सर्वशान्तिकरं चापि सर्वकंपत्समृद्धिदं ॥ २०.२२ ॥
एवम् एव विधानेन कारयेत् उत्तमम् विदुः । सर्व-शान्ति-करम् च अपि सर्व-कंपत्-समृद्धि-दम् ॥ २०।२२ ॥
evam eva vidhānena kārayet uttamam viduḥ . sarva-śānti-karam ca api sarva-kaṃpat-samṛddhi-dam .. 20.22 ..
दारिद्षादिविनाशेन सर्वान्कामनवाप्नुयाथ् । अतःपरं प्रवक्ष्यामि शिबिकानां तु लक्षणं ॥ २०.२३ ॥
दारिद्ष-आदि-विनाशेन सर्वान् कामन् अवाप्नुयाथ् । अतस् परम् प्रवक्ष्यामि शिबिकानाम् तु लक्षणम् ॥ २०।२३ ॥
dāridṣa-ādi-vināśena sarvān kāman avāpnuyāth . atas param pravakṣyāmi śibikānām tu lakṣaṇam .. 20.23 ..
मात्राङ्गुलेन वाकुर्याच्छिभिकादीन्विधानतः । आवृतं तदर्धविस्तारमुत्तमं तुविधीयते ॥ २०.२४ ॥
मात्रा-अङ्गुलेन वा कुर्यात् शिभिका-आदीन् विधानतः । आवृतम् तद्-अर्ध-विस्तारम् उत्तमम् ॥ २०।२४ ॥
mātrā-aṅgulena vā kuryāt śibhikā-ādīn vidhānataḥ . āvṛtam tad-ardha-vistāram uttamam .. 20.24 ..
तत्षडङ्गुलहीनन्तु मध्यमन्तुप्रकीर्तितं । विस्ताराध्यर्धपादेन ?अयामद्विगुणं भवेथ् ॥ २०.२५ ॥
तत् षष्-अङ्गुल-हीनन् तु मध्यमन् तु प्रकीर्तितम् । विस्तार-अध्यर्ध-पादेन ?अ याम-द्विगुणम् ॥ २०।२५ ॥
tat ṣaṣ-aṅgula-hīnan tu madhyaman tu prakīrtitam . vistāra-adhyardha-pādena ?a yāma-dviguṇam .. 20.25 ..
उत्तमाधममध्यानां शिबिकाविस्तरो भवेथ् । त्रिभागैकस्य भागं स्याच्चतुर्भागैकभागिकं ॥ २०.२६ ॥
उत्तम-अधम-मध्यानाम् शिबिका-विस्तरः । त्रि-भाग-एकस्य भागम् स्यात् चतुर्-भाग-एक-भागिकम् ॥ २०।२६ ॥
uttama-adhama-madhyānām śibikā-vistaraḥ . tri-bhāga-ekasya bhāgam syāt catur-bhāga-eka-bhāgikam .. 20.26 ..
पञ्चभागैकभागं स्याद्विस्तारस्य घनं भवेथ् । तच्चतुर्भागमेवं स्यादेकैकं वमनं भवेथ् ॥ २०.२७ ॥
पञ्च-भाग-एक-भागम् स्यात् विस्तारस्य घनम् । तद्-चतुर्-भागम् एवम् स्यात् एकैकम् वमनम् ॥ २०।२७ ॥
pañca-bhāga-eka-bhāgam syāt vistārasya ghanam . tad-catur-bhāgam evam syāt ekaikam vamanam .. 20.27 ..
शेषभागं तु पद्मोक्तं तलायुक्ति विशेषतः । शिबिकाविस्तृतं चैवं भागैकं भागमेव च ॥ २०.२८ ॥
शेष-भागम् तु पद्म-उक्तम् विशेषतः । शिबिका-विस्तृतम् च एवम् भाग-एकम् भागम् एव च ॥ २०।२८ ॥
śeṣa-bhāgam tu padma-uktam viśeṣataḥ . śibikā-vistṛtam ca evam bhāga-ekam bhāgam eva ca .. 20.28 ..
तच्चतुर्भागमेवोक्तं भित्त्युत्सेधं विधीयते । द्वितलं त्रितलं चैव गुलिकाफलकाभवेथ् ॥ २०.२९ ॥
तद्-चतुर्-भागम् एव उक्तम् भित्ति-उत्सेधम् विधीयते । द्वि-तलम् त्रि-तलम् च एव ॥ २०।२९ ॥
tad-catur-bhāgam eva uktam bhitti-utsedham vidhīyate . dvi-talam tri-talam ca eva .. 20.29 ..
