| |
|

This overlay will guide you through the buttons:

श्रीः॥ नामलिङ्गानुशासनं नाम अमरकोषः । प्रथमं काण्डम् ।
śrīḥ.. nāmaliṅgānuśāsanaṃ nāma amarakoṣaḥ . prathamaṃ kāṇḍam .
यस्य ज्ञानदयासिंधोरगाधस्यानघा गुणाः ॥ १.०.१ ॥
yasya jñānadayāsiṃdhoragādhasyānaghā guṇāḥ .. 1.0.1 ..
सेव्यतामक्षयो धीराः स श्रिये चामृताय च ॥ १.०.२ ॥
sevyatāmakṣayo dhīrāḥ sa śriye cāmṛtāya ca .. 1.0.2 ..
समाहृत्यान्यतन्त्राणि संक्षिप्तैः प्रतिसंस्कृतैः ॥ १.०.३ ॥
samāhṛtyānyatantrāṇi saṃkṣiptaiḥ pratisaṃskṛtaiḥ .. 1.0.3 ..
संपूर्णमुच्यते वर्गैर्नामलिङ्गानुशासनम् ॥ १.०.४॥
saṃpūrṇamucyate vargairnāmaliṅgānuśāsanam .. 1.0.4..
प्रायशो रूपभेदेन साहचर्याच्च कुत्रचित् ॥ १.०.५ ॥
prāyaśo rūpabhedena sāhacaryācca kutracit .. 1.0.5 ..
स्त्रीपुंनपुंसकं ज्ञेयं तद्विशेषविधेः क्वचित् ॥ १.०.६ ॥
strīpuṃnapuṃsakaṃ jñeyaṃ tadviśeṣavidheḥ kvacit .. 1.0.6 ..
भेदाख्यानाय न द्वन्द्वो नैकशेषो न संकरः ॥ १.०.७ ॥
bhedākhyānāya na dvandvo naikaśeṣo na saṃkaraḥ .. 1.0.7 ..
कृतोऽत्र भिन्नलिङ्गानामनुक्तानां क्रमादृते ॥ १.०.८ ॥
kṛto'tra bhinnaliṅgānāmanuktānāṃ kramādṛte .. 1.0.8 ..
त्रिलिङ्ग्यां त्रिष्विति पदं मिथुने तु द्वयोरिति ॥ १.०.९ ॥
triliṅgyāṃ triṣviti padaṃ mithune tu dvayoriti .. 1.0.9 ..
निषिद्धलिङ्गं शेषार्थं त्वन्ताथादि न पूर्वभाक् ॥ १.०.१० ॥
niṣiddhaliṅgaṃ śeṣārthaṃ tvantāthādi na pūrvabhāk .. 1.0.10 ..
अथ स्वर्गवर्गः ॥ १.१ ॥
atha svargavargaḥ .. 1.1 ..
स्वर् , स्वर्ग , नाक , त्रिदिव , त्रिदशालय
स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः ॥ १.१.११ ॥
svaravyayaṃ svarganākatridivatridaśālayāḥ .. 1.1.11 ..
सुरलोक , द्यो , दिव् , त्रिविष्टप .
सुरलोको द्योदिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम् ॥ १.१.१२ ॥
suraloko dyodivau dve striyāṃ klībe triviṣṭapam .. 1.1.12 ..
अमर , निर्जरा , देव , त्रिदश , विबुध , सुर
अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः ॥ १.१.१३ ॥
amarā nirjarā devāstridaśā vibudhāḥ surāḥ .. 1.1.13 ..
सुपर्वन् , सुमनस् , त्रिदिवेश , दिवौकस् .
सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः ॥ १.१.१४ ॥
suparvāṇaḥ sumanasastridiveśā divaukasaḥ .. 1.1.14 ..
आदितेय , दिविषद् , लेख , अदितिनन्दन
आदितेया दिविषदो लेखा अदितिनन्दनाः ॥ १.१.१५ ॥
āditeyā diviṣado lekhā aditinandanāḥ .. 1.1.15 ..
आदित्य , ऋभव , अस्वप्न , अमर्त्य , अमृतान्धस्
आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः ॥ १.१.१६ ॥
ādityā ṛbhavo'svapnā amartyā amṛtāndhasaḥ .. 1.1.16 ..
बर्हिर्मुख , क्रतुभुज् , गीर्वाण , दानवारि
बर्हिर्मुखाः क्रतुभुजो गीर्वाणा दानवारयः ॥ १.१.१७ ॥
barhirmukhāḥ kratubhujo gīrvāṇā dānavārayaḥ .. 1.1.17 ..
वृन्दारक , दैवत , देवता
वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम् ॥ १.१.१८ ॥
vṛndārakā daivatāni puṃsi vā devatāḥ striyām .. 1.1.18 ..
आदित्य , विश्व , वसु
आदित्यविश्ववसवस्तुषिताभास्वरानिलाः ॥ १.१.१९ ॥
ādityaviśvavasavastuṣitābhāsvarānilāḥ .. 1.1.19 ..
महाराजिक , साध्य , रुद्र
महाराजिकसाध्याश्च रुद्राश्च गणदेवताः ॥ १.१.२० ॥
mahārājikasādhyāśca rudrāśca gaṇadevatāḥ .. 1.1.20 ..
विद्याधर , अप्सरस् , यक्ष , रक्ष , गन्धर्व , किन्नर
विद्याधराप्सरोयक्षरक्षोगन्धर्वकिंनराः ॥ १.१.२१ ॥
vidyādharāpsaroyakṣarakṣogandharvakiṃnarāḥ .. 1.1.21 ..
पिशाच , गुह्यक , सिद्ध , भूत
पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः ॥ १.१.२२ ॥
piśāco guhyakaḥ siddho bhūto'mī devayonayaḥ .. 1.1.22 ..
