| |
|

This overlay will guide you through the buttons:

॥ ओं नमः शुक्र-बृहस्पतिभ्याम् ॥
॥ ओम् नमः शुक्र-बृहस्पतिभ्याम् ॥
.. om namaḥ śukra-bṛhaspatibhyām ..
पृथिव्या लाभे पालने च यावन्त्यर्थ-शास्त्राणि पूर्व-आचार्यैः प्रस्थापितानि प्रायशस्तानि संहृत्य एकम् इदम् अर्थ-शास्त्रं कृतम् ॥ ०१.१.०१ ॥
पृथिव्याः लाभे पालने च यावन्ति अर्थ-शास्त्राणि पूर्व-आचार्यैः प्रस्थापितानि प्रायशस् तानि संहृत्य एकम् इदम् अर्थ-शास्त्रम् कृतम् ॥ ०१।१।०१ ॥
pṛthivyāḥ lābhe pālane ca yāvanti artha-śāstrāṇi pūrva-ācāryaiḥ prasthāpitāni prāyaśas tāni saṃhṛtya ekam idam artha-śāstram kṛtam .. 01.1.01 ..
तस्यायं प्रकरण-अधिकरण-समुद्देशः ॥ ०१.१.०२ ॥
तस्य अयम् प्रकरण-अधिकरण-समुद्देशः ॥ ०१।१।०२ ॥
tasya ayam prakaraṇa-adhikaraṇa-samuddeśaḥ .. 01.1.02 ..
विद्या-समुद्देशः। वृद्ध-समुद्देशः। इन्द्रिय-जयः। अमात्य-उत्पत्तिः। मन्त्रि-पुरोहित-उत्पत्तिः। उपधाभिः शौच-अशौच-ज्ञानम् अमात्यानाम्। ॥ ०१.१.०३अ ॥
विद्या-समुद्देशः। वृद्ध-समुद्देशः। इन्द्रिय-जयः। अमात्य-उत्पत्तिः। मन्त्रि-पुरोहित-उत्पत्तिः। उपधाभिः शौच-अशौच-ज्ञानम् अमात्यानाम्। ॥ ०१।१।०३अ ॥
vidyā-samuddeśaḥ. vṛddha-samuddeśaḥ. indriya-jayaḥ. amātya-utpattiḥ. mantri-purohita-utpattiḥ. upadhābhiḥ śauca-aśauca-jñānam amātyānām. .. 01.1.03a ..
गूढ-पुरुष-प्रणिधिः। स्व-विषये कृत्य-अकृत्य-पक्ष-रक्षणम्। पर-विषये कृत्य-अकृत्य-पक्ष-उपग्रहः। ॥ ०१.१.०३ब ॥
गूढ-पुरुष-प्रणिधिः। स्व-विषये कृत्य-अकृत्य-पक्ष-रक्षणम्। पर-विषये कृत्य-अकृत्य-पक्ष-उपग्रहः। ॥ ०१।१।०३ब ॥
gūḍha-puruṣa-praṇidhiḥ. sva-viṣaye kṛtya-akṛtya-pakṣa-rakṣaṇam. para-viṣaye kṛtya-akṛtya-pakṣa-upagrahaḥ. .. 01.1.03ba ..
मन्त्र-अधिकारः। दूत-प्रणिधिः। राज-पुत्र-रक्षणम्। अपरुद्ध-वृत्तम्। अपरुद्धे वृत्तिः। राज-प्रणिधिः। निशान्त-प्रणिधिः। आत्म-रक्षितकम्। । इति विनय-अधिकारिकं प्रथमं अधिकरणं ॥ ०१.१.०३क ॥
मन्त्र-अधिकारः। दूत-प्रणिधिः। राज-पुत्र-रक्षणम्। अपरुद्ध-वृत्तम्। अपरुद्धे वृत्तिः। राज-प्रणिधिः। निशा-अन्त-प्रणिधिः। आत्म-रक्षितकम्। । इति विनय-अधिकारिकम् प्रथमम् अधिकरणम् ॥ ०१।१।०३क ॥
mantra-adhikāraḥ. dūta-praṇidhiḥ. rāja-putra-rakṣaṇam. aparuddha-vṛttam. aparuddhe vṛttiḥ. rāja-praṇidhiḥ. niśā-anta-praṇidhiḥ. ātma-rakṣitakam. . iti vinaya-adhikārikam prathamam adhikaraṇam .. 01.1.03ka ..
