| |
|

This overlay will guide you through the buttons:

कोष्ठ-अगार-अध्यक्षः सीता-राष्ट्र-क्रयिम-परिवर्तक-प्रामित्यक-आपमित्यक-संहनिक-अन्य-जात-व्यय-प्रत्याय-उपस्थानान्युपलभेत् ॥ ०२.१५.०१ ॥
कोष्ठ-अगार-अध्यक्षः सीता-राष्ट्र-क्रयिम-परिवर्तक-प्रामित्यक-आपमित्यक-संहनिक-अन्य-जात-व्यय-प्रत्याय-उपस्थानानि उपलभेत् ॥ ०२।१५।०१ ॥
koṣṭha-agāra-adhyakṣaḥ sītā-rāṣṭra-krayima-parivartaka-prāmityaka-āpamityaka-saṃhanika-anya-jāta-vyaya-pratyāya-upasthānāni upalabhet .. 02.15.01 ..
सीता-अध्यक्ष-उपनीतः सस्य-वर्णकः सीता ॥ ०२.१५.०२ ॥
सीता-अध्यक्ष-उपनीतः सस्य-वर्णकः सीता ॥ ०२।१५।०२ ॥
sītā-adhyakṣa-upanītaḥ sasya-varṇakaḥ sītā .. 02.15.02 ..
पिण्ड-करः षड्-भागः सेना-भक्तं बलिः कर उत्सङ्गः पार्श्वं पारिहीणिकं औपायनिकं कौष्ठेयकं च राष्ट्रं ॥ ०२.१५.०३ ॥
पिण्ड-करः षष्-भागः सेना-भक्तम् बलिः करः उत्सङ्गः पार्श्वम् पारिहीणिकम् औपायनिकम् कौष्ठेयकम् च राष्ट्रम् ॥ ०२।१५।०३ ॥
piṇḍa-karaḥ ṣaṣ-bhāgaḥ senā-bhaktam baliḥ karaḥ utsaṅgaḥ pārśvam pārihīṇikam aupāyanikam kauṣṭheyakam ca rāṣṭram .. 02.15.03 ..
धान्य-मूल्यं कोश-निर्हारः प्रयोग-प्रत्यादानं च क्रयिमं ॥ ०२.१५.०४ ॥
धान्य-मूल्यम् कोश-निर्हारः प्रयोग-प्रत्यादानम् च क्रयिमम् ॥ ०२।१५।०४ ॥
dhānya-mūlyam kośa-nirhāraḥ prayoga-pratyādānam ca krayimam .. 02.15.04 ..
सस्य-वर्णानां अर्घ-अन्तरेण विनिमयः परिवर्तकः ॥ ०२.१५.०५ ॥
सस्य-वर्णानाम् अर्घ-अन्तरेण विनिमयः परिवर्तकः ॥ ०२।१५।०५ ॥
sasya-varṇānām argha-antareṇa vinimayaḥ parivartakaḥ .. 02.15.05 ..
सस्य-याचनं अन्यतः प्रामित्यकं ॥ ०२.१५.०६ ॥
सस्य-याचनम् अन्यतस् प्रामित्यकम् ॥ ०२।१५।०६ ॥
sasya-yācanam anyatas prāmityakam .. 02.15.06 ..
तदेव प्रतिदान-अर्थं आपमित्यकं ॥ ०२.१५.०७ ॥
तत् एव प्रतिदान-अर्थम् आपमित्यकम् ॥ ०२।१५।०७ ॥
tat eva pratidāna-artham āpamityakam .. 02.15.07 ..
कुट्टक-रोचक-सक्तु-शुक्त-पिष्ट-कर्म तज्-जीवनेषु तैल-पीडन-मौद्र-चाक्रिकेष्विक्षूणां च क्षार-कर्म संहनिका ॥ ०२.१५.०८ ॥
कुट्टक-रोचक-सक्तु-शुक्त-पिष्ट-कर्म तद्-जीवनेषु तैल-पीडन-मौद्र-चाक्रिकेषु इक्षूणाम् च क्षार-कर्म संहनिका ॥ ०२।१५।०८ ॥
kuṭṭaka-rocaka-saktu-śukta-piṣṭa-karma tad-jīvaneṣu taila-pīḍana-maudra-cākrikeṣu ikṣūṇām ca kṣāra-karma saṃhanikā .. 02.15.08 ..
