| |
|

This overlay will guide you through the buttons:

दूष्येभ्यः शत्रुभ्यश्च द्विविधा शुद्धा ॥ ०९.६.०१ ॥
दूष्येभ्यः शत्रुभ्यः च द्विविधा शुद्धा ॥ ०९।६।०१ ॥
dūṣyebhyaḥ śatrubhyaḥ ca dvividhā śuddhā .. 09.6.01 ..
दूष्य-शुद्धायां पौरेषु जानपदेषु वा दण्ड-वर्जानुपायान्प्रयुञ्जीत ॥ ०९.६.०२ ॥
दूष्य-शुद्धायाम् पौरेषु जानपदेषु वा दण्ड-वर्जान् उपायान् प्रयुञ्जीत ॥ ०९।६।०२ ॥
dūṣya-śuddhāyām paureṣu jānapadeṣu vā daṇḍa-varjān upāyān prayuñjīta .. 09.6.02 ..
दण्डो हि महा-जने क्षेप्तुं अशक्यः ॥ ०९.६.०३ ॥
दण्डः हि महा-जने क्षेप्तुम् अशक्यः ॥ ०९।६।०३ ॥
daṇḍaḥ hi mahā-jane kṣeptum aśakyaḥ .. 09.6.03 ..
क्षिप्तो वा तं चार्थं न कुर्यात् । अन्यं चानर्थं उत्पादयेत् ॥ ०९.६.०४ ॥
क्षिप्तः वा तम् च अर्थम् न कुर्यात् । अन्यम् च अनर्थम् उत्पादयेत् ॥ ०९।६।०४ ॥
kṣiptaḥ vā tam ca artham na kuryāt . anyam ca anartham utpādayet .. 09.6.04 ..
मुख्येषु त्वेषां दाण्ड-कर्मिकवच्चेष्टेत ॥ ०९.६.०५ ॥
मुख्येषु तु एषाम् दाण्ड-कर्मिक-वत् चेष्टेत ॥ ०९।६।०५ ॥
mukhyeṣu tu eṣām dāṇḍa-karmika-vat ceṣṭeta .. 09.6.05 ..
शत्रु-शुद्धायां यतः शत्रुः प्रधानः कार्यो वा ततः साम-आदिभिः सिद्धिं लिप्सेत ॥ ०९.६.०६ ॥
शत्रु-शुद्धायाम् यतस् शत्रुः प्रधानः कार्यः वा ततस् साम-आदिभिः सिद्धिम् लिप्सेत ॥ ०९।६।०६ ॥
śatru-śuddhāyām yatas śatruḥ pradhānaḥ kāryaḥ vā tatas sāma-ādibhiḥ siddhim lipseta .. 09.6.06 ..
स्वामिन्यायत्ता प्रधान-सिद्धिः । मन्त्रिष्वायत्ताआयत्त-सिद्धिः । उभय-आयत्ता प्रधान-आयत्त-सिद्धिः ॥ ०९.६.०७ ॥
। मन्त्रिषु आयत्त-अ आयत्त-सिद्धिः । उभय-आयत्ता प्रधान-आयत्त-सिद्धिः ॥ ०९।६।०७ ॥
. mantriṣu āyatta-a āyatta-siddhiḥ . ubhaya-āyattā pradhāna-āyatta-siddhiḥ .. 09.6.07 ..
दूष्य-अदूष्याणां आमिश्रितत्वादामिश्रा ॥ ०९.६.०८ ॥
दूष्य-अ दूष्याणाम् आमिश्रित-त्वात् आमिश्रा ॥ ०९।६।०८ ॥
dūṣya-a dūṣyāṇām āmiśrita-tvāt āmiśrā .. 09.6.08 ..
आमिश्रायां अदूष्यतः सिद्धिः ॥ ०९.६.०९ ॥
आमिश्रायाम् अ दूष्यतः सिद्धिः ॥ ०९।६।०९ ॥
āmiśrāyām a dūṣyataḥ siddhiḥ .. 09.6.09 ..