जनपद-निवेशः। भूमिच्-छिद्र-अपिधानम्। दुर्ग-विधानम्। दुर्ग-निवेशः। सम्निधातृ-निचय-कर्म। समाहर्तृ-समुदय-प्रस्थापनम्। अक्ष-पटले गाणनिक्य-अधिकारः। ॥ ०१.१.०४अ ॥
जनपद-निवेशः। भूमिच्-छिद्र-अपिधानम्। दुर्ग-विधानम्। दुर्ग-निवेशः। सम्निधातृ-निचय-कर्म। समाहर्तृ-समुदय-प्रस्थापनम्। अक्ष-पटले गाणनिक्य-अधिकारः। ॥ ०१।१।०४अ ॥
janapada-niveśaḥ. bhūmic-chidra-apidhānam. durga-vidhānam. durga-niveśaḥ. samnidhātṛ-nicaya-karma. samāhartṛ-samudaya-prasthāpanam. akṣa-paṭale gāṇanikya-adhikāraḥ. .. 01.1.04a ..
समुदयस्य युक्त-अपहृतस्य प्रत्यानयनम्। उपयुक्त-परीक्षा। शासन-अधिकारः। कोश-प्रवेश्य-रत्न-परीक्षा। आकर-कर्म-अन्त-प्रवर्तनम्। अक्ष-शालायां सुवर्ण-अध्यक्षः ॥ ०१.१.०४ब ॥
समुदयस्य युक्त-अपहृतस्य प्रत्यानयनम्। उपयुक्त-परीक्षा। शासन-अधिकारः। कोश-प्रवेश्य-रत्न-परीक्षा। आकर-कर्म-अन्त-प्रवर्तनम्। अक्ष-शालायाम् सुवर्ण-अध्यक्षः ॥ ०१।१।०४ब ॥
samudayasya yukta-apahṛtasya pratyānayanam. upayukta-parīkṣā. śāsana-adhikāraḥ. kośa-praveśya-ratna-parīkṣā. ākara-karma-anta-pravartanam. akṣa-śālāyām suvarṇa-adhyakṣaḥ .. 01.1.04ba ..
विशिखायां सौवर्णिक-प्रचारः। कोष्ठ-आगार-अध्यक्षः। पण्य-अध्यक्षः। कुप्य-अध्यक्षः। आयुध-अध्यक्षः। तुला-मान-पौतवम्। ॥ ०१.१.०४क ॥
विशिखायाम् सौवर्णिक-प्रचारः। कोष्ठ-आगार-अध्यक्षः। पण्य-अध्यक्षः। कुप्य-अध्यक्षः। आयुध-अध्यक्षः। तुला-मान-पौतवम्। ॥ ०१।१।०४क ॥
viśikhāyām sauvarṇika-pracāraḥ. koṣṭha-āgāra-adhyakṣaḥ. paṇya-adhyakṣaḥ. kupya-adhyakṣaḥ. āyudha-adhyakṣaḥ. tulā-māna-pautavam. .. 01.1.04ka ..
देश-काल-मानम्। शुल्क-अध्यक्षः। सूत्र-अध्यक्षः। सीत-अध्यक्षः। सुरा-अध्यक्षः। सून-अध्यक्षः। गणिका-अध्यक्षः। ॥ ०१.१.०४ड ॥
देश-काल-मानम्। शुल्क-अध्यक्षः। सूत्र-अध्यक्षः। सीत-अध्यक्षः। सुरा-अध्यक्षः। सून-अध्यक्षः। गणिका-अध्यक्षः। ॥ ०१।१।०४ड ॥
deśa-kāla-mānam. śulka-adhyakṣaḥ. sūtra-adhyakṣaḥ. sīta-adhyakṣaḥ. surā-adhyakṣaḥ. sūna-adhyakṣaḥ. gaṇikā-adhyakṣaḥ. .. 01.1.04ḍa ..
