| |
|

This overlay will guide you through the buttons:

यदाबध्नन् दाक्षायणा हिरण्यं शतानीकाय सुमनस्यमानाः ।तत्ते बध्नाम्यायुषे वर्चसे बलाय दीर्घायुत्वाय शतशारदाय ॥१॥
यत् आबध्नन् दाक्षायणाः हिरण्यम् शतानीकाय सुमनस्यमानाः ।तत् ते बध्नामि आयुषे वर्चसे बलाय दीर्घ-आयु-त्वाय शत-शारदाय ॥१॥
yat ābadhnan dākṣāyaṇāḥ hiraṇyam śatānīkāya sumanasyamānāḥ .tat te badhnāmi āyuṣe varcase balāya dīrgha-āyu-tvāya śata-śāradāya ..1..

नैनं रक्षांसि न पिशाचाः सहन्ते देवानामोजः प्रथमजं ह्येतत्।यो बिभर्ति दाक्षायणं हिरण्यं स जीवेषु कृणुते दीर्घमायुः ॥२॥
न एनम् रक्षांसि न पिशाचाः सहन्ते देवानाम् ओजः प्रथम-जम् हि एतत्।यः बिभर्ति दाक्षायणम् हिरण्यम् स जीवेषु कृणुते दीर्घम् आयुः ॥२॥
na enam rakṣāṃsi na piśācāḥ sahante devānām ojaḥ prathama-jam hi etat.yaḥ bibharti dākṣāyaṇam hiraṇyam sa jīveṣu kṛṇute dīrgham āyuḥ ..2..

अपां तेजो ज्योतिरोजो बलं च वनस्पतीनामुत वीर्याणि ।इन्द्र इवेन्द्रियाण्यधि धारयामो अस्मिन् तद्दक्षमाणो बिभरद्धिरण्यम् ॥३॥
अपाम् तेजः ज्योतिः ओजः बलम् च वनस्पतीनाम् उत वीर्याणि ।इन्द्रः इव इन्द्रियाणि अधि धारयामः अस्मिन् तत् दक्षमाणः बिभरत् हिरण्यम् ॥३॥
apām tejaḥ jyotiḥ ojaḥ balam ca vanaspatīnām uta vīryāṇi .indraḥ iva indriyāṇi adhi dhārayāmaḥ asmin tat dakṣamāṇaḥ bibharat hiraṇyam ..3..

समानां मासामृतुभिष्ट्वा वयं संवत्सरस्य पयसा पिपर्मि ।इन्द्राग्नी विश्वे देवास्तेऽनु मन्यन्तामहृणीयमानाः ॥४॥
समानाम् मासाम् ऋतुभिः त्वा वयम् संवत्सरस्य पयसा पिपर्मि ।इन्द्र-अग्नी विश्वे देवाः ते अनु मन्यन्ताम् अ हृणीयमानाः ॥४॥
samānām māsām ṛtubhiḥ tvā vayam saṃvatsarasya payasā piparmi .indra-agnī viśve devāḥ te anu manyantām a hṛṇīyamānāḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In