| |
|

This overlay will guide you through the buttons:

गो-अध्यक्षो वेतन-उपग्राहिकं कर-प्रतिकरं भग्न-उत्सृष्टकं भाग-अनुप्रविष्टकं व्रज-पर्यग्रं नष्टं विनष्टं क्षीर-घृत-संजातं चौपलभेत ॥ ०२.२९.०१ ॥
गो-अध्यक्षः वेतन-उपग्राहिकम् कर-प्रतिकरम् भग्न-उत्सृष्टकम् भाग-अनुप्रविष्टकम् व्रज-पर्यग्रम् नष्टम् विनष्टम् क्षीर-घृत-संजातम् च उपलभेत ॥ ०२।२९।०१ ॥
go-adhyakṣaḥ vetana-upagrāhikam kara-pratikaram bhagna-utsṛṣṭakam bhāga-anupraviṣṭakam vraja-paryagram naṣṭam vinaṣṭam kṣīra-ghṛta-saṃjātam ca upalabheta .. 02.29.01 ..
गो-पालक-पिण्डारक-दोहक-मन्थक-लुब्धकाः शतं शतं धेनूनां हिरण्य-भृताः पालयेयुः ॥ ०२.२९.०२ ॥
गो-पालक-पिण्डारक-दोहक-मन्थक-लुब्धकाः शतम् शतम् धेनूनाम् हिरण्य-भृताः पालयेयुः ॥ ०२।२९।०२ ॥
go-pālaka-piṇḍāraka-dohaka-manthaka-lubdhakāḥ śatam śatam dhenūnām hiraṇya-bhṛtāḥ pālayeyuḥ .. 02.29.02 ..
क्षीर-घृत-भृता हि वत्सानुपहन्युः इति वेतन-उपग्राहिकं ॥ ०२.२९.०३ ॥
क्षीर-घृत-भृताः हि वत्सान् उपहन्युः इति वेतन-उपग्राहिकम् ॥ ०२।२९।०३ ॥
kṣīra-ghṛta-bhṛtāḥ hi vatsān upahanyuḥ iti vetana-upagrāhikam .. 02.29.03 ..
जरद्गु-धेनु-गर्भिणी-पष्ठौही-वत्सतरीणां सम-विभागं रूप-शतं एकः पालयेत् ॥ ०२.२९.०४ ॥
जरद्गु-धेनु-गर्भिणी-पष्ठौही-वत्सतरीणाम् सम-विभागम् रूप-शतम् एकः पालयेत् ॥ ०२।२९।०४ ॥
jaradgu-dhenu-garbhiṇī-paṣṭhauhī-vatsatarīṇām sama-vibhāgam rūpa-śatam ekaḥ pālayet .. 02.29.04 ..
घृतस्याष्टौ वारकान्पणिकं पुच्छं अङ्क-चर्म च वार्षिकं दद्यात् इति कर-प्रतिकरः ॥ ०२.२९.०५ ॥
घृतस्य अष्टौ पुच्छम् अङ्क-चर्म च वार्षिकम् दद्यात् इति कर-प्रतिकरः ॥ ०२।२९।०५ ॥
ghṛtasya aṣṭau puccham aṅka-carma ca vārṣikam dadyāt iti kara-pratikaraḥ .. 02.29.05 ..
व्याधिता-न्यङ्गा-अनन्य-दोही-दुर्दोहा-पुत्रघ्नीनां च सम-विभागं रूप-शतं पालयन्तस्तज्-जातिकं भागं दद्युः इति भग्न-उत्षृष्टकं ॥ ०२.२९.०६ ॥
व्याधित-अन्यङ्ग-अनन्य-दोही-दुर्दोह-पुत्रघ्नीनाम् च सम-विभागम् रूप-शतम् पालयन्तः तद्-जातिकम् भागम् दद्युः इति भग्न-उत्षृष्टकम् ॥ ०२।२९।०६ ॥
vyādhita-anyaṅga-ananya-dohī-durdoha-putraghnīnām ca sama-vibhāgam rūpa-śatam pālayantaḥ tad-jātikam bhāgam dadyuḥ iti bhagna-utṣṛṣṭakam .. 02.29.06 ..