गुलिकापादतलोत्सेधं मध्योर्ध्वतलवत्समं । चतुर्भागैकमेवन्तु नवभागैकमेव वा ॥ २०.३० ॥
गुलिका-पाद-तल-उत्सेधम् मध्य-ऊर्ध्व-तल-वत् समम् । नव-भाग-एकम् एव वा ॥ २०।३० ॥
gulikā-pāda-tala-utsedham madhya-ūrdhva-tala-vat samam . nava-bhāga-ekam eva vā .. 20.30 ..
अङ्गुलं चाङ्गुलार्थं च ऊर्थ्वपट्ट्या च संयुतं । अतःपरं प्रवक्ष्यामि रथादीनां विधिक्रमं ॥ २०.३१ ॥
अङ्गुलम् च अङ्गुल-अर्थम् च ऊर्थ्व-पट्ट्या च संयुतम् । अतस् परम् प्रवक्ष्यामि रथ-आदीनाम् विधि-क्रमम् ॥ २०।३१ ॥
aṅgulam ca aṅgula-artham ca ūrthva-paṭṭyā ca saṃyutam . atas param pravakṣyāmi ratha-ādīnām vidhi-kramam .. 20.31 ..
पञ्चषट्सप्ततालं वा चाष्टतालमथापि वा । विस्तारायममेवं स्यादुत्सेधं द्विगुणं भवेथ् ॥ २०.३२ ॥
पञ्च-षष्-सप्त-तालम् वा च अष्ट-तालम् अथ अपि वा । स्यात् उत्सेधम् द्विगुणम् ॥ २०।३२ ॥
pañca-ṣaṣ-sapta-tālam vā ca aṣṭa-tālam atha api vā . syāt utsedham dviguṇam .. 20.32 ..
मण्डपद्वारयुक्तं वा कूटाकारमथापि वा । अधराधरमायामं रथायामत्रयं भवेथ् ॥ २०.३३ ॥
मण्डप-द्वार-युक्तम् वा कूट-आकारम् अथ अपि वा । अधर-अधरम् आयामम् रथायाम-त्रयम् ॥ २०।३३ ॥
maṇḍapa-dvāra-yuktam vā kūṭa-ākāram atha api vā . adhara-adharam āyāmam rathāyāma-trayam .. 20.33 ..
छत्रस्यायामविस्तारादुत्सेदार्धप्रमाणतः । एवं तु परिकल्प्यैव शिबिकायाममुच्यते ॥ २०.३४ ॥
छत्रस्य आयाम-विस्तारात् उत्सेद-अर्ध-प्रमाणतः । एवम् तु परिकल्प्य एव शिबिकायाम् अमुच्यते ॥ २०।३४ ॥
chatrasya āyāma-vistārāt utseda-ardha-pramāṇataḥ . evam tu parikalpya eva śibikāyām amucyate .. 20.34 ..
रथायामसमं वापि पादहीनमथार्थकं । विस्तारं तत्त्रिभागै कमायामं चोच्छ्रयं भवेथ् ॥ २०.३५ ॥
रथ-आयाम-समम् वा अपि पाद-हीनम् अथ अर्थकम् । विस्तारम् तत् त्रि-भागैः कम् आयामम् च उच्छ्रयम् ॥ २०।३५ ॥
ratha-āyāma-samam vā api pāda-hīnam atha arthakam . vistāram tat tri-bhāgaiḥ kam āyāmam ca ucchrayam .. 20.35 ..
विस्तारार्धसमुत्सेधं विस्तारार्थाधिकायतं । शयनं संप्रकल्प्यैव पूर्वोक्तेनैव दारुणा ॥ २०.३६ ॥
विस्तार-अर्ध-समुत्सेधम् विस्तार-अर्थ-अधिक-आयतम् । शयनम् संप्रकल्प्य एव पूर्व-उक्तेन एव दारुणा ॥ २०।३६ ॥
vistāra-ardha-samutsedham vistāra-artha-adhika-āyatam . śayanam saṃprakalpya eva pūrva-uktena eva dāruṇā .. 20.36 ..
