| |
|

This overlay will guide you through the buttons:

द्यूत-अध्यक्षो द्यूतं एक-मुखं कारयेत् ॥ ०३.२०.०१ ॥
द्यूत-अध्यक्षः द्यूतम् एक-मुखम् कारयेत् ॥ ०३।२०।०१ ॥
dyūta-adhyakṣaḥ dyūtam eka-mukham kārayet .. 03.20.01 ..
अन्यत्र दीव्यतो द्वादश-पणो दण्डो गूढ-आजीवि-ज्ञापन-अर्थं ॥ ०३.२०.०२ ॥
अन्यत्र दीव्यतः द्वादश-पणः दण्डः गूढ-आजीवि-ज्ञापन-अर्थम् ॥ ०३।२०।०२ ॥
anyatra dīvyataḥ dvādaśa-paṇaḥ daṇḍaḥ gūḍha-ājīvi-jñāpana-artham .. 03.20.02 ..
द्यूत-अभियोगे जेतुः पूर्वः साहस-दण्डः । पराजितस्य मध्यमः ॥ ०३.२०.०३ ॥
द्यूत-अभियोगे जेतुः पूर्वः साहस-दण्डः । पराजितस्य मध्यमः ॥ ०३।२०।०३ ॥
dyūta-abhiyoge jetuḥ pūrvaḥ sāhasa-daṇḍaḥ . parājitasya madhyamaḥ .. 03.20.03 ..
बालिश-जातीयो ह्येष जेतु-कामः पराजयं न क्षमते इत्याचार्याः ॥ ०३.२०.०४ ॥
बालिश-जातीयः हि एष जेतु-कामः पराजयम् न क्षमते इति आचार्याः ॥ ०३।२०।०४ ॥
bāliśa-jātīyaḥ hi eṣa jetu-kāmaḥ parājayam na kṣamate iti ācāryāḥ .. 03.20.04 ..
नैत्य्कौटिल्यः ॥ ०३.२०.०५ ॥
naitykauṭilyaḥ || 03.20.05 ||
naitykauṭilyaḥ || 03.20.05 ||
पराजितश्चेद्द्वि-गुण-दण्डः क्रियेत न कश्चन राजानं अभिसरिष्यति ॥ ०३.२०.०६ ॥
पराजितः चेद् द्विगुण-दण्डः क्रियेत न कश्चन राजानम् अभिसरिष्यति ॥ ०३।२०।०६ ॥
parājitaḥ ced dviguṇa-daṇḍaḥ kriyeta na kaścana rājānam abhisariṣyati .. 03.20.06 ..
प्रायशो हि कितवाः कूट-देविनः ॥ ०३.२०.०७ ॥
प्रायशस् हि कितवाः कूट-देविनः ॥ ०३।२०।०७ ॥
prāyaśas hi kitavāḥ kūṭa-devinaḥ .. 03.20.07 ..
तेषां अध्यक्षाः शुद्धाः काकणीरक्षांश्च स्थापयेयुः ॥ ०३.२०.०८ ॥
तेषाम् अध्यक्षाः शुद्धाः काकणीरक्षान् च स्थापयेयुः ॥ ०३।२०।०८ ॥
teṣām adhyakṣāḥ śuddhāḥ kākaṇīrakṣān ca sthāpayeyuḥ .. 03.20.08 ..
काकण्य्-अक्षाणां अन्य-उपधाने द्वादश-पणो दण्डः । कूट-कर्मणि पूर्वः साहस-दण्डो जित-प्रत्यादानम् । उपधौ स्तेय-दण्डश्च ॥ ०३.२०.०९ ॥
काकणि-अक्षाणाम् अन्य-उपधाने द्वादश-पणः दण्डः । कूट-कर्मणि पूर्वः साहस-दण्डः जित-प्रत्यादानम् । उपधौ स्तेय-दण्डः च ॥ ०३।२०।०९ ॥
kākaṇi-akṣāṇām anya-upadhāne dvādaśa-paṇaḥ daṇḍaḥ . kūṭa-karmaṇi pūrvaḥ sāhasa-daṇḍaḥ jita-pratyādānam . upadhau steya-daṇḍaḥ ca .. 03.20.09 ..
