| |
|

This overlay will guide you through the buttons:

भगमस्या वर्च आदिष्यधि वृक्षादिव स्रजम् ।महाबुध्न इव पर्वतो ज्योक्पितृष्वास्ताम् ॥१॥
भगम् अस्याः वर्चः आदिष्यधि वृक्षात् इव स्रजम् ।महा-बुध्नः इव पर्वतः ज्योक् पितृषु आस्ताम् ॥१॥
bhagam asyāḥ varcaḥ ādiṣyadhi vṛkṣāt iva srajam .mahā-budhnaḥ iva parvataḥ jyok pitṛṣu āstām ..1..

एषा ते राजन् कन्या वधूर्नि धूयतां यम ।सा मातुर्बध्यतां गृहेऽथो भ्रातुरथो पितुः ॥२॥
एषा ते राजन् कन्या वधूः नि धूयताम् यम ।सा मातुः बध्यताम् गृहे अथ उ भ्रातुः अथ उ पितुः ॥२॥
eṣā te rājan kanyā vadhūḥ ni dhūyatām yama .sā mātuḥ badhyatām gṛhe atha u bhrātuḥ atha u pituḥ ..2..

एषा ते कुलपा राजन् तामु ते परि दद्मसि ।ज्योक्पितृष्वासाता आ शीर्ष्णः शमोप्यात्॥३॥
एषा ते कुलपा राजन् तामु ते परि दद्मसि ।आ शीर्ष्णः शमोप्यात्॥३॥
eṣā te kulapā rājan tāmu te pari dadmasi .ā śīrṣṇaḥ śamopyāt..3..

असितस्य ते ब्रह्मणा कश्यपस्य गयस्य च ।अन्तःकोशमिव जामयोऽपि नह्यामि ते भगम् ॥४ ॥
असितस्य ते ब्रह्मणा कश्यपस्य गयस्य च ।अन्तःकोशम् इव जामयः अपि नह्यामि ते भगम् ॥४ ॥
asitasya te brahmaṇā kaśyapasya gayasya ca .antaḥkośam iva jāmayaḥ api nahyāmi te bhagam ..4 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In