| |
|

This overlay will guide you through the buttons:

मा नो विदन् विव्याधिनो मो अभिव्याधिनो विदन् ।आराच्छरव्या अस्मद्विषूचीरिन्द्र पातय ॥१॥
मा नः विदन् विव्याधिनः मा उ अभिव्याधिनः विदन् ।आरात् शरव्याः अस्मत् विषूचीः इन्द्र पातय ॥१॥
mā naḥ vidan vivyādhinaḥ mā u abhivyādhinaḥ vidan .ārāt śaravyāḥ asmat viṣūcīḥ indra pātaya ..1..

विष्वञ्चो अस्मच्छरवः पतन्तु ये अस्ता ये चास्याः ।दैवीर्मनुष्येसवो ममामित्रान् वि विध्यत ॥२॥
विष्वञ्चः अस्मत् शरवः पतन्तु ये अस्ताः ये च अस्याः ।दैवीः मनुष्येसवः मम अमित्रान् वि विध्यत ॥२॥
viṣvañcaḥ asmat śaravaḥ patantu ye astāḥ ye ca asyāḥ .daivīḥ manuṣyesavaḥ mama amitrān vi vidhyata ..2..

यो नः स्वो यो अरणः सजात उत निष्ट्यो यो अस्मामभिदासति ।रुद्रः शरव्ययैतान् ममामित्रान् वि विध्यतु ॥३॥
यः नः स्वः यः अरणः सजातः उत निष्ट्यः यः अस्माम् अभिदासति ।रुद्रः शरव्यया एतान् मम अमित्रान् वि विध्यतु ॥३॥
yaḥ naḥ svaḥ yaḥ araṇaḥ sajātaḥ uta niṣṭyaḥ yaḥ asmām abhidāsati .rudraḥ śaravyayā etān mama amitrān vi vidhyatu ..3..

यः सपत्नो योऽसपत्नो यश्च द्विषन् छपाति नः ।देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम् ॥४॥
यः सपत्नः यः असपत्नः यः च द्विषन् शपाति नः ।देवाः तम् सर्वे धूर्वन्तु ब्रह्म वर्म मम अन्तरम् ॥४॥
yaḥ sapatnaḥ yaḥ asapatnaḥ yaḥ ca dviṣan śapāti naḥ .devāḥ tam sarve dhūrvantu brahma varma mama antaram ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In