आलम्बन-अभावे ह्यालम्बिता न विद्यन्ते ॥ ०९.६.१० ॥
आलम्बन-अभावे हि आलम्बिताः न विद्यन्ते ॥ ०९।६।१० ॥
ālambana-abhāve hi ālambitāḥ na vidyante .. 09.6.10 ..
मित्र-अमित्राणां एकी-भावात्पर-मिश्रा ॥ ०९.६.११ ॥
मित्र-अमित्राणाम् एकीभावात् पर-मिश्रा ॥ ०९।६।११ ॥
mitra-amitrāṇām ekībhāvāt para-miśrā .. 09.6.11 ..
पर-मिश्रायां मित्रतः सिद्धिः ॥ ०९.६.१२ ॥
पर-मिश्रायाम् मित्रतः सिद्धिः ॥ ०९।६।१२ ॥
para-miśrāyām mitrataḥ siddhiḥ .. 09.6.12 ..
सुकरो हि मित्रेण संधिः । नामित्रेणैति ॥ ०९.६.१३ ॥
सुकरः हि मित्रेण संधिः । न अमित्रेण एति ॥ ०९।६।१३ ॥
sukaraḥ hi mitreṇa saṃdhiḥ . na amitreṇa eti .. 09.6.13 ..
मित्रं चेन्न संधिं इच्छेदभीक्ष्णं उपजपेत् ॥ ०९.६.१४ ॥
मित्रम् चेद् न संधिम् इच्छेत् अभीक्ष्णम् उपजपेत् ॥ ०९।६।१४ ॥
mitram ced na saṃdhim icchet abhīkṣṇam upajapet .. 09.6.14 ..
ततः सत्त्रिभिरमित्राद्भेदयित्वा मित्रं लभेत ॥ ०९.६.१५ ॥
ततस् सत्त्रिभिः अमित्रात् भेदयित्वा मित्रम् लभेत ॥ ०९।६।१५ ॥
tatas sattribhiḥ amitrāt bhedayitvā mitram labheta .. 09.6.15 ..
मित्र-संघस्य वा योअन्त-स्थायी तं लभेत ॥ ०९.६.१६ ॥
मित्र-संघस्य वा योअन्त-स्थायी तम् लभेत ॥ ०९।६।१६ ॥
mitra-saṃghasya vā yoanta-sthāyī tam labheta .. 09.6.16 ..
अन्त-स्थायिनि लब्धे मध्य-स्थायिनो भिद्यन्ते ॥ ०९.६.१७ ॥
अन्त-स्थायिनि लब्धे मध्य-स्थायिनः भिद्यन्ते ॥ ०९।६।१७ ॥
anta-sthāyini labdhe madhya-sthāyinaḥ bhidyante .. 09.6.17 ..
मध्य-स्थायिनं वा लभेत ॥ ०९.६.१८ ॥
मध्य-स्थायिनम् वा लभेत ॥ ०९।६।१८ ॥
madhya-sthāyinam vā labheta .. 09.6.18 ..
मध्य-स्थायिनि लब्धे नान्त-स्थायिनः संहन्यन्ते ॥ ०९.६.१९ ॥
मध्य-स्थायिनि लब्धे न अन्त-स्थायिनः संहन्यन्ते ॥ ०९।६।१९ ॥
madhya-sthāyini labdhe na anta-sthāyinaḥ saṃhanyante .. 09.6.19 ..
यथा चएषां आश्रय-भेदस्तानुपायान्प्रयुञ्जीत ॥ ०९.६.२० ॥
यथा च एषाम् आश्रय-भेदः तान् उपायान् प्रयुञ्जीत ॥ ०९।६।२० ॥
yathā ca eṣām āśraya-bhedaḥ tān upāyān prayuñjīta .. 09.6.20 ..
धार्मिकं जाति-कुल-श्रुत-वृत्त-स्तवेन सम्बन्धेन पूर्वेषां त्रैकाल्य-उपकारानपकाराभ्यां वा सान्त्वयेत् ॥ ०९.६.२१ ॥
धार्मिकम् जाति-कुल-श्रुत-वृत्त-स्तवेन सम्बन्धेन पूर्वेषाम् त्रैकाल्य-उपकार-अनपकाराभ्याम् वा सान्त्वयेत् ॥ ०९।६।२१ ॥
dhārmikam jāti-kula-śruta-vṛtta-stavena sambandhena pūrveṣām traikālya-upakāra-anapakārābhyām vā sāntvayet .. 09.6.21 ..
