| |
|

This overlay will guide you through the buttons:

केन पार्ष्णी आभृते पूरुषस्य केन मांसं संभृतं केन गुल्फौ ।केनाङ्गुलीः पेशनीः केन खानि केनोच्छ्लङ्खौ मध्यतः कः प्रतिष्ठाम् ॥१॥
केन पार्ष्णी आभृते पूरुषस्य केन मांसम् संभृतम् केन गुल्फौ ।केन अङ्गुलीः पेशनीः केन खानि केन उच्छ्लङ्खौ मध्यतः कः प्रतिष्ठाम् ॥१॥
kena pārṣṇī ābhṛte pūruṣasya kena māṃsam saṃbhṛtam kena gulphau .kena aṅgulīḥ peśanīḥ kena khāni kena ucchlaṅkhau madhyataḥ kaḥ pratiṣṭhām ..1..

कस्मान् नु गुल्फावधरावकृण्वन्न् अष्ठीवन्तावुत्तरौ पूरुषस्य ।जङ्घे निर्ऋत्य न्यदधुः क्व स्विज्जानुनोः संधी क उ तच्चिकेत ॥२॥
कस्मात् नु गुल्फौ अधरौ अकृण्वन् अष्ठीवन्तौ उत्तरौ पूरुषस्य ।जङ्घे निरृत्य न्यदधुः क्व स्विद् जानुनोः संधी कः उ तत् चिकेत ॥२॥
kasmāt nu gulphau adharau akṛṇvan aṣṭhīvantau uttarau pūruṣasya .jaṅghe nirṛtya nyadadhuḥ kva svid jānunoḥ saṃdhī kaḥ u tat ciketa ..2..

चतुष्टयं युजते संहितान्तं जानुभ्यामूर्ध्वं शिथिरं कबन्धम् ।श्रोणी यदूरू क उ तज्जजान याभ्यां कुसिन्धं सुदृढं बभूव ॥३॥
चतुष्टयम् युजते संहित-अन्तम् जानुभ्याम् ऊर्ध्वम् शिथिरम् कबन्धम् ।श्रोणी यत् ऊरू कः उ तत् जजान याभ्याम् कुसिन्धम् सु दृढम् बभूव ॥३॥
catuṣṭayam yujate saṃhita-antam jānubhyām ūrdhvam śithiram kabandham .śroṇī yat ūrū kaḥ u tat jajāna yābhyām kusindham su dṛḍham babhūva ..3..

कति देवाः कतमे त आसन् य उरो ग्रीवाश्चिक्युः पुरुषस्य ।कति स्तनौ व्यदधुः कः कफोदौ कति स्कन्धान् कति पृष्टीरचिन्वन् ॥४॥
कति देवाः कतमे ते आसन् ये उरः ग्रीवाः चिक्युः पुरुषस्य ।कति स्तनौ व्यदधुः कः कफ-उदौ कति स्कन्धान् कति पृष्टीः अचिन्वन् ॥४॥
kati devāḥ katame te āsan ye uraḥ grīvāḥ cikyuḥ puruṣasya .kati stanau vyadadhuḥ kaḥ kapha-udau kati skandhān kati pṛṣṭīḥ acinvan ..4..

को अस्य बाहू समभरद्वीर्यां करवादिति ।अंसौ को अस्य तद्देवः कुसिन्धे अध्या दधौ ॥५॥
कः अस्य बाहू समभरत् वीर्याम् करवात् इति ।अंसौ कः अस्य तत् देवः कुसिन्धे अध्या दधौ ॥५॥
kaḥ asya bāhū samabharat vīryām karavāt iti .aṃsau kaḥ asya tat devaḥ kusindhe adhyā dadhau ..5..

कः सप्त खानि वि ततर्द शीर्षणि कर्णाविमौ नासिके चक्षणी मुखम् ।येषां पुरुत्रा विजयस्य मह्ननि चतुष्पादो द्विपदो यन्ति यामम् ॥६॥
कः सप्त खानि वि ततर्द शीर्षणि कर्णौ इमौ नासिके चक्षणी मुखम् ।येषाम् पुरुत्रा विजयस्य मह्ननि चतुष्पादः द्विपदः यन्ति यामम् ॥६॥
kaḥ sapta khāni vi tatarda śīrṣaṇi karṇau imau nāsike cakṣaṇī mukham .yeṣām purutrā vijayasya mahnani catuṣpādaḥ dvipadaḥ yanti yāmam ..6..