सर्वालङ्कारसंयुक्तं सर्वसैन्दर्यसंयुतं । शिल्पशास्त्रोक्तमार्गेण शिल्पिभिः कालयेद्बुधः ॥ २०.३७ ॥
सर्व-अलङ्कार-संयुक्तम् सर्व-सैन्दर्य-संयुतम् । शिल्प-शास्त्र-उक्त-मार्गेण शिल्पिभिः कालयेत् बुधः ॥ २०।३७ ॥
sarva-alaṅkāra-saṃyuktam sarva-saindarya-saṃyutam . śilpa-śāstra-ukta-mārgeṇa śilpibhiḥ kālayet budhaḥ .. 20.37 ..
पञ्चगव्यैस्सुसंशोध्य वास्तुहोमश्च हूयतां । पर्यग्नि चैव कृत्वातु कलशैस्स्नापयेत्ततः ॥ २०.३८ ॥
पञ्चगव्यैः सु संशोध्य वास्तु-होमः च हूयताम् । पर्यग्नि च एव कृत्वा तु कलशैः स्नापयेत् ततस् ॥ २०।३८ ॥
pañcagavyaiḥ su saṃśodhya vāstu-homaḥ ca hūyatām . paryagni ca eva kṛtvā tu kalaśaiḥ snāpayet tatas .. 20.38 ..
मण्डपे वा प्रपायां वा स्थण्डिले वात्र विन्यसेथ् । नवैर्वस्त्रैस्समावेष्ट्य पुण्याहमपि वाचयेथ् ॥ २०.३९ ॥
मण्डपे वा प्रपायाम् वा स्थण्डिले वा अत्र विन्यसेथ् । नवैः वस्त्रैः समावेष्ट्य पुण्याहम् अपि ॥ २०।३९ ॥
maṇḍape vā prapāyām vā sthaṇḍile vā atra vinyaseth . navaiḥ vastraiḥ samāveṣṭya puṇyāham api .. 20.39 ..
जौपासनाग्निकुण्डं च कारयित्वा विधानतः । आघारं पूर्ववत्कृत्वा कुंभपूजां समाचरेथ् ॥ २०.४० ॥
जौपासन-अग्निकुण्डम् च कारयित्वा विधानतः । आघारम् पूर्ववत् कृत्वा कुंभ-पूजाम् समाचरेथ् ॥ २०।४० ॥
jaupāsana-agnikuṇḍam ca kārayitvā vidhānataḥ . āghāram pūrvavat kṛtvā kuṃbha-pūjām samācareth .. 20.40 ..
वैष्णवं विष्णुसूक्तं च तत्तद्देवांश्च मूर्तिभिः । व्याहृत्यन्तं च हुत्वा तु अन्तहोमश्च हूयते ॥ २०.४१ ॥
वैष्णवम् विष्णुसूक्तम् च तत् तत् देवान् च मूर्तिभिः । व्याहृति-अन्तम् च हुत्वा तु अन्त-होमः च हूयते ॥ २०।४१ ॥
vaiṣṇavam viṣṇusūktam ca tat tat devān ca mūrtibhiḥ . vyāhṛti-antam ca hutvā tu anta-homaḥ ca hūyate .. 20.41 ..
यानादिषु च तन्मध्ये तत्तद्देवां स्तथैव च । आवाह्यैव समभ्यर्च्य देवदेवं प्रणम्य च ॥ २०.४२ ॥
यान-आदिषु च तद्-मध्ये तद्-तद्-देवान् तथा एव च । आवाह्य एव समभ्यर्च्य देवदेवम् प्रणम्य च ॥ २०।४२ ॥
yāna-ādiṣu ca tad-madhye tad-tad-devān tathā eva ca . āvāhya eva samabhyarcya devadevam praṇamya ca .. 20.42 ..
पाद्याद्यर्घ्यान्तमभ्यर्च्य हविस्सम्यङ्निवेदयेथ् । सर्वालङ्कारसंयुक्तं सर्ववाद्यसमन्वितं ॥ २०.४३ ॥
पाद्य-आदि-अर्घ्य-अन्तम् अभ्यर्च्य हविः सम्यक् निवेदयेथ् । सर्व-अलङ्कार-संयुक्तम् सर्व-वाद्य-समन्वितम् ॥ २०।४३ ॥
pādya-ādi-arghya-antam abhyarcya haviḥ samyak nivedayeth . sarva-alaṅkāra-saṃyuktam sarva-vādya-samanvitam .. 20.43 ..