निवृत्त-उत्साहं विग्रह-श्रान्तं प्रतिहत-उपायं क्षय-व्ययाभ्यां प्रवासेन चौपतप्तं शौचेनान्यं लिप्समानं अन्यस्माद्वा शङ्कमानं मैत्री-प्रधानं वा कल्याण-बुद्धिं साम्ना साधयेत् ॥ ०९.६.२२ ॥
निवृत्त-उत्साहम् विग्रह-श्रान्तम् प्रतिहत-उपायम् क्षय-व्ययाभ्याम् प्रवासेन च औपतप्तम् शौचेन अन्यम् लिप्समानम् अन्यस्मात् वा शङ्कमानम् मैत्री-प्रधानम् वा कल्याण-बुद्धिम् साम्ना साधयेत् ॥ ०९।६।२२ ॥
nivṛtta-utsāham vigraha-śrāntam pratihata-upāyam kṣaya-vyayābhyām pravāsena ca aupataptam śaucena anyam lipsamānam anyasmāt vā śaṅkamānam maitrī-pradhānam vā kalyāṇa-buddhim sāmnā sādhayet .. 09.6.22 ..
लुब्धं क्षीणं वा तपस्वि-मुख्य-अवस्थापना-पूर्वं दानेन साधयेत् ॥ ०९.६.२३ ॥
लुब्धम् क्षीणम् वा तपस्वि-मुख्य-अवस्थापना-पूर्वम् दानेन साधयेत् ॥ ०९।६।२३ ॥
lubdham kṣīṇam vā tapasvi-mukhya-avasthāpanā-pūrvam dānena sādhayet .. 09.6.23 ..
तत्पञ्च-विधं देय-विसर्गो गृहीत-अनुवर्तनं आत्त-प्रतिदानं स्व-द्रव्य-दानं अपूर्वं पर-स्वेषु स्वयं-ग्राह-दानं च ॥ ०९.६.२४ ॥
तत् पञ्चविधम् देय-विसर्गः गृहीत-अनुवर्तनम् आत्त-प्रतिदानम् स्व-द्रव्य-दानम् अपूर्वम् पर-स्वेषु स्वयम् ग्राह-दानम् च ॥ ०९।६।२४ ॥
tat pañcavidham deya-visargaḥ gṛhīta-anuvartanam ātta-pratidānam sva-dravya-dānam apūrvam para-sveṣu svayam grāha-dānam ca .. 09.6.24 ..
इति दान-कर्म ॥ ०९.६.२५ ॥
इति दान-कर्म ॥ ०९।६।२५ ॥
iti dāna-karma .. 09.6.25 ..
परस्पर-द्वेष-वैर-भूमि-हरण-शङ्कितं अतोअन्यतमेन भेदयेत् ॥ ०९.६.२६ ॥
परस्पर-द्वेष-वैर-भूमि-हरण-शङ्कितम् अतस् अन्यतमेन भेदयेत् ॥ ०९।६।२६ ॥
paraspara-dveṣa-vaira-bhūmi-haraṇa-śaṅkitam atas anyatamena bhedayet .. 09.6.26 ..
भीरुं वा प्रतिघातेन "कृत-संधिरेष त्वयि कर्म-करिष्यति । मित्रं अस्य निसृष्टम् । संधौ वा नाभ्यन्तरः" इति ॥ ०९.६.२७ ॥
भीरुम् वा प्रतिघातेन "कृत-संधिः एष त्वयि कर्म करिष्यति । मित्रम् अस्य निसृष्टम् । संधौ वा न अभ्यन्तरः" इति ॥ ०९।६।२७ ॥
bhīrum vā pratighātena "kṛta-saṃdhiḥ eṣa tvayi karma kariṣyati . mitram asya nisṛṣṭam . saṃdhau vā na abhyantaraḥ" iti .. 09.6.27 ..