नाव्-अध्यक्षः। गो-अध्यक्षः। अश्व-अध्यक्षः। हस्त्य्-अध्यक्षः। रथ-अध्यक्षः। पत्त्य्-अध्यक्षः। सेना-पति-प्रचारः। मुद्रा-अध्यक्षः। विवीत-अध्यक्षः। समाहर्तृ-प्रचारः। ॥ ०१.१.०४ए ॥
नौ अध्यक्षः। गो अध्यक्षः। अश्व-अध्यक्षः। हस्ति-अध्यक्षः। रथ-अध्यक्षः। पत्ति-अध्यक्षः। सेना-पति-प्रचारः। मुद्रा-अध्यक्षः। विवीत-अध्यक्षः। समाहर्तृ-प्रचारः। ॥ ०१।१।०४ए ॥
nau adhyakṣaḥ. go adhyakṣaḥ. aśva-adhyakṣaḥ. hasti-adhyakṣaḥ. ratha-adhyakṣaḥ. patti-adhyakṣaḥ. senā-pati-pracāraḥ. mudrā-adhyakṣaḥ. vivīta-adhyakṣaḥ. samāhartṛ-pracāraḥ. .. 01.1.04e ..
गृह-पतिक-वैदेहक-तापस-व्यञ्जनाः प्रणिधयः। नागरिक-प्रणिधिः इत्यध्यक्ष-प्रचारो द्वितीयं अधिकरणं ॥ ०१.१.०४फ़् ॥
गृह-पतिक-वैदेहक-तापस-व्यञ्जनाः प्रणिधयः। नागरिक-प्रणिधिः इति अध्यक्ष-प्रचारः द्वितीयम् अधिकरणम् ॥ ०१।१।०४ ॥
gṛha-patika-vaidehaka-tāpasa-vyañjanāḥ praṇidhayaḥ. nāgarika-praṇidhiḥ iti adhyakṣa-pracāraḥ dvitīyam adhikaraṇam .. 01.1.04 ..
व्यवहार-स्थापना। विवाद-पद-निबन्धः। विवाह-सम्युक्तम्। दाय-विभागः। वास्तुकम्। समयस्य अनपाकर्म। ऋण-अदानम्। औपनिधिकम्। दास-कर्म-कर-कल्पः। ॥ ०१.१.०५अ ॥
व्यवहार-स्थापना। विवाद-पद-निबन्धः। विवाह-सम्युक्तम्। दाय-विभागः। वास्तुकम्। समयस्य अनपाकर्म। ऋण-अदानम्। औपनिधिकम्। दास-कर्म-कर-कल्पः। ॥ ०१।१।०५अ ॥
vyavahāra-sthāpanā. vivāda-pada-nibandhaḥ. vivāha-samyuktam. dāya-vibhāgaḥ. vāstukam. samayasya anapākarma. ṛṇa-adānam. aupanidhikam. dāsa-karma-kara-kalpaḥ. .. 01.1.05a ..
सम्भूय समुत्थानम्। विक्रीत-क्रीत-अनुशयः। दत्तस्य अनपाकर्म। अस्वामि-विक्रयः। स्व-स्वामि-सम्बन्धः। साहसम्। वाक्-पारुष्यम्। दण्ड-पारुष्यम्। द्यूत-समाह्वयम्। प्रकीर्णकं इति। धर्म-स्थीयं तृतीयं अधिकरणं ॥ ०१.१.०५ब ॥
सम्भूय समुत्थानम्। विक्रीत-क्रीत-अनुशयः। दत्तस्य अनपाकर्म। अस्वामि-विक्रयः। स्व-स्वामि-सम्बन्धः। साहसम्। वाच्-पारुष्यम्। दण्ड-पारुष्यम्। द्यूत-समाह्वयम्। प्रकीर्णकम् इति। धर्म-स्थीयम् तृतीयम् अधिकरणम् ॥ ०१।१।०५ब ॥
sambhūya samutthānam. vikrīta-krīta-anuśayaḥ. dattasya anapākarma. asvāmi-vikrayaḥ. sva-svāmi-sambandhaḥ. sāhasam. vāc-pāruṣyam. daṇḍa-pāruṣyam. dyūta-samāhvayam. prakīrṇakam iti. dharma-sthīyam tṛtīyam adhikaraṇam .. 01.1.05ba ..
