| |
|

This overlay will guide you through the buttons:

ये चाप्यस्मबन्धिनो अवश्य-भर्तव्यास्ते लक्षणं अङ्ग-विद्यां जम्भक-विद्यां माया-गतं आश्रम-धर्मं निमित्तं अन्तर-चक्रं इत्यधीयानाः सत्त्रिणः । संसर्ग-विद्यां च ॥ ०१.१२.०१ ॥
ये च अपि अस्मबन्धिनः अवश्य-भर्तव्याः ते लक्षणम् अङ्ग-विद्याम् जम्भक-विद्याम् माया-गतम् आश्रम-धर्मम् निमित्तम् अन्तर-चक्रम् इति अधीयानाः सत्त्रिणः । संसर्ग-विद्याम् च ॥ ०१।१२।०१ ॥
ye ca api asmabandhinaḥ avaśya-bhartavyāḥ te lakṣaṇam aṅga-vidyām jambhaka-vidyām māyā-gatam āśrama-dharmam nimittam antara-cakram iti adhīyānāḥ sattriṇaḥ . saṃsarga-vidyām ca .. 01.12.01 ..
ये जनपदे शूरास्त्यक्त-आत्मानो हस्तिनं व्यालं वा द्रव्य-हेतोः प्रतियोधयेयुस्ते तीक्ष्णाः ॥ ०१.१२.०२ ॥
ये जनपदे शूराः त्यक्त-आत्मानः हस्तिनम् व्यालम् वा द्रव्य-हेतोः प्रतियोधयेयुः ते तीक्ष्णाः ॥ ०१।१२।०२ ॥
ye janapade śūrāḥ tyakta-ātmānaḥ hastinam vyālam vā dravya-hetoḥ pratiyodhayeyuḥ te tīkṣṇāḥ .. 01.12.02 ..
ये बन्धुषु निह्स्नेहाः क्रूरा अलसाश्च ते रसदाः ॥ ०१.१२.०३ ॥
ये बन्धुषु निह्स्नेहाः क्रूराः अलसाः च ते रसदाः ॥ ०१।१२।०३ ॥
ye bandhuṣu nihsnehāḥ krūrāḥ alasāḥ ca te rasadāḥ .. 01.12.03 ..
परिव्राजिका वृत्ति-कामा दरिद्रा विधवा प्रगल्भा ब्राह्मण्यन्तःपुरे कृत-सत्कारा महा-मात्र-कुलान्यभिगच्छेत् ॥ ०१.१२.०४ ॥
परिव्राजिका वृत्ति-कामा दरिद्रा विधवा प्रगल्भा ब्राह्मणी अन्तःपुरे कृत-सत्कारा महा-मात्र-कुलानि अभिगच्छेत् ॥ ०१।१२।०४ ॥
parivrājikā vṛtti-kāmā daridrā vidhavā pragalbhā brāhmaṇī antaḥpure kṛta-satkārā mahā-mātra-kulāni abhigacchet .. 01.12.04 ..
एतया मुण्डा वृषल्यो व्याख्याताः इति संचाराः ॥ ०१.१२.०५ ॥
एतया मुण्डाः वृषल्यः व्याख्याताः इति संचाराः ॥ ०१।१२।०५ ॥
etayā muṇḍāḥ vṛṣalyaḥ vyākhyātāḥ iti saṃcārāḥ .. 01.12.05 ..
तान्राजा स्व-विषये मन्त्रि-पुरोहित-सेना-पति-युव-राज-दौवारिक-अन्तर्वंशिक-प्रशास्तृ-समाहर्तृ-सम्निधातृ-प्रदेष्टृ-नायक-पौर-व्यावहारिक-कार्मान्तिक-मन्त्रि-परिषद्-अध्यक्ष-दण्ड-दुर्ग-अन्तपाल-आटविकेषु श्रद्धेय-देश-वेष-शिल्प-भाषा-अभिजन-अपदेशान्भक्तितः सामर्थ्य-योगाच्चापसर्पयेत् ॥ ०१.१२.०६ ॥
त न र ज स व व इ ष य ए म न त र इ प उ र ओ ह इ त स ए न प त इ युव-राज-दौवारिक-अन्तर्वंशिक-प्रशास्तृ-समाहर्तृ-सम्निधातृ-प्रदेष्टृ-नायक-पौर-व्यावहारिक-कार्मान्तिक-मन्त्रि-परिषद्-अध्यक्ष-दण्ड-दुर्ग-अन्तपाल-आटविकेषु श्रद्धेय-देश-वेष-शिल्प-भाषा-अभिजन-अपदेशान् भक्तितः सामर्थ्य-योगात् च अपसर्पयेत् ॥ ०१।१२।०६ ॥
ta na ra ja sa va va i ṣa ya e ma na ta ra i pa u ra o ha i ta sa e na pa ta i yuva-rāja-dauvārika-antarvaṃśika-praśāstṛ-samāhartṛ-samnidhātṛ-pradeṣṭṛ-nāyaka-paura-vyāvahārika-kārmāntika-mantri-pariṣad-adhyakṣa-daṇḍa-durga-antapāla-āṭavikeṣu śraddheya-deśa-veṣa-śilpa-bhāṣā-abhijana-apadeśān bhaktitaḥ sāmarthya-yogāt ca apasarpayet .. 01.12.06 ..