हन्वोर्हि जिह्वामदधात्पुरूचीमधा महीमधि शिश्राय वाचम् ।स आ वरीवर्ति भुवनेष्वन्तरपो वसानः क उ तच्चिकेत ॥७॥
हन्वोः हि जिह्वाम् अदधात् पुरूचीम् अधा महीम् अधि शिश्राय वाचम् ।सः आ वरीवर्ति भुवनेषु अन्तर् अपः वसानः कः उ तत् चिकेत ॥७॥
hanvoḥ hi jihvām adadhāt purūcīm adhā mahīm adhi śiśrāya vācam .saḥ ā varīvarti bhuvaneṣu antar apaḥ vasānaḥ kaḥ u tat ciketa ..7..

मस्तिष्कमस्य यतमो ललाटं ककाटिकां प्रथमो यः कपालम् ।चित्वा चित्यं हन्वोः पूरुषस्य दिवं रुरोह कतमः स देवः ॥८॥
मस्तिष्कम् अस्य यतमः ललाटम् ककाटिकाम् प्रथमः यः कपालम् ।चित्वा चित्यम् हन्वोः पूरुषस्य दिवम् रुरोह कतमः स देवः ॥८॥
mastiṣkam asya yatamaḥ lalāṭam kakāṭikām prathamaḥ yaḥ kapālam .citvā cityam hanvoḥ pūruṣasya divam ruroha katamaḥ sa devaḥ ..8..

प्रियाप्रियाणि बहुला स्वप्नं संबाधतन्द्र्यः ।आनन्दान् उग्रो नन्दांश्च कस्माद्वहति पूरुषः ॥९॥
प्रिय-अप्रियाणि बहुला स्वप्नम् संबाध-तन्द्र्यः ।आनन्दान् उग्रः नन्दान् च कस्मात् वहति पूरुषः ॥९॥
priya-apriyāṇi bahulā svapnam saṃbādha-tandryaḥ .ānandān ugraḥ nandān ca kasmāt vahati pūruṣaḥ ..9..

आर्तिरवर्तिर्निर्ऋतिः कुतो नु पुरुषेऽमतिः ।राद्धिः समृद्धिरव्यृद्धिर्मतिरुदितयः कुतः ॥१०॥ {४}
आर्तिः अवर्तिः निरृतिः कुतस् नु पुरुषे अमतिः ।राद्धिः समृद्धिः अव्यृद्धिः मतिः उदितयः कुतस् ॥१०॥
ārtiḥ avartiḥ nirṛtiḥ kutas nu puruṣe amatiḥ .rāddhiḥ samṛddhiḥ avyṛddhiḥ matiḥ uditayaḥ kutas ..10..

को अस्मिन्न् आपो व्यदधात्विषूवृतः पुरूवृतः सिन्धुसृत्याय जाताः ।तीव्रा अरुणा लोहिनीस्ताम्रधूम्रा ऊर्ध्वा अवाचीः पुरुषे तिरश्चीः ॥११॥
कः अस्मिन् आपः व्यदधातु इषूवृतः पुरूवृतः सिन्धु-सृत्याय जाताः ।तीव्राः अरुणाः लोहिनीः ताम्र-धूम्राः ऊर्ध्वाः अवाचीः पुरुषे तिरश्चीः ॥११॥
kaḥ asmin āpaḥ vyadadhātu iṣūvṛtaḥ purūvṛtaḥ sindhu-sṛtyāya jātāḥ .tīvrāḥ aruṇāḥ lohinīḥ tāmra-dhūmrāḥ ūrdhvāḥ avācīḥ puruṣe tiraścīḥ ..11..

को अस्मिन् रूपमदधात्को मह्मानं च नाम च ।गातुं को अस्मिन् कः केतुं कश्चरित्रानि पूरुषे ॥१२॥
कः अस्मिन् रूपम् अदधात् कः मह्मानम् च नाम च ।गातुम् कः अस्मिन् कः केतुम् कः चरित्रानि पूरुषे ॥१२॥
kaḥ asmin rūpam adadhāt kaḥ mahmānam ca nāma ca .gātum kaḥ asmin kaḥ ketum kaḥ caritrāni pūruṣe ..12..