नष्ट-प्रस्मृत-आदिरन्य-जातः ॥ ०२.१५.०९ ॥
नष्ट-प्रस्मृत-आदिः अन्य-जातः ॥ ०२।१५।०९ ॥
naṣṭa-prasmṛta-ādiḥ anya-jātaḥ .. 02.15.09 ..
विक्षेप-व्याधित-अन्तर-आरम्भ-शेषं च व्यय-प्रत्यायः ॥ ०२.१५.१० ॥
विक्षेप-व्याधित-अन्तर-आरम्भ-शेषम् च व्यय-प्रत्यायः ॥ ०२।१५।१० ॥
vikṣepa-vyādhita-antara-ārambha-śeṣam ca vyaya-pratyāyaḥ .. 02.15.10 ..
तुला-मान-अन्तरं हस्त-पूरणं उत्करो व्याजी पर्युषितं प्रार्जितं चौपस्थानं इति ॥ ०२.१५.११ ॥
तुला-मान-अन्तरम् हस्त-पूरणम् उत्करः व्याजी पर्युषितम् प्रार्जितम् च औपस्थानम् इति ॥ ०२।१५।११ ॥
tulā-māna-antaram hasta-pūraṇam utkaraḥ vyājī paryuṣitam prārjitam ca aupasthānam iti .. 02.15.11 ..
धान्य-स्नेह-क्षार-लवणानां धान्य-कल्पं सीता-अध्यक्षे वक्ष्यामः ॥ ०२.१५.१२ ॥
धान्य-स्नेह-क्षार-लवणानाम् धान्य-कल्पम् सीता-अध्यक्षे वक्ष्यामः ॥ ०२।१५।१२ ॥
dhānya-sneha-kṣāra-lavaṇānām dhānya-kalpam sītā-adhyakṣe vakṣyāmaḥ .. 02.15.12 ..
सर्पिस्-तैल-वसा-मज्जानः स्नेहाः ॥ ०२.१५.१३ ॥
सर्पिः-तैल-वसा-मज्जानः स्नेहाः ॥ ०२।१५।१३ ॥
sarpiḥ-taila-vasā-majjānaḥ snehāḥ .. 02.15.13 ..
फाणित-गुड-मत्स्यण्डिक-अखण्ड-शर्कराः क्षार-वर्गः ॥ ०२.१५.१४ ॥
phāṇita-guḍa-matsyaṇḍika-akhaṇḍa-śarkarāḥ kṣāra-vargaḥ || 02.15.14 ||
phāṇita-guḍa-matsyaṇḍika-akhaṇḍa-śarkarāḥ kṣāra-vargaḥ || 02.15.14 ||
सैन्धव-सामुद्र-बिड-यव-क्षार-सौवर्चल-उद्भेदजा लवण-वर्गः ॥ ०२.१५.१५ ॥
सैन्धव-सामुद्र-विड-यव-क्षार-सौवर्चल-उद्भेद-जाः लवण-वर्गः ॥ ०२।१५।१५ ॥
saindhava-sāmudra-viḍa-yava-kṣāra-sauvarcala-udbheda-jāḥ lavaṇa-vargaḥ .. 02.15.15 ..
क्षौद्रं मार्द्वीकं च मधु ॥ ०२.१५.१६ ॥
क्षौद्रम् मार्द्वीकम् च मधु ॥ ०२।१५।१६ ॥
kṣaudram mārdvīkam ca madhu .. 02.15.16 ..