असुर , दैत्य , दैतेय , दनुज , इन्द्रारि , दानव
असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः ॥ १.१.२३ ॥
asurā daityadaiteyadanujendrāridānavāḥ .. 1.1.23 ..
शुक्रशिष्य , दितिसुत , पूर्वदेव , सुरद्विष्
शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः ॥ १.१.२४ ॥
śukraśiṣyā ditisutāḥ pūrvadevāḥ suradviṣaḥ .. 1.1.24 ..
सर्वज्ञ , सुगत , बुद्ध , धर्मराज , तथागत
सर्वज्ञः सुगतः बुद्धो धर्मराजस्तथागतः ॥ १.१.२५ ॥
sarvajñaḥ sugataḥ buddho dharmarājastathāgataḥ .. 1.1.25 ..
समन्तभद्र , भगवत् , मारजित् , लोकजित् , जिन
समन्तभद्रो भगवान्मारजिल्लोकजिज्जिनः ॥ १.१.२६ ॥
samantabhadro bhagavānmārajillokajijjinaḥ .. 1.1.26 ..
षडभिज्ञ , दशबल , अद्वयवादिन् , विनायक
षडभिज्ञो दशबलोऽद्वयवादी विनायकः ॥ १.१.२७ ॥
ṣaḍabhijño daśabalo'dvayavādī vināyakaḥ .. 1.1.27 ..
मुनीन्द्र , श्रीघन , शास्तृ , मुनि
मुनीन्द्रः श्रीघनः शास्ता मुनिः शाक्यमुनिस्तु यः ॥ १.१.२८ ॥
munīndraḥ śrīghanaḥ śāstā muniḥ śākyamunistu yaḥ .. 1.1.28 ..
शाक्यसिंह , सर्वार्थसिद्ध , शौद्धोदनि
स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः ॥ १.१.२९ ॥
sa śākyasiṃhaḥ sarvārthasiddhaḥ śauddhodaniśca saḥ .. 1.1.29 ..
गौतम , अर्कबन्धु , मायादेवीसुत
गौतमश्चार्कबन्धुश्च मायादेवीसुतश्च सः ॥ १.१.३० ॥
gautamaścārkabandhuśca māyādevīsutaśca saḥ .. 1.1.30 ..
ब्रह्मन् , आत्मभू , सुरज्येष्ठ , परमेष्ठिन् , पितामह
ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः ॥ १.१.३१ ॥
brahmātmabhūḥ surajyeṣṭhaḥ parameṣṭhī pitāmahaḥ .. 1.1.31 ..
हिरण्यगर्भ , लोकेश , स्वयम्भू , चतुरानन
हिरण्यगर्भो लोकेशः स्वयंभूश्चतुराननः ॥ १.१.३२ ॥
hiraṇyagarbho lokeśaḥ svayaṃbhūścaturānanaḥ .. 1.1.32 ..
धातृ , अब्जयोनि , द्रुहिण , विरिञ्चि , विरञ्चि , कमलासन
धाताब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः ॥ १.१.३३ ॥
dhātābjayonirdruhiṇo viriñciḥ kamalāsanaḥ .. 1.1.33 ..
स्रष्टृ , प्रजापति , वेधस् , विधातृ , विश्वसृज् , विधि
स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृग्विधिः ॥ १.१.३४ ॥
sraṣṭā prajāpatirvedhā vidhātā viśvasṛgvidhiḥ .. 1.1.34 ..
नाभिजन्मन् , अण्डज , पूर्व , निधन , कमलोद्भव
नाभिजन्माण्डजः पूर्वो निधनः कमलोद्भवः ॥ १.१.३५ ॥
nābhijanmāṇḍajaḥ pūrvo nidhanaḥ kamalodbhavaḥ .. 1.1.35 ..
सदानन्द , रजोमूर्तिन् , सत्यक , हंसवाहन
सदानन्दो रजोमूर्तिः सत्यको हंसवाहनः ॥ १.१.३६ ॥
sadānando rajomūrtiḥ satyako haṃsavāhanaḥ .. 1.1.36 ..
विष्णु , नारायण , नरायण , कृष्ण , वैकुण्ठ , विष्टरश्रवस्
विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः ॥ १.१.३७ ॥
viṣṇurnārāyaṇaḥ kṛṣṇo vaikuṇṭho viṣṭaraśravāḥ .. 1.1.37 ..
दामोदर , हृषीकेश , केशव , माधव , स्वभू
दामोदरो हृषीकेशः केशवो माधवः स्वभूः ॥ १.१.३८ ॥
dāmodaro hṛṣīkeśaḥ keśavo mādhavaḥ svabhūḥ .. 1.1.38 ..
दैत्यारि , पुण्डरीकाक्ष , गोविन्द , गरुडध्वज
दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः ॥ १.१.३९ ॥
daityāriḥ puṇḍarīkākṣo govindo garuḍadhvajaḥ .. 1.1.39 ..
पीताम्बर , अच्युत , शार्ङ्गिन् , विष्वक्सेन , विश्वक्सेन , जनार्दन
पीताम्बरोऽच्युतः शार्ङ्गी विष्वक्सेनो जनार्दनः ॥ १.१.४० ॥
pītāmbaro'cyutaḥ śārṅgī viṣvakseno janārdanaḥ .. 1.1.40 ..
उपेन्द्र , इन्द्रावरज , चक्रपाणि , चतुर्भुज
उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः ॥ १.१.४१ ॥
upendra indrāvarajaścakrapāṇiścaturbhujaḥ .. 1.1.41 ..
पद्मनाभ , मधुरिपु , वासुदेव , त्रिविक्रम
पद्मनाभो मधुरिपुर्वासुदेवस्त्रिविक्रमः ॥ १.१.४२ ॥
padmanābho madhuripurvāsudevastrivikramaḥ .. 1.1.42 ..