यस्य वा स्व-देशादन्य-देशाद्वा पण्यानि पण्य-अगारतयाआगच्छेयुः तानि अस्य "यातव्याल्लब्धानि" इति सत्त्रिणश्चारयेयुः ॥ ०९.६.२८ ॥
यस्य वा स्व-देशात् अन्य-देशात् वा पण्यानि पण्य-अगार-तया आगच्छेयुः तानि अस्य "यातव्यात् लब्धानि" इति सत्त्रिणः चारयेयुः ॥ ०९।६।२८ ॥
yasya vā sva-deśāt anya-deśāt vā paṇyāni paṇya-agāra-tayā āgaccheyuḥ tāni asya "yātavyāt labdhāni" iti sattriṇaḥ cārayeyuḥ .. 09.6.28 ..
बहुली-भूते शासनं अभित्यक्तेन प्रेषयेत्"एतत्ते पण्यं पण्य-अगारं वा मया ते प्रेषितम् । सामवायिकेषु विक्रमस्व । अपगच्छ वा । ततः पण-शेषं अवाप्स्यसि" इति ॥ ०९.६.२९ ॥
बहुलीभूते शासनम् अभित्यक्तेन प्रेषयेत्"एतत् ते पण्यम् पण्य-अगारम् वा मया ते प्रेषितम् । सामवायिकेषु विक्रमस्व । अपगच्छ वा । ततस् पण-शेषम् अवाप्स्यसि" इति ॥ ०९।६।२९ ॥
bahulībhūte śāsanam abhityaktena preṣayet"etat te paṇyam paṇya-agāram vā mayā te preṣitam . sāmavāyikeṣu vikramasva . apagaccha vā . tatas paṇa-śeṣam avāpsyasi" iti .. 09.6.29 ..
ततः सत्त्रिणः परेषु ग्राहयेयुः "एतदरि-प्रदत्तम्" इति ॥ ०९.६.३० ॥
ततस् सत्त्रिणः परेषु ग्राहयेयुः "एतत् अरि-प्रदत्तम्" इति ॥ ०९।६।३० ॥
tatas sattriṇaḥ pareṣu grāhayeyuḥ "etat ari-pradattam" iti .. 09.6.30 ..
शत्रु-प्रख्यातं वा पण्यं अविज्ञातं विजिगीषुं गच्छेत् ॥ ०९.६.३१ ॥
शत्रु-प्रख्यातम् वा पण्यम् अ विज्ञातम् विजिगीषुम् गच्छेत् ॥ ०९।६।३१ ॥
śatru-prakhyātam vā paṇyam a vijñātam vijigīṣum gacchet .. 09.6.31 ..
तदस्य वैदेहक-व्यञ्जनाः शत्रु-मुख्येषु विक्रीणीरन् ॥ ०९.६.३२ ॥
तत् अस्य वैदेहक-व्यञ्जनाः शत्रु-मुख्येषु विक्रीणीरन् ॥ ०९।६।३२ ॥
tat asya vaidehaka-vyañjanāḥ śatru-mukhyeṣu vikrīṇīran .. 09.6.32 ..
ततः सत्त्रिणः परेषु ग्राहयेयुः "एतत्पण्यं अरि-प्रदत्तम्" इति ॥ ०९.६.३३ ॥
ततस् सत्त्रिणः परेषु ग्राहयेयुः "एतत् पण्यम् अरि-प्रदत्तम्" इति ॥ ०९।६।३३ ॥
tatas sattriṇaḥ pareṣu grāhayeyuḥ "etat paṇyam ari-pradattam" iti .. 09.6.33 ..
महा-अपराधानर्थ-मानाभ्यां उपगृह्य वा शस्त्र-रस-अग्निभिरमित्रे प्रणिदध्यात् ॥ ०९.६.३४ ॥
महा-अपराध-अनर्थ-मानाभ्याम् उपगृह्य वा शस्त्र-रस-अग्निभिः अमित्रे प्रणिदध्यात् ॥ ०९।६।३४ ॥
mahā-aparādha-anartha-mānābhyām upagṛhya vā śastra-rasa-agnibhiḥ amitre praṇidadhyāt .. 09.6.34 ..