पर-चक्र-अटवी-भयादनुप्रविष्टानां पशूनां पालन-धर्मेण दश-भगं दद्युः इति भाग-अनुप्रविष्टकं ॥ ०२.२९.०७ ॥
पर-चक्र-अटवी-भयात् अनुप्रविष्टानाम् पशूनाम् पालन-धर्मेण दश-भगम् दद्युः इति भाग-अनुप्रविष्टकम् ॥ ०२।२९।०७ ॥
para-cakra-aṭavī-bhayāt anupraviṣṭānām paśūnām pālana-dharmeṇa daśa-bhagam dadyuḥ iti bhāga-anupraviṣṭakam .. 02.29.07 ..
वत्सा वत्सतरा दम्या वहिनो वृषा उक्षाणश्च पुंगवाः । युग-वाहन-शकट-वहा वृषभाः सूना-महिषाः पृष्ट-स्कन्ध-वाहिनश्च महिषाः । वत्सिका वत्सतरी पष्टहुही गर्भिणी धेनुश्चाप्रजाता वन्ध्याश्च गावो महिष्यश्च । मास-द्वि-मास-जातास्तासां उपजा वत्सा वत्सिकाश्च ॥ ०२.२९.०८ ॥
वत्साः वत्सतराः दम्याः वहिनः वृषाः उक्षाणः च पुंगवाः । युग-वाहन-शकट-वहाः वृषभाः सूना-महिषाः पृष्ट-स्कन्ध-वाहिनः च महिषाः । वत्सिका वत्सतरी पष्टहुही गर्भिणी धेनुः च अप्रजाता वन्ध्याः च गावः महिष्यः च । मास-द्वि-मास-जाताः तासाम् उपजाः वत्साः वत्सिकाः च ॥ ०२।२९।०८ ॥
vatsāḥ vatsatarāḥ damyāḥ vahinaḥ vṛṣāḥ ukṣāṇaḥ ca puṃgavāḥ . yuga-vāhana-śakaṭa-vahāḥ vṛṣabhāḥ sūnā-mahiṣāḥ pṛṣṭa-skandha-vāhinaḥ ca mahiṣāḥ . vatsikā vatsatarī paṣṭahuhī garbhiṇī dhenuḥ ca aprajātā vandhyāḥ ca gāvaḥ mahiṣyaḥ ca . māsa-dvi-māsa-jātāḥ tāsām upajāḥ vatsāḥ vatsikāḥ ca .. 02.29.08 ..
मास-द्वि-मास-जातानङ्कयेत् ॥ ०२.२९.०९ ॥
मास-द्वि-मास-जातान् अङ्कयेत् ॥ ०२।२९।०९ ॥
māsa-dvi-māsa-jātān aṅkayet .. 02.29.09 ..
मास-द्वि-मास-पर्युषितं अङ्कयेत् ॥ ०२.२९.१० ॥
मास-द्वि-मास-पर्युषितम् अङ्कयेत् ॥ ०२।२९।१० ॥
māsa-dvi-māsa-paryuṣitam aṅkayet .. 02.29.10 ..
अङ्कं चिह्नं वर्णं शृङ्ग-अन्तरं च लक्षणं एवं उपजा निबन्धयेत् इति व्रज-पर्यग्रं ॥ ०२.२९.११ ॥
अङ्कम् चिह्नम् वर्णम् शृङ्ग-अन्तरम् च लक्षणम् एवम् उपजाः निबन्धयेत् इति व्रज-पर्यग्रम् ॥ ०२।२९।११ ॥
aṅkam cihnam varṇam śṛṅga-antaram ca lakṣaṇam evam upajāḥ nibandhayet iti vraja-paryagram .. 02.29.11 ..