को अस्मिन् प्राणमवयत्को अपानं व्यानमु ।समानमस्मिन् को देवोऽधि शिश्राय पूरुषे ॥१३॥
कः अस्मिन् प्राणम् अवयत् कः अपानम् व्यानम् ।समानम् अस्मिन् कः देवः अधि शिश्राय पूरुषे ॥१३॥
kaḥ asmin prāṇam avayat kaḥ apānam vyānam .samānam asmin kaḥ devaḥ adhi śiśrāya pūruṣe ..13..

को अस्मिन् यज्ञमदधादेको देवोऽधि पूरुषे ।को अस्मिन्त्सत्यं कोऽनृतं कुतो मृत्युः कुतोऽमृतम् ॥१४॥
कः अस्मिन् यज्ञम् अदधात् एकः देवः अधि पूरुषे ।कः अस्मिन् सत्यम् कः अनृतम् कुतस् मृत्युः कुतस् अमृतम् ॥१४॥
kaḥ asmin yajñam adadhāt ekaḥ devaḥ adhi pūruṣe .kaḥ asmin satyam kaḥ anṛtam kutas mṛtyuḥ kutas amṛtam ..14..

को अस्मै वासः पर्यदधात्को अस्यायुरकल्पयत्।बलं को अस्मै प्रायच्छत्को अस्याकल्पयज्जवम् ॥१५॥
कः अस्मै वासः पर्यदधात् कः अस्य आयुः अकल्पयत्।बलम् कः अस्मै प्रायच्छत् कः अस्य अकल्पयत् जवम् ॥१५॥
kaḥ asmai vāsaḥ paryadadhāt kaḥ asya āyuḥ akalpayat.balam kaḥ asmai prāyacchat kaḥ asya akalpayat javam ..15..

केनापो अन्वतनुत केनाहरकरोद्रुचे ।उषसं केनान्वैन्द्ध केन सायंभवं ददे ॥१६॥
केन अपः अन्वतनुत केन अहर् अकरोत् रुचे ।उषसम् केन अन्वैन्द्ध केन सायंभवम् ददे ॥१६॥
kena apaḥ anvatanuta kena ahar akarot ruce .uṣasam kena anvainddha kena sāyaṃbhavam dade ..16..

को अस्मिन् रेतो न्यदधात्तन्तुरा तायतामिति ।मेधां को अस्मिन्न् अध्यौहत्को बाणं को नृतो दधौ ॥१७॥
कः अस्मिन् रेतः न्यदधात् तन्तुः आ तायताम् इति ।मेधाम् कः अस्मिन् अध्यौहत् कः बाणम् कः नृतो दधौ ॥१७॥
kaḥ asmin retaḥ nyadadhāt tantuḥ ā tāyatām iti .medhām kaḥ asmin adhyauhat kaḥ bāṇam kaḥ nṛto dadhau ..17..

केनेमां भूमिमौर्णोत्केन पर्यभवद्दिवम् ।केनाभि मह्ना पर्वतान् केन कर्माणि पुरुषः ॥१८॥
केन इमाम् भूमिम् और्ण उत्केन पर्यभवत् दिवम् ।केन अभि मह्ना पर्वतान् केन कर्माणि पुरुषः ॥१८॥
kena imām bhūmim aurṇa utkena paryabhavat divam .kena abhi mahnā parvatān kena karmāṇi puruṣaḥ ..18..

केन पर्जन्यमन्वेति केन सोमं विचक्षणम् ।केन यज्ञं च श्रद्धां च केनास्मिन् निहितं मनः ॥१९॥
केन पर्जन्यम् अन्वेति केन सोमम् विचक्षणम् ।केन यज्ञम् च श्रद्धाम् च केन अस्मिन् निहितम् मनः ॥१९॥
kena parjanyam anveti kena somam vicakṣaṇam .kena yajñam ca śraddhām ca kena asmin nihitam manaḥ ..19..

