| |
|

This overlay will guide you through the buttons:

नमस्ते जायमानायै जाताया उत ते नमः ।बालेभ्यः शफेभ्यो रूपायाघ्न्ये ते नमः ॥१॥
नमः ते जायमानायै जातायै उत ते नमः ।बालेभ्यः शफेभ्यः रूपाय अघ्न्ये ते नमः ॥१॥
namaḥ te jāyamānāyai jātāyai uta te namaḥ .bālebhyaḥ śaphebhyaḥ rūpāya aghnye te namaḥ ..1..

यो विद्यात्सप्त प्रवतः सप्त विद्यात्परावतः ।शिरो यज्ञस्य यो विद्यात्स वशां प्रति गृह्णीयात्॥२॥
यः विद्यात् सप्त प्रवतः सप्त विद्यात् परावतः ।शिरः यज्ञस्य यः विद्यात् स वशाम् प्रति गृह्णीयात्॥२॥
yaḥ vidyāt sapta pravataḥ sapta vidyāt parāvataḥ .śiraḥ yajñasya yaḥ vidyāt sa vaśām prati gṛhṇīyāt..2..

वेदाहं सप्त प्रवतः सप्त वेद परावतः ।शिरो यज्ञस्याहं वेद सोमं चास्यां विचक्षणम् ॥३॥
वेद अहम् सप्त प्रवतः सप्त वेद परावतः ।शिरः यज्ञस्य अहम् वेद सोमम् च अस्याम् विचक्षणम् ॥३॥
veda aham sapta pravataḥ sapta veda parāvataḥ .śiraḥ yajñasya aham veda somam ca asyām vicakṣaṇam ..3..

यया द्यौर्यया पृथिवी ययापो गुपिता इमाः ।वशां सहस्रधारां ब्रह्मणाच्छावदामसि ॥४॥
यया द्यौः यया पृथिवी यया अपः गुपिताः इमाः ।वशाम् सहस्र-धाराम् ब्रह्मणा अच्छावदामसि ॥४॥
yayā dyauḥ yayā pṛthivī yayā apaḥ gupitāḥ imāḥ .vaśām sahasra-dhārām brahmaṇā acchāvadāmasi ..4..

शतं कंसाः शतं दोग्धारः शतं गोप्तारो अधि पृष्ठे अस्याः ।ये देवास्तस्यां प्राणन्ति ते वशां विदुरेकधा ॥५॥
शतम् कंसाः शतम् दोग्धारः शतम् गोप्तारः अधि पृष्ठे अस्याः ।ये देवाः तस्याम् प्राणन्ति ते वशाम् विदुः एकधा ॥५॥
śatam kaṃsāḥ śatam dogdhāraḥ śatam goptāraḥ adhi pṛṣṭhe asyāḥ .ye devāḥ tasyām prāṇanti te vaśām viduḥ ekadhā ..5..

यज्ञपदीराक्षीरा स्वधाप्राणा महीलुका ।वशा पर्जन्यपत्नी देवाँ अप्येति ब्रह्मणा ॥६॥
स्वधा-प्राणा महीलुका ।वशा पर्जन्य-पत्नी देवान् अप्येति ब्रह्मणा ॥६॥
svadhā-prāṇā mahīlukā .vaśā parjanya-patnī devān apyeti brahmaṇā ..6..

अनु त्वाग्निः प्राविशदनु सोमो वशे त्वा ।ऊधस्ते भद्रे पर्जन्यो विद्युतस्ते स्तना वशे ॥७॥
अनु त्वा अग्निः प्राविशत् अनु सोमः वशे त्वा ।ऊधर् ते भद्रे पर्जन्यः विद्युतः ते स्तनाः वशे ॥७॥
anu tvā agniḥ prāviśat anu somaḥ vaśe tvā .ūdhar te bhadre parjanyaḥ vidyutaḥ te stanāḥ vaśe ..7..

अपस्त्वं धुक्षे प्रथमा उर्वरा अपरा वशे ।तृतीयं राष्ट्रं धुक्षेऽन्नं क्षीरं वशे त्वम् ॥८॥
अपः त्वम् धुक्षे प्रथमाः उर्वराः अपराः वशे ।तृतीयम् राष्ट्रम् धुक्षे अन्नम् क्षीरम् वशे त्वम् ॥८॥
apaḥ tvam dhukṣe prathamāḥ urvarāḥ aparāḥ vaśe .tṛtīyam rāṣṭram dhukṣe annam kṣīram vaśe tvam ..8..

यदादित्यैर्हूयमानोपातिष्ठ ऋतवरि ।इन्द्रः सहस्रं पात्रान्त्सोमं त्वापाययद्वशे ॥९॥
यत् आदित्यैः हूयमाना उपातिष्ठे ऋतवरि ।इन्द्रः सहस्रम् पात्रान् सोमम् तु अपाययत् वशे ॥९॥
yat ādityaiḥ hūyamānā upātiṣṭhe ṛtavari .indraḥ sahasram pātrān somam tu apāyayat vaśe ..9..

