| |
|

This overlay will guide you through the buttons:

रक्षितो राजा राज्यं रक्षत्यासन्नेभ्यः परेभ्यश्च । पूर्वं दारेभ्यः पुत्रेभ्यश्च ॥ ०१.१७.०१ ॥
रक्षितः राजा राज्यम् रक्षति आसन्नेभ्यः परेभ्यः च । पूर्वम् दारेभ्यः पुत्रेभ्यः च ॥ ०१।१७।०१ ॥
rakṣitaḥ rājā rājyam rakṣati āsannebhyaḥ parebhyaḥ ca . pūrvam dārebhyaḥ putrebhyaḥ ca .. 01.17.01 ..
दार-रक्षणं निशान्त-प्रणिधौ वक्ष्यामः ॥ ०१.१७.०२ ॥
दार-रक्षणम् निशान्त-प्रणिधौ वक्ष्यामः ॥ ०१।१७।०२ ॥
dāra-rakṣaṇam niśānta-praṇidhau vakṣyāmaḥ .. 01.17.02 ..
पुत्र-रक्षणं तु ॥ ०१.१७.०३ ॥ जन्म-प्रभृति राज-पुत्रान्रक्षेत् ॥ ०१.१७.०४ ॥
पुत्र-रक्षणम् तु ॥ ०१।१७।०३ ॥ जन्म-प्रभृति राज-पुत्रान् रक्षेत् ॥ ०१।१७।०४ ॥
putra-rakṣaṇam tu .. 01.17.03 .. janma-prabhṛti rāja-putrān rakṣet .. 01.17.04 ..
कर्कटक-सधर्माणो हि जनक-भक्षा राज-पुत्राः ॥ ०१.१७.०५ ॥
कर्कटक-सधर्माणः हि जनक-भक्षाः राज-पुत्राः ॥ ०१।१७।०५ ॥
karkaṭaka-sadharmāṇaḥ hi janaka-bhakṣāḥ rāja-putrāḥ .. 01.17.05 ..
तेषां अजात-स्नेहे पितर्युपांशु-दण्डः श्रेयान्" इति भारद्वाजः ॥ ०१.१७.०६ ॥
तेषाम् अ जात-स्नेहे पितरि उपांशु दण्डः श्रेयान्" इति भारद्वाजः ॥ ०१।१७।०६ ॥
teṣām a jāta-snehe pitari upāṃśu daṇḍaḥ śreyān" iti bhāradvājaḥ .. 01.17.06 ..
नृशंसं अदुष्ट-वधः क्षत्र-बीज-विनाशश्च इति विशाल-अक्षः ॥ ०१.१७.०७ ॥
नृशंसम् अदुष्ट-वधः क्षत्र-बीज-विनाशः च इति विशाल-अक्षः ॥ ०१।१७।०७ ॥
nṛśaṃsam aduṣṭa-vadhaḥ kṣatra-bīja-vināśaḥ ca iti viśāla-akṣaḥ .. 01.17.07 ..
तस्मादेक-स्थान-अवरोधः श्रेयान् इति ॥ ०१.१७.०८ ॥
तस्मात् एक-स्थान-अवरोधः श्रेयान् इति ॥ ०१।१७।०८ ॥
tasmāt eka-sthāna-avarodhaḥ śreyān iti .. 01.17.08 ..
अहि-भयं एतद्" इति पाराशराः ॥ ०१.१७.०९ ॥
अहि-भयम् एतत्" इति पाराशराः ॥ ०१।१७।०९ ॥
ahi-bhayam etat" iti pārāśarāḥ .. 01.17.09 ..
कुमारो हि विक्रम-भयान्मां पिताअवरुणद्धि" इति ज्ञात्वा तं एवाङ्के कुर्यात् ॥ ०१.१७.१० ॥
कुमारः हि विक्रम-भयात् माम् पिता अवरुणद्धि" इति ज्ञात्वा तम् एव अङ्के कुर्यात् ॥ ०१।१७।१० ॥
kumāraḥ hi vikrama-bhayāt mām pitā avaruṇaddhi" iti jñātvā tam eva aṅke kuryāt .. 01.17.10 ..
