| |
|

This overlay will guide you through the buttons:

रक्षितो राजा राज्यं रक्षत्यासन्नेभ्यः परेभ्यश्च । पूर्वं दारेभ्यः पुत्रेभ्यश्च ॥ ०१.१७.०१ ॥
rakṣito rājā rājyaṃ rakṣatyāsannebhyaḥ parebhyaśca . pūrvaṃ dārebhyaḥ putrebhyaśca .. 01.17.01 ..
दार-रक्षणं निशान्त-प्रणिधौ वक्ष्यामः ॥ ०१.१७.०२ ॥
dāra-rakṣaṇaṃ niśānta-praṇidhau vakṣyāmaḥ .. 01.17.02 ..
पुत्र-रक्षणं तु ॥ ०१.१७.०३ ॥ जन्म-प्रभृति राज-पुत्रान्रक्षेत् ॥ ०१.१७.०४ ॥
putra-rakṣaṇaṃ tu .. 01.17.03 .. janma-prabhṛti rāja-putrānrakṣet .. 01.17.04 ..
कर्कटक-सधर्माणो हि जनक-भक्षा राज-पुत्राः ॥ ०१.१७.०५ ॥
karkaṭaka-sadharmāṇo hi janaka-bhakṣā rāja-putrāḥ .. 01.17.05 ..
तेषां अजात-स्नेहे पितर्युपांशु-दण्डः श्रेयान्" इति भारद्वाजः ॥ ०१.१७.०६ ॥
teṣāṃ ajāta-snehe pitaryupāṃśu-daṇḍaḥ śreyān" iti bhāradvājaḥ .. 01.17.06 ..
नृशंसं अदुष्ट-वधः क्षत्र-बीज-विनाशश्च इति विशाल-अक्षः ॥ ०१.१७.०७ ॥
nṛśaṃsaṃ aduṣṭa-vadhaḥ kṣatra-bīja-vināśaśca iti viśāla-akṣaḥ .. 01.17.07 ..
तस्मादेक-स्थान-अवरोधः श्रेयान् इति ॥ ०१.१७.०८ ॥
tasmādeka-sthāna-avarodhaḥ śreyān iti .. 01.17.08 ..
अहि-भयं एतद्" इति पाराशराः ॥ ०१.१७.०९ ॥
ahi-bhayaṃ etad" iti pārāśarāḥ .. 01.17.09 ..
कुमारो हि विक्रम-भयान्मां पिताअवरुणद्धि" इति ज्ञात्वा तं एवाङ्के कुर्यात् ॥ ०१.१७.१० ॥
kumāro hi vikrama-bhayānmāṃ pitāavaruṇaddhi" iti jñātvā taṃ evāṅke kuryāt .. 01.17.10 ..
तस्मादन्त-पाल-दुर्गे वासः श्रेयान्" इति ॥ ०१.१७.११ ॥
tasmādanta-pāla-durge vāsaḥ śreyān" iti .. 01.17.11 ..
औरभ्रं भयं एतद् इति पिशुनः ॥ ०१.१७.१२ ॥
aurabhraṃ bhayaṃ etad iti piśunaḥ .. 01.17.12 ..
प्रत्यापत्तेर्हि तदेव कारणं ज्ञात्वाअन्त-पाल-सखः स्यात् ॥ ०१.१७.१३ ॥ तस्मात्स्व-विषयादपकृष्टे सामन्त-दुर्गे वासः श्रेयान् इति ॥ ०१.१७.१४ ॥
pratyāpatterhi tadeva kāraṇaṃ jñātvāanta-pāla-sakhaḥ syāt .. 01.17.13 .. tasmātsva-viṣayādapakṛṣṭe sāmanta-durge vāsaḥ śreyān iti .. 01.17.14 ..
वत्स-स्थानं एतद् इति कौणपदन्तः ॥ ०१.१७.१५ ॥
vatsa-sthānaṃ etad iti kauṇapadantaḥ .. 01.17.15 ..
वत्सेनैव हि धेनुं पितरं अस्य सामन्तो दुह्यात् ॥ ०१.१७.१६ ॥ तस्मान्मातृ-बन्धुषु वासः श्रेयान् इति ॥ ०१.१७.१७ ॥
vatsenaiva hi dhenuṃ pitaraṃ asya sāmanto duhyāt .. 01.17.16 .. tasmānmātṛ-bandhuṣu vāsaḥ śreyān iti .. 01.17.17 ..
ध्वज-स्थानं एतद् इति वात-व्याधिः ॥ ०१.१७.१८ ॥
dhvaja-sthānaṃ etad iti vāta-vyādhiḥ .. 01.17.18 ..
तेन हि ध्वजेनादिति-कौशिकवदस्य मातृ-बान्धवा भिक्षेरन् ॥ ०१.१७.१९ ॥ तस्माद्ग्राम्य सुखेष्वेनं अवसृजेत् ॥ ०१.१७.२० ॥ सुख-उपरुद्धा हि पुत्राः पितरं नाभिद्रुह्यन्ति इति ॥ ०१.१७.२१ ॥
tena hi dhvajenāditi-kauśikavadasya mātṛ-bāndhavā bhikṣeran .. 01.17.19 .. tasmādgrāmya sukheṣvenaṃ avasṛjet .. 01.17.20 .. sukha-uparuddhā hi putrāḥ pitaraṃ nābhidruhyanti iti .. 01.17.21 ..
