| |
|

This overlay will guide you through the buttons:

यां कल्पयन्ति वहतौ वधूमिव विश्वरूपां हस्तकृतां चिकित्सवः ।सारादेत्वप नुदाम एनाम् ॥१॥
याम् कल्पयन्ति वहतौ वधूम् इव विश्व-रूपाम् हस्त-कृताम् चिकित्सवः ।नुदामः एनाम् ॥१॥
yām kalpayanti vahatau vadhūm iva viśva-rūpām hasta-kṛtām cikitsavaḥ .nudāmaḥ enām ..1..

शीर्षण्वती नस्वती कर्णिणी कृत्याकृता संभृता विश्वरूपा ।सारादेत्वप नुदाम एनाम् ॥२॥
शीर्षण्वती नस्वती कर्णिणी कृत्या-कृता संभृता विश्व-रूपा ।नुदामः एनाम् ॥२॥
śīrṣaṇvatī nasvatī karṇiṇī kṛtyā-kṛtā saṃbhṛtā viśva-rūpā .nudāmaḥ enām ..2..

शूद्रकृता राजकृता स्त्रीकृता ब्रह्मभिः कृता ।जाया पत्या नुत्तेव कर्तारं बन्ध्वृच्छतु ॥३॥
शूद्र-कृता राज-कृता स्त्री-कृता ब्रह्मभिः कृता ।जाया पत्या नुत्ता इव कर्तारम् बन्धु ऋच्छतु ॥३॥
śūdra-kṛtā rāja-kṛtā strī-kṛtā brahmabhiḥ kṛtā .jāyā patyā nuttā iva kartāram bandhu ṛcchatu ..3..

अनयाहमोषध्या सर्वाः कृत्या अदूदुषम् ।यां क्षेत्रे चक्रुर्यां गोषु यां वा ते पुरुषेषु ॥४॥
अनया अहम् ओषध्या सर्वाः कृत्याः अदूदुषम् ।याम् क्षेत्रे चक्रुः याम् गोषु याम् वा ते पुरुषेषु ॥४॥
anayā aham oṣadhyā sarvāḥ kṛtyāḥ adūduṣam .yām kṣetre cakruḥ yām goṣu yām vā te puruṣeṣu ..4..

अघमस्त्वघकृते शपथः शपथीयते ।प्रत्यक्प्रतिप्रहिण्मो यथा कृत्याकृतं हनत्॥५॥
अघम् अस्तु अघ-कृते शपथः शपथीयते ।प्रत्यक् प्रतिप्रहिण्मः यथा कृत्या-कृतम् हनत्॥५॥
agham astu agha-kṛte śapathaḥ śapathīyate .pratyak pratiprahiṇmaḥ yathā kṛtyā-kṛtam hanat..5..

प्रतीचीन आङ्गिरसोऽध्यक्षो नः पुरोहितः ।प्रतीचीः कृत्या आकृत्यामून् कृत्याकृतो जहि ॥६॥
प्रतीचीनः आङ्गिरसः अध्यक्षः नः पुरोहितः ।प्रतीचीः कृत्याः आकृत्य अमून् कृत्या-कृतः जहि ॥६॥
pratīcīnaḥ āṅgirasaḥ adhyakṣaḥ naḥ purohitaḥ .pratīcīḥ kṛtyāḥ ākṛtya amūn kṛtyā-kṛtaḥ jahi ..6..

यस्त्वोवाच परेहीति प्रतिकूलमुदाय्यम् ।तं कृत्येऽभिनिवर्तस्व मास्मान् इछो अनागसः ॥७॥
यः त्वा उवाच परेहि इति प्रतिकूलम् उदाय्यम् ।तम् कृत्ये अभिनिवर्तस्व मा अस्मान् इछः अनागसः ॥७॥
yaḥ tvā uvāca parehi iti pratikūlam udāyyam .tam kṛtye abhinivartasva mā asmān ichaḥ anāgasaḥ ..7..