जित-द्रव्यादध्यक्षः पञ्चकं शतं आददीत । काकण्य्-अक्ष-अराला-शलाका-अवक्रयं उदक-भूमि-कर्म-क्रयं च ॥ ०३.२०.१० ॥
जित-द्रव्याद्-अध्यक्षः पञ्चकम् शतम् आददीत । काकणी-अक्ष-अराला-शलाका-अवक्रयम् उदक-भूमि-कर्म-क्रयम् च ॥ ०३।२०।१० ॥
jita-dravyād-adhyakṣaḥ pañcakam śatam ādadīta . kākaṇī-akṣa-arālā-śalākā-avakrayam udaka-bhūmi-karma-krayam ca .. 03.20.10 ..
द्रव्याणां आधानं विक्रयं च कुर्यात् ॥ ०३.२०.११ ॥
द्रव्याणाम् आधानम् विक्रयम् च कुर्यात् ॥ ०३।२०।११ ॥
dravyāṇām ādhānam vikrayam ca kuryāt .. 03.20.11 ..
अक्ष-भूमि-हस्त-दोषाणां चाप्रतिषेधने द्वि-गुणो दण्डः ॥ ०३.२०.१२ ॥
अक्ष-भूमि-हस्त-दोषाणाम् च अ प्रतिषेधने द्वि-गुणः दण्डः ॥ ०३।२०।१२ ॥
akṣa-bhūmi-hasta-doṣāṇām ca a pratiṣedhane dvi-guṇaḥ daṇḍaḥ .. 03.20.12 ..
तेन समाह्वयो व्याख्यातः । अन्यत्र विद्या-शिल्प-समाह्वयात् इति ॥ ०३.२०.१३ ॥
तेन समाह्वयः व्याख्यातः । अन्यत्र विद्या-शिल्प-समाह्वयात् इति ॥ ०३।२०।१३ ॥
tena samāhvayaḥ vyākhyātaḥ . anyatra vidyā-śilpa-samāhvayāt iti .. 03.20.13 ..
प्रकीर्णकं तु याचितक-अवक्रीतक-आहितक-निक्षेपकाणां यथा-देश-कालं अदाने । यामच्-छाया-समुपवेश-संस्थितीनां वा देश-काल-अतिपातने । गुल्मतर-देयं ब्राह्मणं साधयतः । प्रतिवेश-अनुवेशयोरुपरि निमन्त्रणे च द्वादश-पणो दण्डः ॥ ०३.२०.१४ ॥
प्रकीर्णकम् तु याचितक-अवक्रीतक-आहितक-निक्षेपकाणाम् यथा देश-कालम् अदाने । यामद्-छाया-समुपवेश-संस्थितीनाम् वा देश-काल-अतिपातने । गुल्मतर-देयम् ब्राह्मणम् साधयतः । प्रतिवेश-अनुवेशयोः उपरि निमन्त्रणे च द्वादश-पणः दण्डः ॥ ०३।२०।१४ ॥
prakīrṇakam tu yācitaka-avakrītaka-āhitaka-nikṣepakāṇām yathā deśa-kālam adāne . yāmad-chāyā-samupaveśa-saṃsthitīnām vā deśa-kāla-atipātane . gulmatara-deyam brāhmaṇam sādhayataḥ . prativeśa-anuveśayoḥ upari nimantraṇe ca dvādaśa-paṇaḥ daṇḍaḥ .. 03.20.14 ..
संदिष्टं अर्थं अप्रयच्छतो । भ्रातृ-भार्यां हस्तेन लङ्घयतो । रूप-आजीवां अन्य-उपरुद्धां गच्छतः । पर-वक्तव्यं पण्यं क्रीणानस्य । समुद्रं गृहं उद्भिन्दतः । सामन्त-चत्वारिंशत्-कुल्य-आबाधां आचरतश्चाष्ट-चत्वारिंशत्-पणो दण्डः ॥ ०३.२०.१५ ॥
संदिष्टम् अर्थम् अ प्रयच्छतः । भ्रातृ-भार्याम् हस्तेन लङ्घयतः । रूप-आजीवाम् अन्य-उपरुद्धाम् गच्छतः । पर-वक्तव्यम् पण्यम् क्रीणानस्य । समुद्रम् गृहम् उद्भिन्दतः । सामन्त-चत्वारिंशत्-कुल्य-आबाधाम् आचरतः च अष्ट-चत्वारिंशत्-पणः दण्डः ॥ ०३।२०।१५ ॥
saṃdiṣṭam artham a prayacchataḥ . bhrātṛ-bhāryām hastena laṅghayataḥ . rūpa-ājīvām anya-uparuddhām gacchataḥ . para-vaktavyam paṇyam krīṇānasya . samudram gṛham udbhindataḥ . sāmanta-catvāriṃśat-kulya-ābādhām ācarataḥ ca aṣṭa-catvāriṃśat-paṇaḥ daṇḍaḥ .. 03.20.15 ..