केन श्रोत्रियमाप्नोति केनेमं परमेष्ठिनम् ।केनेममग्निं पूरुषः केन संवत्सरं ममे ॥२०॥ {५}
केन श्रोत्रियम् आप्नोति केन इमम् परमेष्ठिनम् ।केन इमम् अग्निम् पूरुषः केन संवत्सरम् ममे ॥२०॥
kena śrotriyam āpnoti kena imam parameṣṭhinam .kena imam agnim pūruṣaḥ kena saṃvatsaram mame ..20..

ब्रह्म श्रोत्रियमाप्नोति ब्रह्मेमं परमेष्ठिनम् ।ब्रह्मेममग्निं पूरुषो ब्रह्म संवत्सरं ममे ॥२१॥
ब्रह्म श्रोत्रियम् आप्नोति ब्रह्म इमम् परमेष्ठिनम् ।ब्रह्म इमम् अग्निम् पूरुषः ब्रह्म संवत्सरम् ममे ॥२१॥
brahma śrotriyam āpnoti brahma imam parameṣṭhinam .brahma imam agnim pūruṣaḥ brahma saṃvatsaram mame ..21..

केन देवामनु क्षियति केन दैवजनीर्विशः ।केनेदमन्यन् नक्षत्रं केन सत्क्षत्रमुच्यते ॥२२॥
केन देवाम् अनु क्षियति केन दैवजनीः विशः ।केन इदम् अन्यत् नक्षत्रम् केन सत्-क्षत्रम् उच्यते ॥२२॥
kena devām anu kṣiyati kena daivajanīḥ viśaḥ .kena idam anyat nakṣatram kena sat-kṣatram ucyate ..22..

ब्रह्म देवामनु क्षियति ब्रह्म दैवजनीर्विशः ।ब्रह्मेदमन्यन् नक्षत्रं ब्रह्म सत्क्षत्रमुच्यते ॥२३॥
ब्रह्म देवाम् अनु क्षियति ब्रह्म दैवजनीः विशः ।ब्रह्म इदम् अन्यत् नक्षत्रम् ब्रह्म सत्-क्षत्रम् उच्यते ॥२३॥
brahma devām anu kṣiyati brahma daivajanīḥ viśaḥ .brahma idam anyat nakṣatram brahma sat-kṣatram ucyate ..23..

केनेयं भूमिर्विहिता केन द्यौरुत्तरा हिता ।केनेदमूर्ध्वं तिर्यक्चान्तरिक्षं व्यचो हितम् ॥२४॥
केन इयम् भूमिः विहिता केन द्यौः उत्तरा हिता ।केन इदम् ऊर्ध्वम् तिर्यक् च अन्तरिक्षम् व्यचः हितम् ॥२४॥
kena iyam bhūmiḥ vihitā kena dyauḥ uttarā hitā .kena idam ūrdhvam tiryak ca antarikṣam vyacaḥ hitam ..24..

ब्रह्मणा भूमिर्विहिता ब्रह्म द्यौरुत्तरा हिता ।ब्रह्मेदमूर्ध्वं तिर्यक्चान्तरिक्षं व्यचो हितम् ॥२५॥
ब्रह्मणा भूमिः विहिता ब्रह्म द्यौः उत्तरा हिता ।ब्रह्म इदम् ऊर्ध्वम् तिर्यक् च अन्तरिक्षम् व्यचः हितम् ॥२५॥
brahmaṇā bhūmiḥ vihitā brahma dyauḥ uttarā hitā .brahma idam ūrdhvam tiryak ca antarikṣam vyacaḥ hitam ..25..

मूर्धानमस्य संसीव्याथर्वा हृदयं च यत्।मस्तिष्कादूर्ध्वः प्रैरयत्पवमानोऽधि शीर्षतः ॥२६॥
मूर्धानम् अस्य संसीव्य अथर्वा हृदयम् च यत्।मस्तिष्कात् ऊर्ध्वः प्रैरयत् पवमानः अधि शीर्षतः ॥२६॥
mūrdhānam asya saṃsīvya atharvā hṛdayam ca yat.mastiṣkāt ūrdhvaḥ prairayat pavamānaḥ adhi śīrṣataḥ ..26..