तेषां बाह्यं चारं छत्र-भृङ्गार-व्यजन-पादुक-आसन-यान-वाहन-उपग्राहिणस्तीक्ष्णा विद्युः ॥ ०१.१२.०७ ॥
तेषाम् बाह्यम् चारम् छत्र-भृङ्गार-व्यजन-पादुक-आसन-यान-वाहन-उपग्राहिणः तीक्ष्णाः विद्युः ॥ ०१।१२।०७ ॥
teṣām bāhyam cāram chatra-bhṛṅgāra-vyajana-pāduka-āsana-yāna-vāhana-upagrāhiṇaḥ tīkṣṇāḥ vidyuḥ .. 01.12.07 ..
तं सत्त्रिणः संस्थास्वर्पयेयुः ॥ ०१.१२.०८ ॥
तम् सत्त्रिणः संस्थासु अर्पयेयुः ॥ ०१।१२।०८ ॥
tam sattriṇaḥ saṃsthāsu arpayeyuḥ .. 01.12.08 ..
सूद-आरालिक-स्नापक-संवाहक-आस्तरक-कल्पक-प्रसाधक-उदक-परिचारका रसदाः कुब्ज-वामन-किरात-मूक-बधिर-जड-अन्धच्-छद्मानो नट-नर्तक-गायन-वादक-वाग्-जीवन-कुशीलवाः स्त्रियश्चऽभ्यन्तरं चारं विद्युः ॥ ०१.१२.०९ ॥
सूद-आरालिक-स्नापक-संवाहक-आस्तरक-कल्पक-प्रसाधक-उदक-परिचारकाः रसदाः कुब्ज-वामन-किरात-मूक-बधिर-जड-अन्धत्-छद्मानः नट-नर्तक-गायन-वादक-वाच्-जीवन-कुशीलवाः स्त्रियः च अभ्यन्तरम् चारम् विद्युः ॥ ०१।१२।०९ ॥
sūda-ārālika-snāpaka-saṃvāhaka-āstaraka-kalpaka-prasādhaka-udaka-paricārakāḥ rasadāḥ kubja-vāmana-kirāta-mūka-badhira-jaḍa-andhat-chadmānaḥ naṭa-nartaka-gāyana-vādaka-vāc-jīvana-kuśīlavāḥ striyaḥ ca abhyantaram cāram vidyuḥ .. 01.12.09 ..
तं भिक्ष्क्यः संस्थास्वप्रयेयुः ॥ ०१.१२.१० ॥
तम् भिक्ष्क्यः संस्थासु अप्रयेयुः ॥ ०१।१२।१० ॥
tam bhikṣkyaḥ saṃsthāsu aprayeyuḥ .. 01.12.10 ..
संस्थानां अन्तेवासिनः संज्ञा-लिपिभिश्चार-संचारं कुर्युः ॥ ०१.१२.११ ॥
संस्थानाम् अन्तेवासिनः संज्ञा-लिपिभिः चार-संचारम् कुर्युः ॥ ०१।१२।११ ॥
saṃsthānām antevāsinaḥ saṃjñā-lipibhiḥ cāra-saṃcāram kuryuḥ .. 01.12.11 ..
न चान्योन्यं संस्थास्ते वा विद्युः ॥ ०१.१२.१२ ॥
न च अन्योन्यम् संस्थाः ते वा विद्युः ॥ ०१।१२।१२ ॥
na ca anyonyam saṃsthāḥ te vā vidyuḥ .. 01.12.12 ..