यस्ते परूंषि संदधौ रथस्येव र्भुर्धिया ।तं गच्छ तत्र तेऽयनमज्ञातस्तेऽयं जनः ॥८॥
यः ते परूंषि संदधौ रथस्य इव र्भुः धिया ।तम् गच्छ तत्र ते अयनम् अज्ञातः ते अयम् जनः ॥८॥
yaḥ te parūṃṣi saṃdadhau rathasya iva rbhuḥ dhiyā .tam gaccha tatra te ayanam ajñātaḥ te ayam janaḥ ..8..

ये त्वा कृत्वालेभिरे विद्वला अभिचारिणः ।शंभ्विदं कृत्यादूषणं प्रतिवर्त्म पुनःसरं तेन त्वा स्नपयामसि ॥९॥
ये त्वा कृत्वा आलेभिरे विद्वलाः अभिचारिणः ।शंभु इदम् कृत्या-दूषणम् प्रतिवर्त्म पुनःसरम् तेन त्वा स्नपयामसि ॥९॥
ye tvā kṛtvā ālebhire vidvalāḥ abhicāriṇaḥ .śaṃbhu idam kṛtyā-dūṣaṇam prativartma punaḥsaram tena tvā snapayāmasi ..9..

यद्दुर्भगां प्रस्नपितां मृतवत्सामुपेयिम ।अपैतु सर्वं मत्पापं द्रविणं मोप तिष्ठतु ॥१०॥ {१}
यत् दुर्भगाम् प्रस्नपिताम् मृत-वत्साम् उपेयिम ।अपैतु सर्वम् मत् पापम् द्रविणम् मा उप तिष्ठतु ॥१०॥
yat durbhagām prasnapitām mṛta-vatsām upeyima .apaitu sarvam mat pāpam draviṇam mā upa tiṣṭhatu ..10..

यत्ते पितृभ्यो ददतो यज्ञे वा नाम जगृहुः ।संदेश्यात्सर्वस्मात्पापादिमा मुञ्चन्तु त्वौषधीः ॥११॥
यत् ते पितृभ्यः ददतः यज्ञे वा नाम जगृहुः ।संदेश्यात् सर्वस्मात् पापात् इमाः मुञ्चन्तु त्वा ओषधीः ॥११॥
yat te pitṛbhyaḥ dadataḥ yajñe vā nāma jagṛhuḥ .saṃdeśyāt sarvasmāt pāpāt imāḥ muñcantu tvā oṣadhīḥ ..11..

देवैनसात्पित्र्यान् नामग्राहात्संदेश्यादभिनिष्कृतात्।मुञ्चन्तु त्वा वीरुधो वीर्येण ब्रह्मणा ऋग्भिः पयसा ऋषीणाम् ॥१२॥
देव-एनसात् पित्र्यात् नाम-ग्राहात् संदेश्यात् अभिनिष्कृतात्।मुञ्चन्तु त्वा वीरुधः वीर्येण ब्रह्मणा ऋग्भिः पयसा ऋषीणाम् ॥१२॥
deva-enasāt pitryāt nāma-grāhāt saṃdeśyāt abhiniṣkṛtāt.muñcantu tvā vīrudhaḥ vīryeṇa brahmaṇā ṛgbhiḥ payasā ṛṣīṇām ..12..

यथा वातश्च्यावयति भूम्या रेणुमन्तरिक्षाच्चाभ्रम् ।एवा मत्सर्वं दुर्भूतं ब्रह्मनुत्तमपायति ॥१३॥
यथा वातः च्यावयति भूम्याः रेणुम् अन्तरिक्षात् च अभ्रम् ।एव मत् सर्वम् दुर्भूतम् ब्रह्मन् उत्तम् अपायति ॥१३॥
yathā vātaḥ cyāvayati bhūmyāḥ reṇum antarikṣāt ca abhram .eva mat sarvam durbhūtam brahman uttam apāyati ..13..