कारु-कर-क्षणम्। वैदेहक-रक्षणम्। उपनिपात-प्रतीकारः। गूढ-आजीविनां रक्षा। सिद्ध-व्यञ्जनैर्माणव-प्रकाशनम्। शङ्का-रूप-कर्म-अभिग्रहः। ॥ ०१.१.०६अ ॥
कारु-कर-क्षणम्। वैदेहक-रक्षणम्। उपनिपात-प्रतीकारः। गूढ-आजीविनाम् रक्षा। सिद्ध-व्यञ्जनैः माणव-प्रकाशनम्। शङ्का-रूप-कर्म-अभिग्रहः। ॥ ०१।१।०६अ ॥
kāru-kara-kṣaṇam. vaidehaka-rakṣaṇam. upanipāta-pratīkāraḥ. gūḍha-ājīvinām rakṣā. siddha-vyañjanaiḥ māṇava-prakāśanam. śaṅkā-rūpa-karma-abhigrahaḥ. .. 01.1.06a ..
आशु-मृतक-परीक्षा। वाक्य-कर्म-अनुयोगः। सर्व-अधिकरण-रक्षणं ॥ ०१.१.०६ब ॥
आशु-मृतक-परीक्षा। वाक्य-कर्म-अनुयोगः। सर्व-अधिकरण-रक्षणम् ॥ ०१।१।०६ब ॥
āśu-mṛtaka-parīkṣā. vākya-karma-anuyogaḥ. sarva-adhikaraṇa-rakṣaṇam .. 01.1.06ba ..
एक-अङ्ग-वध-निष्क्रयः। शुद्धश्चित्रश्च दण्ड कल्पः। कन्या-प्रकर्म। अतिचार-दण्डाः इति कण्टक-शोधनं चतुर्थं अधिकरणं ॥ ०१.१.०६क ॥
एक-अङ्ग-वध-निष्क्रयः। शुद्धः चित्रः च दण्ड-कल्पः। कन्या-प्रकर्म। अतिचार-दण्डाः इति कण्टक-शोधनम् चतुर्थम् अधिकरणम् ॥ ०१।१।०६क ॥
eka-aṅga-vadha-niṣkrayaḥ. śuddhaḥ citraḥ ca daṇḍa-kalpaḥ. kanyā-prakarma. aticāra-daṇḍāḥ iti kaṇṭaka-śodhanam caturtham adhikaraṇam .. 01.1.06ka ..
दाण्डकर्मिकम्। कोश-अभिसंहरणम्। भृत्य-भरणीयम्। अनुजीवि-वृत्तम्। समय-आचारिकम्। राज्य-प्रतिसंधानम्। एक-ऐश्वर्यं इति योग-वृत्तं पञ्चमं अधिकरणं ॥ ०१.१.०७ ॥
दाण्डकर्मिकम्। कोश-अभिसंहरणम्। भृत्य-भरणीयम्। अनुजीवि-वृत्तम्। समय-आचारिकम्। राज्य-प्रतिसंधानम्। एक-ऐश्वर्यम् इति योग-वृत्तम् पञ्चमम् अधिकरणम् ॥ ०१।१।०७ ॥
dāṇḍakarmikam. kośa-abhisaṃharaṇam. bhṛtya-bharaṇīyam. anujīvi-vṛttam. samaya-ācārikam. rājya-pratisaṃdhānam. eka-aiśvaryam iti yoga-vṛttam pañcamam adhikaraṇam .. 01.1.07 ..
प्रकृति-सम्पदः। शम-व्यायामिकं इति मण्डल-योनिः षष्ठं अधिकरणं ॥ ०१.१.०८ ॥
प्रकृति-सम्पदः। शम-व्यायामिकम् इति मण्डल-योनिः षष्ठम् अधिकरणम् ॥ ०१।१।०८ ॥
prakṛti-sampadaḥ. śama-vyāyāmikam iti maṇḍala-yoniḥ ṣaṣṭham adhikaraṇam .. 01.1.08 ..