चोर-हृतं अन्य-यूथ-प्रविष्टं अवलीनं वा नष्टं ॥ ०२.२९.१२ ॥
चोर-हृतम् अन्य-यूथ-प्रविष्टम् अवलीनम् वा नष्टम् ॥ ०२।२९।१२ ॥
cora-hṛtam anya-yūtha-praviṣṭam avalīnam vā naṣṭam .. 02.29.12 ..
पङ्क-विषम-व्याधि-जरा-तोय-आहार-अवसन्नं वृक्ष-तट-काष्ठ-शिला-अभिहतं ईशान-व्याल-सर्प-ग्राह-दाव-अग्नि-विपन्नं विनष्टं ॥ ०२.२९.१३ ॥
पङ्क-विषम-व्याधि-जरा-तोय-आहार-अवसन्नम् वृक्ष-तट-काष्ठ-शिला-अभिहतम् ईशान-व्याल-सर्प-ग्राह-दाव-अग्नि-विपन्नम् विनष्टम् ॥ ०२।२९।१३ ॥
paṅka-viṣama-vyādhi-jarā-toya-āhāra-avasannam vṛkṣa-taṭa-kāṣṭha-śilā-abhihatam īśāna-vyāla-sarpa-grāha-dāva-agni-vipannam vinaṣṭam .. 02.29.13 ..
प्रमादादभ्यावहेयुः ॥ ०२.२९.१४ ॥
प्रमादात् अभ्यावहेयुः ॥ ०२।२९।१४ ॥
pramādāt abhyāvaheyuḥ .. 02.29.14 ..
एवं रूप-अग्रं विद्यात् ॥ ०२.२९.१५ ॥
एवम् रूप-अग्रम् विद्यात् ॥ ०२।२९।१५ ॥
evam rūpa-agram vidyāt .. 02.29.15 ..
स्वयं हन्ता घातयिता हर्ता हारयिता च वध्यः ॥ ०२.२९.१६ ॥
स्वयम् हन्ता घातयिता हर्ता हारयिता च वध्यः ॥ ०२।२९।१६ ॥
svayam hantā ghātayitā hartā hārayitā ca vadhyaḥ .. 02.29.16 ..
पर-पशूनां राज-अङ्केन परिवर्तयिता रूपस्य पूर्वं साहस-दण्डं दद्यात् ॥ ०२.२९.१७ ॥
पर-पशूनाम् राज-अङ्केन परिवर्तयिता रूपस्य पूर्वम् साहस-दण्डम् दद्यात् ॥ ०२।२९।१७ ॥
para-paśūnām rāja-aṅkena parivartayitā rūpasya pūrvam sāhasa-daṇḍam dadyāt .. 02.29.17 ..
स्व-देशीयानां चोर-हृतं प्रत्यानीय पणितं रूपं हरेत् ॥ ०२.२९.१८ ॥
स्व-देशीयानाम् चोर-हृतम् प्रत्यानीय पणितम् रूपम् हरेत् ॥ ०२।२९।१८ ॥
sva-deśīyānām cora-hṛtam pratyānīya paṇitam rūpam haret .. 02.29.18 ..
पर-देशीयानां मोक्षयिताअर्धं हरेत् ॥ ०२.२९.१९ ॥
पर-देशीयानाम् मोक्षयिता अर्धम् हरेत् ॥ ०२।२९।१९ ॥
para-deśīyānām mokṣayitā ardham haret .. 02.29.19 ..
बाल-वृद्ध-व्याधितानां गो-पालकाः प्रतिकुर्युः ॥ ०२.२९.२० ॥
बाल-वृद्ध-व्याधितानाम् गो-पालकाः प्रतिकुर्युः ॥ ०२।२९।२० ॥
bāla-vṛddha-vyādhitānām go-pālakāḥ pratikuryuḥ .. 02.29.20 ..