इक्षु-रस-गुड-मधु-फाणित-जाम्बव-पनसानां अन्यतमो मेष-शृङ्गी-पिप्पली-क्वाथ-अभिषुतो मासिकः षाण्मासिकः सांवत्सरिको वा चिद्भिटोर्वारुक-इक्षु-काण्ड-आम्र-फल-आमलक-अवसुतः शुद्धो वा शुक्त-वर्गः ॥ ०२.१५.१७ ॥
इक्षु-रस-गुड-मधु-फाणित-जाम्बव-पनसानाम् अन्यतमः मेष-शृङ्गी-पिप्पली-क्वाथ-अभिषुतः मासिकः षाण्मासिकः सांवत्सरिकः वा चिद्भिट-उर्वारुक-इक्षु-काण्ड-आम्र-फल-आमलक-अवसुतः शुद्धः वा शुक्त-वर्गः ॥ ०२।१५।१७ ॥
ikṣu-rasa-guḍa-madhu-phāṇita-jāmbava-panasānām anyatamaḥ meṣa-śṛṅgī-pippalī-kvātha-abhiṣutaḥ māsikaḥ ṣāṇmāsikaḥ sāṃvatsarikaḥ vā cidbhiṭa-urvāruka-ikṣu-kāṇḍa-āmra-phala-āmalaka-avasutaḥ śuddhaḥ vā śukta-vargaḥ .. 02.15.17 ..
वृक्ष-आम्ल-कर-मर्द-आम्र-विदल-आमलक-मातुलुङ्ग-कोल-बदर-सौवीरक-परूषक-आदिः फल-आम्ल-वर्गः ॥ ०२.१५.१८ ॥
वृक्ष-आम्ल-कर-मर्द-आम्र-विदल-आमलक-मातुलुङ्ग-कोल-बदर-सौवीरक-परूषक-आदिः फल-आम्ल-वर्गः ॥ ०२।१५।१८ ॥
vṛkṣa-āmla-kara-marda-āmra-vidala-āmalaka-mātuluṅga-kola-badara-sauvīraka-parūṣaka-ādiḥ phala-āmla-vargaḥ .. 02.15.18 ..
दधि-धान्य-आम्ल-आदिर्द्रव-आम्ल-वर्गः ॥ ०२.१५.१९ ॥
दधि-धान्य-आम्ल-आदिः द्रव-आम्ल-वर्गः ॥ ०२।१५।१९ ॥
dadhi-dhānya-āmla-ādiḥ drava-āmla-vargaḥ .. 02.15.19 ..
पिप्पली-मरिच-शृङ्गि-बेरा-अजाजी-किरात-तिक्त-गौर-सर्षप-कुस्तुम्बुरु-चोरक-दमनक-मरुवक-शिग्रु-काण्ड-आदिः कटुक-वर्गः ॥ ०२.१५.२० ॥
pippalī-marica-śṛṅgi-berā-ajājī-kirāta-tikta-gaura-sarṣapa-kustumburu-coraka-damanaka-maruvaka-śigru-kāṇḍa-ādiḥ kaṭuka-vargaḥ || 02.15.20 ||
pippalī-marica-śṛṅgi-berā-ajājī-kirāta-tikta-gaura-sarṣapa-kustumburu-coraka-damanaka-maruvaka-śigru-kāṇḍa-ādiḥ kaṭuka-vargaḥ || 02.15.20 ||
शुष्क-मत्स्य-मांस-कन्द-मूल-फल-शाक-आदि च शाक-वर्गः ॥ ०२.१५.२१ ॥
शुष्क-मत्स्य-मांस-कन्द-मूल-फल-शाक-आदि च शाक-वर्गः ॥ ०२।१५।२१ ॥
śuṣka-matsya-māṃsa-kanda-mūla-phala-śāka-ādi ca śāka-vargaḥ .. 02.15.21 ..
ततोअर्धं आपद्-अर्थं जानपदानां स्थापयेद् । अर्धं उपयुञ्जीत ॥ ०२.१५.२२ ॥
ततोअर्धम् आपद्-अर्थम् जानपदानाम् स्थापयेत् । अर्धम् उपयुञ्जीत ॥ ०२।१५।२२ ॥
tatoardham āpad-artham jānapadānām sthāpayet . ardham upayuñjīta .. 02.15.22 ..