भिक्षुकी-प्रतिषेधे द्वाह्स्थ-परम्परा माता-पितृ-व्यञ्जनाः शिल्प-कारिकाः कुशीलवा दास्यो वा गीत-पाठ्य-वाद्य-भाण्ड-गूढ-लेख्य-संज्ञाभिर्वा चारं निर्हरेयुः- ॥ ०१.१२.१३ ॥
भिक्षुकी-प्रतिषेधे द्वाह्स्थ-परम्परा माता-पितृ-व्यञ्जनाः शिल्प-कारिकाः कुशीलवाः दास्यः वा गीत-पाठ्य-वाद्य-भाण्ड-गूढ-लेख्य-संज्ञाभिः वा चारम् निर्हरेयुः ॥ ०१।१२।१३ ॥
bhikṣukī-pratiṣedhe dvāhstha-paramparā mātā-pitṛ-vyañjanāḥ śilpa-kārikāḥ kuśīlavāḥ dāsyaḥ vā gīta-pāṭhya-vādya-bhāṇḍa-gūḍha-lekhya-saṃjñābhiḥ vā cāram nirhareyuḥ .. 01.12.13 ..
दीर्घ-रोग-उन्माद-अग्नि-रस-विसर्गेण वा गूढ-निर्गमनं ॥ ०१.१२.१४ ॥
दीर्घ-रोग-उन्माद-अग्नि-रस-विसर्गेण वा गूढ-निर्गमनम् ॥ ०१।१२।१४ ॥
dīrgha-roga-unmāda-agni-rasa-visargeṇa vā gūḍha-nirgamanam .. 01.12.14 ..
त्रयाणां एक-वाक्ये सम्प्रत्ययः ॥ ०१.१२.१५ ॥
त्रयाणाम् एक-वाक्ये सम्प्रत्ययः ॥ ०१।१२।१५ ॥
trayāṇām eka-vākye sampratyayaḥ .. 01.12.15 ..
तेषां अभीक्ष्ण-विनिपाते तूष्णीं-दण्डः प्रतिषेधः ॥ ०१.१२.१६ ॥
तेषाम् अभीक्ष्ण-विनिपाते तूष्णीम् दण्डः प्रतिषेधः ॥ ०१।१२।१६ ॥
teṣām abhīkṣṇa-vinipāte tūṣṇīm daṇḍaḥ pratiṣedhaḥ .. 01.12.16 ..
कण्टक-शोधन-उक्ताश्चापसर्पाः परेषु कृत-वेतना वसेयुरसम्पातिनश्चार-अर्थं ॥ ०१.१२.१७ ॥
कण्टक-शोधन-उक्ताः च अपसर्पाः परेषु कृत-वेतनाः वसेयुः असम्पातिनः चार-अर्थम् ॥ ०१।१२।१७ ॥
kaṇṭaka-śodhana-uktāḥ ca apasarpāḥ pareṣu kṛta-vetanāḥ vaseyuḥ asampātinaḥ cāra-artham .. 01.12.17 ..
त उभय-वेतनाः ॥ ०१.१२.१८ ॥
ते उभय-वेतनाः ॥ ०१।१२।१८ ॥
te ubhaya-vetanāḥ .. 01.12.18 ..
गृहीत-पुत्र-दारांश्च कुर्यादुभय-वेतनान् ॥ ०१.१२.१९अ ब ॥
गृहीत-पुत्र-दारान् च कुर्यात् उभय-वेतनान् ॥ ०१।१२।१९अ ब ॥
gṛhīta-putra-dārān ca kuryāt ubhaya-vetanān .. 01.12.19a ba ..
तांश्चारि-प्रहितान्विद्यात्तेषां शौचं च तद्विधैः ॥ ०१.१२.१९च्द् ॥
तान् च अरि-प्रहितान् विद्यात् तेषाम् शौचम् च तद्विधैः ॥ ०१।१२।१९च् ॥
tān ca ari-prahitān vidyāt teṣām śaucam ca tadvidhaiḥ .. 01.12.19c ..
एवं शत्रौ च मित्रे च मध्यमे चऽवपेच्चरान् ॥ ०१.१२.२०अ ब ॥
एवम् शत्रौ च मित्रे च मध्यमे च आवपेत् चरान् ॥ ०१।१२।२०अ ब ॥
evam śatrau ca mitre ca madhyame ca āvapet carān .. 01.12.20a ba ..