षाड्गुण्य-समुद्देशः। क्षय-स्थान-वृद्धि-निश्चयः। संश्रय-वृत्तिः। समहीन-ज्यायसां गुण-अभिनिवेशः। हीन-संधयः। विगृह्य आसनम्। संधाय आसनम्। विगृह्य यानम्। संधाय यानम्। ॥ ०१.१.०९अ ॥
षाड्गुण्य-समुद्देशः। क्षय-स्थान-वृद्धि-निश्चयः। संश्रय-वृत्तिः। सम-हीन-ज्यायसाम् गुण-अभिनिवेशः। हीन-संधयः। विगृह्य आसनम्। संधाय आसनम्। विगृह्य यानम्। संधाय यानम्। ॥ ०१।१।०९अ ॥
ṣāḍguṇya-samuddeśaḥ. kṣaya-sthāna-vṛddhi-niścayaḥ. saṃśraya-vṛttiḥ. sama-hīna-jyāyasām guṇa-abhiniveśaḥ. hīna-saṃdhayaḥ. vigṛhya āsanam. saṃdhāya āsanam. vigṛhya yānam. saṃdhāya yānam. .. 01.1.09a ..
सम्भूय प्रयाणम्। यातव्य-अमित्रयोरभिग्रह-चिन्ता। क्षय-लोभ-विराग-हेतवः प्रकृतीनाम्। सामवायिक-विपरिमर्शः। ॥ ०१.१.०९ब ॥
सम्भूय प्रयाणम्। यातव्य-अमित्रयोः अभिग्रह-चिन्ता। क्षय-लोभ-विराग-हेतवः प्रकृतीनाम्। सामवायिक-विपरिमर्शः। ॥ ०१।१।०९ब ॥
sambhūya prayāṇam. yātavya-amitrayoḥ abhigraha-cintā. kṣaya-lobha-virāga-hetavaḥ prakṛtīnām. sāmavāyika-viparimarśaḥ. .. 01.1.09ba ..
संहित प्रयाणिकम्। परिपणित-अपरिपणित-अपसृताः संधयः। द्वैधी-भाविकाः संधि-विक्रमाः। यातव्य-वृत्तिः। अनुग्राह्य-मित्र-विशेषाः। ॥ ०१.१.०९क ॥
संहित-प्रयाणिकम्। परिपणित-अ परिपणित-अपसृताः संधयः। द्वैधी-भाविकाः संधि-विक्रमाः। यातव्य-वृत्तिः। अनुग्राह्य-मित्र-विशेषाः। ॥ ०१।१।०९क ॥
saṃhita-prayāṇikam. paripaṇita-a paripaṇita-apasṛtāḥ saṃdhayaḥ. dvaidhī-bhāvikāḥ saṃdhi-vikramāḥ. yātavya-vṛttiḥ. anugrāhya-mitra-viśeṣāḥ. .. 01.1.09ka ..
मित्र-हिरण्य-भूमि-कर्म-संधयः। पार्ष्णि-ग्राह-चिन्ता। हीन-शक्ति-पूरणम्। बलवता विगृह्य उपरोध-हेतवः। दण्ड-उपनत-वृत्तम्। ॥ ०१.१.०९ड ॥
मित्र-हिरण्य-भूमि-कर्म-संधयः। पार्ष्णि-ग्राह-चिन्ता। हीन-शक्ति-पूरणम्। बलवता विगृह्य उपरोध-हेतवः। दण्ड-उपनत-वृत्तम्। ॥ ०१।१।०९ड ॥
mitra-hiraṇya-bhūmi-karma-saṃdhayaḥ. pārṣṇi-grāha-cintā. hīna-śakti-pūraṇam. balavatā vigṛhya uparodha-hetavaḥ. daṇḍa-upanata-vṛttam. .. 01.1.09ḍa ..