जीवन्-मरणं एतदिति कौटिल्यः ॥ ०१.१७.२२ ॥
jīvan-maraṇaṃ etaditi kauṭilyaḥ .. 01.17.22 ..
काष्ठं इव घुण-जग्धं राज-कुलं अविनीत-पुत्रं अभियुक्त-मात्रं भज्येत ॥ ०१.१७.२३ ॥
kāṣṭhaṃ iva ghuṇa-jagdhaṃ rāja-kulaṃ avinīta-putraṃ abhiyukta-mātraṃ bhajyeta .. 01.17.23 ..
तस्मादृतुमत्यां महिष्यां ऋत्विजश्चरुं ऐन्द्राबार्हस्पत्यं निर्वपेयुः ॥ ०१.१७.२४ ॥
tasmādṛtumatyāṃ mahiṣyāṃ ṛtvijaścaruṃ aindrābārhaspatyaṃ nirvapeyuḥ .. 01.17.24 ..
आपन्न-सत्त्वायाः कौमार-भृत्यो गर्भ-भर्मणि प्रसवे च वियतेत ॥ ०१.१७.२५ ॥
āpanna-sattvāyāḥ kaumāra-bhṛtyo garbha-bharmaṇi prasave ca viyateta .. 01.17.25 ..
प्रजातायाः पुत्र-संस्कारं पुरोहितः कुर्यात् ॥ ०१.१७.२६ ॥
prajātāyāḥ putra-saṃskāraṃ purohitaḥ kuryāt .. 01.17.26 ..
समर्थं तद्विदो विनयेयुः ॥ ०१.१७.२७ ॥
samarthaṃ tadvido vinayeyuḥ .. 01.17.27 ..
सत्त्रिणां एकश्चएनं मृगया-द्यूत-मद्य-स्त्रीभिः प्रलोभयेत्पितरि विक्रम्य राज्यं गृहाण" इति ॥ ०१.१७.२८ ॥
sattriṇāṃ ekaścaenaṃ mṛgayā-dyūta-madya-strībhiḥ pralobhayetpitari vikramya rājyaṃ gṛhāṇa" iti .. 01.17.28 ..
तं अन्यः सत्त्री प्रतिषेधयेत्" इत्याम्भीयाः ॥ ०१.१७.२९ ॥
taṃ anyaḥ sattrī pratiṣedhayet" ityāmbhīyāḥ .. 01.17.29 ..
महा-दोषं अबुद्ध-बोधनं इत्कौटिल्यः ॥ ०१.१७.३० ॥
mahā-doṣaṃ abuddha-bodhanaṃ itkauṭilyaḥ .. 01.17.30 ..
नवं हि द्रव्यं येन येनार्थ-जातेनौपदिह्यते तत्तदाचूषति ॥ ०१.१७.३१ ॥
navaṃ hi dravyaṃ yena yenārtha-jātenaupadihyate tattadācūṣati .. 01.17.31 ..
एवं अयं नव-बुद्धिर्यद्यदुच्यते तत्तत्-शास्त्र-उपदेशं इवाभिजानाति ॥ ०१.१७.३२ ॥
evaṃ ayaṃ nava-buddhiryadyaducyate tattat-śāstra-upadeśaṃ ivābhijānāti .. 01.17.32 ..
तस्माद्धर्म्यं अर्थ्यं चास्यौपदिशेन्नाधर्म्यं अनर्थ्यं च ॥ ०१.१७.३३ ॥
tasmāddharmyaṃ arthyaṃ cāsyaupadiśennādharmyaṃ anarthyaṃ ca .. 01.17.33 ..
सत्त्रिणस्त्वेनं "तव स्मः" इति वदन्तः पालयेयुः ॥ ०१.१७.३४ ॥
sattriṇastvenaṃ "tava smaḥ" iti vadantaḥ pālayeyuḥ .. 01.17.34 ..
यौवन-उत्सेकात्पर-स्त्रीषु मनः कुर्वाणं आर्या-व्यञ्जनाभिः स्त्रीभिरमेध्याभिः शून्य-आगारेषु रात्रावुद्वेजयेयुः ॥ ०१.१७.३५ ॥
yauvana-utsekātpara-strīṣu manaḥ kurvāṇaṃ āryā-vyañjanābhiḥ strībhiramedhyābhiḥ śūnya-āgāreṣu rātrāvudvejayeyuḥ .. 01.17.35 ..
मद्य-कामं योग-पानेनौद्वेजयेयुः ॥ ०१.१७.३६ ॥
madya-kāmaṃ yoga-pānenaudvejayeyuḥ .. 01.17.36 ..
द्यूत-कामं कापटिकैरुद्वेजयेयुः ॥ ०१.१७.३७ ॥
dyūta-kāmaṃ kāpaṭikairudvejayeyuḥ .. 01.17.37 ..