यानादिषु समारोप्य "प्रतद्विष्णुऽरिति ब्रुवन् । ग्रामं वा प्यालयं वापि प्रदक्षिणमधाचरेथ् ॥ २०.४४ ॥
यान-आदिषु समारोप्य "प्रतत्-विष्णुः इति ब्रुवन् । ग्रामम् वा पि आलयम् वा अपि प्रदक्षिणम् अध आचरेथ् ॥ २०।४४ ॥
yāna-ādiṣu samāropya "pratat-viṣṇuḥ iti bruvan . grāmam vā pi ālayam vā api pradakṣiṇam adha ācareth .. 20.44 ..
मन्दिरं संप्रविश्यैव स्वेस्वेस्थाने निवेशयेथ् । एवं यःकुरुते भक्त्या वैष्णवं पदमाप्नुयाथ् ॥ २०.४५ ॥
मन्दिरम् संप्रविश्य एव स्वे-स्वे-स्थाने निवेशयेथ् । एवम् यः कुरुते भक्त्या वैष्णवम् पदम् आप्नुयाथ् ॥ २०।४५ ॥
mandiram saṃpraviśya eva sve-sve-sthāne niveśayeth . evam yaḥ kurute bhaktyā vaiṣṇavam padam āpnuyāth .. 20.45 ..
अतःपरं प्रवक्ष्यामि प्रपामण्डपलक्षणं । मण्डपं त्रिविधं ज्ञेये विमानसमविस्तृतं ॥ २०.४६ ॥
अतस् परम् प्रवक्ष्यामि प्रपा-मण्डप-लक्षणम् । मण्डपम् त्रिविधम् ज्ञेये विमान-सम-विस्तृतम् ॥ २०।४६ ॥
atas param pravakṣyāmi prapā-maṇḍapa-lakṣaṇam . maṇḍapam trividham jñeye vimāna-sama-vistṛtam .. 20.46 ..
अर्धं पादं तु पादं वा हीनन्तु त्रिविधं भवेथ् । प्रमुखे तस्यसोपानमालयार्धमिति स्मृतं ॥ २०.४७ ॥
अर्धम् पादम् तु पादम् वा त्रिविधम् । प्रमुखे तस्य सोपानम् आलयार्धम् इति स्मृतम् ॥ २०।४७ ॥
ardham pādam tu pādam vā trividham . pramukhe tasya sopānam ālayārdham iti smṛtam .. 20.47 ..
पूर्वेतु स्नपनार्थाय मण्डपं संप्रकल्पयेथ् । षोडशस्तंभयुक्तं वा द्वादशस्तंभसंयुतं ॥ २०.४८ ॥
स्नपन-अर्थाय मण्डपम् । षोडश-स्तंभ-युक्तम् वा द्वादश-स्तंभ-संयुतम् ॥ २०।४८ ॥
snapana-arthāya maṇḍapam . ṣoḍaśa-staṃbha-yuktam vā dvādaśa-staṃbha-saṃyutam .. 20.48 ..
ऐशान्ये वा प्रकुर्वीत स्नपनार्थं प्रकल्पयेथ् । प्रथमावरणे वाथ द्वितीयावरणेऽथ वा ॥ २०.४९ ॥
ऐशान्ये वा प्रकुर्वीत स्नपन-अर्थम् । प्रथम-आवरणे वा अथ द्वितीय-आवरणे अथ वा ॥ २०।४९ ॥
aiśānye vā prakurvīta snapana-artham . prathama-āvaraṇe vā atha dvitīya-āvaraṇe atha vā .. 20.49 ..
एकादशेन हस्तेन समं सम्यक्प्रकल्पयेथ् । नवहस्तं सप्तहस्तं पञ्चहस्तमिति त्रिधा ॥ २०.५० ॥
एकादशेन हस्तेन समम् सम्यक् प्रकल्पयेथ् । नव-हस्तम् सप्त-हस्तम् पञ्च-हस्तम् इति त्रिधा ॥ २०।५० ॥
ekādaśena hastena samam samyak prakalpayeth . nava-hastam sapta-hastam pañca-hastam iti tridhā .. 20.50 ..