तस्मादन्त-पाल-दुर्गे वासः श्रेयान्" इति ॥ ०१.१७.११ ॥
तस्मात् अन्त-पाल-दुर्गे वासः श्रेयान्" इति ॥ ०१।१७।११ ॥
tasmāt anta-pāla-durge vāsaḥ śreyān" iti .. 01.17.11 ..
औरभ्रं भयं एतद् इति पिशुनः ॥ ०१.१७.१२ ॥
औरभ्रम् भयम् एतत् इति पिशुनः ॥ ०१।१७।१२ ॥
aurabhram bhayam etat iti piśunaḥ .. 01.17.12 ..
प्रत्यापत्तेर्हि तदेव कारणं ज्ञात्वाअन्त-पाल-सखः स्यात् ॥ ०१.१७.१३ ॥ तस्मात्स्व-विषयादपकृष्टे सामन्त-दुर्गे वासः श्रेयान् इति ॥ ०१.१७.१४ ॥
प्रत्यापत्तेः हि तत् एव कारणम् ज्ञात्वा अन्त-पाल-सखः स्यात् ॥ ०१।१७।१३ ॥ तस्मात् स्व-विषयात् अपकृष्टे सामन्त-दुर्गे वासः श्रेयान् इति ॥ ०१।१७।१४ ॥
pratyāpatteḥ hi tat eva kāraṇam jñātvā anta-pāla-sakhaḥ syāt .. 01.17.13 .. tasmāt sva-viṣayāt apakṛṣṭe sāmanta-durge vāsaḥ śreyān iti .. 01.17.14 ..
वत्स-स्थानं एतद् इति कौणपदन्तः ॥ ०१.१७.१५ ॥
वत्स-स्थानम् एतत् इति कौणपदन्तः ॥ ०१।१७।१५ ॥
vatsa-sthānam etat iti kauṇapadantaḥ .. 01.17.15 ..
वत्सेनैव हि धेनुं पितरं अस्य सामन्तो दुह्यात् ॥ ०१.१७.१६ ॥ तस्मान्मातृ-बन्धुषु वासः श्रेयान् इति ॥ ०१.१७.१७ ॥
वत्सेन एव हि धेनुम् पितरम् अस्य सामन्तः दुह्यात् ॥ ०१।१७।१६ ॥ तस्मात् मातृ-बन्धुषु वासः श्रेयान् इति ॥ ०१।१७।१७ ॥
vatsena eva hi dhenum pitaram asya sāmantaḥ duhyāt .. 01.17.16 .. tasmāt mātṛ-bandhuṣu vāsaḥ śreyān iti .. 01.17.17 ..
ध्वज-स्थानं एतद् इति वात-व्याधिः ॥ ०१.१७.१८ ॥
ध्वज-स्थानम् एतत् इति वात-व्याधिः ॥ ०१।१७।१८ ॥
dhvaja-sthānam etat iti vāta-vyādhiḥ .. 01.17.18 ..
तेन हि ध्वजेनादिति-कौशिकवदस्य मातृ-बान्धवा भिक्षेरन् ॥ ०१.१७.१९ ॥ तस्माद्ग्राम्य सुखेष्वेनं अवसृजेत् ॥ ०१.१७.२० ॥ सुख-उपरुद्धा हि पुत्राः पितरं नाभिद्रुह्यन्ति इति ॥ ०१.१७.२१ ॥
तेन हि ध्वजेन अदिति-कौशिक-वत् अस्य मातृ-बान्धवाः भिक्षेरन् ॥ ०१।१७।१९ ॥ तस्मात् ग्राम्य-सुखेषु एनम् अवसृजेत् ॥ ०१।१७।२० ॥ सुख-उपरुद्धाः हि पुत्राः पितरम् न अभिद्रुह्यन्ति इति ॥ ०१।१७।२१ ॥
tena hi dhvajena aditi-kauśika-vat asya mātṛ-bāndhavāḥ bhikṣeran .. 01.17.19 .. tasmāt grāmya-sukheṣu enam avasṛjet .. 01.17.20 .. sukha-uparuddhāḥ hi putrāḥ pitaram na abhidruhyanti iti .. 01.17.21 ..
