| |
|

This overlay will guide you through the buttons:

अयं मे वरणो मणिः सपत्नक्षयणो वृषा ।तेना रभस्व त्वं शत्रून् प्र मृणीहि दुरस्यतः ॥१॥
अयम् मे वरणः मणिः सपत्न-क्षयणः वृषा ।तेन आ रभस्व त्वम् शत्रून् प्र मृणीहि दुरस्यतः ॥१॥
ayam me varaṇaḥ maṇiḥ sapatna-kṣayaṇaḥ vṛṣā .tena ā rabhasva tvam śatrūn pra mṛṇīhi durasyataḥ ..1..

प्रैणान् छृणीहि प्र मृणा रभस्व मणिस्ते अस्तु पुरएता पुरस्तात्।अवारयन्त वरणेन देवा अभ्याचारमसुराणां श्वःश्वः ॥२॥
प्र एणान् शृणीहि प्र मृण आ रभस्व मणिः ते अस्तु पुरएता पुरस्तात्।अवारयन्त वरणेन देवाः अभ्याचारम् असुराणाम् श्वस् श्वस् ॥२॥
pra eṇān śṛṇīhi pra mṛṇa ā rabhasva maṇiḥ te astu puraetā purastāt.avārayanta varaṇena devāḥ abhyācāram asurāṇām śvas śvas ..2..

अयं मणिर्वरणो विश्वभेषजः सहस्राक्षो हरितो हिरण्ययः ।स ते शत्रून् अधरान् पादयाति पूर्वस्तान् दभ्नुहि ये त्वा द्विषन्ति ॥३॥
अयम् मणिः वरणः विश्व-भेषजः सहस्र-अक्षः हरितः हिरण्ययः ।स ते शत्रून् अधरान् पादयाति पूर्वस्तान् दभ्नुहि ये त्वा द्विषन्ति ॥३॥
ayam maṇiḥ varaṇaḥ viśva-bheṣajaḥ sahasra-akṣaḥ haritaḥ hiraṇyayaḥ .sa te śatrūn adharān pādayāti pūrvastān dabhnuhi ye tvā dviṣanti ..3..

अयं ते कृत्यां विततां पौरुषेयादयं भयात्।अयं त्वा सर्वस्मात्पापाद्वरणो वारयिष्यते ॥४॥
अयम् ते कृत्याम् वितताम् पौरुषेयात् अयम् भयात्।अयम् त्वा सर्वस्मात् पापात् वरणः वारयिष्यते ॥४॥
ayam te kṛtyām vitatām pauruṣeyāt ayam bhayāt.ayam tvā sarvasmāt pāpāt varaṇaḥ vārayiṣyate ..4..

वरणो वारयाता अयं देवो वनस्पतिः ।यक्ष्मो यो अस्मिन्न् आविष्टस्तमु देवा अवीवरन् ॥५॥
वरणः वारयातै अयम् देवः वनस्पतिः ।यक्ष्मः यः अस्मिन् आविष्टः तमु देवाः अवीवरन् ॥५॥
varaṇaḥ vārayātai ayam devaḥ vanaspatiḥ .yakṣmaḥ yaḥ asmin āviṣṭaḥ tamu devāḥ avīvaran ..5..

स्वप्नं सुप्त्वा यदि पश्यासि पापं मृगः सृतिं यति धावादजुष्टाम् ।परिक्षवाच्छकुनेः पापवादादयं मणिर्वरणो वारयिष्यते ॥६॥
स्वप्नम् सुप्त्वा यदि पश्यासि पापम् मृगः सृतिम् यति धावात् अजुष्टाम् ।परिक्षवात् शकुनेः पाप-वादात् अयम् मणिः वरणः वारयिष्यते ॥६॥
svapnam suptvā yadi paśyāsi pāpam mṛgaḥ sṛtim yati dhāvāt ajuṣṭām .parikṣavāt śakuneḥ pāpa-vādāt ayam maṇiḥ varaṇaḥ vārayiṣyate ..6..