तद्वा अथर्वणः शिरो देवकोशः समुब्जितः ।तत्प्राणो अभि रक्षति शिरो अन्नमथो मनः ॥२७॥
तत् वै अथर्वणः शिरः देव-कोशः समुब्जितः ।तत् प्राणः अभि रक्षति शिरः अन्नम् अथ उ मनः ॥२७॥
tat vai atharvaṇaḥ śiraḥ deva-kośaḥ samubjitaḥ .tat prāṇaḥ abhi rakṣati śiraḥ annam atha u manaḥ ..27..

ऊर्ध्वो नु सृष्टा३ तिर्यङ्नु सृष्टा३ सर्वा दिशः पुरुष आ बभूवा३ ।पुरं यो ब्रह्मणो वेद यस्याः पुरुष उच्यते ॥२८॥
ऊर्ध्वः नु सृष्टाः तिर्यक् नु सृष्टाः सर्वाः दिशः पुरुषः आ बभूव ।पुरम् यः ब्रह्मणः वेद यस्याः पुरुषः उच्यते ॥२८॥
ūrdhvaḥ nu sṛṣṭāḥ tiryak nu sṛṣṭāḥ sarvāḥ diśaḥ puruṣaḥ ā babhūva .puram yaḥ brahmaṇaḥ veda yasyāḥ puruṣaḥ ucyate ..28..

यो वै तां ब्रह्मणो वेदामृतेनावृतां पुरम् ।तस्मै ब्रह्म च ब्राह्माश्च चक्षुः प्राणं प्रजां ददुः ॥२९॥
यः वै ताम् ब्रह्मणः वेद अमृतेन आवृताम् पुरम् ।तस्मै ब्रह्म च ब्राह्माः च चक्षुः प्राणम् प्रजाम् ददुः ॥२९॥
yaḥ vai tām brahmaṇaḥ veda amṛtena āvṛtām puram .tasmai brahma ca brāhmāḥ ca cakṣuḥ prāṇam prajām daduḥ ..29..

न वै तं चक्षुर्जहाति न प्राणो जरसः पुरा ।पुरं यो ब्रह्मणो वेद यस्याः पुरुष उच्यते ॥३०॥
न वै तम् चक्षुः जहाति न प्राणः जरसः पुरा ।पुरम् यः ब्रह्मणः वेद यस्याः पुरुषः उच्यते ॥३०॥
na vai tam cakṣuḥ jahāti na prāṇaḥ jarasaḥ purā .puram yaḥ brahmaṇaḥ veda yasyāḥ puruṣaḥ ucyate ..30..

अष्टाचक्रा नवद्वारा देवानां पूरयोध्या ।तस्यां हिरण्ययः कोशः स्वर्गो ज्योतिषावृतः ॥३१॥
अष्टाचक्रा नव-द्वारा देवानाम् पूर-योध्या ।तस्याम् हिरण्ययः कोशः स्वर्गः ज्योतिषा आवृतः ॥३१॥
aṣṭācakrā nava-dvārā devānām pūra-yodhyā .tasyām hiraṇyayaḥ kośaḥ svargaḥ jyotiṣā āvṛtaḥ ..31..

तस्मिन् हिरण्यये कोशे त्र्यरे त्रिप्रतिष्ठिते ।तस्मिन् यद्यक्षमात्मन्वत्तद्वै ब्रह्मविदो विदुः ॥३२॥
तस्मिन् हिरण्यये कोशे त्रि-अरे त्रि-प्रतिष्ठिते ।तस्मिन् यत् यक्षम् आत्मन्वत् तत् वै ब्रह्म-विदः विदुः ॥३२॥
tasmin hiraṇyaye kośe tri-are tri-pratiṣṭhite .tasmin yat yakṣam ātmanvat tat vai brahma-vidaḥ viduḥ ..32..

प्रभ्राजमानां हरिणीं यशसा संपरीवृताम् ।पुरं हिरण्ययीं ब्रह्मा विवेशापराजिताम् ॥३३॥ {६}
प्रभ्राजमानाम् हरिणीम् यशसा संपरीवृताम् ।पुरम् हिरण्ययीम् ब्रह्मा विवेश अपराजिताम् ॥३३॥
prabhrājamānām hariṇīm yaśasā saṃparīvṛtām .puram hiraṇyayīm brahmā viveśa aparājitām ..33..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In