देवकीनन्दन , शौरि , सौरि , श्रीपति , पुरुषोत्तम
देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः ॥ १.१.४३ ॥
devakīnandanaḥ śauriḥ śrīpatiḥ puruṣottamaḥ .. 1.1.43 ..
वनमालिन् , बलिध्वंसिन् , कंसाराति , अधोक्षज
वनमाली बलिध्वंसी कंसारातिरधोक्षजः ॥ १.१.४४ ॥
vanamālī balidhvaṃsī kaṃsārātiradhokṣajaḥ .. 1.1.44 ..
विश्वम्भर , कैटभजित् , विधु , श्रीवत्सलाञ्छन
विश्वम्भरः कैटभजिद्विधुः श्रीवत्सलाञ्छनः ॥ १.१.४५ ॥
viśvambharaḥ kaiṭabhajidvidhuḥ śrīvatsalāñchanaḥ .. 1.1.45 ..
पुराणपुरुष , यज्ञपुरुष , नरकान्तक
पुराणपुरुषो यज्ञपुरुषो नरकान्तकः ॥ १.१.४६ ॥
purāṇapuruṣo yajñapuruṣo narakāntakaḥ .. 1.1.46 ..
जलशायिन् , विश्वरूप , मुकुन्द , मुरमर्दन
जलशायी विश्वरूपो मुकुन्दो मुरमर्दनः ॥ १.१.४७ ॥
jalaśāyī viśvarūpo mukundo muramardanaḥ .. 1.1.47 ..
वसुदेव , आनकदुन्दुभि
वसुदेवोऽस्य जनकः स एवानकदुन्दुभिः ॥ १.१.४८ ॥
vasudevo'sya janakaḥ sa evānakadundubhiḥ .. 1.1.48 ..
बलभद्र , प्रलम्बघ्न , बलदेव , अच्युताग्रज
बलभद्रः प्रलम्बघ्नो बलदेवोऽच्युताग्रजः ॥ १.१.४९ ॥
balabhadraḥ pralambaghno baladevo'cyutāgrajaḥ .. 1.1.49 ..
रेवतीरमण , राम , कामपाल , हलायुध
रेवतीरमणो रामः कामपालो हलायुधः ॥ १.१.५० ॥
revatīramaṇo rāmaḥ kāmapālo halāyudhaḥ .. 1.1.50 ..
नीलाम्बर , रौहिणेय , तालाङ्क , मुसलिन् , मुषलिन् , हलिन्
नीलाम्बरो रौहिणेयस्तालाङ्को मुसली हली ॥ १.१.५१ ॥
nīlāmbaro rauhiṇeyastālāṅko musalī halī .. 1.1.51 ..
सङ्कर्षण , सीरपाणि , कालिन्दीभेदन , बल
संकर्षणः सीरपाणिः कालिन्दीभेदनो बलः ॥ १.१.५२ ॥
saṃkarṣaṇaḥ sīrapāṇiḥ kālindībhedano balaḥ .. 1.1.52 ..
मदन , मन्मथ , मार , प्रद्युम्न , मीनकेतन
मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः ॥ १.१.५३ ॥
madano manmatho māraḥ pradyumno mīnaketanaḥ .. 1.1.53 ..
कन्दर्प , दर्पक , अनङ्ग , काम , पञ्चशर , स्मर
कंदर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः ॥ १.१.५४ ॥
kaṃdarpo darpako'naṅgaḥ kāmaḥ pañcaśaraḥ smaraḥ .. 1.1.54 ..
शम्बरारि , सम्बरारि , मनसिज , कुसुमेषु , अनन्यज
शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः ॥ १.१.५५ ॥
śambarārirmanasijaḥ kusumeṣurananyajaḥ .. 1.1.55 ..
पुष्पधन्वन् , रतिपति , मकरध्वज , आत्मभू
पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः ॥ १.१.५६ ॥
puṣpadhanvā ratipatirmakaradhvaja ātmabhūḥ .. 1.1.56 ..
अरविन्द , अशोक , चूत , नवमल्लिका
अरविन्दमशोकं च चूतं च नवमल्लिका ॥ १.१.५७ ॥
aravindamaśokaṃ ca cūtaṃ ca navamallikā .. 1.1.57 ..
नीलोत्पल , पञ्चबाण
नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः ॥ १.१.५८ ॥
nīlotpalaṃ ca pañcaite pañcabāṇasya sāyakāḥ .. 1.1.58 ..
उन्मादन , तापन , शोषण , स्तम्भन
उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा ॥ १.१.५९ ॥
unmādanastāpanaśca śoṣaṇaḥ stambhanastathā .. 1.1.59 ..
सम्मोहन ,काम
संमोहनश्च कामश्च पञ्च बाणाः प्रकीर्तिताः ॥ १.१.६० ॥
saṃmohanaśca kāmaśca pañca bāṇāḥ prakīrtitāḥ .. 1.1.60 ..
ब्रह्मसू , विश्वकेतु , अनिरुद्ध , उषापति
ब्रह्मसूर्विश्वकेतुः स्यादनिरुद्ध उषापतिः ॥ १.१.६१ ॥
brahmasūrviśvaketuḥ syādaniruddha uṣāpatiḥ .. 1.1.61 ..
लक्ष्मी , पद्मालया , पद्मा , कमला , श्री , हरिप्रिया
लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया ॥ १.१.६२ ॥
lakṣmīḥ padmālayā padmā kamalā śrīrharipriyā .. 1.1.62 ..
इन्दिरा , लोकमातृ , मा , क्षीरोदतनया , क्षीराब्धितनया , रमा
इन्दिरा लोकमाता मा क्षीरोदतनया रमा ॥ १.१.६३ ॥
indirā lokamātā mā kṣīrodatanayā ramā .. 1.1.63 ..