प्रथमावरणे बाह्ये मण्डपन्तु विधीयते । आस्थानवृत्तगेयादिदर्शनार्थं प्रकल्पयेथ् ॥ २०.५१ ॥
प्रथम-आवरणे बाह्ये मण्डपम् तु विधीयते । आस्थान-वृत्त-गेय-आदि-दर्शन-अर्थम् ॥ २०।५१ ॥
prathama-āvaraṇe bāhye maṇḍapam tu vidhīyate . āsthāna-vṛtta-geya-ādi-darśana-artham .. 20.51 ..
पूर्ववत्प्रमुखे कुर्याद्यथाविभवविस्तरं । यजमानस्य हस्तेन द्विहस्तन्तु विवर्धयेथ् ॥ २०.५२ ॥
पूर्ववत् प्रमुखे कुर्यात् यथा विभव-विस्तरम् । यजमानस्य हस्तेन द्वि-हस्तन्तु विवर्धयेथ् ॥ २०।५२ ॥
pūrvavat pramukhe kuryāt yathā vibhava-vistaram . yajamānasya hastena dvi-hastantu vivardhayeth .. 20.52 ..
पूर्ववत्स्तंभसंयुक्तं यथायोग्यं प्रकल्पयेथ् । तत्बूर्वदिशि शालायां नृत्तार्थन्तु विधीयते ॥ २०.५३ ॥
पूर्ववत् स्तंभ-संयुक्तम् यथायोग्यम् । तत् बूर्व-दिशि शालायाम् नृत्त-अर्थम् तु विधीयते ॥ २०।५३ ॥
pūrvavat staṃbha-saṃyuktam yathāyogyam . tat būrva-diśi śālāyām nṛtta-artham tu vidhīyate .. 20.53 ..
विष्कंभं नवहस्तं वा आयामं द्विगुणीकृतं । यजमानेच्छया तत्र द्विहस्तन्तुविवर्धयेथ् ॥ २०.५४ ॥
विष्कंभम् नव-हस्तम् वा आयामम् द्विगुणीकृतम् । यजमान-इच्छया तत्र ॥ २०।५४ ॥
viṣkaṃbham nava-hastam vā āyāmam dviguṇīkṛtam . yajamāna-icchayā tatra .. 20.54 ..
अयादिलक्षणं वक्ष्ये यजमानानुकूलतः । हस्तं पादं तदर्धं वा विस्तारायादिसंयुतं ॥ २०.५५ ॥
वक्ष्ये । हस्तम् पादम् तद्-अर्धम् वा विस्ताराय आदि-संयुतम् ॥ २०।५५ ॥
vakṣye . hastam pādam tad-ardham vā vistārāya ādi-saṃyutam .. 20.55 ..
तथैव नूनं कृत्वा तु अयादीन्लक्षयेद्बुधः । शिलाभिरिष्टकाभिर्वा हस्तोच्छ्रयसमं तलं ॥ २०.५६ ॥
तथा एव नूनम् कृत्वा तु अय-आदीन् लक्षयेत् बुधः । शिलाभिः इष्टकाभिः वा हस्त-उच्छ्रय-समम् तलम् ॥ २०।५६ ॥
tathā eva nūnam kṛtvā tu aya-ādīn lakṣayet budhaḥ . śilābhiḥ iṣṭakābhiḥ vā hasta-ucchraya-samam talam .. 20.56 ..
द्वितलं वा प्रकुर्वीत तालं सम्यक्प्रकल्पयेथ् । शैलजं दारुसारं वा स्तंभमाहृत्य यत्नतः ॥ २०.५७ ॥
द्वि-तलम् वा प्रकुर्वीत तालम् । शैलजम् दारुसारम् वा स्तंभम् आहृत्य यत्नतः ॥ २०।५७ ॥
dvi-talam vā prakurvīta tālam . śailajam dārusāram vā staṃbham āhṛtya yatnataḥ .. 20.57 ..
वृत्तं वा चतुरश्रं वा ऋजुं वक्रविवर्जितं । स्तंभानां विंशतिं गृह्य बाह्यस्तंभं प्रगृह्य च ॥ २०.५८ ॥
वृत्तम् वा चतुरश्रम् वा ऋजुम् वक्र-विवर्जितम् । स्तंभानाम् विंशतिम् गृह्य बाह्य-स्तंभम् प्रगृह्य च ॥ २०।५८ ॥
vṛttam vā caturaśram vā ṛjum vakra-vivarjitam . staṃbhānām viṃśatim gṛhya bāhya-staṃbham pragṛhya ca .. 20.58 ..