अप क्राम नानदती विनद्धा गर्दभीव ।कर्तॄन् नक्षस्वेतो नुत्ता ब्रह्मणा वीर्यावता ॥१४॥
अप क्राम नानदती विनद्धा गर्दभी इव ।कर्तॄन् नक्षस्व इतस् नुत्ता ब्रह्मणा वीर्यावता ॥१४॥
apa krāma nānadatī vinaddhā gardabhī iva .kartṝn nakṣasva itas nuttā brahmaṇā vīryāvatā ..14..

अयं पन्थाः कृत्येति त्वा नयामोऽभिप्रहितां प्रति त्वा प्र हिण्मः ।तेनाभि याहि भञ्जत्यनस्वतीव वाहिनी विश्वरूपा कुरूतिनी ॥१५॥
अयम् पन्थाः कृत्या इति त्वा नयामः अभिप्रहिताम् प्रति त्वा प्र हिण्मः ।तेन अभि याहि भञ्जती अनस्वती इव वाहिनी विश्व-रूपा कुरूतिनी ॥१५॥
ayam panthāḥ kṛtyā iti tvā nayāmaḥ abhiprahitām prati tvā pra hiṇmaḥ .tena abhi yāhi bhañjatī anasvatī iva vāhinī viśva-rūpā kurūtinī ..15..

पराक्ते ज्योतिरपथं ते अर्वागन्यत्रास्मदयना कृणुष्व ।परेणेहि नवतिं नाव्या अति दुर्गाः स्रोत्या मा क्षणिष्ठाः परेहि ॥१६॥
पराक् ते ज्योतिः अपथम् ते अर्वाक् अन्यत्र अस्मद्-अयना कृणुष्व ।परेण इहि नवतिम् नाव्याः अति दुर्गाः स्रोत्याः मा क्षणिष्ठाः परेहि ॥१६॥
parāk te jyotiḥ apatham te arvāk anyatra asmad-ayanā kṛṇuṣva .pareṇa ihi navatim nāvyāḥ ati durgāḥ srotyāḥ mā kṣaṇiṣṭhāḥ parehi ..16..

वात इव वृक्षान् नि मृणीहि पादय मा गामश्वं पुरुषमुच्छिष एषाम् ।कर्तॄन् निवृत्येतः कृत्येऽप्रजास्त्वाय बोधय ॥१७॥
वातः इव वृक्षान् नि मृणीहि पादय मा गाम् अश्वम् पुरुषम् उच्छिषः एषाम् ।कर्तॄन् निवृत्य इतस् कृत्ये अप्रजास्त्वाय बोधय ॥१७॥
vātaḥ iva vṛkṣān ni mṛṇīhi pādaya mā gām aśvam puruṣam ucchiṣaḥ eṣām .kartṝn nivṛtya itas kṛtye aprajāstvāya bodhaya ..17..

यां ते बर्हिषि यां श्मशाने क्षेत्रे कृत्यां वलगं वा निचख्नुः ।अग्नौ वा त्वा गार्हपत्येऽभिचेरुः पाकं सन्तं धीरतरा अनागसम् ॥१८॥
याम् ते बर्हिषि याम् श्मशाने क्षेत्रे कृत्याम् वलगम् वा निचख्नुः ।अग्नौ वा त्वा गार्हपत्ये अभिचेरुः पाकम् सन्तम् धीरतराः अनागसम् ॥१८॥
yām te barhiṣi yām śmaśāne kṣetre kṛtyām valagam vā nicakhnuḥ .agnau vā tvā gārhapatye abhiceruḥ pākam santam dhīratarāḥ anāgasam ..18..

उपाहृतमनुबुद्धं निखातं वैरं त्सार्यन्वविदाम कर्त्रम् ।तदेतु यत आभृतं तत्राश्व इव वि वर्ततां हन्तु कृत्याकृतः प्रजाम् ॥१९॥
उपाहृतम् अनुबुद्धम् निखातम् वैरम् त्सारि अन्वविदाम कर्त्रम् ।तत् एतु यतस् आभृतम् तत्र अश्वः इव वि वर्तताम् हन्तु कृत्या-कृतः प्रजाम् ॥१९॥
upāhṛtam anubuddham nikhātam vairam tsāri anvavidāma kartram .tat etu yatas ābhṛtam tatra aśvaḥ iva vi vartatām hantu kṛtyā-kṛtaḥ prajām ..19..