भार्गवी , लोकजननी , क्षीरसागरकन्यका
भार्गवी लोकजननी क्षीरसागरकन्यका ॥ १.१.६४ ॥
bhārgavī lokajananī kṣīrasāgarakanyakā .. 1.1.64 ..
लक्ष्मीपति , पाञ्चजन्य , सुदर्शन
शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनः ॥ १.१.६५ ॥
śaṅkho lakṣmīpateḥ pāñcajanyaścakraṃ sudarśanaḥ .. 1.1.65 ..
कौमोदकी , नन्दक , कौस्तुभ
कौमोदकी गदा खड्गो नन्दकः कौस्तुभो मणिः ॥ १.१.६६ ॥
kaumodakī gadā khaḍgo nandakaḥ kaustubho maṇiḥ .. 1.1.66 ..
शार्ङ्ग , मुरारि , श्रीवत्स
चापः शार्ङ्गं मुरारेस्तु श्रीवत्सो लाञ्छनं स्मृतम् ॥ १.१.६७ ॥
cāpaḥ śārṅgaṃ murārestu śrīvatso lāñchanaṃ smṛtam .. 1.1.67 ..
शैब्य , सुग्रीव , मेघपुष्प , बलाहक
अश्वाश्च शैब्यसुग्रीवमेघपुष्पबलाहकाः ॥ १.१.६८ ॥
aśvāśca śaibyasugrīvameghapuṣpabalāhakāḥ .. 1.1.68 ..
दारुक , उद्धव , गद
सारथिर्दारुको मन्त्री ह्युद्धवश्चानुजो गदः ॥ १.१.६९ ॥
sārathirdāruko mantrī hyuddhavaścānujo gadaḥ .. 1.1.69 ..
गरुत्मत् , गरुड , तार्क्ष्य , वैनतेय , खगेश्वर
गरुत्मान्गरुडस्तार्क्ष्यो वैनतेयः खगेश्वरः ॥ १.१.७० ॥
garutmāngaruḍastārkṣyo vainateyaḥ khageśvaraḥ .. 1.1.70 ..
नागान्तक , विष्णुरथ , सुपर्ण , पन्नगाशन
नागान्तको विष्णुरथः सुपर्णः पन्नगाशनः ॥ १.१.७१ ॥
nāgāntako viṣṇurathaḥ suparṇaḥ pannagāśanaḥ .. 1.1.71 ..
शम्भु , ईश , पशुपति , शिव , शूलिन् , महेश्वर
शम्भुरीशः पशुपतिः शिवः शूली महेश्वरः ॥ १.१.७२ ॥
śambhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ .. 1.1.72 ..
ईश्वर , शर्व ईशान , शङ्कर , चन्द्रशेखर
ईश्वरः शर्व ईशानः शंकरश्चन्द्रशेखरः ॥ १.१.७३ ॥
īśvaraḥ śarva īśānaḥ śaṃkaraścandraśekharaḥ .. 1.1.73 ..
भूतेश , खण्डपरशु , गिरीश , गिरिश , मृड
भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः ॥ १.१.७४ ॥
bhūteśaḥ khaṇḍaparaśurgirīśo giriśo mṛḍaḥ .. 1.1.74 ..
मृत्युञ्जय , कृत्तिवासस् , पिनाकिन् , प्रमथाधिप
मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः ॥ १.१.७५ ॥
mṛtyuñjayaḥ kṛttivāsāḥ pinākī pramathādhipaḥ .. 1.1.75 ..
उग्र , कपर्दिन् , श्रीकण्ठ , शितिकण्ठ , कपालभृत्
उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् ॥ १.१.७६ ॥
ugraḥ kapardī śrīkaṇṭhaḥ śitikaṇṭhaḥ kapālabhṛt .. 1.1.76 ..
वामदेव , महादेव , विरूपाक्ष , त्रिलोचन
वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः ॥ १.१.७७ ॥
vāmadevo mahādevo virūpākṣastrilocanaḥ .. 1.1.77 ..
कृशानुरेतस् , सर्वज्ञ , धूर्जटि , नीललोहित
कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः ॥ १.१.७८ ॥
kṛśānuretāḥ sarvajño dhūrjaṭirnīlalohitaḥ .. 1.1.78 ..
हर , स्मरहर , भर्ग , त्र्यम्बक , त्रिपुरान्तक
हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः ॥ १.१.७९ ॥
haraḥ smaraharo bhargastryambakastripurāntakaḥ .. 1.1.79 ..
गङ्गाधर , अन्धकरिपु , क्रतुध्वंसिन् , वृषध्वज
गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः ॥ १.१.८० ॥
gaṅgādharo'ndhakaripuḥ kratudhvaṃsī vṛṣadhvajaḥ .. 1.1.80 ..
व्योमकेश , भव , भीम , स्थाणु , रुद्र , उमापति
व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः ॥ १.१.८१ ॥
vyomakeśo bhavo bhīmaḥ sthāṇū rudra umāpatiḥ .. 1.1.81 ..
अहिर्बुध्न्य , अष्टमूर्ति , गजारि , महानट
अहिर्बुध्न्योऽष्टमूर्तिश्च गजारिश्च महानटः ॥ १.१.८२ ॥
ahirbudhnyo'ṣṭamūrtiśca gajāriśca mahānaṭaḥ .. 1.1.82 ..
कपर्द , जटाजूट , पिनाक , अजगव
कपर्दोऽस्य जटाजूटः पिनाकोऽजगवं धनुः ॥ १.१.८३ ॥
kapardo'sya jaṭājūṭaḥ pināko'jagavaṃ dhanuḥ .. 1.1.83 ..
प्रमथ , पारिषद
प्रमथाः स्युः पारिषदा ब्राह्मीत्याद्यास्तु मातरः ॥ १.१.८४ ॥
pramathāḥ syuḥ pāriṣadā brāhmītyādyāstu mātaraḥ .. 1.1.84 ..
