| |
|

This overlay will guide you through the buttons:

जरायुजः प्रथम उस्रियो वृषा वाताभ्रजा स्तनयन्न् एति वृष्ट्या ।स नो मृडाति तन्व ऋजुगो रुजन् य एकमोजस्त्रेधा विचक्रमे ॥१॥
जरायु-जः प्रथमः उस्रियः वृषा वात-अभ्र-जाः स्तनयन् एति वृष्ट्या ।स नः मृडाति तन्वे ऋजु-गः रुजन् यः एकम् ओजः त्रेधा विचक्रमे ॥१॥
jarāyu-jaḥ prathamaḥ usriyaḥ vṛṣā vāta-abhra-jāḥ stanayan eti vṛṣṭyā .sa naḥ mṛḍāti tanve ṛju-gaḥ rujan yaḥ ekam ojaḥ tredhā vicakrame ..1..

अङ्गेअङ्गे शोचिषा शिश्रियाणं नमस्यन्तस्त्वा हविषा विधेम ।अङ्कान्त्समङ्कान् हविषा विधेम यो अग्रभीत्पर्वास्या ग्रभीता ॥२॥
अङ्गे अङ्गे शोचिषा शिश्रियाणम् नमस्यन्तः त्वा हविषा विधेम ।अङ्कान् समङ्कान् हविषा विधेम यः अग्रभीत् पर्वा अस्याः ग्रभीता ॥२॥
aṅge aṅge śociṣā śiśriyāṇam namasyantaḥ tvā haviṣā vidhema .aṅkān samaṅkān haviṣā vidhema yaḥ agrabhīt parvā asyāḥ grabhītā ..2..

मुञ्च शीर्षक्त्या उत कास एनं परुष्परुराविवेशा यो अस्य ।यो अभ्रजा वातजा यश्च शुष्मो वनस्पतीन्त्सचतां पर्वतांश्च ॥३॥
मुञ्च शीर्षक्त्याः उत कासः एनम् परुः परुः आविवेश आ यः अस्य ।यः अभ्र-जाः वात-जाः यः च शुष्मः वनस्पतीन् सचताम् पर्वतान् च ॥३॥
muñca śīrṣaktyāḥ uta kāsaḥ enam paruḥ paruḥ āviveśa ā yaḥ asya .yaḥ abhra-jāḥ vāta-jāḥ yaḥ ca śuṣmaḥ vanaspatīn sacatām parvatān ca ..3..

शं मे परस्मै गात्राय शमस्त्ववराय मे ।शं मे चतुर्भ्यो अङ्गेभ्यः शमस्तु तन्वे मम ॥४॥
शम् मे परस्मै गात्राय शमः तु अवराय मे ।शम् मे चतुर्भ्यः अङ्गेभ्यः शम् अस्तु तन्वे मम ॥४॥
śam me parasmai gātrāya śamaḥ tu avarāya me .śam me caturbhyaḥ aṅgebhyaḥ śam astu tanve mama ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In