तन्मध्ये द्वादशस्तंभं पूर्ववत्कारयेद्बुधः । स्तंभायामं यथायोगं कृत्वा तत्र विचक्षणः ॥ २०.५९ ॥
तद्-मध्ये द्वादश-स्तंभम् पूर्ववत् कारयेत् बुधः । स्तंभ-आयामम् यथायोगम् कृत्वा तत्र विचक्षणः ॥ २०।५९ ॥
tad-madhye dvādaśa-staṃbham pūrvavat kārayet budhaḥ . staṃbha-āyāmam yathāyogam kṛtvā tatra vicakṣaṇaḥ .. 20.59 ..
द्वितालघन संयुक्तं स्तंभमानेन स्वस्तिकं । स्तलत्योर्ध्वे विभज्यैव समं वन्दत्यप्रकल्पयेथ् ॥ २०.६० ॥
द्वि-ताल-घन-संयुक्तम् स्तंभ-मानेन स्वस्तिकम् । समम् ॥ २०।६० ॥
dvi-tāla-ghana-saṃyuktam staṃbha-mānena svastikam . samam .. 20.60 ..
तस्यामेव तु स्तंभार्थं पादं संस्थाप्य स्वस्तिकं । दृढं कृत्वा तदूर्ध्वेत स्तंभं संस्थाप्य वै बुधः ॥ २०.६१ ॥
तस्याम् एव तु स्तंभ-अर्थम् पादम् संस्थाप्य स्वस्तिकम् । दृढम् स्तंभम् संस्थाप्य वै बुधः ॥ २०।६१ ॥
tasyām eva tu staṃbha-artham pādam saṃsthāpya svastikam . dṛḍham staṃbham saṃsthāpya vai budhaḥ .. 20.61 ..
द्व्यङ्गुलं च भवैर्वाथ वेदिकां कारयेद्बुधः । नानालङ्कारसंयुक्तं नानाचित्रसमन्वितं ॥ २०.६२ ॥
द्वि-अङ्गुलम् च भवैः वा अथ वेदिकाम् कारयेत् बुधः । नाना अलङ्कार-संयुक्तम् नाना चित्र-समन्वितम् ॥ २०।६२ ॥
dvi-aṅgulam ca bhavaiḥ vā atha vedikām kārayet budhaḥ . nānā alaṅkāra-saṃyuktam nānā citra-samanvitam .. 20.62 ..
उत्तरं तत्समं कृत्वा बोधिकेतु सुयोजयेथ् । स्तंभादूर्ध्वन्तु संस्थाप्य तदूर्ध्वे प्रस्तरं न्यसेथ् ॥ २०.६३ ॥
उत्तरम् तत् समम् कृत्वा । स्तंभात् ऊर्ध्वम् तु संस्थाप्य तद्-ऊर्ध्वे प्रस्तरम् न्यसेथ् ॥ २०।६३ ॥
uttaram tat samam kṛtvā . staṃbhāt ūrdhvam tu saṃsthāpya tad-ūrdhve prastaram nyaseth .. 20.63 ..
अभ्लन्तरोत्तरादूर्ध्वेऽबिष्टकाधानपादयोः । बालोत्तरं यथायोग्यं स्थापयेत्सुदृढं क्रमाथ् ॥ २०.६४ ॥
अभि अन्तर-उत्तरात् ऊर्ध्वे अप्-इष्टका-आधान-पादयोः । बाल-उत्तरम् यथायोग्यम् स्थापयेत् सु दृढम् ॥ २०।६४ ॥
abhi antara-uttarāt ūrdhve ap-iṣṭakā-ādhāna-pādayoḥ . bāla-uttaram yathāyogyam sthāpayet su dṛḍham .. 20.64 ..
तद्बिल्वको यथामार्गं योग्यं तत्पद्ममुच्छ्रयं । एवं लक्षणसंयुक्तं दर्शनीयं च कारयेथ् ॥ २०.६५ ॥
तत् बिल्वकः यथामार्गम् योग्यम् तत् पद्मम् उच्छ्रयम् । एवम् लक्षण-संयुक्तम् दर्शनीयम् च ॥ २०।६५ ॥
tat bilvakaḥ yathāmārgam yogyam tat padmam ucchrayam . evam lakṣaṇa-saṃyuktam darśanīyam ca .. 20.65 ..
