| |
|

This overlay will guide you through the buttons:

स्तुवानमग्न आ वह यातुधानं किमीदिनम् ।त्वं हि देव वन्दितो हन्ता दस्योर्बभूविथ ॥१॥
स्तुवानम् अग्ने आ वह यातुधानम् किमीदिनम् ।त्वम् हि देव वन्दितः हन्ता दस्योः बभूविथ ॥१॥
stuvānam agne ā vaha yātudhānam kimīdinam .tvam hi deva vanditaḥ hantā dasyoḥ babhūvitha ..1..

आज्यस्य परमेष्ठिन् जातवेदस्तनूवशिन् ।अग्ने तौलस्य प्राशान यातुधानान् वि लापय ॥२॥
आज्यस्य परमेष्ठिन् जातवेदः तनू-वशिन् ।अग्ने तौलस्य प्राशान यातुधानान् वि लापय ॥२॥
ājyasya parameṣṭhin jātavedaḥ tanū-vaśin .agne taulasya prāśāna yātudhānān vi lāpaya ..2..

वि लपन्तु यातुधाना अत्त्रिणो ये किमीदिनः ।अथेदमग्ने नो हविरिन्द्रश्च प्रति हर्यतम् ॥३॥
वि लपन्तु यातुधानाः अत्त्रिणः ये किमीदिनः ।अथ इदम् अग्ने नः हविः इन्द्रः च प्रति हर्यतम् ॥३॥
vi lapantu yātudhānāḥ attriṇaḥ ye kimīdinaḥ .atha idam agne naḥ haviḥ indraḥ ca prati haryatam ..3..

अग्निः पूर्व आ रभतां प्रेन्द्रो नुदतु बाहुमान् ।ब्रवीतु सर्वो यातुमान् अयमस्मीत्येत्य ॥४॥
अग्निः पूर्वः आ रभताम् प्र इन्द्रः नुदतु बाहुमान् ।ब्रवीतु सर्वः यातुमान् अयम् अस्मि इति एत्य ॥४॥
agniḥ pūrvaḥ ā rabhatām pra indraḥ nudatu bāhumān .bravītu sarvaḥ yātumān ayam asmi iti etya ..4..

पश्याम ते वीर्यं जातवेदः प्र णो ब्रूहि यातुधानान् नृचक्षः ।त्वया सर्वे परितप्ताः पुरस्तात्त आ यन्तु प्रब्रुवाणा उपेदम् ॥५॥
पश्याम ते वीर्यम् जातवेदः प्र नः ब्रूहि यातुधानान् नृ-चक्षः ।त्वया सर्वे परितप्ताः पुरस्तात् ते आ यन्तु प्रब्रुवाणाः उप इदम् ॥५॥
paśyāma te vīryam jātavedaḥ pra naḥ brūhi yātudhānān nṛ-cakṣaḥ .tvayā sarve paritaptāḥ purastāt te ā yantu prabruvāṇāḥ upa idam ..5..

आ रभस्व जातवेदोऽस्माकार्थाय जज्ञिषे ।दूतो नो अग्ने भूत्वा यातुधानान् वि लापय ॥६॥
आ रभस्व जातवेदः अस्माक-अर्थाय जज्ञिषे ।दूतः नः अग्ने भूत्वा यातुधानान् वि लापय ॥६॥
ā rabhasva jātavedaḥ asmāka-arthāya jajñiṣe .dūtaḥ naḥ agne bhūtvā yātudhānān vi lāpaya ..6..

त्वमग्ने यातुधानान् उपबद्धामिहा वह ।अथैषामिन्द्रो वज्रेणापि शीर्षाणि वृश्चतु ॥७॥
त्वम् अग्ने यातुधानान् उपबद्धाम् इह आ वह ।अथ एषाम् इन्द्रः वज्रेण अपि शीर्षाणि वृश्चतु ॥७॥
tvam agne yātudhānān upabaddhām iha ā vaha .atha eṣām indraḥ vajreṇa api śīrṣāṇi vṛścatu ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In