स्वायसा असयः सन्ति नो गृहे विद्मा ते कृत्ये यतिधा परूंषि ।उत्तिष्ठैव परेहीतोऽज्ञाते किमिहेच्छसि ॥२०॥ {२}
सु आयसाः असयः सन्ति नः गृहे विद्म ते कृत्ये यतिधा परूंषि ।उत्तिष्ठ एव परेहि इतस् अज्ञाते किम् इह इच्छसि ॥२०॥
su āyasāḥ asayaḥ santi naḥ gṛhe vidma te kṛtye yatidhā parūṃṣi .uttiṣṭha eva parehi itas ajñāte kim iha icchasi ..20..

ग्रीवास्ते कृत्ये पादौ चापि कर्त्स्यामि निर्द्रव ।इन्द्राग्नी अस्मान् रक्षतां यौ प्रजानां प्रजावती ॥२१॥
ग्रीवाः ते कृत्ये पादौ च अपि कर्त्स्यामि निर्द्रव ।इन्द्र-अग्नी अस्मान् रक्षताम् यौ प्रजानाम् प्रजावती ॥२१॥
grīvāḥ te kṛtye pādau ca api kartsyāmi nirdrava .indra-agnī asmān rakṣatām yau prajānām prajāvatī ..21..

सोमो राजाधिपा मृडिता च भूतस्य नः पतयो मृडयन्तु ॥२२॥
सोमः राजा अधिपाः मृडिता च भूतस्य नः पतयः मृडयन्तु ॥२२॥
somaḥ rājā adhipāḥ mṛḍitā ca bhūtasya naḥ patayaḥ mṛḍayantu ..22..

भवाशर्वावस्यतां पापकृते कृत्याकृते ।दुष्कृते विद्युतं देवहेतिम् ॥२३॥
भवाशर्वा अवस्यताम् पाप-कृते कृत्या-कृते ।दुष्कृते विद्युतम् देव-हेतिम् ॥२३॥
bhavāśarvā avasyatām pāpa-kṛte kṛtyā-kṛte .duṣkṛte vidyutam deva-hetim ..23..

यद्येयथ द्विपदी चतुष्पदी कृत्याकृता संभृता विश्वरूपा ।सेतोऽष्टापदी भूत्वा पुनः परेहि दुछुने ॥२४॥
द्विपदी चतुष्पदी कृत्याकृता संभृता विश्व-रूपा ।सा इतस् अष्टापदी भूत्वा पुनर् परेहि दुछुने ॥२४॥
dvipadī catuṣpadī kṛtyākṛtā saṃbhṛtā viśva-rūpā .sā itas aṣṭāpadī bhūtvā punar parehi duchune ..24..

अभ्यक्ताक्ता स्वरंकृता सर्वं भरन्ती दुरितं परेहि ।जानीहि कृत्ये कर्तारं दुहितेव पितरं स्वम् ॥२५॥
अभ्यक्ता अक्ता सु अरंकृता सर्वम् भरन्ती दुरितम् परेहि ।जानीहि कृत्ये कर्तारम् दुहिता इव पितरम् स्वम् ॥२५॥
abhyaktā aktā su araṃkṛtā sarvam bharantī duritam parehi .jānīhi kṛtye kartāram duhitā iva pitaram svam ..25..

परेहि कृत्ये मा तिष्ठो विद्धस्येव पदं नय ।मृगः स मृगयुस्त्वं न त्वा निकर्तुमर्हति ॥२६॥
परेहि कृत्ये मा तिष्ठः विद्धस्य इव पदम् नय ।मृगः स मृगयुः त्वम् न त्वा निकर्तुम् अर्हति ॥२६॥
parehi kṛtye mā tiṣṭhaḥ viddhasya iva padam naya .mṛgaḥ sa mṛgayuḥ tvam na tvā nikartum arhati ..26..