अरात्यास्त्वा निर्ऋत्या अभिचारादथो भयात्।मृत्योरोजीयसो वधाद्वरणो वारयिष्यते ॥७॥
अरात्याः त्वा निरृत्याः अभिचारात् अथ उ भयात्।मृत्योः ओजीयसः वधात् वरणः वारयिष्यते ॥७॥
arātyāḥ tvā nirṛtyāḥ abhicārāt atha u bhayāt.mṛtyoḥ ojīyasaḥ vadhāt varaṇaḥ vārayiṣyate ..7..

यन् मे माता यन् मे पिता भ्रातरो यच्च मे स्वा यदेनश्चकृमा वयम् ।ततो नो वारयिष्यतेऽयं देवो वनस्पतिः ॥८॥
यत् मे माता यत् मे पिता भ्रातरः यत् च मे स्वाः यत् एनः चकृम वयम् ।ततस् नः वारयिष्यते अयम् देवः वनस्पतिः ॥८॥
yat me mātā yat me pitā bhrātaraḥ yat ca me svāḥ yat enaḥ cakṛma vayam .tatas naḥ vārayiṣyate ayam devaḥ vanaspatiḥ ..8..

वरणेन प्रव्यथिता भ्रातृव्या मे सबन्धवः ।असूर्तं रजो अप्यगुस्ते यन्त्वधमं तमः ॥९॥
वरणेन प्रव्यथिताः भ्रातृव्याः मे स बन्धवः ।असूर्तम् रजः अप्यगुः ते यन्तु अधमम् तमः ॥९॥
varaṇena pravyathitāḥ bhrātṛvyāḥ me sa bandhavaḥ .asūrtam rajaḥ apyaguḥ te yantu adhamam tamaḥ ..9..

अरिष्टोऽहमरिष्टगुरायुष्मान्त्सर्वपूरुषः ।तं मायं वरणो मणिः परि पातु दिशोदिशः ॥१०॥ {७}
अरिष्टः अहम् अरिष्टगुः आयुष्मान् सर्व-पूरुषः ।तम् मा अयम् वरणः मणिः परि पातु दिशः दिशः ॥१०॥
ariṣṭaḥ aham ariṣṭaguḥ āyuṣmān sarva-pūruṣaḥ .tam mā ayam varaṇaḥ maṇiḥ pari pātu diśaḥ diśaḥ ..10..

अयं मे वरण उरसि राजा देवो वनस्पतिः ।स मे शत्रून् वि बाधतामिन्द्रो दस्यून् इवासुरान् ॥११॥
अयम् मे वरणः उरसि राजा देवः वनस्पतिः ।स मे शत्रून् वि बाधताम् इन्द्रः दस्यून् इव असुरान् ॥११॥
ayam me varaṇaḥ urasi rājā devaḥ vanaspatiḥ .sa me śatrūn vi bādhatām indraḥ dasyūn iva asurān ..11..

इमं बिभर्मि वरणमायुष्मान् छतशारदः ।स मे राष्ट्रं च क्षत्रं च पशून् ओजश्च मे दधत्॥१२॥
इमम् बिभर्मि वरणम् आयुष्मान् शत-शारदः ।स मे राष्ट्रम् च क्षत्रम् च पशून् ओजः च मे दधत्॥१२॥
imam bibharmi varaṇam āyuṣmān śata-śāradaḥ .sa me rāṣṭram ca kṣatram ca paśūn ojaḥ ca me dadhat..12..

यथा वातो वनस्पतीन् वृक्षान् भनक्त्योजसा ।एवा सपत्नान् मे भङ्ग्धि पूर्वान् जातामुतापरान् वरणस्त्वाभि रक्षतु ॥१३॥
यथा वातः वनस्पतीन् वृक्षान् भनक्ति ओजसा ।एव सपत्नान् मे भङ्ग्धि पूर्वान् जाताम् उत अपरान् वरणः त्वा अभि रक्षतु ॥१३॥
yathā vātaḥ vanaspatīn vṛkṣān bhanakti ojasā .eva sapatnān me bhaṅgdhi pūrvān jātām uta aparān varaṇaḥ tvā abhi rakṣatu ..13..