यदनूचीन्द्रमैरात्त्वा ऋषभोऽह्वयत्।तस्मात्ते वृत्रहा पयः क्षीरं क्रुद्धोऽहरद्वशे ॥१०॥ {३३}
यत् अनूचि इन्द्रम् ऐः आत्त्वा ऋषभः अह्वयत्।तस्मात् ते वृत्रहा पयः क्षीरम् क्रुद्धः अहरत् वशे ॥१०॥
yat anūci indram aiḥ āttvā ṛṣabhaḥ ahvayat.tasmāt te vṛtrahā payaḥ kṣīram kruddhaḥ aharat vaśe ..10..

यत्ते क्रुद्धो धनपतिरा क्षीरमहरद्वशे ।इदं तदद्य नाकस्त्रिषु पात्रेषु रक्षति ॥११॥
यत् ते क्रुद्धः धनपतिः आ क्षीरम् अहरत् वशे ।इदम् तत् अद्य नाकः त्रिषु पात्रेषु रक्षति ॥११॥
yat te kruddhaḥ dhanapatiḥ ā kṣīram aharat vaśe .idam tat adya nākaḥ triṣu pātreṣu rakṣati ..11..

त्रिषु पात्रेषु तं सोममा देव्यहरद्वशा ।अथर्वा यत्र दीक्षितो बर्हिष्यास्त हिरण्यये ॥१२॥
त्रिषु पात्रेषु तम् सोममा देवी अहरत् वशा ।अथर्वा यत्र दीक्षितः बर्हिषि आस्त हिरण्यये ॥१२॥
triṣu pātreṣu tam somamā devī aharat vaśā .atharvā yatra dīkṣitaḥ barhiṣi āsta hiraṇyaye ..12..

सं हि सोमेनागत समु सर्वेण पद्वता ।वशा समुद्रमध्यष्ठद्गन्धर्वैः कलिभिः सह ॥१३॥
सम् हि सोमेन अगत समु सर्वेण पद्वता ।वशा समुद्रम् अध्यष्ठत् गन्धर्वैः कलिभिः सह ॥१३॥
sam hi somena agata samu sarveṇa padvatā .vaśā samudram adhyaṣṭhat gandharvaiḥ kalibhiḥ saha ..13..

सं हि वातेनागत समु सर्वैः पतत्रिभिः ।वशा समुद्रे प्रानृत्यदृचः सामानि बिभ्रती ॥१४॥
सम् हि वातेन अगत समु सर्वैः पतत्रिभिः ।वशा समुद्रे प्रानृत्यत् ऋचः सामानि बिभ्रती ॥१४॥
sam hi vātena agata samu sarvaiḥ patatribhiḥ .vaśā samudre prānṛtyat ṛcaḥ sāmāni bibhratī ..14..

सं हि सूर्येणागत समु सर्वेण चक्षुषा ।वशा समुद्रमत्यख्यद्भद्रा ज्योतींषि बिभ्रती ॥१५॥
सम् हि सूर्येण अगत समु सर्वेण चक्षुषा ।वशा समुद्रम् अत्यख्यत् भद्रा ज्योतींषि बिभ्रती ॥१५॥
sam hi sūryeṇa agata samu sarveṇa cakṣuṣā .vaśā samudram atyakhyat bhadrā jyotīṃṣi bibhratī ..15..

अभीवृता हिरण्येन यदतिष्ठ ऋतावरि ।अश्वः समुद्रो भूत्वाध्यस्कन्दद्वशे त्वा ॥१६॥
अभीवृता हिरण्येन यत् अतिष्ठः ऋतावरि ।अश्वः समुद्रः भूत्वा अध्यस्कन्दत् वशे त्वा ॥१६॥
abhīvṛtā hiraṇyena yat atiṣṭhaḥ ṛtāvari .aśvaḥ samudraḥ bhūtvā adhyaskandat vaśe tvā ..16..

तद्भद्राः समगच्छन्त वशा देष्ट्र्यथो स्वधा ।अथर्वा यत्र दीक्षितो बर्हिष्यास्त हिरण्यये ॥१७॥
तत् भद्राः समगच्छन्त वशा देष्ट्री अथो स्वधा ।अथर्वा यत्र दीक्षितः बर्हिषि आस्त हिरण्यये ॥१७॥
tat bhadrāḥ samagacchanta vaśā deṣṭrī atho svadhā .atharvā yatra dīkṣitaḥ barhiṣi āsta hiraṇyaye ..17..