नवेन चानवं शोधयेत् ॥ ०२.१५.२३ ॥
नवेन च अनवम् शोधयेत् ॥ ०२।१५।२३ ॥
navena ca anavam śodhayet .. 02.15.23 ..
क्षुण्ण-घृष्ट-पिष्ट-भृष्टानां आर्द्र-शुष्क-सिद्धानां च धान्यानां वृद्धि-क्षय-प्रमाणानि प्रत्यक्षी-कुर्वीत ॥ ०२.१५.२४ ॥
क्षुण्ण-घृष्ट-पिष्ट-भृष्टानाम् आर्द्र-शुष्क-सिद्धानाम् च धान्यानाम् वृद्धि-क्षय-प्रमाणानि प्रत्यक्षीकुर्वीत ॥ ०२।१५।२४ ॥
kṣuṇṇa-ghṛṣṭa-piṣṭa-bhṛṣṭānām ārdra-śuṣka-siddhānām ca dhānyānām vṛddhi-kṣaya-pramāṇāni pratyakṣīkurvīta .. 02.15.24 ..
कोद्रव-व्रीहीणां अर्धं सारः । शालीनां अर्ध-भाग-ऊनः । त्रि-भाग-ऊनो वरकाणां ॥ ०२.१५.२५ ॥
कोद्रव-व्रीहीणाम् अर्धम् सारः । शालीनाम् अर्ध-भाग-ऊनः । त्रि-भाग-ऊनः वरकाणाम् ॥ ०२।१५।२५ ॥
kodrava-vrīhīṇām ardham sāraḥ . śālīnām ardha-bhāga-ūnaḥ . tri-bhāga-ūnaḥ varakāṇām .. 02.15.25 ..
प्रियङ्गूणां अर्धं सारो नव-भाग-वृद्धिश्च ॥ ०२.१५.२६ ॥
प्रियङ्गूणाम् अर्धम् सारः नव-भाग-वृद्धिः च ॥ ०२।१५।२६ ॥
priyaṅgūṇām ardham sāraḥ nava-bhāga-vṛddhiḥ ca .. 02.15.26 ..
उदारकस्तुल्यः । यवा गो-धूमाश्च क्षुण्णाः । तिला यवा मुद्ग-माषाश्च घृष्टाः ॥ ०२.१५.२७ ॥
उदारकः तुल्यः । यवाः गो-धूमाः च क्षुण्णाः । तिलाः यवाः मुद्ग-माषाः च घृष्टाः ॥ ०२।१५।२७ ॥
udārakaḥ tulyaḥ . yavāḥ go-dhūmāḥ ca kṣuṇṇāḥ . tilāḥ yavāḥ mudga-māṣāḥ ca ghṛṣṭāḥ .. 02.15.27 ..
पञ्च-भाग-वृद्धिर्-गो-धूमः । सक्तवश्च ॥ ०२.१५.२८ ॥
पञ्च-भाग-वृद्धिः गो-धूमः । सक्तवः च ॥ ०२।१५।२८ ॥
pañca-bhāga-vṛddhiḥ go-dhūmaḥ . saktavaḥ ca .. 02.15.28 ..
पाद-ऊना कलाय-चमसी ॥ ०२.१५.२९ ॥
पाद-ऊना कलाय-चमसी ॥ ०२।१५।२९ ॥
pāda-ūnā kalāya-camasī .. 02.15.29 ..
मुद्ग-माषाणां अर्ध-पाद-ऊना ॥ ०२.१५.३० ॥
मुद्ग-माषाणाम् अर्ध-पाद-ऊना ॥ ०२।१५।३० ॥
mudga-māṣāṇām ardha-pāda-ūnā .. 02.15.30 ..
॥ ०२.१५.३१ ।शौम्ब्यानां अर्धं सारः । त्रि-भाग-ऊनो मसूराणां ॥
॥ ०२।१५।३१ ।शौम्ब्यानाम् अर्धम् सारः । त्रि-भाग-ऊनः मसूराणाम् ॥
.. 02.15.31 .śaumbyānām ardham sāraḥ . tri-bhāga-ūnaḥ masūrāṇām ..