लुब्धक-श्व-गणिभिरपास्तस्तेनाव्याल-पराबाध-भयं ऋतु-विभक्तं अरण्यं चारयेयुः ॥ ०२.२९.२१ ॥
लुब्धक-श्व-गणिभिः अपास्तः तेन अ व्याल-पराबाध-भयम् ऋतु-विभक्तम् अरण्यम् चारयेयुः ॥ ०२।२९।२१ ॥
lubdhaka-śva-gaṇibhiḥ apāstaḥ tena a vyāla-parābādha-bhayam ṛtu-vibhaktam araṇyam cārayeyuḥ .. 02.29.21 ..
सर्प-व्याल-त्रासन-अर्थं गो-चर-अनुपात-ज्ञान-अर्थं च त्रस्नूनां घण्टा-तूर्यं च बध्नीयुः ॥ ०२.२९.२२ ॥
सर्प-व्याल-त्रासन-अर्थम् गो-चर-अनुपात-ज्ञान-अर्थम् च त्रस्नूनाम् घण्टा-तूर्यम् च बध्नीयुः ॥ ०२।२९।२२ ॥
sarpa-vyāla-trāsana-artham go-cara-anupāta-jñāna-artham ca trasnūnām ghaṇṭā-tūryam ca badhnīyuḥ .. 02.29.22 ..
सम-व्यूढ-तीर्थं अकर्दम-ग्राहं उदकं अवतारयेयुः पालयेयुश्च ॥ ०२.२९.२३ ॥
सम-व्यूढ-तीर्थम् अ कर्दम-ग्राहम् उदकम् अवतारयेयुः पालयेयुः च ॥ ०२।२९।२३ ॥
sama-vyūḍha-tīrtham a kardama-grāham udakam avatārayeyuḥ pālayeyuḥ ca .. 02.29.23 ..
स्तेन-व्याल-सर्प-ग्राह-गृहीतं व्याधि-जरा-अवसन्नं चऽवेदयेयुः । अन्यथा रूप-मूल्यं भजेरन् ॥ ०२.२९.२४ ॥
स्तेन-व्याल-सर्प-ग्राह-गृहीतम् व्याधि-जरा-अवसन्नम् च आवेदयेयुः । अन्यथा रूप-मूल्यम् भजेरन् ॥ ०२।२९।२४ ॥
stena-vyāla-sarpa-grāha-gṛhītam vyādhi-jarā-avasannam ca āvedayeyuḥ . anyathā rūpa-mūlyam bhajeran .. 02.29.24 ..
कारण-मृतस्याङ्क-चर्म गो-महिषस्य । कर्ण-लक्षणं अज-अविकानाम् । पुच्छं अङ्क-चर्म चाश्व-खर-उष्ट्राणाम् । बाल-चर्म-बस्ति-पित्त-स्नायु-दन्त-खुर-शृङ्ग-अस्थीनि चऽहरेयुः ॥ ०२.२९.२५ ॥
कारण-मृतस्य अङ्क-चर्म गो-महिषस्य । कर्ण-लक्षणम् अज-अविकानाम् । पुच्छम् अङ्क-चर्म च अश्व-खर-उष्ट्राणाम् । बाल-चर्म-वस्ति-पित्त-स्नायु-दन्त-खुर-शृङ्ग-अस्थीनि च आहरेयुः ॥ ०२।२९।२५ ॥
kāraṇa-mṛtasya aṅka-carma go-mahiṣasya . karṇa-lakṣaṇam aja-avikānām . puccham aṅka-carma ca aśva-khara-uṣṭrāṇām . bāla-carma-vasti-pitta-snāyu-danta-khura-śṛṅga-asthīni ca āhareyuḥ .. 02.29.25 ..
