| |
|

This overlay will guide you through the buttons:

हिरण्यवर्णाः शुचयः पावका यासु जातः सविता यास्वग्निः ।या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥१॥
हिरण्य-वर्णाः शुचयः पावकाः यासु जातः सविता यासु अग्निः ।याः अग्निम् गर्भम् दधिरे सु वर्णाः ताः नः आपः शम् स्योनाः भवन्तु ॥१॥
hiraṇya-varṇāḥ śucayaḥ pāvakāḥ yāsu jātaḥ savitā yāsu agniḥ .yāḥ agnim garbham dadhire su varṇāḥ tāḥ naḥ āpaḥ śam syonāḥ bhavantu ..1..

यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यन् जनानाम् ।या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥२॥
यासाम् राजा वरुणः याति मध्ये सत्य-अनृते अवपश्यन् जनानाम् ।याः अग्निम् गर्भम् दधिरे सु वर्णाः ताः नः आपः शम् स्योनाः भवन्तु ॥२॥
yāsām rājā varuṇaḥ yāti madhye satya-anṛte avapaśyan janānām .yāḥ agnim garbham dadhire su varṇāḥ tāḥ naḥ āpaḥ śam syonāḥ bhavantu ..2..

यासां देवा दिवि कृण्वन्ति भक्षं या अन्तरिक्षे बहुधा भवन्ति ।या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥३॥
यासाम् देवाः दिवि कृण्वन्ति भक्षम् याः अन्तरिक्षे बहुधा भवन्ति ।याः अग्निम् गर्भम् दधिरे सु वर्णाः ताः नः आपः शम् स्योनाः भवन्तु ॥३॥
yāsām devāḥ divi kṛṇvanti bhakṣam yāḥ antarikṣe bahudhā bhavanti .yāḥ agnim garbham dadhire su varṇāḥ tāḥ naḥ āpaḥ śam syonāḥ bhavantu ..3..

शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचं मे ।घृतश्चुतः शुचयो याः पावकास्ता न आपः शं स्योना भवन्तु ॥४॥
शिवेन मा चक्षुषा पश्यत अपः शिवया तन्वा उप स्पृशत त्वचम् मे ।घृतश्चुतः शुचयः याः पावकाः ताः नः आपः शम् स्योनाः भवन्तु ॥४॥
śivena mā cakṣuṣā paśyata apaḥ śivayā tanvā upa spṛśata tvacam me .ghṛtaścutaḥ śucayaḥ yāḥ pāvakāḥ tāḥ naḥ āpaḥ śam syonāḥ bhavantu ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In