कुल-नीवी-ग्राहकस्यापव्ययने । विधवां छन्द-वासिनीं प्रसह्याधिचरतः । चण्डालस्यऽर्यां स्पृशतः । प्रत्यासन्नं आपद्यनभिधावतो । निष्कारणं अभिधावनं कुर्वतः । शाक्य-आजीवक-आदीन्वृषल-प्रव्रजितान्देव-पितृ-कार्येषु भोजयतः शत्यो दण्डः ॥ ०३.२०.१६ ॥
कुल-नीवी-ग्राहकस्य अपव्ययने । विधवाम् छन्द-वासिनीम् प्रसह्य अधिचरतः । चण्डालस्य अर्याम् स्पृशतः । प्रत्यासन्नम् आपदि अन् अभिधावतः । निष्कारणम् अभिधावनम् कुर्वतः । शाक्य-आजीवक-आदीन् वृषल-प्रव्रजितान् देव-पितृ-कार्येषु भोजयतः शत्यः दण्डः ॥ ०३।२०।१६ ॥
kula-nīvī-grāhakasya apavyayane . vidhavām chanda-vāsinīm prasahya adhicarataḥ . caṇḍālasya aryām spṛśataḥ . pratyāsannam āpadi an abhidhāvataḥ . niṣkāraṇam abhidhāvanam kurvataḥ . śākya-ājīvaka-ādīn vṛṣala-pravrajitān deva-pitṛ-kāryeṣu bhojayataḥ śatyaḥ daṇḍaḥ .. 03.20.16 ..
शपथ-वाक्य-अनुयोगं अनिषृष्टं कुर्वतः । युक्त-कर्म चायुक्तस्य । क्षुद्र-पशु-वृषाणां पुंस्त्व-उपघातिनः । दास्या गर्भं औषधेन पातयतश्च पूर्वः साहस-दण्डः ॥ ०३.२०.१७ ॥
शपथ-वाक्य-अनुयोगम् अनिषृष्टम् कुर्वतः । युक्त-कर्म च अयुक्तस्य । क्षुद्र-पशु-वृषाणाम् पुंस्त्व-उपघातिनः । दास्याः गर्भम् औषधेन पातयतः च पूर्वः साहस-दण्डः ॥ ०३।२०।१७ ॥
śapatha-vākya-anuyogam aniṣṛṣṭam kurvataḥ . yukta-karma ca ayuktasya . kṣudra-paśu-vṛṣāṇām puṃstva-upaghātinaḥ . dāsyāḥ garbham auṣadhena pātayataḥ ca pūrvaḥ sāhasa-daṇḍaḥ .. 03.20.17 ..
पिता-पुत्रयोर्दम्पत्योर्भ्रातृ-भगिन्योर्मातुल-भगिनेययोः शिष्य-आचार्ययोर्वा परस्परं अपतितं त्यजतः । सार्थ-आभिप्रयातं ग्राम-मध्ये वा त्यजतः पूर्वः साहस-दण्डः । कान्तारे मध्यमः । तन्-निमित्तं भ्रेषयत उत्तमः । सह-प्रस्थायिष्वन्येष्वर्ध-दण्डाः ॥ ०३.२०.१८ ॥
पिता-पुत्रयोः दम्पत्योः भ्रातृ-भगिन्योः मातुल-भगिनेययोः शिष्य-आचार्ययोः वा परस्परम् अपतितम् त्यजतः । सार्थ-आभिप्रयातम् ग्राम-मध्ये वा त्यजतः पूर्वः साहस-दण्डः । कान्तारे मध्यमः । तद्-निमित्तम् भ्रेषयतः उत्तमः । सह प्रस्थायिषु अन्येषु अर्ध-दण्डाः ॥ ०३।२०।१८ ॥
pitā-putrayoḥ dampatyoḥ bhrātṛ-bhaginyoḥ mātula-bhagineyayoḥ śiṣya-ācāryayoḥ vā parasparam apatitam tyajataḥ . sārtha-ābhiprayātam grāma-madhye vā tyajataḥ pūrvaḥ sāhasa-daṇḍaḥ . kāntāre madhyamaḥ . tad-nimittam bhreṣayataḥ uttamaḥ . saha prasthāyiṣu anyeṣu ardha-daṇḍāḥ .. 03.20.18 ..