मांसं आर्द्रं शुष्कं वा विक्रीणीयुः ॥ ०२.२९.२६ ॥
मांसम् आर्द्रम् शुष्कम् वा विक्रीणीयुः ॥ ०२।२९।२६ ॥
māṃsam ārdram śuṣkam vā vikrīṇīyuḥ .. 02.29.26 ..
उदश्वित्-श्व-वराहेभ्यो दद्युः ॥ ०२.२९.२७ ॥
उदश्वित्-श्व-वराहेभ्यः दद्युः ॥ ०२।२९।२७ ॥
udaśvit-śva-varāhebhyaḥ dadyuḥ .. 02.29.27 ..
कूर्चिकां सेना-भक्त-अर्थं आहरेयुः ॥ ०२.२९.२८ ॥
कूर्चिकाम् सेना-भक्त-अर्थम् आहरेयुः ॥ ०२।२९।२८ ॥
kūrcikām senā-bhakta-artham āhareyuḥ .. 02.29.28 ..
किलाटो घाण-पिण्याक-क्लेद-अर्थः ॥ ०२.२९.२९ ॥
किलाटः घाण-पिण्याक-क्लेद-अर्थः ॥ ०२।२९।२९ ॥
kilāṭaḥ ghāṇa-piṇyāka-kleda-arthaḥ .. 02.29.29 ..
पशु-विक्रेता पादिकं रूपं दद्यात् ॥ ०२.२९.३० ॥
पशु-विक्रेता पादिकम् रूपम् दद्यात् ॥ ०२।२९।३० ॥
paśu-vikretā pādikam rūpam dadyāt .. 02.29.30 ..
वर्षा-शरद्द्-हेमन्तानुभयतः-कालं दुह्युः । शिशिर-वसन्त-ग्रीष्मानेक-कालं ॥ ०२.२९.३१ ॥
वर्षा-शरद्-हेमन्त-अनुभयतस् कालम् दुह्युः । शिशिर-वसन्त-ग्रीष्म-अनेक-कालम् ॥ ०२।२९।३१ ॥
varṣā-śarad-hemanta-anubhayatas kālam duhyuḥ . śiśira-vasanta-grīṣma-aneka-kālam .. 02.29.31 ..
द्वितीय-काल-दोग्धुरङ्गुष्ठच्-छेदो दण्डः ॥ ०२.२९.३२ ॥
द्वितीय-काल-दोग्धुः अङ्गुष्ठ-छेदः दण्डः ॥ ०२।२९।३२ ॥
dvitīya-kāla-dogdhuḥ aṅguṣṭha-chedaḥ daṇḍaḥ .. 02.29.32 ..
दोहन-कालं अतिक्रामतस्तत्-फल-हानं दण्डः ॥ ०२.२९.३३ ॥
दोहन-कालम् अतिक्रामतः तद्-फल-हानम् दण्डः ॥ ०२।२९।३३ ॥
dohana-kālam atikrāmataḥ tad-phala-hānam daṇḍaḥ .. 02.29.33 ..
एतेन नस्य-दम्य-युग-पिङ्गन-वर्तन-काला व्याख्याताः ॥ ०२.२९.३४ ॥
एतेन नस्य-दम्य-युग-पिङ्गन-वर्तन-कालाः व्याख्याताः ॥ ०२।२९।३४ ॥
etena nasya-damya-yuga-piṅgana-vartana-kālāḥ vyākhyātāḥ .. 02.29.34 ..
क्षीर-द्रोणे गवां घृत-प्रस्थः । पञ्च-भाग-अधिको महिषीणाम् । द्वि-भाग-अधिकोअज-अवीनां ॥ ०२.२९.३५ ॥
क्षीर-द्रोणे गवाम् घृत-प्रस्थः । पञ्च-भाग-अधिकः महिषीणाम् । द्वि-भाग-अधिक-ऊअज-अवीनाम् ॥ ०२।२९।३५ ॥
kṣīra-droṇe gavām ghṛta-prasthaḥ . pañca-bhāga-adhikaḥ mahiṣīṇām . dvi-bhāga-adhika-ūaja-avīnām .. 02.29.35 ..