मृगया-कामं प्रतिरोधक-व्यञ्जनैस्त्रासयेयुः ॥ ०१.१७.३८ ॥
mṛgayā-kāmaṃ pratirodhaka-vyañjanaistrāsayeyuḥ .. 01.17.38 ..
पितरि विक्रम-बुद्धिं "तथा" इत्यनुप्रविश्य भेदयेयुः "अप्रार्थनीयो राजा । विपन्ने घातः । सम्पन्ने नरक-पातः । संक्रोशः । प्रजाभिरेक-लोष्ट-वधश्च" इति ॥ ०१.१७.३९ ॥
pitari vikrama-buddhiṃ "tathā" ityanupraviśya bhedayeyuḥ "aprārthanīyo rājā . vipanne ghātaḥ . sampanne naraka-pātaḥ . saṃkrośaḥ . prajābhireka-loṣṭa-vadhaśca" iti .. 01.17.39 ..
विरागं वेदयेयुः ॥ ०१.१७.४० ॥
virāgaṃ vedayeyuḥ .. 01.17.40 ..
प्रियं एक-पुत्रं बध्नीयात् ॥ ०१.१७.४१ ॥
priyaṃ eka-putraṃ badhnīyāt .. 01.17.41 ..
बहु-पुत्रः प्रत्यन्तं अन्य-विषयं वा प्रेषयेद्यत्र गर्भः पण्यं डिम्बो वा न भवेत् ॥ ०१.१७.४२ ॥
bahu-putraḥ pratyantaṃ anya-viṣayaṃ vā preṣayedyatra garbhaḥ paṇyaṃ ḍimbo vā na bhavet .. 01.17.42 ..
आत्म-सम्पन्नं सैनापत्ये यौवराज्ये वा स्थापयेत् ॥ ०१.१७.४३ ॥
ātma-sampannaṃ saināpatye yauvarājye vā sthāpayet .. 01.17.43 ..
बुद्धिमान्-आहार्य-बुद्धिर्दुर्बुद्धिरिति पुत्र-विशेषाः ॥ ०१.१७.४४ ॥
buddhimān-āhārya-buddhirdurbuddhiriti putra-viśeṣāḥ .. 01.17.44 ..
शिष्यमाणो धर्म-अर्थावुपलभते चानुतिष्ठति च बुद्धिमान् ॥ ०१.१७.४५ ॥
śiṣyamāṇo dharma-arthāvupalabhate cānutiṣṭhati ca buddhimān .. 01.17.45 ..
उपलभमानो नानुतिष्ठत्याहार्य-बुद्धिः ॥ ०१.१७.४६ ॥
upalabhamāno nānutiṣṭhatyāhārya-buddhiḥ .. 01.17.46 ..
अपाय-नित्यो धर्म-अर्थ-द्वेषी चैति दुर्बुद्धिः ॥ ०१.१७.४७ ॥
apāya-nityo dharma-artha-dveṣī caiti durbuddhiḥ .. 01.17.47 ..
स यद्येक-पुत्रः पुत्र-उत्पत्तावस्य प्रयतेत ॥ ०१.१७.४८ ॥
sa yadyeka-putraḥ putra-utpattāvasya prayateta .. 01.17.48 ..
पुत्रिका-पुत्रानुत्पादयेद्वा ॥ ०१.१७.४९ ॥
putrikā-putrānutpādayedvā .. 01.17.49 ..
वृद्धस्तु व्याधितो वा राजा मातृ-बन्धु-कुल्य-गुणवत्-सामन्तानां अन्यतमेन क्षेत्रे बीजं उत्पादयेत् ॥ ०१.१७.५० ॥
vṛddhastu vyādhito vā rājā mātṛ-bandhu-kulya-guṇavat-sāmantānāṃ anyatamena kṣetre bījaṃ utpādayet .. 01.17.50 ..
न चएक-पुत्रं अविनीतं राज्ये स्थापयेत् ॥ ०१.१७.५१ ॥
na caeka-putraṃ avinītaṃ rājye sthāpayet .. 01.17.51 ..
बहूनां एक-सम्रोधः पिता पुत्र-हितो भवेत् ॥ ०१.१७.५२अ ब ॥
bahūnāṃ eka-samrodhaḥ pitā putra-hito bhavet .. 01.17.52a ba ..
अन्यत्रऽपद ऐश्वर्यं ज्येष्ठ-भागि तु पूज्यते ॥ ०१.१७.५२च्द् ॥
anyatra'pada aiśvaryaṃ jyeṣṭha-bhāgi tu pūjyate .. 01.17.52cd ..
कुलस्य वा भवेद्राज्यं कुल-संघो हि दुर्जयः ॥ ०१.१७.५३अ ब ॥
kulasya vā bhavedrājyaṃ kula-saṃgho hi durjayaḥ .. 01.17.53a ba ..
अराज-व्यसन-आबाधः शश्वदावसति क्षितिं ॥ ०१.१७.५३च्द् ॥
arāja-vyasana-ābādhaḥ śaśvadāvasati kṣitiṃ .. 01.17.53cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In