दण्ड-उपनायि-वृत्तम्। संधि-कर्म। समाधि-मोक्षः। मध्यम-चरितम्। उदासीन-चरितम्। मण्डल-चरितं इति षाड्गुण्यं सप्तमं अधिकरणं ॥ ०१.१.०९ए ॥
दण्ड-उपनायि-वृत्तम्। संधि-कर्म। समाधि-मोक्षः। मध्यम-चरितम्। उदासीन-चरितम्। मण्डल-चरितम् इति षाड्गुण्यम् सप्तमम् अधिकरणम् ॥ ०१।१।०९ए ॥
daṇḍa-upanāyi-vṛttam. saṃdhi-karma. samādhi-mokṣaḥ. madhyama-caritam. udāsīna-caritam. maṇḍala-caritam iti ṣāḍguṇyam saptamam adhikaraṇam .. 01.1.09e ..
प्रकृति-व्यसन-वर्गः। राज-राज्ययोर्व्यसन-चिन्ता। पुरुष-व्यसन-वर्गः। पीडन-वर्गः। स्तम्भ-वर्गः। कोश-सङ्ग-वर्गः। मित्र-व्यसन-वर्गः इति व्यसन-आधिकारिकं अष्टमं अधिकरणं ॥ ०१.१.१० ॥
प्रकृति-व्यसन-वर्गः। राज-राज्ययोः व्यसन-चिन्ता। पुरुष-व्यसन-वर्गः। पीडन-वर्गः। स्तम्भ-वर्गः। कोश-सङ्ग-वर्गः। मित्र-व्यसन-वर्गः इति व्यसन-आधिकारिकम् अष्टमम् अधिकरणम् ॥ ०१।१।१० ॥
prakṛti-vyasana-vargaḥ. rāja-rājyayoḥ vyasana-cintā. puruṣa-vyasana-vargaḥ. pīḍana-vargaḥ. stambha-vargaḥ. kośa-saṅga-vargaḥ. mitra-vyasana-vargaḥ iti vyasana-ādhikārikam aṣṭamam adhikaraṇam .. 01.1.10 ..
शक्ति-देश-काल-बल-अबल-ज्ञानम्। यात्रा-कालाः। बल-उपादान-कालाः। सम्नाह-गुणाः। प्रतिबल-कर्म। पश्चात्कोप-चिन्ता। बाह्य-आभ्यन्तर-प्रकृति-कोप-प्रतीकाराः ॥ ०१.१.११अ ॥
शक्ति-देश-काल-बल-अबल-ज्ञानम्। यात्रा-कालाः। बल-उपादान-कालाः। सम्नाह-गुणाः। प्रतिबल-कर्म। पश्चात् कोप-चिन्ता। बाह्य-आभ्यन्तर-प्रकृति-कोप-प्रतीकाराः ॥ ०१।१।११अ ॥
śakti-deśa-kāla-bala-abala-jñānam. yātrā-kālāḥ. bala-upādāna-kālāḥ. samnāha-guṇāḥ. pratibala-karma. paścāt kopa-cintā. bāhya-ābhyantara-prakṛti-kopa-pratīkārāḥ .. 01.1.11a ..
क्षय-व्यय-लाभ-विपरिमर्शः। बाह्य-आभ्यन्तराश्चऽपदः। दुष्य-शत्रु-सम्युक्ताः। अर्थ-अनर्थ-संशय-युक्ताः। तासां उपाय-विकल्पजाः सिद्धयः इत्यभियास्यत्कर्म नवमं अधिकरणं ॥ ०१.१.११ब ॥
क्षय-व्यय-लाभ-विपरिमर्शः। बाह्य-आभ्यन्तराः च अ पदः। दुष्य-शत्रु-सम्युक्ताः। अर्थ-अनर्थ-संशय-युक्ताः। तासाम् उपाय-विकल्प-जाः सिद्धयः इति अभियास्यत्-कर्म नवमम् अधिकरणम् ॥ ०१।१।११ब ॥
kṣaya-vyaya-lābha-viparimarśaḥ. bāhya-ābhyantarāḥ ca a padaḥ. duṣya-śatru-samyuktāḥ. artha-anartha-saṃśaya-yuktāḥ. tāsām upāya-vikalpa-jāḥ siddhayaḥ iti abhiyāsyat-karma navamam adhikaraṇam .. 01.1.11ba ..
