| |
|

This overlay will guide you through the buttons:

आशानामाशापालेभ्यश्चतुर्भ्यो अमृतेभ्यः ।इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम् ॥१॥
आशानाम् आशा-पालेभ्यः चतुर्भ्यः अमृतेभ्यः ।इदम् भूतस्य अध्यक्षेभ्यः विधेम हविषा वयम् ॥१॥
āśānām āśā-pālebhyaḥ caturbhyaḥ amṛtebhyaḥ .idam bhūtasya adhyakṣebhyaḥ vidhema haviṣā vayam ..1..

य आशानामाशापालाश्चत्वार स्थन देवाः ।ते नो निर्ऋत्याः पाशेभ्यो मुञ्चतांहसोअंहसः ॥२॥
ये आशानाम् आशा-पालाः चत्वारः स्थन देवाः ।ते नः निरृत्याः पाशेभ्यः मुञ्चत अंहसः अंहसः ॥२॥
ye āśānām āśā-pālāḥ catvāraḥ sthana devāḥ .te naḥ nirṛtyāḥ pāśebhyaḥ muñcata aṃhasaḥ aṃhasaḥ ..2..

अस्रामस्त्वा हविषा यजाम्यश्लोणस्त्वा घृतेन जुहोमि ।य आशानामाशापालस्तुरीयो देवः स नः सुभूतमेह वक्षत्॥३॥
अ स्रामः त्वा हविषा यजामि अ श्लोणः त्वा घृतेन जुहोमि ।यः आशानाम् आशा-पालः तुरीयः देवः स नः सुभूतम् आ इह वक्षत्॥३॥
a srāmaḥ tvā haviṣā yajāmi a śloṇaḥ tvā ghṛtena juhomi .yaḥ āśānām āśā-pālaḥ turīyaḥ devaḥ sa naḥ subhūtam ā iha vakṣat..3..

स्वस्ति मात्र उत पित्रे नो अस्तु स्वस्ति गोभ्यो जगते पुरुषेभ्यः ।विश्वं सुभूतं सुविदत्रं नो अस्तु ज्योगेव दृशेम सूर्यम् ॥४॥
स्वस्ति मात्रे उत पित्रे नः अस्तु स्वस्ति गोभ्यः जगते पुरुषेभ्यः ।विश्वम् सुभूतम् सुविदत्रम् नः अस्तु ज्योक् इव दृशेम सूर्यम् ॥४॥
svasti mātre uta pitre naḥ astu svasti gobhyaḥ jagate puruṣebhyaḥ .viśvam subhūtam suvidatram naḥ astu jyok iva dṛśema sūryam ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In