विभूति , भूति , ऐश्वर्य
विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा ॥ १.१.८५ ॥
vibhūtirbhūtiraiśvaryamaṇimādikamaṣṭadhā .. 1.1.85 ..
अणिमन् , महिमन् , गरिमन् , लघिमन्
अणिमा महिमा चैव गरिमा लघिमा तथा ॥ १.१.८६ ॥
aṇimā mahimā caiva garimā laghimā tathā .. 1.1.86 ..
प्राप्ति , प्राकाम्य , ईशित्व , वशित्व
प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः ॥ १.१.८७ ॥
prāptiḥ prākāmyamīśitvaṃ vaśitvaṃ cāṣṭa siddhayaḥ .. 1.1.87 ..
उमा , कात्यायनी , गौरी , काली , हैमवती , ईश्वरी ,
उमा कात्यायनी गौरी काली हैमवतीश्वरी ॥ १.१.८८ ॥
umā kātyāyanī gaurī kālī haimavatīśvarī .. 1.1.88 ..
शिवा , भवानी , रुद्राणी , शर्वाणी , सर्वमङ्गला
शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला ॥ १.१.८९ ॥
śivā bhavānī rudrāṇī śarvāṇī sarvamaṅgalā .. 1.1.89 ..
अपर्णा , पार्वती , दुर्गा , मृडानी , चण्डिका , अम्बिका
अपर्णा पार्वती दुर्गा मृडानी चण्डिकाम्बिका ॥ १.१.९० ॥
aparṇā pārvatī durgā mṛḍānī caṇḍikāmbikā .. 1.1.90 ..
आर्या , दाक्षायणी , गिरिजा , मेनकात्मजा
आर्या दाक्षायणी चैव गिरिजा मेनकात्मजा ॥ १.१.९१ ॥
āryā dākṣāyaṇī caiva girijā menakātmajā .. 1.1.91 ..
कर्ममोटी , चामुण्डा , चर्ममुण्डा , चर्चिका ,
कर्ममोटी तु चामुण्डा चर्ममुण्डा तु चर्चिका ॥ १.१.९२ ॥
karmamoṭī tu cāmuṇḍā carmamuṇḍā tu carcikā .. 1.1.92 ..
विनायक , विघ्नराज , द्वैमातुर , गणाधिप
विनायको विघ्नराजद्वैमातुरगणाधिपाः ॥ १.१.९३ ॥
vināyako vighnarājadvaimāturagaṇādhipāḥ .. 1.1.93 ..
एकदन्त , हेरम्ब , लम्बोदर , गजानन
अप्येकदन्तहेरम्बलम्बोदरगजाननाः ॥ १.१.९४ ॥
apyekadantaherambalambodaragajānanāḥ .. 1.1.94 ..
कार्तिकेय , महासेन , शरजन्मन् , षडानन
कार्तिकेयो महासेनः शरजन्मा षडाननः ॥ १.१.९५ ॥
kārtikeyo mahāsenaḥ śarajanmā ṣaḍānanaḥ .. 1.1.95 ..
पार्वतीनन्दन , स्कन्द , सेनानी , अग्निभू , गुह
पार्वतीनन्दनः स्कन्दः सेनानीरग्निभूर्गुहः ॥ १.१.९६ ॥
pārvatīnandanaḥ skandaḥ senānīragnibhūrguhaḥ .. 1.1.96 ..
बाहुलेय , तारकजित् , विशाख , शिखिवाहन
बाहुलेयस्तारकजिद्विशाखः शिखिवाहनः ॥ १.१.९७ ॥
bāhuleyastārakajidviśākhaḥ śikhivāhanaḥ .. 1.1.97 ..
षाण्मातुर , शक्तिधर , कुमार , क्रौञ्चदारण
षाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः ॥ १.१.९८ ॥
ṣāṇmāturaḥ śaktidharaḥ kumāraḥ krauñcadāraṇaḥ .. 1.1.98 ..
शृङ्गिन् , भृङ्गिन् , रिटि , तुण्डिन् , नन्दिक , नन्दिकेश्वर
शृङ्गी भृङ्गी रिटिस्तुण्डी नन्दिको नन्दिकेश्वरः ॥ १.१.९९ ॥
śṛṅgī bhṛṅgī riṭistuṇḍī nandiko nandikeśvaraḥ .. 1.1.99 ..
इन्द्र , मरुत्वत् , मघवन् , बिडौजस् , पाकशासन
इन्द्रो मरुत्वान्मघवा बिडौजाः पाकशासनः ॥ १.१.१०० ॥
indro marutvānmaghavā biḍaujāḥ pākaśāsanaḥ .. 1.1.100 ..
वृद्धश्रवस् , सुनासीर ,, पुरुहूत , पुरन्दर
वृद्धश्रवाः सुनासीरः पुरुहूतः पुरन्दरः ॥ १.१.१०१ ॥
vṛddhaśravāḥ sunāsīraḥ puruhūtaḥ purandaraḥ .. 1.1.101 ..
जिष्णु , लेखर्षभ , शक्र , शतमन्यु , दिवस्पति
जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः ॥ १.१.१०२ ॥
jiṣṇurlekharṣabhaḥ śakraḥ śatamanyurdivaspatiḥ .. 1.1.102 ..
सुत्रामन् , गोत्रभिद् , वज्रिन् , वासव , वृत्रहन् , वृषन्
सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा ॥ १.१.१०३ ॥
sutrāmā gotrabhidvajrī vāsavo vṛtrahā vṛṣā .. 1.1.103 ..
वास्तोष्पति , सुरपति , बलाराति , शचीपति
वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः ॥ १.१.१०४ ॥
vāstoṣpatiḥ surapatirbalārātiḥ śacīpatiḥ .. 1.1.104 ..