स्कन्ध-आवार-निवेशः। स्कन्ध-आवार-प्रयाणम्। बल-व्यसन-अवस्कन्द-काल-रक्षणम्। कूट-युद्ध-विकल्पाः। स्व-सैन्य-उत्साहनम्। स्व-बल-अन्य-बल-व्यायोगः। युद्ध-भूमयः। पत्त्य्-अश्व-रथ-हस्ति-कर्माणि। पक्ष-कक्ष-उरस्यानां बल-अग्रतो व्यूह-विभागः। सार-फल्गु-बल-विभागः। पत्त्य्-अश्व-रथ-हस्ति-युद्धानि। दण्ड-भोग-मण्डल-असंहत-व्यूह-व्यूहनम्। तस्य प्रतिव्यूह-स्थापनं इति सांग्रामिकं दशमं अधिकरणं ॥ ०१.१.१२ ॥
स्कन्ध-आवार-निवेशः। स्कन्ध-आवार-प्रयाणम्। बल-व्यसन-अवस्कन्द-काल-रक्षणम्। कूट-युद्ध-विकल्पाः। स्व-सैन्य-उत्साहनम्। स्व-बल-अन्य-बल-व्यायोगः। युद्ध-भूमयः। पत्ति-अश्व-रथ-हस्ति-कर्माणि। पक्ष-कक्ष-उरस्यानाम् बल-अग्रतः व्यूह-विभागः। सार-फल्गु-बल-विभागः। पत्ति-अश्व-रथ-हस्ति-युद्धानि। दण्ड-भोग-मण्डल-असंहत-व्यूह-व्यूहनम्। तस्य प्रतिव्यूह-स्थापनम् इति सांग्रामिकम् दशमम् अधिकरणम् ॥ ०१।१।१२ ॥
skandha-āvāra-niveśaḥ. skandha-āvāra-prayāṇam. bala-vyasana-avaskanda-kāla-rakṣaṇam. kūṭa-yuddha-vikalpāḥ. sva-sainya-utsāhanam. sva-bala-anya-bala-vyāyogaḥ. yuddha-bhūmayaḥ. patti-aśva-ratha-hasti-karmāṇi. pakṣa-kakṣa-urasyānām bala-agrataḥ vyūha-vibhāgaḥ. sāra-phalgu-bala-vibhāgaḥ. patti-aśva-ratha-hasti-yuddhāni. daṇḍa-bhoga-maṇḍala-asaṃhata-vyūha-vyūhanam. tasya prativyūha-sthāpanam iti sāṃgrāmikam daśamam adhikaraṇam .. 01.1.12 ..
भेद-उपादानानि। उपांशु-दण्डाः इति संघ-वृत्तं एकादशं अधिकरणं ॥ ०१.१.१३ ॥
भेद-उपादानानि। उपांशु दण्डाः इति संघ-वृत्तम् एकादशम् अधिकरणम् ॥ ०१।१।१३ ॥
bheda-upādānāni. upāṃśu daṇḍāḥ iti saṃgha-vṛttam ekādaśam adhikaraṇam .. 01.1.13 ..
दूत-कर्म। मन्त्र-युद्धम्। सेना-मुख्य-वधः। मण्डल-प्रोत्साहनम्। शस्त्र-अग्नि-रस-प्रणिधयः। वीवध-आसार-प्रसार-वधः। योग-अतिसंधानम्। दण्ड-अतिसंधानम्। एक-विजयः इत्याबलीयसं द्वादशं अधिकरणं ॥ ०१.१.१४ ॥
दूत-कर्म। मन्त्र-युद्धम्। सेना-मुख्य-वधः। मण्डल-प्रोत्साहनम्। शस्त्र-अग्नि-रस-प्रणिधयः। वीवध-आसार-प्रसार-वधः। योग-अतिसंधानम्। दण्ड-अतिसंधानम्। एक-विजयः इति आबलीयसम् द्वादशम् अधिकरणम् ॥ ०१।१।१४ ॥
dūta-karma. mantra-yuddham. senā-mukhya-vadhaḥ. maṇḍala-protsāhanam. śastra-agni-rasa-praṇidhayaḥ. vīvadha-āsāra-prasāra-vadhaḥ. yoga-atisaṃdhānam. daṇḍa-atisaṃdhānam. eka-vijayaḥ iti ābalīyasam dvādaśam adhikaraṇam .. 01.1.14 ..