जीवन्-मरणं एतदिति कौटिल्यः ॥ ०१.१७.२२ ॥
जीवत्-मरणम् एतत् इति कौटिल्यः ॥ ०१।१७।२२ ॥
jīvat-maraṇam etat iti kauṭilyaḥ .. 01.17.22 ..
काष्ठं इव घुण-जग्धं राज-कुलं अविनीत-पुत्रं अभियुक्त-मात्रं भज्येत ॥ ०१.१७.२३ ॥
काष्ठम् इव घुण-जग्धम् राज-कुलम् अविनीत-पुत्रम् अभियुक्त-मात्रम् भज्येत ॥ ०१।१७।२३ ॥
kāṣṭham iva ghuṇa-jagdham rāja-kulam avinīta-putram abhiyukta-mātram bhajyeta .. 01.17.23 ..
तस्मादृतुमत्यां महिष्यां ऋत्विजश्चरुं ऐन्द्राबार्हस्पत्यं निर्वपेयुः ॥ ०१.१७.२४ ॥
तस्मात् ऋतुमत्याम् महिष्याम् ऋत्विजः चरुम् ऐन्द्राबार्हस्पत्यम् निर्वपेयुः ॥ ०१।१७।२४ ॥
tasmāt ṛtumatyām mahiṣyām ṛtvijaḥ carum aindrābārhaspatyam nirvapeyuḥ .. 01.17.24 ..
आपन्न-सत्त्वायाः कौमार-भृत्यो गर्भ-भर्मणि प्रसवे च वियतेत ॥ ०१.१७.२५ ॥
आपन्न-सत्त्वायाः कौमार-भृत्यः गर्भ-भर्मणि प्रसवे च वियतेत ॥ ०१।१७।२५ ॥
āpanna-sattvāyāḥ kaumāra-bhṛtyaḥ garbha-bharmaṇi prasave ca viyateta .. 01.17.25 ..
प्रजातायाः पुत्र-संस्कारं पुरोहितः कुर्यात् ॥ ०१.१७.२६ ॥
प्रजातायाः पुत्र-संस्कारम् पुरोहितः कुर्यात् ॥ ०१।१७।२६ ॥
prajātāyāḥ putra-saṃskāram purohitaḥ kuryāt .. 01.17.26 ..
समर्थं तद्विदो विनयेयुः ॥ ०१.१७.२७ ॥
समर्थम् तद्-विदः विनयेयुः ॥ ०१।१७।२७ ॥
samartham tad-vidaḥ vinayeyuḥ .. 01.17.27 ..
सत्त्रिणां एकश्चएनं मृगया-द्यूत-मद्य-स्त्रीभिः प्रलोभयेत्पितरि विक्रम्य राज्यं गृहाण" इति ॥ ०१.१७.२८ ॥
सत्त्रिणाम् एकः च एनम् मृगया-द्यूत-मद्य-स्त्रीभिः प्रलोभयेत् पितरि विक्रम्य राज्यम् गृहाण" इति ॥ ०१।१७।२८ ॥
sattriṇām ekaḥ ca enam mṛgayā-dyūta-madya-strībhiḥ pralobhayet pitari vikramya rājyam gṛhāṇa" iti .. 01.17.28 ..
तं अन्यः सत्त्री प्रतिषेधयेत्" इत्याम्भीयाः ॥ ०१.१७.२९ ॥
तम् अन्यः सत्त्री प्रतिषेधयेत्" इति आम्भीयाः ॥ ०१।१७।२९ ॥
tam anyaḥ sattrī pratiṣedhayet" iti āmbhīyāḥ .. 01.17.29 ..