यजमानेच्छयातत्तन्मण्डपेन सहैव तु । षोडशस्तंभसंयुक्तं द्वादशस्तंभमेववा ॥ २०.६६ ॥
यजमान-इच्छया तद्-तद्-मण्डपेन सह एव तु । षोडश-स्तंभ-संयुक्तम् द्वादश-स्तंभम् एव वा ॥ २०।६६ ॥
yajamāna-icchayā tad-tad-maṇḍapena saha eva tu . ṣoḍaśa-staṃbha-saṃyuktam dvādaśa-staṃbham eva vā .. 20.66 ..
भक्तियुक्तं प्रकल्प्यैव प्रपां युक्त्यैव कारयेथ् । अपरे द्वारसंयुक्तं पूर्ववत्स्तंभमेव वा ॥ २०.६७ ॥
भक्ति-युक्तम् प्रकल्प्य एव प्रपाम् युक्त्या एव । अपरे द्वार-संयुक्तम् पूर्ववत् स्तंभम् एव वा ॥ २०।६७ ॥
bhakti-yuktam prakalpya eva prapām yuktyā eva . apare dvāra-saṃyuktam pūrvavat staṃbham eva vā .. 20.67 ..
कवाटं तत्र वा कुर्याच्छेषं यक्त्यैव कारयेथ् । शिल्पशास्त्रोक्तमार्गेण शिल्पिभिः कारयेद्बुधः ॥ २०.६८ ॥
कवाटम् तत्र वा कुर्यात् शेषम् यक्त्या एव । शिल्प-शास्त्र-उक्त-मार्गेण शिल्पिभिः कारयेत् बुधः ॥ २०।६८ ॥
kavāṭam tatra vā kuryāt śeṣam yaktyā eva . śilpa-śāstra-ukta-mārgeṇa śilpibhiḥ kārayet budhaḥ .. 20.68 ..
मण्डपस्य समाप्तौतु अङ्कुरानर्पयेत्क्रमाथ् । शुद्ध्यर्थं वास्तुहोमं च पुण्याहं चैव कारयेथ् ॥ २०.६९ ॥
मण्डपस्य समाप्तौ तु अङ्कुरान् अर्पयेत् क्रमाथ् । शुद्धि-अर्थम् वास्तु-होमम् च पुण्याहम् च एव कारयेथ् ॥ २०।६९ ॥
maṇḍapasya samāptau tu aṅkurān arpayet kramāth . śuddhi-artham vāstu-homam ca puṇyāham ca eva kārayeth .. 20.69 ..
ब्राह्मणान्भोजयेत्पश्चात्तद्देशमुपलक्षयेथ् । चरोदये च नक्षत्रे स्थिरराशिं प्रगृह्य च ॥ २०.७० ॥
ब्राह्मणान् भोजयेत् पश्चात् तद्-देशम् उपलक्षयेथ् । चर-उदये च नक्षत्रे स्थिर-राशिम् प्रगृह्य च ॥ २०।७० ॥
brāhmaṇān bhojayet paścāt tad-deśam upalakṣayeth . cara-udaye ca nakṣatre sthira-rāśim pragṛhya ca .. 20.70 ..
मण्डपस्य तु मध्ये वै धान्यपीठानि कल्पयेथ् । प्रतिष्ठोक्तक्रमेणैव कुंभन्यासाति कारयेथ् ॥ २०.७१ ॥
मण्डपस्य तु मध्ये वै धान्य-पीठानि । प्रतिष्ठा-उक्त-क्रमेण एव ॥ २०।७१ ॥
maṇḍapasya tu madhye vai dhānya-pīṭhāni . pratiṣṭhā-ukta-krameṇa eva .. 20.71 ..
पश्चिमे गार्हपत्याग्नावाघारं जुहुयात्क्रमाथ् । होता हौत्रक्रमेणैव हौत्रं तत्र प्रशंसयेथ् ॥ २०.७२ ॥
पश्चिमे गार्हपत्य-अग्नौ आघारम् जुहुयात् क्रमाथ् । होता हौत्र-क्रमेण एव हौत्रम् तत्र प्रशंसयेथ् ॥ २०।७२ ॥
paścime gārhapatya-agnau āghāram juhuyāt kramāth . hotā hautra-krameṇa eva hautram tatra praśaṃsayeth .. 20.72 ..