मन्थो वा सर्वेषां प्रमाणं ॥ ०२.२९.३६ ॥
मन्थः वा सर्वेषाम् प्रमाणम् ॥ ०२।२९।३६ ॥
manthaḥ vā sarveṣām pramāṇam .. 02.29.36 ..
भूमि-तृण-उदक-विशेषाद्द्हि क्षीर-घृत-वृद्धिर्भवति ॥ ०२.२९.३७ ॥
भूमि-तृण-उदक-विशेषात् हि क्षीर-घृत-वृद्धिः भवति ॥ ०२।२९।३७ ॥
bhūmi-tṛṇa-udaka-viśeṣāt hi kṣīra-ghṛta-vṛddhiḥ bhavati .. 02.29.37 ..
यूथ-वृषं वृषेणावपातयतः पूर्वः साहस-दण्डः । घातयत उत्तमः ॥ ०२.२९.३८ ॥
यूथ-वृषम् वृषेण अवपातयतः पूर्वः साहस-दण्डः । घातयतः उत्तमः ॥ ०२।२९।३८ ॥
yūtha-vṛṣam vṛṣeṇa avapātayataḥ pūrvaḥ sāhasa-daṇḍaḥ . ghātayataḥ uttamaḥ .. 02.29.38 ..
वर्ण-अवरोधेन दशती रक्षा ॥ ०२.२९.३९ ॥
वर्ण-अवरोधेन दशती रक्षा ॥ ०२।२९।३९ ॥
varṇa-avarodhena daśatī rakṣā .. 02.29.39 ..
उपनिवेश-दिग्-विभागो गो-प्रचाराद्बलान्वयतो वा गवां रक्षा-सामर्थ्याच्च ॥ ०२.२९.४० ॥
उप निवेश-दिश्-विभागः गो-प्रचारात् बल-अन्वयतः वा गवाम् रक्षा-सामर्थ्यात् च ॥ ०२।२९।४० ॥
upa niveśa-diś-vibhāgaḥ go-pracārāt bala-anvayataḥ vā gavām rakṣā-sāmarthyāt ca .. 02.29.40 ..
अजावीनां षण्-मासिकी-मूर्णां ग्राहयेत् ॥ ०२.२९.४१ ॥
अज-अवीनाम् षष्-मासिकी मूर्णाम् ग्राहयेत् ॥ ०२।२९।४१ ॥
aja-avīnām ṣaṣ-māsikī mūrṇām grāhayet .. 02.29.41 ..
तेनाश्व-खर-उष्ट्र-वराह-व्रजा व्याख्याताः ॥ ०२.२९.४२ ॥
तेन अश्व-खर-उष्ट्र-वराह-व्रजाः व्याख्याताः ॥ ०२।२९।४२ ॥
tena aśva-khara-uṣṭra-varāha-vrajāḥ vyākhyātāḥ .. 02.29.42 ..