अथएकं अमात्यं निष्पातयेत् ॥ ०९.६.३५ ॥
अथ एकम् अमात्यम् निष्पातयेत् ॥ ०९।६।३५ ॥
atha ekam amātyam niṣpātayet .. 09.6.35 ..
तस्य पुत्र-दारं उपगृह्य रात्रौ हतं इति ख्यापयेत् ॥ ०९.६.३६ ॥
तस्य पुत्र-दारम् उपगृह्य रात्रौ हतम् इति ख्यापयेत् ॥ ०९।६।३६ ॥
tasya putra-dāram upagṛhya rātrau hatam iti khyāpayet .. 09.6.36 ..
अथामात्यः शत्रोस्तानेक-एकशः प्ररूपयेत् ॥ ०९.६.३७ ॥
अथ अमात्यः शत्रोः तान् एक-एकशस् प्ररूपयेत् ॥ ०९।६।३७ ॥
atha amātyaḥ śatroḥ tān eka-ekaśas prarūpayet .. 09.6.37 ..
ते चेद्यथा-उक्तं कुर्युर्न चएनान्ग्राहयेत् ॥ ०९.६.३८ ॥
ते चेद् यथा उक्तम् कुर्युः न च एनान् ग्राहयेत् ॥ ०९।६।३८ ॥
te ced yathā uktam kuryuḥ na ca enān grāhayet .. 09.6.38 ..
अशक्तिमतो वा ग्राहयेत् ॥ ०९.६.३९ ॥
अशक्तिमतः वा ग्राहयेत् ॥ ०९।६।३९ ॥
aśaktimataḥ vā grāhayet .. 09.6.39 ..
आप्त-भाव-उपगतो मुख्यादस्यऽत्मानं रक्षणीयं कथयेत् ॥ ०९.६.४० ॥
आप्त-भाव-उपगतः रक्षणीयम् कथयेत् ॥ ०९।६।४० ॥
āpta-bhāva-upagataḥ rakṣaṇīyam kathayet .. 09.6.40 ..
अथामित्र-शासनं मुख्य-उपघाताय प्रेषितं उभय-वेतनो ग्राहयेत् ॥ ०९.६.४१ ॥
अथ अमित्र-शासनम् मुख्य-उपघाताय प्रेषितम् उभय-वेतनः ग्राहयेत् ॥ ०९।६।४१ ॥
atha amitra-śāsanam mukhya-upaghātāya preṣitam ubhaya-vetanaḥ grāhayet .. 09.6.41 ..
उत्साह-शक्तिमतो वा प्रेषयेत्"अमुष्य राज्यं गृहाण । यथा-अस्थितो नः संधिः" इति ॥ ०९.६.४२ ॥
उत्साह-शक्तिमतः वा प्रेषयेत्"अमुष्य राज्यम् गृहाण । यथा अस्थितः नः संधिः" इति ॥ ०९।६।४२ ॥
utsāha-śaktimataḥ vā preṣayet"amuṣya rājyam gṛhāṇa . yathā asthitaḥ naḥ saṃdhiḥ" iti .. 09.6.42 ..
ततः सत्त्रिणः परेषु ग्राहयेयुः ॥ ०९.६.४३ ॥
ततस् सत्त्रिणः परेषु ग्राहयेयुः ॥ ०९।६।४३ ॥
tatas sattriṇaḥ pareṣu grāhayeyuḥ .. 09.6.43 ..
एकस्य स्कन्ध-आवारं वीवधं आसारं वा घातयेयुः ॥ ०९.६.४४ ॥
एकस्य स्कन्ध-आवारम् वीवधम् आसारम् वा घातयेयुः ॥ ०९।६।४४ ॥
ekasya skandha-āvāram vīvadham āsāram vā ghātayeyuḥ .. 09.6.44 ..
इतरेषु मैत्रीं ब्रुवाणाः "त्वं एतेषां घातयितव्यः" इत्युपजपेयुः ॥ ०९.६.४५ ॥
इतरेषु मैत्रीम् ब्रुवाणाः "त्वम् एतेषाम् घातयितव्यः" इति उपजपेयुः ॥ ०९।६।४५ ॥
itareṣu maitrīm bruvāṇāḥ "tvam eteṣām ghātayitavyaḥ" iti upajapeyuḥ .. 09.6.45 ..