महा-दोषं अबुद्ध-बोधनं इत्कौटिल्यः ॥ ०१.१७.३० ॥
महा-दोषम् अ बुद्ध-बोधनम् इत् कौटिल्यः ॥ ०१।१७।३० ॥
mahā-doṣam a buddha-bodhanam it kauṭilyaḥ .. 01.17.30 ..
नवं हि द्रव्यं येन येनार्थ-जातेनौपदिह्यते तत्तदाचूषति ॥ ०१.१७.३१ ॥
नवम् हि द्रव्यम् येन येन अर्थ-जातेन उपदिह्यते तत् तत् आचूषति ॥ ०१।१७।३१ ॥
navam hi dravyam yena yena artha-jātena upadihyate tat tat ācūṣati .. 01.17.31 ..
एवं अयं नव-बुद्धिर्यद्यदुच्यते तत्तत्-शास्त्र-उपदेशं इवाभिजानाति ॥ ०१.१७.३२ ॥
एवम् अयम् नव-बुद्धिः यत् यत् उच्यते तद्-तद्-शास्त्र-उपदेशम् इव अभिजानाति ॥ ०१।१७।३२ ॥
evam ayam nava-buddhiḥ yat yat ucyate tad-tad-śāstra-upadeśam iva abhijānāti .. 01.17.32 ..
तस्माद्धर्म्यं अर्थ्यं चास्यौपदिशेन्नाधर्म्यं अनर्थ्यं च ॥ ०१.१७.३३ ॥
तस्मात् धर्म्यम् अर्थ्यम् च अस्य औपदिशेत् न अधर्म्यम् अनर्थ्यम् च ॥ ०१।१७।३३ ॥
tasmāt dharmyam arthyam ca asya aupadiśet na adharmyam anarthyam ca .. 01.17.33 ..
सत्त्रिणस्त्वेनं "तव स्मः" इति वदन्तः पालयेयुः ॥ ०१.१७.३४ ॥
सत्त्रिणः तु एनम् "तव स्मः" इति वदन्तः पालयेयुः ॥ ०१।१७।३४ ॥
sattriṇaḥ tu enam "tava smaḥ" iti vadantaḥ pālayeyuḥ .. 01.17.34 ..
यौवन-उत्सेकात्पर-स्त्रीषु मनः कुर्वाणं आर्या-व्यञ्जनाभिः स्त्रीभिरमेध्याभिः शून्य-आगारेषु रात्रावुद्वेजयेयुः ॥ ०१.१७.३५ ॥
यौवन-उत्सेकात् पर-स्त्रीषु मनः कुर्वाणम् आर्या-व्यञ्जनाभिः स्त्रीभिः अमेध्याभिः शून्य-आगारेषु रात्रौ उद्वेजयेयुः ॥ ०१।१७।३५ ॥
yauvana-utsekāt para-strīṣu manaḥ kurvāṇam āryā-vyañjanābhiḥ strībhiḥ amedhyābhiḥ śūnya-āgāreṣu rātrau udvejayeyuḥ .. 01.17.35 ..
मद्य-कामं योग-पानेनौद्वेजयेयुः ॥ ०१.१७.३६ ॥
मद्य-कामम् योग-पानेन ओद्वेजयेयुः ॥ ०१।१७।३६ ॥
madya-kāmam yoga-pānena odvejayeyuḥ .. 01.17.36 ..
द्यूत-कामं कापटिकैरुद्वेजयेयुः ॥ ०१.१७.३७ ॥
द्यूत-कामम् कापटिकैः उद्वेजयेयुः ॥ ०१।१७।३७ ॥
dyūta-kāmam kāpaṭikaiḥ udvejayeyuḥ .. 01.17.37 ..