पिष्टं आमं कुल्माषाश्चाध्यर्ध-गुणाः ॥ ०२.१५.३२ ॥
पिष्टम् आमम् कुल्माषाः च अध्यर्ध-गुणाः ॥ ०२।१५।३२ ॥
piṣṭam āmam kulmāṣāḥ ca adhyardha-guṇāḥ .. 02.15.32 ..
द्वि-गुणो यावकः । पुलाकः । पिष्टं च सिद्धं ॥ ०२.१५.३३ ॥
द्वि-गुणः यावकः । पुलाकः । पिष्टम् च सिद्धम् ॥ ०२।१५।३३ ॥
dvi-guṇaḥ yāvakaḥ . pulākaḥ . piṣṭam ca siddham .. 02.15.33 ..
कोद्रव-वरक-उदारक-प्रियङ्गूणां त्रि-गुणं अन्नम् । चतुर्-गुणं व्रीहीणाम् । पञ्च-गुणं शालीनां ॥ ०२.१५.३४ ॥
कोद्रव-वरक-उदारक-प्रियङ्गूणाम् त्रि-गुणम् अन्नम् । चतुर्-गुणम् व्रीहीणाम् । पञ्च-गुणम् शालीनाम् ॥ ०२।१५।३४ ॥
kodrava-varaka-udāraka-priyaṅgūṇām tri-guṇam annam . catur-guṇam vrīhīṇām . pañca-guṇam śālīnām .. 02.15.34 ..
तिमितं अपर-अन्नं द्वि-गुणम् । अर्ध-अधिकं विरूढानां ॥ ०२.१५.३५ ॥
तिमितम् अपर-अन्नम् द्वि-गुणम् । अर्ध-अधिकम् विरूढानाम् ॥ ०२।१५।३५ ॥
timitam apara-annam dvi-guṇam . ardha-adhikam virūḍhānām .. 02.15.35 ..
पञ्च-भाग-वृद्धिर्भृष्टानां ॥ ०२.१५.३६ ॥
पञ्च-भाग-वृद्धिः भृष्टानाम् ॥ ०२।१५।३६ ॥
pañca-bhāga-vṛddhiḥ bhṛṣṭānām .. 02.15.36 ..
कलायो द्वि-गुणः । लाजा भरुजाश्च ॥ ०२.१५.३७ ॥
कलायः द्वि-गुणः । लाजाः भरुजाः च ॥ ०२।१५।३७ ॥
kalāyaḥ dvi-guṇaḥ . lājāḥ bharujāḥ ca .. 02.15.37 ..
॥ ०२.१५.३८ ।षट्कं तैलं अतसीनां ॥
॥ ०२।१५।३८ ।षट्कम् तैलम् अतसीनाम् ॥
.. 02.15.38 .ṣaṭkam tailam atasīnām ..
निम्ब-कुश-आम्रक-पित्थ-आदीनां पञ्च-भागः ॥ ०२.१५.३९ ॥
निम्ब-कुश-आम्रक-पित्थ-आदीनाम् पञ्च-भागः ॥ ०२।१५।३९ ॥
nimba-kuśa-āmraka-pittha-ādīnām pañca-bhāgaḥ .. 02.15.39 ..
चतुर्-भागिकास्तिल-कुसुम्भ-मधूक-इङ्गुदी-स्नेहाः ॥ ०२.१५.४० ॥
चतुर्-भागिकाः तिल-कुसुम्भ-मधूक-इङ्गुदी-स्नेहाः ॥ ०२।१५।४० ॥
catur-bhāgikāḥ tila-kusumbha-madhūka-iṅgudī-snehāḥ .. 02.15.40 ..
कार्पास-क्षौमाणां पञ्च-पले पलं सूत्रं ॥ ०२.१५.४१ ॥
कार्पास-क्षौमाणाम् पञ्च-पले पलम् सूत्रम् ॥ ०२।१५।४१ ॥
kārpāsa-kṣaumāṇām pañca-pale palam sūtram .. 02.15.41 ..
