| |
|

This overlay will guide you through the buttons:

शं नो देवीरभिष्टय आपो भवन्तु पीतये ।शं योरभि स्रवन्तु नः ॥१॥
शम् नः देवीः अभिष्टये आपः भवन्तु पीतये ।शम् योस् अभि स्रवन्तु नः ॥१॥
śam naḥ devīḥ abhiṣṭaye āpaḥ bhavantu pītaye .śam yos abhi sravantu naḥ ..1..

अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा ।अग्निं च विश्वशंभुवम् ॥२॥
अप्सु मे सोमः अब्रवीत् अन्तर् विश्वानि भेषजा ।अग्निम् च विश्व-शंभुवम् ॥२॥
apsu me somaḥ abravīt antar viśvāni bheṣajā .agnim ca viśva-śaṃbhuvam ..2..

आपः पृणीत भेषजं वरूथं तन्वे मम ।ज्योक्च सूर्यं दृशे ॥३॥
आपः पृणीत भेषजम् वरूथम् तन्वे मम ।ज्योक् च सूर्यम् दृशे ॥३॥
āpaḥ pṛṇīta bheṣajam varūtham tanve mama .jyok ca sūryam dṛśe ..3..

शं न आपो धन्वन्याः शमु सन्त्वनूप्याः ।शं नः खनित्रिमा आपः शमु याः कुम्भ आभृताः ।शिवा नः सन्तु वार्षिकीः ॥४॥
शम् नः आपः धन्वन्याः शमु सन्तु अनूप्याः ।शम् नः खनित्रिमाः आपः शमु याः कुम्भे आभृताः ।शिवाः नः सन्तु वार्षिकीः ॥४॥
śam naḥ āpaḥ dhanvanyāḥ śamu santu anūpyāḥ .śam naḥ khanitrimāḥ āpaḥ śamu yāḥ kumbhe ābhṛtāḥ .śivāḥ naḥ santu vārṣikīḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In