मृगया-कामं प्रतिरोधक-व्यञ्जनैस्त्रासयेयुः ॥ ०१.१७.३८ ॥
मृगया-कामम् प्रतिरोधक-व्यञ्जनैः त्रासयेयुः ॥ ०१।१७।३८ ॥
mṛgayā-kāmam pratirodhaka-vyañjanaiḥ trāsayeyuḥ .. 01.17.38 ..
पितरि विक्रम-बुद्धिं "तथा" इत्यनुप्रविश्य भेदयेयुः "अप्रार्थनीयो राजा । विपन्ने घातः । सम्पन्ने नरक-पातः । संक्रोशः । प्रजाभिरेक-लोष्ट-वधश्च" इति ॥ ०१.१७.३९ ॥
पितरि विक्रम-बुद्धिम् "तथा" इति अनुप्रविश्य भेदयेयुः "अ प्रार्थनीयः राजा । विपन्ने घातः । सम्पन्ने नरक-पातः । संक्रोशः । प्रजाभिः एक-लोष्ट-वधः च" इति ॥ ०१।१७।३९ ॥
pitari vikrama-buddhim "tathā" iti anupraviśya bhedayeyuḥ "a prārthanīyaḥ rājā . vipanne ghātaḥ . sampanne naraka-pātaḥ . saṃkrośaḥ . prajābhiḥ eka-loṣṭa-vadhaḥ ca" iti .. 01.17.39 ..
विरागं वेदयेयुः ॥ ०१.१७.४० ॥
विरागम् वेदयेयुः ॥ ०१।१७।४० ॥
virāgam vedayeyuḥ .. 01.17.40 ..
प्रियं एक-पुत्रं बध्नीयात् ॥ ०१.१७.४१ ॥
प्रियम् एक-पुत्रम् बध्नीयात् ॥ ०१।१७।४१ ॥
priyam eka-putram badhnīyāt .. 01.17.41 ..
बहु-पुत्रः प्रत्यन्तं अन्य-विषयं वा प्रेषयेद्यत्र गर्भः पण्यं डिम्बो वा न भवेत् ॥ ०१.१७.४२ ॥
बहु-पुत्रः प्रत्यन्तम् अन्य-विषयम् वा प्रेषयेत् यत्र गर्भः पण्यम् डिम्बः वा न भवेत् ॥ ०१।१७।४२ ॥
bahu-putraḥ pratyantam anya-viṣayam vā preṣayet yatra garbhaḥ paṇyam ḍimbaḥ vā na bhavet .. 01.17.42 ..
आत्म-सम्पन्नं सैनापत्ये यौवराज्ये वा स्थापयेत् ॥ ०१.१७.४३ ॥
आत्म-सम्पन्नम् सैनापत्ये यौवराज्ये वा स्थापयेत् ॥ ०१।१७।४३ ॥
ātma-sampannam saināpatye yauvarājye vā sthāpayet .. 01.17.43 ..
बुद्धिमान्-आहार्य-बुद्धिर्दुर्बुद्धिरिति पुत्र-विशेषाः ॥ ०१.१७.४४ ॥
बुद्धिमान् आहार्य-बुद्धिः दुर्बुद्धिः इति पुत्र-विशेषाः ॥ ०१।१७।४४ ॥
buddhimān āhārya-buddhiḥ durbuddhiḥ iti putra-viśeṣāḥ .. 01.17.44 ..
शिष्यमाणो धर्म-अर्थावुपलभते चानुतिष्ठति च बुद्धिमान् ॥ ०१.१७.४५ ॥
शिष्यमाणः धर्म-अर्थौ उपलभते च अनुतिष्ठति च बुद्धिमान् ॥ ०१।१७।४५ ॥
śiṣyamāṇaḥ dharma-arthau upalabhate ca anutiṣṭhati ca buddhimān .. 01.17.45 ..