पञ्च-द्रोणे शालीनां द्वादश-आढकं तण्डुलानां कलभ-भोजनम् । एकादशकं व्यालानाम् । दशकं औपवाह्यानां नवकं साम्नाह्यानाम् । अष्टकं पत्तीनाम् । सप्तकं मुख्यानाम् । षट्कं देवी-कुमाराणाम् । पञ्चकं राज्ञाम् । अखण्ड-परिशुद्धानां वा तुअण्डुलानां प्रस्थः ॥ ०२.१५.४२ ॥
पञ्च-द्रोणे शालीनाम् द्वादश-आढकम् तण्डुलानाम् कलभ-भोजनम् । एकादशकम् व्यालानाम् । दशकम् औपवाह्यानाम् नवकम् साम्नाह्यानाम् । अष्टकम् पत्तीनाम् । सप्तकम् मुख्यानाम् । । पञ्चकम् राज्ञाम् । अखण्ड-परिशुद्धानाम् वा तुअण्डुलानाम् प्रस्थः ॥ ०२।१५।४२ ॥
pañca-droṇe śālīnām dvādaśa-āḍhakam taṇḍulānām kalabha-bhojanam . ekādaśakam vyālānām . daśakam aupavāhyānām navakam sāmnāhyānām . aṣṭakam pattīnām . saptakam mukhyānām . . pañcakam rājñām . akhaṇḍa-pariśuddhānām vā tuaṇḍulānām prasthaḥ .. 02.15.42 ..
तण्डुलानां प्रस्थः चतुर्-भागः सूपः सूप-षोडशो लवणस्यांशः चतुर्-भागः सर्पिषस्तैलस्य वाएकं आर्य-भक्तं पुंसः ॥ ०२.१५.४३ ॥
तण्डुलानाम् प्रस्थः चतुर्-भागः सूपः सूप-षोडशः लवणस्य अंशः चतुर्-भागः सर्पिषः तैलस्य वा एकम् आर्य-भक्तम् पुंसः ॥ ०२।१५।४३ ॥
taṇḍulānām prasthaḥ catur-bhāgaḥ sūpaḥ sūpa-ṣoḍaśaḥ lavaṇasya aṃśaḥ catur-bhāgaḥ sarpiṣaḥ tailasya vā ekam ārya-bhaktam puṃsaḥ .. 02.15.43 ..
॥ ०२.१५.४४ ।षड्-भागः सूपः अर्ध-स्नेहं अवराणां ॥
॥ ०२।१५।४४ ।षष्-भागः सूपः अर्ध-स्नेहम् अवराणाम् ॥
.. 02.15.44 .ṣaṣ-bhāgaḥ sūpaḥ ardha-sneham avarāṇām ..
पाद-ऊनं स्त्रीणां ॥ ०२.१५.४५ ॥
पाद-ऊनम् स्त्रीणाम् ॥ ०२।१५।४५ ॥
pāda-ūnam strīṇām .. 02.15.45 ..
अर्धं बालानां ॥ ०२.१५.४६ ॥
अर्धम् बालानाम् ॥ ०२।१५।४६ ॥
ardham bālānām .. 02.15.46 ..
मांस-पल-विंशत्या स्नेह-अर्ध-कुडुबः पलिको लवणस्यांशः क्षार-पल-योगो द्वि-धरणिकः कटुक-योगो दध्नुश्चार्ध-प्रस्थः ॥ ०२.१५.४७ ॥
मांस-पल-विंशत्या स्नेह-अर्ध-कुडुबः पलिकः लवणस्य अंशः क्षार-पल-योगः द्वि-धरणिकः कटुक-योगः दध्नुः च अर्ध-प्रस्थः ॥ ०२।१५।४७ ॥
māṃsa-pala-viṃśatyā sneha-ardha-kuḍubaḥ palikaḥ lavaṇasya aṃśaḥ kṣāra-pala-yogaḥ dvi-dharaṇikaḥ kaṭuka-yogaḥ dadhnuḥ ca ardha-prasthaḥ .. 02.15.47 ..
