| |
|

This overlay will guide you through the buttons:

विश्वे देवा वसवो रक्षतेममुतादित्या जागृत यूयमस्मिन् ।मेमं सनाभिरुत वान्यनाभिर्मेमं प्रापत्पौरुषेयो वधो यः ॥१॥
विश्वे देवाः वसवः रक्षत इमम् उत आदित्याः जागृत यूयम् अस्मिन् ।मा इमम् सनाभिः उत वा अन्य-नाभिः मा इमम् प्रापत् पौरुषेयः वधः यः ॥१॥
viśve devāḥ vasavaḥ rakṣata imam uta ādityāḥ jāgṛta yūyam asmin .mā imam sanābhiḥ uta vā anya-nābhiḥ mā imam prāpat pauruṣeyaḥ vadhaḥ yaḥ ..1..

ये वो देवाः पितरो ये च पुत्राः सचेतसो मे शृणुतेदमुक्तम् ।सर्वेभ्यो वः परि ददाम्येतं स्वस्त्येनं जरसे वहाथ ॥२॥
ये वः देवाः पितरः ये च पुत्राः सचेतसः मे शृणुत इदम् उक्तम् ।सर्वेभ्यः वः परि ददामि एतम् स्वस्ति एनम् जरसे वहाथ ॥२॥
ye vaḥ devāḥ pitaraḥ ye ca putrāḥ sacetasaḥ me śṛṇuta idam uktam .sarvebhyaḥ vaḥ pari dadāmi etam svasti enam jarase vahātha ..2..

ये देवा दिवि ष्ठ ये पृथिव्यां ये अन्तरिक्ष ओषधीषु पशुष्वप्स्वन्तः ।ते कृणुत जरसमायुरस्मै शतमन्यान् परि वृणक्तु मृत्यून् ॥३॥
ये देवाः दिवि ष्ठ ये पृथिव्याम् ये अन्तरिक्षे ओषधीषु पशुषु अप्सु अन्तः ।ते कृणुत जरसम् आयुः अस्मै शतम् अन्यान् परि वृणक्तु मृत्यून् ॥३॥
ye devāḥ divi ṣṭha ye pṛthivyām ye antarikṣe oṣadhīṣu paśuṣu apsu antaḥ .te kṛṇuta jarasam āyuḥ asmai śatam anyān pari vṛṇaktu mṛtyūn ..3..

येषां प्रयाजा उत वानुयाजा हुतभागा अहुतादश्च देवाः ।येषां वः पञ्च प्रदिशो विभक्तास्तान् वो अस्मै सत्रसदः कृणोमि ॥४॥
येषाम् प्रयाजाः उत वा अनुयाजाः हुत-भागाः अ हुत-अदः च देवाः ।येषाम् वः पञ्च प्रदिशः विभक्ताः तान् वः अस्मै सत्र-सदः कृणोमि ॥४॥
yeṣām prayājāḥ uta vā anuyājāḥ huta-bhāgāḥ a huta-adaḥ ca devāḥ .yeṣām vaḥ pañca pradiśaḥ vibhaktāḥ tān vaḥ asmai satra-sadaḥ kṛṇomi ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In