यस्य वा प्रवीर-पुरुषो हस्ती हयो वा म्रियेत गूढ-पुरुषैर्हन्येत ह्रियेत वा सत्त्रिणः परस्पर-उपहतं ब्रूयुः ॥ ०९.६.४६ ॥
यस्य वा प्रवीर-पुरुषः हस्ती हयः वा म्रियेत गूढ-पुरुषैः हन्येत ह्रियेत वा सत्त्रिणः परस्पर-उपहतम् ब्रूयुः ॥ ०९।६।४६ ॥
yasya vā pravīra-puruṣaḥ hastī hayaḥ vā mriyeta gūḍha-puruṣaiḥ hanyeta hriyeta vā sattriṇaḥ paraspara-upahatam brūyuḥ .. 09.6.46 ..
ततः शासनं अभिशस्तस्य प्रेषयेत्"भूयः कुरु ततः पण-शीषं अवाप्स्यसि" इति ॥ ०९.६.४७ ॥
ततस् शासनम् अभिशस्तस्य प्रेषयेत्"भूयस् कुरु ततस् पण-शीषम् अवाप्स्यसि" इति ॥ ०९।६।४७ ॥
tatas śāsanam abhiśastasya preṣayet"bhūyas kuru tatas paṇa-śīṣam avāpsyasi" iti .. 09.6.47 ..
तदुभय-वेतना ग्राहयेयुः ॥ ०९.६.४८ ॥
तद्-उभय-वेतनाः ग्राहयेयुः ॥ ०९।६।४८ ॥
tad-ubhaya-vetanāḥ grāhayeyuḥ .. 09.6.48 ..
भिन्नेष्वन्यतमं लभेत ॥ ०९.६.४९ ॥
भिन्नेषु अन्यतमम् लभेत ॥ ०९।६।४९ ॥
bhinneṣu anyatamam labheta .. 09.6.49 ..
तेन सेना-पति-कुमार-दण्ड-चारिणो व्याख्याताः ॥ ०९.६.५० ॥
तेन सेना-पति-कुमार-दण्ड-चारिणः व्याख्याताः ॥ ०९।६।५० ॥
tena senā-pati-kumāra-daṇḍa-cāriṇaḥ vyākhyātāḥ .. 09.6.50 ..
सांधिकं च भेदं प्रयुञ्जीत ॥ ०९.६.५१ ॥
सांधिकम् च भेदम् प्रयुञ्जीत ॥ ०९।६।५१ ॥
sāṃdhikam ca bhedam prayuñjīta .. 09.6.51 ..
इति भेद-कर्म ॥ ०९.६.५२ ॥
इति भेद-कर्म ॥ ०९।६।५२ ॥
iti bheda-karma .. 09.6.52 ..
तीक्ष्णं उत्साहिनं व्यसनिनं स्थित-शत्रुं वा गूढ-पुरुषाः शस्त्र-अग्नि-रस-आदिभिः साधयेयुः । सौकर्यतो वा तेषां अन्यतमः ॥ ०९.६.५३ ॥
तीक्ष्णम् उत्साहिनम् व्यसनिनम् स्थित-शत्रुम् वा गूढ-पुरुषाः शस्त्र-अग्नि-रस-आदिभिः साधयेयुः । सौकर्यतः वा तेषाम् अन्यतमः ॥ ०९।६।५३ ॥
tīkṣṇam utsāhinam vyasaninam sthita-śatrum vā gūḍha-puruṣāḥ śastra-agni-rasa-ādibhiḥ sādhayeyuḥ . saukaryataḥ vā teṣām anyatamaḥ .. 09.6.53 ..
तीक्ष्णो ह्येकः शस्त्र-रस-अग्निभिः साधयेत् ॥ ०९.६.५४ ॥
तीक्ष्णः हि एकः शस्त्र-रस-अग्निभिः साधयेत् ॥ ०९।६।५४ ॥
tīkṣṇaḥ hi ekaḥ śastra-rasa-agnibhiḥ sādhayet .. 09.6.54 ..