तेनौत्तरं व्याख्यातं ॥ ०२.१५.४८ ॥
तेन औत्तरम् व्याख्यातम् ॥ ०२।१५।४८ ॥
tena auttaram vyākhyātam .. 02.15.48 ..
शाकानां अध्यर्ध-गुणः । शुष्काणां द्वि-गुणः । स चैव योगः ॥ ०२.१५.४९ ॥
शाकानाम् अध्यर्ध-गुणः । शुष्काणाम् द्वि-गुणः । स च एव योगः ॥ ०२।१५।४९ ॥
śākānām adhyardha-guṇaḥ . śuṣkāṇām dvi-guṇaḥ . sa ca eva yogaḥ .. 02.15.49 ..
हस्त्य्-अश्वयोस्तद्-अध्यक्षे विधा-प्रमाणं वक्ष्यामः ॥ ०२.१५.५० ॥
हस्ति-अश्वयोः तद्-अध्यक्षे विधा-प्रमाणम् वक्ष्यामः ॥ ०२।१५।५० ॥
hasti-aśvayoḥ tad-adhyakṣe vidhā-pramāṇam vakṣyāmaḥ .. 02.15.50 ..
बली-वर्दानां माष-द्रोणं यवानां वा पुलाकः । शेषं अश्व-विधानं ॥ ०२.१५.५१ ॥
बली-वर्दानाम् माष-द्रोणम् यवानाम् वा पुलाकः । शेषम् अश्व-विधानम् ॥ ०२।१५।५१ ॥
balī-vardānām māṣa-droṇam yavānām vā pulākaḥ . śeṣam aśva-vidhānam .. 02.15.51 ..
विशेषो घाण-पिण्याक-तुला । कण-कुण्डकं दश-आढकं वा ॥ ०२.१५.५२ ॥
विशेषः घाण-पिण्याक-तुला । कण-कुण्डकम् दश-आढकम् वा ॥ ०२।१५।५२ ॥
viśeṣaḥ ghāṇa-piṇyāka-tulā . kaṇa-kuṇḍakam daśa-āḍhakam vā .. 02.15.52 ..
द्वि-गुणं महिष-उष्ट्राणां ॥ ०२.१५.५३ ॥
द्वि-गुणम् महिष-उष्ट्राणाम् ॥ ०२।१५।५३ ॥
dvi-guṇam mahiṣa-uṣṭrāṇām .. 02.15.53 ..
अर्ध-द्रोणं खर-पृषत-रोहितानां ॥ ०२.१५.५४ ॥
अर्ध-द्रोणम् खर-पृषत-रोहितानाम् ॥ ०२।१५।५४ ॥
ardha-droṇam khara-pṛṣata-rohitānām .. 02.15.54 ..
आढकं एण-कुरङ्गाणां ॥ ०२.१५.५५ ॥
आढकम् एण-कुरङ्गाणाम् ॥ ०२।१५।५५ ॥
āḍhakam eṇa-kuraṅgāṇām .. 02.15.55 ..
अर्ध-आढकं अज-एडक-वराहाणाम् । द्वि-गुणं वा कण-कुण्डकं ॥ ०२.१५.५६ ॥
अर्ध-आढकम् अज-एडक-वराहाणाम् । द्वि-गुणम् वा कण-कुण्डकम् ॥ ०२।१५।५६ ॥
ardha-āḍhakam aja-eḍaka-varāhāṇām . dvi-guṇam vā kaṇa-kuṇḍakam .. 02.15.56 ..
प्रस्थ-ओदनः शुनां ॥ ०२.१५.५७ ॥
प्रस्थ-ओदनः शुनाम् ॥ ०२।१५।५७ ॥
prastha-odanaḥ śunām .. 02.15.57 ..
हंस-क्रौञ्च-मयूराणां अर्ध-प्रस्थः ॥ ०२.१५.५८ ॥
हंस-क्रौञ्च-मयूराणाम् अर्ध-प्रस्थः ॥ ०२।१५।५८ ॥
haṃsa-krauñca-mayūrāṇām ardha-prasthaḥ .. 02.15.58 ..