उपलभमानो नानुतिष्ठत्याहार्य-बुद्धिः ॥ ०१.१७.४६ ॥
उपलभमानः न अनुतिष्ठति आहार्य-बुद्धिः ॥ ०१।१७।४६ ॥
upalabhamānaḥ na anutiṣṭhati āhārya-buddhiḥ .. 01.17.46 ..
अपाय-नित्यो धर्म-अर्थ-द्वेषी चैति दुर्बुद्धिः ॥ ०१.१७.४७ ॥
अपाय-नित्यः धर्म-अर्थ-द्वेषी च एति दुर्बुद्धिः ॥ ०१।१७।४७ ॥
apāya-nityaḥ dharma-artha-dveṣī ca eti durbuddhiḥ .. 01.17.47 ..
स यद्येक-पुत्रः पुत्र-उत्पत्तावस्य प्रयतेत ॥ ०१.१७.४८ ॥
स यदि एक-पुत्रः पुत्र-उत्पत्तौ अस्य प्रयतेत ॥ ०१।१७।४८ ॥
sa yadi eka-putraḥ putra-utpattau asya prayateta .. 01.17.48 ..
पुत्रिका-पुत्रानुत्पादयेद्वा ॥ ०१.१७.४९ ॥
पुत्रिका-पुत्रान् उत्पादयेत् वा ॥ ०१।१७।४९ ॥
putrikā-putrān utpādayet vā .. 01.17.49 ..
वृद्धस्तु व्याधितो वा राजा मातृ-बन्धु-कुल्य-गुणवत्-सामन्तानां अन्यतमेन क्षेत्रे बीजं उत्पादयेत् ॥ ०१.१७.५० ॥
वृद्धः तु व्याधितः वा राजा मातृ-बन्धु-कुल्य-गुणवत्-सामन्तानाम् अन्यतमेन क्षेत्रे बीजम् उत्पादयेत् ॥ ०१।१७।५० ॥
vṛddhaḥ tu vyādhitaḥ vā rājā mātṛ-bandhu-kulya-guṇavat-sāmantānām anyatamena kṣetre bījam utpādayet .. 01.17.50 ..
न चएक-पुत्रं अविनीतं राज्ये स्थापयेत् ॥ ०१.१७.५१ ॥
न च एक-पुत्रम् अविनीतम् राज्ये स्थापयेत् ॥ ०१।१७।५१ ॥
na ca eka-putram avinītam rājye sthāpayet .. 01.17.51 ..
बहूनां एक-सम्रोधः पिता पुत्र-हितो भवेत् ॥ ०१.१७.५२अ ब ॥
बहूनाम् एक-सम्रोधः पिता पुत्र-हितः भवेत् ॥ ०१।१७।५२अ ब ॥
bahūnām eka-samrodhaḥ pitā putra-hitaḥ bhavet .. 01.17.52a ba ..
अन्यत्रऽपद ऐश्वर्यं ज्येष्ठ-भागि तु पूज्यते ॥ ०१.१७.५२च्द् ॥
अन्यत्र पदे ऐश्वर्यम् ज्येष्ठ-भागि तु पूज्यते ॥ ०१।१७।५२च् ॥
anyatra pade aiśvaryam jyeṣṭha-bhāgi tu pūjyate .. 01.17.52c ..
कुलस्य वा भवेद्राज्यं कुल-संघो हि दुर्जयः ॥ ०१.१७.५३अ ब ॥
कुलस्य वा भवेत् राज्यम् कुल-संघः हि दुर्जयः ॥ ०१।१७।५३अ ब ॥
kulasya vā bhavet rājyam kula-saṃghaḥ hi durjayaḥ .. 01.17.53a ba ..
अराज-व्यसन-आबाधः शश्वदावसति क्षितिं ॥ ०१.१७.५३च्द् ॥
अ राज-व्यसन-आबाधः शश्वत् आवसति क्षितिम् ॥ ०१।१७।५३च् ॥
a rāja-vyasana-ābādhaḥ śaśvat āvasati kṣitim .. 01.17.53c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In