पुरुषं अबन्धनीयं बध्नतो बन्धयतो बन्धं वा मोक्षयतो । बालं अप्राप्त-व्यवहारं बध्नतो बन्धयतो वा सहस्रं दण्डः ॥ ०३.२०.१९ ॥
पुरुषम् अ बन्धनीयम् बध्नतः बन्धयतः बन्धम् वा मोक्षयतः । बालम् अप्राप्त-व्यवहारम् बध्नतः बन्धयतः वा सहस्रम् दण्डः ॥ ०३।२०।१९ ॥
puruṣam a bandhanīyam badhnataḥ bandhayataḥ bandham vā mokṣayataḥ . bālam aprāpta-vyavahāram badhnataḥ bandhayataḥ vā sahasram daṇḍaḥ .. 03.20.19 ..
पुरुष-अपराध-विशेषेण दण्ड-विशेषः कार्यः ॥ ०३.२०.२० ॥
पुरुष-अपराध-विशेषेण दण्ड-विशेषः कार्यः ॥ ०३।२०।२० ॥
puruṣa-aparādha-viśeṣeṇa daṇḍa-viśeṣaḥ kāryaḥ .. 03.20.20 ..
तीर्थ-करस्तपस्वी व्याधितः क्षुत्-पिपासा-अध्व-क्लान्तस्तिरो-जन-पदो दण्ड-खेदी निष्किंचनश्चानुग्राह्याः ॥ ०३.२०.२१ ॥
तीर्थ-करः तपस्वी व्याधितः क्षुध्-पिपासा-अध्व-क्लान्तः तिरस् जन-पदः दण्ड-खेदी निष्किंचनः च अनुग्राह्याः ॥ ०३।२०।२१ ॥
tīrtha-karaḥ tapasvī vyādhitaḥ kṣudh-pipāsā-adhva-klāntaḥ tiras jana-padaḥ daṇḍa-khedī niṣkiṃcanaḥ ca anugrāhyāḥ .. 03.20.21 ..
देव-ब्राह्मण-तपस्वि-स्त्री-बाल-वृद्ध-व्याधितानां अनाथानां अनभिसरतां धर्मस्थाः कार्याणि कुर्युः । न च देश-काल-भोगच्-छलेनातिहरेयुः ॥ ०३.२०.२२ ॥
देव-ब्राह्मण-तपस्वि-स्त्री-बाल-वृद्ध-व्याधितानाम् अनाथानाम् अन् अभिसरताम् धर्मस्थाः कार्याणि कुर्युः । न च देश-काल-भोग-छलेन अतिहरेयुः ॥ ०३।२०।२२ ॥
deva-brāhmaṇa-tapasvi-strī-bāla-vṛddha-vyādhitānām anāthānām an abhisaratām dharmasthāḥ kāryāṇi kuryuḥ . na ca deśa-kāla-bhoga-chalena atihareyuḥ .. 03.20.22 ..
पूज्या विद्या-बुद्धि-पौरुष-अभिजन-कर्म-अतिशयतश्च पुरुषाः ॥ ०३.२०.२३ ॥
पूज्याः विद्या-बुद्धि-पौरुष-अभिजन-कर्म-अतिशयतः च पुरुषाः ॥ ०३।२०।२३ ॥
pūjyāḥ vidyā-buddhi-pauruṣa-abhijana-karma-atiśayataḥ ca puruṣāḥ .. 03.20.23 ..
एवं कार्याणि धर्मस्थाः कुर्युरच्छल-दर्शिनः । ॥ ०३.२०.२४अ ब ॥
एवम् कार्याणि धर्मस्थाः कुर्युः अ छल-दर्शिनः । ॥ ०३।२०।२४अ ब ॥
evam kāryāṇi dharmasthāḥ kuryuḥ a chala-darśinaḥ . .. 03.20.24a ba ..
समाः सर्वेषु भावेषु विश्वास्या लोक-सम्प्रियाः ॥ ०३.२०.२४च्द् ॥
समाः सर्वेषु भावेषु विश्वास्याः लोक-सम्प्रियाः ॥ ०३।२०।२४च् ॥
samāḥ sarveṣu bhāveṣu viśvāsyāḥ loka-sampriyāḥ .. 03.20.24c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In