जम्भभेदिन् , हरिहय , स्वाराज् , नमुचिसूदन
जम्भभेदी हरिहयः स्वाराण्नमुचिसूदनः ॥ १.१.१०५ ॥
jambhabhedī harihayaḥ svārāṇnamucisūdanaḥ .. 1.1.105 ..
सङ्क्रन्दन , दुश्च्यवन , तुराषा , मेघवाहन
संक्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः ॥ १.१.१०६ ॥
saṃkrandano duścyavanasturāṣāṇmeghavāhanaḥ .. 1.1.106 ..
आखण्डल , सहस्राक्ष , ऋभुक्षिन्
आखण्डलः सहस्राक्ष ऋभुक्षास्तस्य तु प्रिया ॥ १.१.१०७ ॥
ākhaṇḍalaḥ sahasrākṣa ṛbhukṣāstasya tu priyā .. 1.1.107 ..
पुलोमजा , शची , इन्द्राणी
पुलोमजा शचीन्द्राणी नगरी त्वमरावती ॥ १.१.१०८ ॥
pulomajā śacīndrāṇī nagarī tvamarāvatī .. 1.1.108 ..
उच्चैःश्रवस् , मातलि , नन्दन
हय उच्चैःश्रवा सूतो मातलिर्नन्दनं वनम् ॥ १.१.१०९ ॥
haya uccaiḥśravā sūto mātalirnandanaṃ vanam .. 1.1.109 ..
वैजयन्त , जयन्त , पाकशासनि
स्यात्प्रासादो वैजयन्तो जयन्तः पाकशासनिः ॥ १.१.११० ॥
syātprāsādo vaijayanto jayantaḥ pākaśāsaniḥ .. 1.1.110 ..
ऐरावत , अभ्रमातङ्ग , ऐरावण , अभ्रमुवल्लभ
ऐरावतोऽभ्रमातङ्गैरावणाऽभ्रमुवल्लभाः ॥ १.१.१११ ॥
airāvato'bhramātaṅgairāvaṇā'bhramuvallabhāḥ .. 1.1.111 ..
ह्रादिनी , वज्र
ह्रादिनी वज्रमस्त्री स्यात् कुलिशं भिदुरं पविः ॥ १.१.११२ ॥
hrādinī vajramastrī syāt kuliśaṃ bhiduraṃ paviḥ .. 1.1.112 ..
शतकोटि , स्वरु , स्वरुस् , शम्ब , दम्भोलि , अशनि
शतकोटिः स्वरुः शम्बो दम्भोलिरशनिर्द्वयोः ॥ १.१.११३ ॥
śatakoṭiḥ svaruḥ śambo dambholiraśanirdvayoḥ .. 1.1.113 ..
व्योमयान , विमान
व्योमयानं विमानोऽस्त्री नारदाद्याः सुरर्षयः ॥ १.१.११४ ॥
vyomayānaṃ vimāno'strī nāradādyāḥ surarṣayaḥ .. 1.1.114 ..
सुधर्मा , देवसभा ,
स्यात् सुधर्मा देवसभा पीयूषममृतं सुधा ॥ १.१.११५ ॥
syāt sudharmā devasabhā pīyūṣamamṛtaṃ sudhā .. 1.1.115 ..
मन्दाकिनी , वियद्गङ्गा , स्वर्णदी , सुरदीर्घिका
मन्दाकिनी वियद्गङ्गा स्वर्णदी सुरदीर्घिका ॥ १.१.११६ ॥
mandākinī viyadgaṅgā svarṇadī suradīrghikā .. 1.1.116 ..
मेरु , सुमेरु , हेमाद्रि , रत्नसानु , सुरालय
मेरुः सुमेरुर्हेमाद्री रत्नसानुः सुरालयः ॥ १.१.११७ ॥
meruḥ sumerurhemādrī ratnasānuḥ surālayaḥ .. 1.1.117 ..
देवतरु , मन्दार , पारिजातक
पञ्चैते देवतरवो मन्दारः पारिजातकः ॥ १.१.११८ ॥
pañcaite devataravo mandāraḥ pārijātakaḥ .. 1.1.118 ..
सन्तान , कल्पवृक्ष , हरिचन्दन
सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥ १.१.११९ ॥
santānaḥ kalpavṛkṣaśca puṃsi vā haricandanam .. 1.1.119 ..
-(2)
सनत्कुमारो वैधात्रः स्वर्वैद्यावश्विनीसुतौ ॥ १.१.१२० ॥
sanatkumāro vaidhātraḥ svarvaidyāvaśvinīsutau .. 1.1.120 ..
नासत्यौ
नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ ॥ १.१.१२१ ॥
nāsatyāvaśvinau dasrāvāśvineyau ca tāvubhau .. 1.1.121 ..
अप्सरस्
स्त्रियां बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः ॥ १.१.१२२ ॥
striyāṃ bahuṣvapsarasaḥ svarveśyā urvaśīmukhāḥ .. 1.1.122 ..
हाहा , हूहू , गन्धर्व
हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम् ॥ १.१.१२३ ॥
hāhā hūhūścaivamādyā gandharvāstridivaukasām .. 1.1.123 ..
अग्नि , वैश्वानर , वह्नि , वीतिहोत्र , धनञ्जय
अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः ॥ १.१.१२४ ॥
agnirvaiśvānaro vahnirvītihotro dhanañjayaḥ .. 1.1.124 ..
कृपीटयोनि , ज्वलन , जातवेदस् , तनूनपात्
कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात् ॥ १.१.१२५ ॥
kṛpīṭayonirjvalano jātavedāstanūnapāt .. 1.1.125 ..
बर्हिस् , शुष्मन् , कृष्णवर्त्मन् , शोचिष्केश , उषर्बुध
बर्हिः शुष्मा कृष्णवर्त्मा शोचिष्केश उषर्बुधः ॥ १.१.१२६ ॥
barhiḥ śuṣmā kṛṣṇavartmā śociṣkeśa uṣarbudhaḥ .. 1.1.126 ..
