| |
|

This overlay will guide you through the buttons:

अभीवर्तेन मणिना येनेन्द्रो अभिववृधे ।तेनास्मान् ब्रह्मणस्पतेऽभि राष्ट्राय वर्धय ॥१॥
अभीवर्तेन मणिना येन इन्द्रः अभिववृधे ।तेन अस्मान् ब्रह्मणस्पते अभि राष्ट्राय वर्धय ॥१॥
abhīvartena maṇinā yena indraḥ abhivavṛdhe .tena asmān brahmaṇaspate abhi rāṣṭrāya vardhaya ..1..

अभिवृत्य सपत्नान् अभि या नो अरातयः ।अभि पृतन्यन्तं तिष्ठाभि यो नो दुरस्यति ॥२॥
अभिवृत्य सपत्नान् अभि याः नः अरातयः ।अभि पृतन्यन्तम् तिष्ठ अभि यः नः दुरस्यति ॥२॥
abhivṛtya sapatnān abhi yāḥ naḥ arātayaḥ .abhi pṛtanyantam tiṣṭha abhi yaḥ naḥ durasyati ..2..

अभि त्वा देवः सविताभि षोमो अवीवृधत्।अभि त्वा विश्वा भूतान्यभीवर्तो यथाससि ॥३॥
अभि त्वा देवः सविता अभि सोमः अवीवृधत्।अभि त्वा विश्वा भूतानि अभीवर्तः यथा अससि ॥३॥
abhi tvā devaḥ savitā abhi somaḥ avīvṛdhat.abhi tvā viśvā bhūtāni abhīvartaḥ yathā asasi ..3..

अभीवर्तो अभिभवः सपत्नक्षयणो मणिः ।राष्ट्राय मह्यं बध्यतां सपत्नेभ्यः पराभुवे ॥४॥
अभीवर्तः अभिभवः सपत्न-क्षयणः मणिः ।राष्ट्राय मह्यम् बध्यताम् सपत्नेभ्यः पराभुवे ॥४॥
abhīvartaḥ abhibhavaḥ sapatna-kṣayaṇaḥ maṇiḥ .rāṣṭrāya mahyam badhyatām sapatnebhyaḥ parābhuve ..4..

उदसौ सूर्यो अगादुदिदं मामकं वचः ।यथाहं शत्रुहोऽसान्यसपत्नः सपत्नहा ॥५॥
उद् असौ सूर्यः अगात् उद् इदम् मामकम् वचः ।यथा अहम् शत्रु-हः असानि असपत्नः सपत्न-हा ॥५॥
ud asau sūryaḥ agāt ud idam māmakam vacaḥ .yathā aham śatru-haḥ asāni asapatnaḥ sapatna-hā ..5..

सपत्नक्षयणो वृषाभिरष्ट्रो विषासहिः ।यथाहमेषां वीराणां विराजानि जनस्य च ॥६॥
सपत्न-क्षयणः वृषा अभिरष्ट्रः विषासहिः ।यथा अहम् एषाम् वीराणाम् विराजानि जनस्य च ॥६॥
sapatna-kṣayaṇaḥ vṛṣā abhiraṣṭraḥ viṣāsahiḥ .yathā aham eṣām vīrāṇām virājāni janasya ca ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In