यथा वातश्चाग्निश्च वृक्षान् प्सातो वनस्पतीन् ।एवा सपत्नान् मे प्साहि पूर्वान् जातामुतापरान् वरणस्त्वाभि रक्षतु ॥१४॥
यथा वातः च अग्निः च वृक्षान् प्सातः वनस्पतीन् ।एव सपत्नान् मे प्साहि पूर्वान् जाताम् उत अपरान् वरणः त्वा अभि रक्षतु ॥१४॥
yathā vātaḥ ca agniḥ ca vṛkṣān psātaḥ vanaspatīn .eva sapatnān me psāhi pūrvān jātām uta aparān varaṇaḥ tvā abhi rakṣatu ..14..

यथा वातेन प्रक्षीणा वृक्षाः शेरे न्यर्पिताः ।एवा सपत्नांस्त्वं मम प्र क्षिणीहि न्यर्पय ।पूर्वान् जातामुतापरान् वरणस्त्वाभि रक्षतु ॥१५॥
यथा वातेन प्रक्षीणाः वृक्षाः शेरे न्यर्पिताः ।एव सपत्नान् त्वम् मम प्र क्षिणीहि न्यर्पय ।पूर्वान् जाताम् उत अपरान् वरणः त्वा अभि रक्षतु ॥१५॥
yathā vātena prakṣīṇāḥ vṛkṣāḥ śere nyarpitāḥ .eva sapatnān tvam mama pra kṣiṇīhi nyarpaya .pūrvān jātām uta aparān varaṇaḥ tvā abhi rakṣatu ..15..

तांस्त्वं प्र छिन्द्धि वरण पुरा दिष्टात्पुरायुषः ।य एनं पशुषु दिप्सन्ति ये चास्य राष्ट्रदिप्सवः ॥१६॥
तान् त्वम् प्र छिन्द्धि वरण पुरा दिष्टात् पुरा आयुषः ।ये एनम् पशुषु दिप्सन्ति ये च अस्य राष्ट्र-दिप्सवः ॥१६॥
tān tvam pra chinddhi varaṇa purā diṣṭāt purā āyuṣaḥ .ye enam paśuṣu dipsanti ye ca asya rāṣṭra-dipsavaḥ ..16..

यथा सूर्यो अतिभाति यथास्मिन् तेज आहितम् ।एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।तेजसा मा समुक्षतु यशसा समनक्तु मा ॥१७॥
यथा सूर्यः अतिभाति यथा अस्मिन् तेजः आहितम् ।एव मे वरणः मणिः कीर्तिम् भूतिम् नि यच्छतु ।तेजसा मा समुक्षतु यशसा समनक्तु मा ॥१७॥
yathā sūryaḥ atibhāti yathā asmin tejaḥ āhitam .eva me varaṇaḥ maṇiḥ kīrtim bhūtim ni yacchatu .tejasā mā samukṣatu yaśasā samanaktu mā ..17..

यथा यशश्चन्द्रमस्यादित्ये च नृचक्षसि ।एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।तेजसा मा समुक्षतु यशसा समनक्तु मा ॥१८॥
यथा यशः चन्द्रमसि आदित्ये च नृ-चक्षसि ।एव मे वरणः मणिः कीर्तिम् भूतिम् नि यच्छतु ।तेजसा मा समुक्षतु यशसा समनक्तु मा ॥१८॥
yathā yaśaḥ candramasi āditye ca nṛ-cakṣasi .eva me varaṇaḥ maṇiḥ kīrtim bhūtim ni yacchatu .tejasā mā samukṣatu yaśasā samanaktu mā ..18..