उत हन्ति पूर्वासिनं प्रत्यादायापर इष्वा ।उत पूर्वस्य निघ्नतो नि हन्त्यपरः प्रति ॥२७॥
उत हन्ति पूर्व-आसिनम् प्रत्यादाय अपरः इष्वा ।उत पूर्वस्य निघ्नतः नि हन्ति अपरः प्रति ॥२७॥
uta hanti pūrva-āsinam pratyādāya aparaḥ iṣvā .uta pūrvasya nighnataḥ ni hanti aparaḥ prati ..27..

एतद्धि शृणु मे वचोऽथेहि यत एयथ ।यस्त्वा चकार तं प्रति ॥२८॥
एतत् हि शृणु मे वचः अथ इहि यतस् एयथ ।यः त्वा चकार तम् प्रति ॥२८॥
etat hi śṛṇu me vacaḥ atha ihi yatas eyatha .yaḥ tvā cakāra tam prati ..28..

अनागोहत्या वै भीमा कृत्ये मा नो गामश्वं पुरुषं वधीः ।यत्रयत्रासि निहिता ततस्त्वोत्थापयामसि पर्णाल्लघीयसी भव ॥२९॥
अनागः-हत्या वै भीमा कृत्ये मा नः गाम् अश्वम् पुरुषम् वधीः ।यत्र यत्र असि निहिता ततस् त्वा उत्थापयामसि पर्णात् लघीयसी भव ॥२९॥
anāgaḥ-hatyā vai bhīmā kṛtye mā naḥ gām aśvam puruṣam vadhīḥ .yatra yatra asi nihitā tatas tvā utthāpayāmasi parṇāt laghīyasī bhava ..29..

यदि स्थ तमसावृता जालेनभिहिता इव ।सर्वाः संलुप्येतः कृत्याः पुनः कर्त्रे प्र हिण्मसि ॥३०॥
यदि स्थ तमसा आवृताः जालेन अभिहिताः इव ।सर्वाः संलुप्य इतस् कृत्याः पुनर् कर्त्रे प्र हिण्मसि ॥३०॥
yadi stha tamasā āvṛtāḥ jālena abhihitāḥ iva .sarvāḥ saṃlupya itas kṛtyāḥ punar kartre pra hiṇmasi ..30..

कृत्याकृतो वलगिनोऽभिनिष्कारिणः प्रजाम् ।मृणीहि कृत्ये मोच्छिषोऽमून् कृत्याकृतो जहि ॥३१॥
कृत्या-कृतः वलगिनः अभिनिष्कारिणः प्रजाम् ।मृणीहि कृत्ये मा उच्छिषः अमून् कृत्या-कृतः जहि ॥३१॥
kṛtyā-kṛtaḥ valaginaḥ abhiniṣkāriṇaḥ prajām .mṛṇīhi kṛtye mā ucchiṣaḥ amūn kṛtyā-kṛtaḥ jahi ..31..

यथा सूर्यो मुच्यते तमसस्परि रात्रिं जहात्युषसश्च केतून् ।एवाहं सर्वं दुर्भूतं कर्त्रं कृत्याकृता कृतं हस्तीव रजो दुरितं जहामि ॥३२॥ {३}
यथा सूर्यः मुच्यते रात्रिम् जहाति उषसः च केतून् ।एव अहम् सर्वम् दुर्भूतम् कर्त्रम् कृत्या-कृता कृतम् हस्ती इव रजः दुरितम् जहामि ॥३२॥
yathā sūryaḥ mucyate rātrim jahāti uṣasaḥ ca ketūn .eva aham sarvam durbhūtam kartram kṛtyā-kṛtā kṛtam hastī iva rajaḥ duritam jahāmi ..32..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In