बलीवर्दानां नस्य-अश्व-भद्र-गति-वाहिनां यव-सस्य-अर्ध-भारस्तृणस्य द्वि-गुणम् । तुला घाण-पिण्याकस्य । दश-आढकं कण-कुण्डकस्य । पञ्च-पलिकं मुख-लवनाम् । तैल-कुडुबो नस्यं प्रस्थः पानं । मांस-तुला । दध्नश्चऽढकम् । यव-द्रोणं माषाणां वा पुलाकः । क्षीर-द्रोणं अर्ध-आढकं वा सुरायाः स्नेह-प्रस्थः क्षार-दश-पलं शृङ्गिबेर-पलं च प्रतिपानं ॥ ०२.२९.४३ ॥
बलीवर्दानाम् नस्य-अश्व-भद्र-गति-वाहिनाम् यव-सस्य-अर्ध-भारः तृणस्य द्वि-गुणम् । तुला घाण-पिण्याकस्य । दश-आढकम् कण-कुण्डकस्य । पञ्च-पलिकम् मुख-लवनाम् । तैल-कुडुबः नस्यम् प्रस्थः पानम् । मांस-तुला । दध्नः च अढकम् । यव-द्रोणम् माषाणाम् वा पुलाकः । क्षीर-द्रोणम् अर्ध-आढकम् वा सुरायाः स्नेह-प्रस्थः क्षार-दश-पलम् शृङ्गिबेर-पलम् च प्रतिपानम् ॥ ०२।२९।४३ ॥
balīvardānām nasya-aśva-bhadra-gati-vāhinām yava-sasya-ardha-bhāraḥ tṛṇasya dvi-guṇam . tulā ghāṇa-piṇyākasya . daśa-āḍhakam kaṇa-kuṇḍakasya . pañca-palikam mukha-lavanām . taila-kuḍubaḥ nasyam prasthaḥ pānam . māṃsa-tulā . dadhnaḥ ca aḍhakam . yava-droṇam māṣāṇām vā pulākaḥ . kṣīra-droṇam ardha-āḍhakam vā surāyāḥ sneha-prasthaḥ kṣāra-daśa-palam śṛṅgibera-palam ca pratipānam .. 02.29.43 ..
पाद-ऊनं अश्वतर-गो-खराणाम् । द्वि-गुणं महिष-उष्ट्राणां ॥ ०२.२९.४४ ॥
पाद-ऊनम् अश्वतर-गो-खराणाम् । द्वि-गुणम् महिष-उष्ट्राणाम् ॥ ०२।२९।४४ ॥
pāda-ūnam aśvatara-go-kharāṇām . dvi-guṇam mahiṣa-uṣṭrāṇām .. 02.29.44 ..
कर्म-कर-बलीवर्दानां पायन-अर्थानां च धेनूनां कर्म-कालतः फलतश्च विधा-दानं ॥ ०२.२९.४५ ॥
कर्म-कर-बलीवर्दानाम् पायन-अर्थानाम् च धेनूनाम् कर्म-कालतः फलतः च विधा-दानम् ॥ ०२।२९।४५ ॥
karma-kara-balīvardānām pāyana-arthānām ca dhenūnām karma-kālataḥ phalataḥ ca vidhā-dānam .. 02.29.45 ..
सर्वेषां तृण-उदक-प्राकाम्यं ॥ ०२.२९.४६ ॥
सर्वेषाम् तृण-उदक-प्राकाम्यम् ॥ ०२।२९।४६ ॥
sarveṣām tṛṇa-udaka-prākāmyam .. 02.29.46 ..
इति गो-मण्डलं व्याख्यातं ॥ ०२.२९.४७ ॥
इति गो-मण्डलम् व्याख्यातम् ॥ ०२।२९।४७ ॥
iti go-maṇḍalam vyākhyātam .. 02.29.47 ..
पञ्च-ऋषभं खर-अश्वानां अज-अवीनां दश-ऋषभं । ॥ ०२.२९.४८अ ब ॥
पञ्च-ऋषभम् खर-अश्वानाम् अज-अवीनाम् दश-ऋषभम् । ॥ ०२।२९।४८अ ब ॥
pañca-ṛṣabham khara-aśvānām aja-avīnām daśa-ṛṣabham . .. 02.29.48a ba ..
शत्यं गो-महिष-उष्ट्राणां यूथं कुर्याच्चतुर्-वृषं ॥ ०२.२९.४८च्द् ॥
शत्यम् गो-महिष-उष्ट्राणाम् यूथम् कुर्यात् चतुर्-वृषम् ॥ ०२।२९।४८च् ॥
śatyam go-mahiṣa-uṣṭrāṇām yūtham kuryāt catur-vṛṣam .. 02.29.48c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In