वशा माता राजन्यस्य वशा माता स्वधे तव ।वशाया यज्ञ आयुधं ततश्चित्तमजायत ॥१८॥
वशा माता राजन्यस्य वशा माता स्वधे तव ।वशायाः यज्ञः आयुधम् ततस् चित्तम् अजायत ॥१८॥
vaśā mātā rājanyasya vaśā mātā svadhe tava .vaśāyāḥ yajñaḥ āyudham tatas cittam ajāyata ..18..

ऊर्ध्वो बिन्दुरुदचरद्ब्रह्मणः ककुदादधि ।ततस्त्वं जज्ञिषे वशे ततो होताजायत ॥१९॥
ऊर्ध्वः बिन्दुः उदचरत् ब्रह्मणः ककुदात् अधि ।ततस् त्वम् जज्ञिषे वशे ततस् होता अजायत ॥१९॥
ūrdhvaḥ binduḥ udacarat brahmaṇaḥ kakudāt adhi .tatas tvam jajñiṣe vaśe tatas hotā ajāyata ..19..

आस्नस्ते गाथा अभवन्न् उष्णिहाभ्यो बलं वशे ।पाजस्याज्जज्ञे यज्ञ स्तनेभ्यो रश्मयस्तव ॥२०॥ {३४}
आस्नः ते गाथाः अभवन् उष्णिहाभ्यः बलम् वशे ।पाजस्यात् जज्ञे यज्ञ स्तनेभ्यः रश्मयः तव ॥२०॥
āsnaḥ te gāthāḥ abhavan uṣṇihābhyaḥ balam vaśe .pājasyāt jajñe yajña stanebhyaḥ raśmayaḥ tava ..20..

ईर्माभ्यामयनं जातं सक्थिभ्यां च वशे तव ।आन्त्रेभ्यो जज्ञिरे अत्रा उदरादधि वीरुधः ॥२१॥
ईर्माभ्याम् अयनम् जातम् सक्थिभ्याम् च वशे तव ।आन्त्रेभ्यः जज्ञिरे अत्राः उदरात् अधि वीरुधः ॥२१॥
īrmābhyām ayanam jātam sakthibhyām ca vaśe tava .āntrebhyaḥ jajñire atrāḥ udarāt adhi vīrudhaḥ ..21..

यदुदरं वरुणस्यानुप्राविशथा वशे ।ततस्त्वा ब्रह्मोदह्वयत्स हि नेत्रमवेत्तव ॥२२॥
यत् उदरम् वरुणस्य अनुप्राविशथाः वशे ।ततस् त्वा ब्रह्मा उदह्वयत् स हि नेत्रम् अवेत् तव ॥२२॥
yat udaram varuṇasya anuprāviśathāḥ vaśe .tatas tvā brahmā udahvayat sa hi netram avet tava ..22..

सर्वे गर्भादवेपन्त जायमानादसूस्वः ।ससूव हि तामाहु वशेति ब्रह्मभिः कॢप्तः स ह्यस्या बन्धुः ॥२३॥
सर्वे गर्भात् अवेपन्त जायमानात् असूस्वर् ।ससूव हि ताम् आहुः वशा इति ब्रह्मभिः कॢप्तः स हि अस्याः बन्धुः ॥२३॥
sarve garbhāt avepanta jāyamānāt asūsvar .sasūva hi tām āhuḥ vaśā iti brahmabhiḥ kḷptaḥ sa hi asyāḥ bandhuḥ ..23..

युध एकः सं सृजति यो अस्या एक इद्वशी ।तरांसि यज्ञा अभवन् तरसां चक्षुरभवद्वशा ॥२४॥
युधः एकः सम् सृजति यः अस्याः एकः इद् वशी ।तरांसि यज्ञाः अभवन् तरसाम् चक्षुः अभवत् वशा ॥२४॥
yudhaḥ ekaḥ sam sṛjati yaḥ asyāḥ ekaḥ id vaśī .tarāṃsi yajñāḥ abhavan tarasām cakṣuḥ abhavat vaśā ..24..

वशा यज्ञं प्रत्यगृह्णाद्वशा सूर्यमधारयत्।वशायामन्तरविशदोदनो ब्रह्मणा सह ॥२५॥
वशा यज्ञम् प्रत्यगृह्णात् वशा सूर्यम् अधारयत्।वशायाम् अन्तर-विशद-उदनः ब्रह्मणा सह ॥२५॥
vaśā yajñam pratyagṛhṇāt vaśā sūryam adhārayat.vaśāyām antara-viśada-udanaḥ brahmaṇā saha ..25..

