| |
|

This overlay will guide you through the buttons:

सं सं स्रवन्तु सिन्धवः सं वाताः सं पतत्रिणः ।इमं यज्ञं प्रदिवो मे जुषन्तां संस्राव्येण हविषा जुहोमि ॥१॥
सम् सम् स्रवन्तु सिन्धवः सम् वाताः सम् पतत्रिणः ।इमम् यज्ञम् प्रदिवः मे जुषन्ताम् संस्राव्येण हविषा जुहोमि ॥१॥
sam sam sravantu sindhavaḥ sam vātāḥ sam patatriṇaḥ .imam yajñam pradivaḥ me juṣantām saṃsrāvyeṇa haviṣā juhomi ..1..

इहैव हवमा यात म इह संस्रावणा उतेमं वर्धयता गिरः ।इहैतु सर्वो यः पशुरस्मिन् तिष्ठतु या रयिः ॥२॥
इह एव हवम् आ यात मे इह संस्रावणाः उत इमम् वर्धयत गिरः ।इह एतु सर्वः यः पशुः अस्मिन् तिष्ठतु रयिः ॥२॥
iha eva havam ā yāta me iha saṃsrāvaṇāḥ uta imam vardhayata giraḥ .iha etu sarvaḥ yaḥ paśuḥ asmin tiṣṭhatu rayiḥ ..2..

ये नदीनां संस्रवन्त्युत्सासः सदमक्षिताः ।तेभिर्मे सर्वैः संस्रावैर्धनं सं स्रावयामसि ॥३॥
ये नदीनाम् संस्रवन्ति उत्सासः सदम-क्षिताः ।तेभिः मे सर्वैः संस्रावैः धनम् सम् स्रावयामसि ॥३॥
ye nadīnām saṃsravanti utsāsaḥ sadama-kṣitāḥ .tebhiḥ me sarvaiḥ saṃsrāvaiḥ dhanam sam srāvayāmasi ..3..

ये सर्पिषः संस्रवन्ति क्षीरस्य चोदकस्य चतेभिर्मे सर्वैः संस्रावैर्धनं सं स्रावयामसि ॥४॥
ये सर्पिषः संस्रवन्ति क्षीरस्य च उदकस्य च तेभिः मे सर्वैः संस्रावैः धनम् सम् स्रावयामसि ॥४॥
ye sarpiṣaḥ saṃsravanti kṣīrasya ca udakasya ca tebhiḥ me sarvaiḥ saṃsrāvaiḥ dhanam sam srāvayāmasi ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In