अयं सर्व-संदोह-कर्म विशिष्टं वा करोति ॥ ०९.६.५५ ॥
अयम् सर्व-संदोह-कर्म विशिष्टम् वा करोति ॥ ०९।६।५५ ॥
ayam sarva-saṃdoha-karma viśiṣṭam vā karoti .. 09.6.55 ..
इत्युपाय-चतुर्-वर्गः ॥ ०९.६.५६ ॥
इति उपाय-चतुर्-वर्गः ॥ ०९।६।५६ ॥
iti upāya-catur-vargaḥ .. 09.6.56 ..
पूर्वः पूर्वश्चास्य लघिष्ठः ॥ ०९.६.५७ ॥
पूर्वः पूर्वः च अस्य लघिष्ठः ॥ ०९।६।५७ ॥
pūrvaḥ pūrvaḥ ca asya laghiṣṭhaḥ .. 09.6.57 ..
सान्त्वं एक-गुणं ॥ ०९.६.५८ ॥
सान्त्वम् एक-गुणम् ॥ ०९।६।५८ ॥
sāntvam eka-guṇam .. 09.6.58 ..
दानं द्वि-गुणं सान्त्व-पूर्वं ॥ ०९.६.५९ ॥
दानम् द्वि-गुणम् सान्त्व-पूर्वम् ॥ ०९।६।५९ ॥
dānam dvi-guṇam sāntva-pūrvam .. 09.6.59 ..
भेदस्त्रि-गुणः सान्त्व-दान-पूर्वः ॥ ०९.६.६० ॥
भेदः त्रि-गुणः सान्त्व-दान-पूर्वः ॥ ०९।६।६० ॥
bhedaḥ tri-guṇaḥ sāntva-dāna-pūrvaḥ .. 09.6.60 ..
दण्डश्चतुर्-गुणः सान्त्व-दान-भेद-पूर्वः ॥ ०९.६.६१ ॥
दण्डः चतुर्-गुणः सान्त्व-दान-भेद-पूर्वः ॥ ०९।६।६१ ॥
daṇḍaḥ catur-guṇaḥ sāntva-dāna-bheda-pūrvaḥ .. 09.6.61 ..
इत्यभियुञ्जानेषुउक्तं ॥ ०९.६.६२ ॥
इति अभियुञ्जानेषु उक्तम् ॥ ०९।६।६२ ॥
iti abhiyuñjāneṣu uktam .. 09.6.62 ..
स्व-भूमिष्ठेषु तु त एवौपायाः ॥ ०९.६.६३ ॥
स्व-भूमिष्ठेषु तु ते एव औपायाः ॥ ०९।६।६३ ॥
sva-bhūmiṣṭheṣu tu te eva aupāyāḥ .. 09.6.63 ..
विशेषस्तु ॥ ०९.६.६४ ॥
विशेषः तु ॥ ०९।६।६४ ॥
viśeṣaḥ tu .. 09.6.64 ..
स्व-भूमिष्ठानां अन्यतमस्य पण्य-अगारैरभिज्ञातान्दूत-मुख्यानभीक्ष्णं प्रेषयेत् ॥ ०९.६.६५ ॥
स्व-भूमिष्ठानाम् अन्यतमस्य पण्य-अगारैः अभिज्ञातान् दूत-मुख्यान् अभीक्ष्णम् प्रेषयेत् ॥ ०९।६।६५ ॥
sva-bhūmiṣṭhānām anyatamasya paṇya-agāraiḥ abhijñātān dūta-mukhyān abhīkṣṇam preṣayet .. 09.6.65 ..
त एनं संधौ पर-हिंसायां वा योजयेयुः ॥ ०९.६.६६ ॥
ते एनम् संधौ पर-हिंसायाम् वा योजयेयुः ॥ ०९।६।६६ ॥
te enam saṃdhau para-hiṃsāyām vā yojayeyuḥ .. 09.6.66 ..
अप्रतिपद्यमानं "कृतो नः संधिः" इत्यावेदयेयुः ॥ ०९.६.६७ ॥
अ प्रतिपद्यमानम् "कृतः नः संधिः" इति आवेदयेयुः ॥ ०९।६।६७ ॥
a pratipadyamānam "kṛtaḥ naḥ saṃdhiḥ" iti āvedayeyuḥ .. 09.6.67 ..