शेषाणां अतो मृग-पशु-पक्षि-व्यालानां एक-भक्तादनुमानं ग्राहयेत् ॥ ०२.१५.५९ ॥
शेषाणाम् अतस् मृग-पशु-पक्षि-व्यालानाम् एक-भक्तात् अनुमानम् ग्राहयेत् ॥ ०२।१५।५९ ॥
śeṣāṇām atas mṛga-paśu-pakṣi-vyālānām eka-bhaktāt anumānam grāhayet .. 02.15.59 ..
अङ्गारांस्तुषान्लोह-कर्म-अन्त-भित्ति-लेप्यानां हारयेत् ॥ ०२.१५.६० ॥
अङ्गारान् तुषान् लोह-कर्म-अन्त-भित्ति-लेप्यानाम् हारयेत् ॥ ०२।१५।६० ॥
aṅgārān tuṣān loha-karma-anta-bhitti-lepyānām hārayet .. 02.15.60 ..
कणिका दास-कर्म-कर-सूप-काराणाम् । अतोअन्यदौदनिक-अपूपिकेभ्यः प्रयच्छेत् ॥ ०२.१५.६१ ॥
कणिका दास-कर्म-कर-सूप-काराणाम् । अतोअन्यत् औदनिक-अपूपिकेभ्यः प्रयच्छेत् ॥ ०२।१५।६१ ॥
kaṇikā dāsa-karma-kara-sūpa-kārāṇām . atoanyat audanika-apūpikebhyaḥ prayacchet .. 02.15.61 ..
तुला-मान-भाण्डं रोचनी-दृषन्-मुसल-उलूखल-कुट्टक-रोचक-यन्त्र-पत्त्रक-शूर्प-चालनिक-अकण्डोली-पिटक-सम्मार्जन्यश्चौपकरणानि ॥ ०२.१५.६२ ॥
तुला-मान-भाण्डम् रोचनी-दृषद्-मुसल-उलूखल-कुट्टक-रोचक-यन्त्र-पत्त्रक-शूर्प-चालनिक-अ कण्डोली-पिटक-सम्मार्जन्यः च औपकरणानि ॥ ०२।१५।६२ ॥
tulā-māna-bhāṇḍam rocanī-dṛṣad-musala-ulūkhala-kuṭṭaka-rocaka-yantra-pattraka-śūrpa-cālanika-a kaṇḍolī-piṭaka-sammārjanyaḥ ca aupakaraṇāni .. 02.15.62 ..
मार्जक-रक्षक-धरक-मायक-मापक-दायक-दापक-शलाक-अप्रतिग्राहक-दास-कर्म-कर-वर्गश्च विष्टिः ॥ ०२.१५.६३ ॥
मार्जक-रक्षक-धरक-मायक-मापक-दायक-दापक-शलाक-अप्रतिग्राहक-दास-कर्म-कर-वर्गः च विष्टिः ॥ ०२।१५।६३ ॥
mārjaka-rakṣaka-dharaka-māyaka-māpaka-dāyaka-dāpaka-śalāka-apratigrāhaka-dāsa-karma-kara-vargaḥ ca viṣṭiḥ .. 02.15.63 ..
उच्चैर्धान्यस्य निक्षेपो मूताः क्षारस्य संहताः । ॥ ०२.१५.६४अ ब ॥
उच्चैस् धान्यस्य निक्षेपः मूताः क्षारस्य संहताः । ॥ ०२।१५।६४अ ब ॥
uccais dhānyasya nikṣepaḥ mūtāḥ kṣārasya saṃhatāḥ . .. 02.15.64a ba ..
मृत्-काष्ठ-कोष्ठाः स्नेहस्य पृथिवी लवणस्य च ॥ ०२.१५.६४च्द् ॥
मृद्-काष्ठ-कोष्ठाः स्नेहस्य पृथिवी लवणस्य च ॥ ०२।१५।६४च् ॥
mṛd-kāṣṭha-koṣṭhāḥ snehasya pṛthivī lavaṇasya ca .. 02.15.64c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In