उदासीने च तेषां च तीर्थेष्वष्टादशस्वपि ॥ ०१.१२.२०च्द् ॥
उदासीने च तेषाम् च तीर्थेषु अष्टादशसु अपि ॥ ०१।१२।२०च् ॥
udāsīne ca teṣām ca tīrtheṣu aṣṭādaśasu api .. 01.12.20c ..
अन्तर्-गृह-चरास्तेषां कुब्ज-वामन-पण्डकाः ॥ ०१.१२.२१अ ब ॥
अन्तर् गृह-चराः तेषाम् कुब्ज-वामन-पण्डकाः ॥ ०१।१२।२१अ ब ॥
antar gṛha-carāḥ teṣām kubja-vāmana-paṇḍakāḥ .. 01.12.21a ba ..
शिल्पवत्यः स्त्रियो मूकाश्चित्राश्च म्लेच्छ-जातयः ॥ ०१.१२.२१च्द् ॥
शिल्पवत्यः स्त्रियः मूकाः चित्राः च म्लेच्छ-जातयः ॥ ०१।१२।२१च् ॥
śilpavatyaḥ striyaḥ mūkāḥ citrāḥ ca mleccha-jātayaḥ .. 01.12.21c ..
दुर्गेषु वणिजः संस्था दुर्ग-अन्ते सिद्ध-तापसाः ॥ ०१.१२.२२अ ब ॥
दुर्गेषु वणिजः संस्था दुर्ग-अन्ते सिद्ध-तापसाः ॥ ०१।१२।२२अ ब ॥
durgeṣu vaṇijaḥ saṃsthā durga-ante siddha-tāpasāḥ .. 01.12.22a ba ..
कर्षक-उदास्थिता राष्ट्रे राष्ट्र-अन्ते व्रज-वासिनः ॥ ०१.१२.२२च्द् ॥
कर्षक-उदास्थिताः राष्ट्रे राष्ट्र-अन्ते व्रज-वासिनः ॥ ०१।१२।२२च् ॥
karṣaka-udāsthitāḥ rāṣṭre rāṣṭra-ante vraja-vāsinaḥ .. 01.12.22c ..
वने वन-चराः कार्याः श्रमण-आटविक-आदयः ॥ ०१.१२.२३अ ब ॥
वने वन-चराः कार्याः श्रमण-आटविक-आदयः ॥ ०१।१२।२३अ ब ॥
vane vana-carāḥ kāryāḥ śramaṇa-āṭavika-ādayaḥ .. 01.12.23a ba ..
पर-प्रवृत्ति-ज्ञान-अर्थाः शीघ्राश्-चार-परम्पराः ॥ ०१.१२.२३च्द् ॥
पर-प्रवृत्ति-ज्ञान-अर्थाः शीघ्राः चार-परम्पराः ॥ ०१।१२।२३च् ॥
para-pravṛtti-jñāna-arthāḥ śīghrāḥ cāra-paramparāḥ .. 01.12.23c ..
परस्य चएते बोद्धव्यास्तादृशैरेव तादृशाः ॥ ०१.१२.२४अ ब ॥
परस्य च एते बोद्धव्याः तादृशैः एव तादृशाः ॥ ०१।१२।२४अ ब ॥
parasya ca ete boddhavyāḥ tādṛśaiḥ eva tādṛśāḥ .. 01.12.24a ba ..
चार-संचारिणः संस्था गूढाश्चागूढ-संज्ञिताः ॥ ०१.१२.२४च्द् ॥
चार-संचारिणः संस्थाः गूढाः च अगूढ-संज्ञिताः ॥ ०१।१२।२४च् ॥
cāra-saṃcāriṇaḥ saṃsthāḥ gūḍhāḥ ca agūḍha-saṃjñitāḥ .. 01.12.24c ..
अकृत्यान्कृत्य-पक्षीयैर्दर्शितान्कार्य-हेतुभिः ॥ ०१.१२.२५अ ब ॥
अकृत्यान् कृत्य-पक्षीयैः दर्शितान् कार्य-हेतुभिः ॥ ०१।१२।२५अ ब ॥
akṛtyān kṛtya-pakṣīyaiḥ darśitān kārya-hetubhiḥ .. 01.12.25a ba ..
पर-अपसर्प-ज्ञान-अर्थं मुख्यानन्तेषु वासयेत् ॥ ०१.१२.२५च्द् ॥
पर-अपसर्प-ज्ञान-अर्थम् मुख्य-अनन्तेषु वासयेत् ॥ ०१।१२।२५च् ॥
para-apasarpa-jñāna-artham mukhya-ananteṣu vāsayet .. 01.12.25c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In