वशामेवामृतमाहुर्वशां मृत्युमुपासते ।वशेदं सर्वमभवद्देवा मनुष्या असुराः पितर ऋषयः ॥२६॥
वशाम् एव अमृतम् आहुः वशाम् मृत्युम् उपासते ।वशा इदम् सर्वम् अभवत् देवाः मनुष्याः असुराः पितरः ऋषयः ॥२६॥
vaśām eva amṛtam āhuḥ vaśām mṛtyum upāsate .vaśā idam sarvam abhavat devāḥ manuṣyāḥ asurāḥ pitaraḥ ṛṣayaḥ ..26..

य एवं विद्यात्स वशां प्रति गृह्णीयात्।तथा हि यज्ञः सर्वपाद्दुहे दात्रेऽनपस्फुरन् ॥२७॥
यः एवम् विद्यात् स वशाम् प्रति गृह्णीयात्।तथा हि यज्ञः सर्व-पाद् दुहे दात्रे अन् अपस्फुरन् ॥२७॥
yaḥ evam vidyāt sa vaśām prati gṛhṇīyāt.tathā hi yajñaḥ sarva-pād duhe dātre an apasphuran ..27..

तिस्रो जिह्वा वरुणस्यान्तर्दीद्यत्यासनि ।तासां या मध्ये राजति सा वशा दुष्प्रतिग्रहा ॥२८॥
तिस्रः जिह्वाः वरुणस्य अन्तर् दीद्यति आसनि ।तासाम् या मध्ये राजति सा वशा दुष्प्रतिग्रहा ॥२८॥
tisraḥ jihvāḥ varuṇasya antar dīdyati āsani .tāsām yā madhye rājati sā vaśā duṣpratigrahā ..28..

चतुर्धा रेतो अभवद्वशायाः ।आपस्तुरीयममृतं तुरीयं यज्ञस्तुरीयं पशवस्तुरीयम् ॥२९॥
चतुर्धा रेतः अभवत् वशायाः ।आपः तुरीयम् अमृतम् तुरीयम् यज्ञः तुरीयम् पशवः तुरीयम् ॥२९॥
caturdhā retaḥ abhavat vaśāyāḥ .āpaḥ turīyam amṛtam turīyam yajñaḥ turīyam paśavaḥ turīyam ..29..

वशा द्यौर्वशा पृथिवी वशा विष्णुः प्रजापतिः ।वशाया दुग्धमपिबन्त्साध्या वसवश्च ये ॥३०॥
वशा द्यौः वशा पृथिवी वशा विष्णुः प्रजापतिः ।वशायाः दुग्धम् अपिबन् साध्याः वसवः च ये ॥३०॥
vaśā dyauḥ vaśā pṛthivī vaśā viṣṇuḥ prajāpatiḥ .vaśāyāḥ dugdham apiban sādhyāḥ vasavaḥ ca ye ..30..

वशाया दुग्धं पीत्वा साध्या वसवश्च ये ।ते वै ब्रध्नस्य विष्टपि पयो अस्या उपासते ॥३१॥
वशायाः दुग्धम् पीत्वा साध्याः वसवः च ये ।ते वै ब्रध्नस्य विष्टपि पयः अस्याः उपासते ॥३१॥
vaśāyāḥ dugdham pītvā sādhyāḥ vasavaḥ ca ye .te vai bradhnasya viṣṭapi payaḥ asyāḥ upāsate ..31..

सोममेनामेके दुह्रे घृतमेक उपासते ।य एवं विदुषे वशां ददुस्ते गतास्त्रिदिवं दिवः ॥३२॥
सोमम् एनाम् एके दुह्रे घृतम् एके उपासते ।ये एवम् विदुषे वशाम् ददुः ते गताः त्रिदिवम् दिवः ॥३२॥
somam enām eke duhre ghṛtam eke upāsate .ye evam viduṣe vaśām daduḥ te gatāḥ tridivam divaḥ ..32..

ब्राह्मणेभ्यो वशां दत्त्वा सर्वांल्लोकान्त्समश्नुते ।ऋतं ह्यस्यामार्पितमपि ब्रह्माथो तपः ॥३३॥
ब्राह्मणेभ्यः वशाम् दत्त्वा सर्वान् लोकान् समश्नुते ।ऋतम् हि अस्याम् आर्पितम् अपि ब्रह्म अथ उ तपः ॥३३॥
brāhmaṇebhyaḥ vaśām dattvā sarvān lokān samaśnute .ṛtam hi asyām ārpitam api brahma atha u tapaḥ ..33..

वशां देवा उप जीवन्ति वशां मनुष्या उत ।वशेदं सर्वमभवद्यावत्सूर्यो विपश्यति ॥३४॥ {३५}
वशाम् देवाः उप जीवन्ति वशाम् मनुष्याः उत ।वशा इदम् सर्वम् अभवत् यावत् सूर्यः विपश्यति ॥३४॥
vaśām devāḥ upa jīvanti vaśām manuṣyāḥ uta .vaśā idam sarvam abhavat yāvat sūryaḥ vipaśyati ..34..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In