| |
|

This overlay will guide you through the buttons:

अस्मिन् वसु वसवो धारयन्त्विन्द्रः पूषा वरुणो मित्रो अग्निः ।इममादित्या उत विश्वे च देवा उत्तरस्मिन् ज्योतिषि धारयन्तु ॥१॥
अस्मिन् वसु वसवः धारयन्तु इन्द्रः पूषा वरुणः मित्रः अग्निः ।इमम् आदित्याः उत विश्वे च देवाः उत्तरस्मिन् ज्योतिषि धारयन्तु ॥१॥
asmin vasu vasavaḥ dhārayantu indraḥ pūṣā varuṇaḥ mitraḥ agniḥ .imam ādityāḥ uta viśve ca devāḥ uttarasmin jyotiṣi dhārayantu ..1..

अस्य देवाः प्रदिशि ज्योतिरस्तु सूर्यो अग्निरुत वा हिरण्यम् ।सपत्ना अस्मदधरे भवन्तूत्तमं नाकमधि रोहयेमम् ॥२॥
अस्य देवाः प्रदिशि ज्योतिः अस्तु सूर्यः अग्निः उत वा हिरण्यम् ।सपत्नाः अस्मत् अधरे भवन्तु उत्तमम् नाकम् अधि रोहय इमम् ॥२॥
asya devāḥ pradiśi jyotiḥ astu sūryaḥ agniḥ uta vā hiraṇyam .sapatnāḥ asmat adhare bhavantu uttamam nākam adhi rohaya imam ..2..

येनेन्द्राय समभरः पयांस्युत्तमेन ब्रह्मणा जातवेदः ।तेन त्वमग्न इह वर्धयेमं सजातानां श्रैष्ठ्य आ धेह्येनम् ॥३॥
येन इन्द्राय समभरः पयांसि उत्तमेन ब्रह्मणा जातवेदः ।तेन त्वम् अग्ने इह वर्धय इमम् सजातानाम् श्रैष्ठ्ये आ धेहि एनम् ॥३॥
yena indrāya samabharaḥ payāṃsi uttamena brahmaṇā jātavedaḥ .tena tvam agne iha vardhaya imam sajātānām śraiṣṭhye ā dhehi enam ..3..

ऐषां यज्ञमुत वर्चो ददेऽहं रायस्पोषमुत चित्तान्यग्ने ।सपत्ना अस्मदधरे भवन्तूत्तमं नाकमधि रोहयेमम् ॥४॥
आ एषाम् यज्ञम् उत वर्चः ददे अहम् रायस्पोषम् उत चित्तानि अग्ने ।सपत्नाः अस्मत् अधरे भवन्तु उत्तमम् नाकम् अधि रोहय इमम् ॥४॥
ā eṣām yajñam uta varcaḥ dade aham rāyaspoṣam uta cittāni agne .sapatnāḥ asmat adhare bhavantu uttamam nākam adhi rohaya imam ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In