तत्तद्देवस्य चावाह्य जुष्टाकारं हुतं चरेथ् । श्रीसूक्तं वैष्णपं चैव वैष्णवं चैकविंशतिः ॥ २०.७३ ॥
तत् तत् देवस्य च आवाह्य जुष्ट-आकारम् हुतम् चरेथ् । श्रीसूक्तम् वैष्णपम् च एव वैष्णवम् च एकविंशतिः ॥ २०।७३ ॥
tat tat devasya ca āvāhya juṣṭa-ākāram hutam careth . śrīsūktam vaiṣṇapam ca eva vaiṣṇavam ca ekaviṃśatiḥ .. 20.73 ..
इन्द्रादिलोकपालानां प्रत्येकं जुहुयात्क्रमाथ् । तत्तत्स्थानेतु कूर्चे वा स्थण्डिले वा समर्चयेथ् ॥ २०.७४ ॥
इन्द्र-आदि-लोकपालानाम् प्रत्येकम् जुहुयात् क्रमाथ् । तद्-तद्-स्थाने तु कूर्चे वा स्थण्डिले वा ॥ २०।७४ ॥
indra-ādi-lokapālānām pratyekam juhuyāt kramāth . tad-tad-sthāne tu kūrce vā sthaṇḍile vā .. 20.74 ..
प्रभूतं तु निवेद्यैव द्रोणन्द्रोणार्छमेव वा । आचार्यस्यार्चकादीनां दक्षिणां च ददेत्क्रमाथ् ॥ २०.७५ ॥
प्रभूतम् तु निवेद्य एव वा । आचार्यस्य अर्चक-आदीनाम् दक्षिणाम् च ददेत् क्रमात् ॥ २०।७५ ॥
prabhūtam tu nivedya eva vā . ācāryasya arcaka-ādīnām dakṣiṇām ca dadet kramāt .. 20.75 ..
सौवर्णैरुत्पलैः पुष्पैरलङ्कुर्यात्प्रपां ततः । पद्मैर्वाकुमुदैर्वाथ पुष्पैरन्यैस्स्वशक्तितः ॥ २०.७६ ॥
सौवर्णैः उत्पलैः पुष्पैः अलङ्कुर्यात् प्रपाम् ततस् । पद्मैः वा अकुमुदैः वा अथ पुष्पैः अन्यैः स्व-शक्तितः ॥ २०।७६ ॥
sauvarṇaiḥ utpalaiḥ puṣpaiḥ alaṅkuryāt prapām tatas . padmaiḥ vā akumudaiḥ vā atha puṣpaiḥ anyaiḥ sva-śaktitaḥ .. 20.76 ..
देवदेवमलङ्कृत्य वस्त्रमाल्यादिभिः पुनः । प्रपां संयोज्य देवेशं ध्यानेनैव तु सन्नयेथ् ॥ २०.७७ ॥
देवदेवम् अलङ्कृत्य वस्त्र-माल्य-आदिभिः पुनर् । प्रपाम् संयोज्य देवेशम् ध्यानेन एव तु ॥ २०।७७ ॥
devadevam alaṅkṛtya vastra-mālya-ādibhiḥ punar . prapām saṃyojya deveśam dhyānena eva tu .. 20.77 ..
देवेशं स्थापयेत्तत्र पाद्याद्यैरर्चयेत्क्रमाथ् । महाहविः प्रभूतं वा यथाशक्ति निवेदयेथ् ॥ २०.७८ ॥
देवेशम् स्थापयेत् तत्र पाद्य-आद्यैः अर्चयेत् क्रमात् । महाहविः प्रभूतम् वा यथाशक्ति निवेदयेथ् ॥ २०।७८ ॥
deveśam sthāpayet tatra pādya-ādyaiḥ arcayet kramāt . mahāhaviḥ prabhūtam vā yathāśakti nivedayeth .. 20.78 ..
एवं यः कुरुते भक्त्या विष्णुलोके महीयते
एवम् यः कुरुते भक्त्या विष्णु-लोके महीयते
evam yaḥ kurute bhaktyā viṣṇu-loke mahīyate
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारेविंशोऽध्यायः.
इति श्री-वैखानसे भगवत्-शास्त्रे भृगु-प्रोक्तायाम् संहितायाम् प्रकीर्ण-अधिकारे विंशः अध्यायः।
iti śrī-vaikhānase bhagavat-śāstre bhṛgu-proktāyām saṃhitāyām prakīrṇa-adhikāre viṃśaḥ adhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In