उपजापः। योग-वामनम्। अपसर्प-प्रणिधिः। पर्युपासन-कर्म। अवमर्दः। लब्ध-प्रशमनं इति दुर्ग-लम्भ-उपायस्त्रयोदशं अधिकरणं ॥ ०१.१.१५ ॥
उपजापः। योग-वामनम्। अपसर्प-प्रणिधिः। पर्युपासन-कर्म। अवमर्दः। लब्ध-प्रशमनम् इति दुर्ग-लम्भ-उपायः त्रयोदशम् अधिकरणम् ॥ ०१।१।१५ ॥
upajāpaḥ. yoga-vāmanam. apasarpa-praṇidhiḥ. paryupāsana-karma. avamardaḥ. labdha-praśamanam iti durga-lambha-upāyaḥ trayodaśam adhikaraṇam .. 01.1.15 ..
पर-बल-घात-प्रयोगः। प्रलम्भनम्। स्व-बल-उपघात-प्रतीकारः इत्यौपनिषदिकं चतुर्दशं अधिकरणं ॥ ०१.१.१६ ॥
पर-बल-घात-प्रयोगः। प्रलम्भनम्। स्व-बल-उपघात-प्रतीकारः इति औपनिषदिकम् चतुर्दशम् अधिकरणम् ॥ ०१।१।१६ ॥
para-bala-ghāta-prayogaḥ. pralambhanam. sva-bala-upaghāta-pratīkāraḥ iti aupaniṣadikam caturdaśam adhikaraṇam .. 01.1.16 ..
तन्त्र-युक्तयः इति तन्त्र-युक्तिः पञ्चदशं अधिकरणं ॥ ०१.१.१७ ॥
तन्त्र-युक्तयः इति तन्त्र-युक्तिः पञ्चदशम् अधिकरणम् ॥ ०१।१।१७ ॥
tantra-yuktayaḥ iti tantra-yuktiḥ pañcadaśam adhikaraṇam .. 01.1.17 ..
शास्त्र-समुद्देशः पञ्चदश-अधिकरणानि साशीति-प्रकरण-शतं सपञ्चाशद्-अध्याय-शतं षट्-श्लोक-सहस्राणिइति ॥ ०१.१.१८ ॥
शास्त्र-समुद्देशः पञ्चदश-अधिकरणानि स अशीति-प्रकरण-शतम् सपञ्चाशत्-अध्याय-शतम् षष्-श्लोक-सहस्राणि इति ॥ ०१।१।१८ ॥
śāstra-samuddeśaḥ pañcadaśa-adhikaraṇāni sa aśīti-prakaraṇa-śatam sapañcāśat-adhyāya-śatam ṣaṣ-śloka-sahasrāṇi iti .. 01.1.18 ..
सुख-ग्रहण-विज्ञेयं तत्त्व-अर्थ-पद-निश्चितं ॥ ०१.१.१९अ ब ॥
सुख-ग्रहण-विज्ञेयम् तत्त्व-अर्थ-पद-निश्चितम् ॥ ०१।१।१९अ ब ॥
sukha-grahaṇa-vijñeyam tattva-artha-pada-niścitam .. 01.1.19a ba ..
कौटिल्येन कृतं शास्त्रं विमुक्त-ग्रन्थ-विस्तरं ॥ ०१.१.१९च्द् ॥
कौटिल्येन कृतम् शास्त्रम् विमुक्त-ग्रन्थ-विस्तरम् ॥ ०१।१।१९च् ॥
kauṭilyena kṛtam śāstram vimukta-grantha-vistaram .. 01.1.19c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In