तं इतरेषां उभय-वेतनाः संक्रामयेयुः "अयं वो राजा दुष्टः" इति ॥ ०९.६.६८ ॥
तम् इतरेषाम् उभय-वेतनाः संक्रामयेयुः "अयम् वः राजा दुष्टः" इति ॥ ०९।६।६८ ॥
tam itareṣām ubhaya-vetanāḥ saṃkrāmayeyuḥ "ayam vaḥ rājā duṣṭaḥ" iti .. 09.6.68 ..
यस्य वा यस्माद्भयं वैरं द्वेषो वा तं तस्माद्भेदयेयुः "अयं ते शत्रुणा संधत्ते । पुरा त्वां अतिसंधत्ते । क्षिप्रतरं संधीयस्व । निग्रहे चास्य प्रयतस्व" इति ॥ ०९.६.६९ ॥
यस्य वा यस्मात् भयम् वैरम् द्वेषः वा तम् तस्मात् भेदयेयुः "अयम् ते शत्रुणा संधत्ते । पुरा त्वाम् अतिसंधत्ते । क्षिप्रतरम् संधीयस्व । निग्रहे च अस्य प्रयतस्व" इति ॥ ०९।६।६९ ॥
yasya vā yasmāt bhayam vairam dveṣaḥ vā tam tasmāt bhedayeyuḥ "ayam te śatruṇā saṃdhatte . purā tvām atisaṃdhatte . kṣiprataram saṃdhīyasva . nigrahe ca asya prayatasva" iti .. 09.6.69 ..
आवाह-विवाहाभ्यां वा कृत्वा सम्योगं असम्युक्तान्भेदयेत् ॥ ०९.६.७० ॥
आवाह-विवाहाभ्याम् वा कृत्वा सम्योगम् अ सम्युक्तान् भेदयेत् ॥ ०९।६।७० ॥
āvāha-vivāhābhyām vā kṛtvā samyogam a samyuktān bhedayet .. 09.6.70 ..
सामन्त-आटविक-तत्-कुलीन-अपरुद्धैश्चएषां राज्यानि घातयेत् । सार्थ-व्रज-अटवीर्वा । दण्डं वाअभिसृतं ॥ ०९.६.७१ ॥
सामन्त-आटविक-तद्-कुलीन-अपरुद्धैः च एषाम् राज्यानि घातयेत् । सार्थ-व्रज-अटवीः वा । दण्डम् वा अ अभिसृतम् ॥ ०९।६।७१ ॥
sāmanta-āṭavika-tad-kulīna-aparuddhaiḥ ca eṣām rājyāni ghātayet . sārtha-vraja-aṭavīḥ vā . daṇḍam vā a abhisṛtam .. 09.6.71 ..
परस्पर-अपाश्रयाश्चएषां जाति-संघाश्छिद्रेषु प्रहरेयुः । गूढाश्चाग्नि-रस-शस्त्रेण ॥ ०९.६.७२ ॥
परस्पर-अपाश्रयाः च एषाम् जाति-संघाः छिद्रेषु प्रहरेयुः । गूढाः च अग्नि-रस-शस्त्रेण ॥ ०९।६।७२ ॥
paraspara-apāśrayāḥ ca eṣām jāti-saṃghāḥ chidreṣu prahareyuḥ . gūḍhāḥ ca agni-rasa-śastreṇa .. 09.6.72 ..
वीतंस-गिलवच्चारीन्योगैराचरितैः शठः । ॥ ०९.६.७३अ ब ॥
शठः । ॥ ०९।६।७३अ ब ॥
śaṭhaḥ . .. 09.6.73a ba ..
घातयेत्पर-मिश्रायां विश्वासेनऽमिषेण च ॥ ०९.६.७३च्द् ॥
घातयेत् पर-मिश्रायाम् विश्वासेन अमिषेण च ॥ ०९।६।७३च् ॥
ghātayet para-miśrāyām viśvāsena amiṣeṇa ca .. 09.6.73c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In