यथा यशः पृथिव्यां यथास्मिन् जातवेदसि ।एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।तेजसा मा समुक्षतु यशसा समनक्तु मा ॥१९॥
यथा यशः पृथिव्याम् यथा अस्मिन् जातवेदसि ।एव मे वरणः मणिः कीर्तिम् भूतिम् नि यच्छतु ।तेजसा मा समुक्षतु यशसा समनक्तु मा ॥१९॥
yathā yaśaḥ pṛthivyām yathā asmin jātavedasi .eva me varaṇaḥ maṇiḥ kīrtim bhūtim ni yacchatu .tejasā mā samukṣatu yaśasā samanaktu mā ..19..

यथा यशः कन्यायां यथास्मिन्त्संभृते रथे ।एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२०॥ {८}
यथा यशः कन्यायाम् यथा अस्मिन् संभृते रथे ।एव मे वरणः मणिः कीर्तिम् भूतिम् नि यच्छतु ।तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२०॥
yathā yaśaḥ kanyāyām yathā asmin saṃbhṛte rathe .eva me varaṇaḥ maṇiḥ kīrtim bhūtim ni yacchatu .tejasā mā samukṣatu yaśasā samanaktu mā ..20..

यथा यशः सोमपीथे मधुपर्के यथा यशः ।एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२१॥
यथा यशः सोम-पीथे मधुपर्के यथा यशः ।एव मे वरणः मणिः कीर्तिम् भूतिम् नि यच्छतु ।तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२१॥
yathā yaśaḥ soma-pīthe madhuparke yathā yaśaḥ .eva me varaṇaḥ maṇiḥ kīrtim bhūtim ni yacchatu .tejasā mā samukṣatu yaśasā samanaktu mā ..21..

यथा यशोऽग्निहोत्रे वषट्कारे यथा यशः ।एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२२॥
यथा यशः अग्निहोत्रे वषट्कारे यथा यशः ।एव मे वरणः मणिः कीर्तिम् भूतिम् नि यच्छतु ।तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२२॥
yathā yaśaḥ agnihotre vaṣaṭkāre yathā yaśaḥ .eva me varaṇaḥ maṇiḥ kīrtim bhūtim ni yacchatu .tejasā mā samukṣatu yaśasā samanaktu mā ..22..

यथा यशो यजमाने यथास्मिन् यज्ञ आहितम् ।एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२३॥
यथा यशः यजमाने यथा अस्मिन् यज्ञे आहितम् ।एव मे वरणः मणिः कीर्तिम् भूतिम् नि यच्छतु ।तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२३॥
yathā yaśaḥ yajamāne yathā asmin yajñe āhitam .eva me varaṇaḥ maṇiḥ kīrtim bhūtim ni yacchatu .tejasā mā samukṣatu yaśasā samanaktu mā ..23..

यथा यशः प्रजापतौ यथास्मिन् परमेष्ठिनि ।एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२४॥
यथा यशः प्रजापतौ यथा अस्मिन् परमेष्ठिनि ।एव मे वरणः मणिः कीर्तिम् भूतिम् नि यच्छतु ।तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२४॥
yathā yaśaḥ prajāpatau yathā asmin parameṣṭhini .eva me varaṇaḥ maṇiḥ kīrtim bhūtim ni yacchatu .tejasā mā samukṣatu yaśasā samanaktu mā ..24..

यथा देवेष्वमृतं यथैषु सत्यमाहितम् ।एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२५॥ {९}
यथा देवेषु अमृतम् यथा एषु सत्यम् आहितम् ।एव मे वरणः मणिः कीर्तिम् भूतिम् नि यच्छतु ।तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२५॥
yathā deveṣu amṛtam yathā eṣu satyam āhitam .eva me varaṇaḥ maṇiḥ kīrtim bhūtim ni yacchatu .tejasā mā samukṣatu yaśasā samanaktu mā ..25..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In