आश्रयाश , बृहद्भानु , कृशानु , पावक , अनल
आश्रयाशो बृहद्भानुः कृशानुः पावकोऽनलः ॥ १.१.१२७ ॥
āśrayāśo bṛhadbhānuḥ kṛśānuḥ pāvako'nalaḥ .. 1.1.127 ..
रोहिताश्व , वायुसख , शिखावत् , आशुशुक्षणि
रोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः ॥ १.१.१२८ ॥
rohitāśvo vāyusakhaḥ śikhāvānāśuśukṣaṇiḥ .. 1.1.128 ..
हिरण्यरेतस् , हुतभुज् , दहन , हव्यवाहन
हिरण्यरेता हुतभुग् दहनो हव्यवाहनः ॥ १.१.१२९ ॥
hiraṇyaretā hutabhug dahano havyavāhanaḥ .. 1.1.129 ..
सप्तार्चिस् , दमुनस् , शुक्र , चित्रभानु , विभावसु
सप्तार्चिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः ॥ १.१.१३० ॥
saptārcirdamunāḥ śukraścitrabhānurvibhāvasuḥ .. 1.1.130 ..
शुचि , अप्पित्त , और्व , वाडव , वडवानल
शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः ॥ १.१.१३१ ॥
śucirappittamaurvastu vāḍavo vaḍavānalaḥ .. 1.1.131 ..
ज्वाला
वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शिखा स्त्रियाम् ॥ १.१.१३२ ॥
vahnerdvayorjvālakīlāvarcirhetiḥ śikhā striyām .. 1.1.132 ..
स्फुलिङ्ग वि, अग्निकण , सन्ताप , सञ्ज्वर
त्रिषु स्फुलिङ्गोऽग्निकणः संतापः संज्वरः समौ ॥ १.१.१३३ ॥
triṣu sphuliṅgo'gnikaṇaḥ saṃtāpaḥ saṃjvaraḥ samau .. 1.1.133 ..
उल्का , निर्गतज्वाला
उल्का स्यान् निर्गतज्वाला भूतिर्भसितभस्मनी ॥ १.१.१३४ ॥
ulkā syān nirgatajvālā bhūtirbhasitabhasmanī .. 1.1.134 ..
क्षार , रक्षा , Forest Fire
क्षारो रक्षा च दावस्तु दवो वनहुताशनः ॥ १.१.१३५ ॥
kṣāro rakṣā ca dāvastu davo vanahutāśanaḥ .. 1.1.135 ..
धर्मराज , पितृपति , समवर्तिन् , परेतराज्
धर्मराजः पितृपतिः समवर्ती परेतराट् ॥ १.१.१३६ ॥
dharmarājaḥ pitṛpatiḥ samavartī paretarāṭ .. 1.1.136 ..
कृतान्त , यमुनाभ्रातृ , शमन , यमराज् , यम
कृतान्तो यमुनाभ्राता शमनो यमराड् यमः ॥ १.१.१३७ ॥
kṛtānto yamunābhrātā śamano yamarāḍ yamaḥ .. 1.1.137 ..
काल , दण्डधर , श्राद्धदेव , वैवस्वत , अन्तक
कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः ॥ १.१.१३८ ॥
kālo daṇḍadharaḥ śrāddhadevo vaivasvato'ntakaḥ .. 1.1.138 ..
राक्षस , कौणप , क्रव्याद् , क्रव्याद , अस्रप , आशर ,
राक्षसः कोणपः क्रव्यात् क्रव्यादोऽस्रप आशरः ॥ १.१.१३९ ॥
rākṣasaḥ koṇapaḥ kravyāt kravyādo'srapa āśaraḥ .. 1.1.139 ..
रात्रिञ्चर , रात्रिचर , कर्बुर , निकषात्मज
रात्रिञ्चरो रात्रिचरः कर्बुरो निकषात्मजः ॥ १.१.१४० ॥
rātriñcaro rātricaraḥ karburo nikaṣātmajaḥ .. 1.1.140 ..
यातुधान , पुण्यजन , नैरृत , यातु , रक्षस्
यातुधानः पुण्यजनो नैरृतो यातुरक्षसी ॥ १.१.१४१ ॥
yātudhānaḥ puṇyajano nairṛto yāturakṣasī .. 1.1.141 ..
प्रचेतस् , वरुण , पाशिन् , यादसाम्पति , अप्पति
प्रचेता वरुणः पाशी यादसांपतिरप्पतिः ॥ १.१.१४२ ॥
pracetā varuṇaḥ pāśī yādasāṃpatirappatiḥ .. 1.1.142 ..
श्वसन , स्पर्शन , वायु , मातरिश्वन् , सदागति
श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः ॥ १.१.१४३ ॥
śvasanaḥ sparśano vāyurmātariśvā sadāgatiḥ .. 1.1.143 ..
पृषदश्व , गन्धवह , गन्धवाह , अनिल , आशुग
पृषदश्वो गन्धवहो गन्धवाहाऽनिलाऽऽशुगाः ॥ १.१.१४४ ॥
pṛṣadaśvo gandhavaho gandhavāhā'nilā''śugāḥ .. 1.1.144 ..
समीर , मारुत , मरुत् , जगत्प्राण , समीरण
समीरमारुतमरुज्जगत्प्राणसमीरणाः ॥ १.१.१४५ ॥
samīramārutamarujjagatprāṇasamīraṇāḥ .. 1.1.145 ..
नभस्वत् , वात , वाति , पवन , पवमान , प्रभञ्जन
नभस्वद्वातपवनपवमानप्रभञ्जनाः ॥ १.१.१४६ ॥
nabhasvadvātapavanapavamānaprabhañjanāḥ .. 1.1.146 ..
प्रकम्पन , महावात , Rainy wind (1)
प्रकम्पनो महावातो झञ्झावातः सवृष्टिकः ॥ १.१.१४७ ॥
prakampano mahāvāto jhañjhāvātaḥ savṛṣṭikaḥ .. 1.1.147 ..
प्राण , अपान , समान , उदान , व्यान
प्राणोऽपानः समानश्चोदानव्यानौ च वायवः ॥ १.१.१४८ ॥
prāṇo'pānaḥ samānaścodānavyānau ca vāyavaḥ .. 1.1.148 ..
रंहस् , तरस् , रय , स्यद
शरीरस्था इमे रंहस्तरसी तु रयः स्यदः ॥ १.१.१४९ ॥
śarīrasthā ime raṃhastarasī tu rayaḥ syadaḥ .. 1.1.149 ..
जव , शीघ्र , त्वरित , लघु , क्षिप्र , अर , द्रुत
जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम् ॥ १.१.१५० ॥
javo'tha śīghraṃ tvaritaṃ laghu kṣipramaraṃ drutam .. 1.1.150 ..
सत्वर , चपल , तूर्ण , अविलम्बित , आशु
सत्वरं चपलं तूर्णमविलम्बितमाशु च ॥ १.१.१५१ ॥
satvaraṃ capalaṃ tūrṇamavilambitamāśu ca .. 1.1.151 ..
सतत , अनारत , अश्रान्त , सन्तत , अविरत , अनिश
सततेऽनारताऽश्रान्तसंतताविरतानिशम् ॥ १.१.१५२ ॥
satate'nāratā'śrāntasaṃtatāviratāniśam .. 1.1.152 ..
नित्य , अनवरत , अजस्र , Excessive (2)
नित्याऽनवरताऽजस्रमप्यथाऽतिशयो भरः ॥ १.१.१५३ ॥
nityā'navaratā'jasramapyathā'tiśayo bharaḥ .. 1.1.153 ..
अतिवेल , भृश , अत्यर्थ , अतिमात्र , उद्गाढ , निर्भर
अतिवेलभृशाऽत्यर्थाऽतिमात्रोद्गाढनिर्भरम् ॥ १.१.१५४ ॥
ativelabhṛśā'tyarthā'timātrodgāḍhanirbharam .. 1.1.154 ..
तीव्र , एकान्त , नितान्त , गाढ , बाढ , दृढ
तीव्रैकान्तनितान्तानि गाढबाढदृढानि च ॥ १.१.१५५ ॥
tīvraikāntanitāntāni gāḍhabāḍhadṛḍhāni ca .. 1.1.155 ..
क्लीबे शीघ्राद्यसत्त्वे स्यात् त्रिष्वेषां सत्त्वगामि यत् ॥ १.१.१५६ ॥
klībe śīghrādyasattve syāt triṣveṣāṃ sattvagāmi yat .. 1.1.156 ..
कुबेर , त्र्यम्बकसख , यक्षराज् , गुह्यकेश्वर
कुबेरस्त्र्यम्बकसखो यक्षराड् गुह्यकेश्वरः ॥ १.१.१५७ ॥
kuberastryambakasakho yakṣarāḍ guhyakeśvaraḥ .. 1.1.157 ..
मनुष्यधर्मन् , धनद , राजराज , धनाधिप
मनुष्यधर्मा धनदो राजराजो धनाधिपः ॥ १.१.१५८ ॥
manuṣyadharmā dhanado rājarājo dhanādhipaḥ .. 1.1.158 ..
किन्नरेश , वैश्रवण , पौलस्त्य , नरवाहन
किन्नरेशो वैश्रवणः पौलस्त्यो नरवाहनः ॥ १.१.१५९ ॥
kinnareśo vaiśravaṇaḥ paulastyo naravāhanaḥ .. 1.1.159 ..
यक्ष , एकपिङ्ग , ऐलविल , श्रीद , पुण्य , जनेश्वर
यक्षैकपिङ्गैलविलश्रीदपुण्यजनेश्वराः ॥ १.१.१६० ॥
yakṣaikapiṅgailavilaśrīdapuṇyajaneśvarāḥ .. 1.1.160 ..
चैत्ररथ , Kubera's son (1)
अस्योद्यानं चैत्ररथं पुत्रस्तु नलकूबरः ॥ १.१.१६१ ॥
asyodyānaṃ caitrarathaṃ putrastu nalakūbaraḥ .. 1.1.161 ..
कैलास , Kubera's city (1)
कैलासः स्थानमलका पूर्विमानं तु पुष्पकम् ॥ १.१.१६२ ॥
kailāsaḥ sthānamalakā pūrvimānaṃ tu puṣpakam .. 1.1.162 ..
किन्नर , किम्पुरुष , तुरङ्गवदन , मयु
स्यात् किन्नरः किम्पुरुषस्तुरङ्गवदनो मयुः ॥ १.१.१६३ ॥
syāt kinnaraḥ kimpuruṣasturaṅgavadano mayuḥ .. 1.1.163 ..
निधि , शेवधि , Treasure (2)
निधिर्नाशेवधिर्भेदाः पद्मशङ्खाऽऽदयो निधेः ॥ १.१.१६४ ॥
nidhirnāśevadhirbhedāḥ padmaśaṅkhā''dayo nidheḥ .. 1.1.164 ..
महापद्म , पद्म
महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ ॥ १.१.१६५ ॥
mahāpadmaśca padmaśca śaṅkho makarakacchapau .. 1.1.165 ..
मुकुन्द , कुन्द , नील , खर्व ,
मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव ॥ १.१.१६६ ॥
mukundakundanīlāśca kharvaśca nidhayo nava .. 1.1.166 ..
इति स्वर्गवर्गः ॥ १.१ ॥
iti svargavargaḥ .. 1.1 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In