| |
|

This overlay will guide you through the buttons:

इन्द्रस्य प्रथमो रथो देवानामपरो रथो वरुणस्य तृतीय इत्।अहीनामपमा रथ स्थानुमारदथार्षत्॥१॥
इन्द्रस्य प्रथमः रथः देवानाम् अपरः रथः वरुणस्य तृतीयः इद्।अहीनाम् अपमाः रथः स्थ अनुमारथा आर्षत्॥१॥
indrasya prathamaḥ rathaḥ devānām aparaḥ rathaḥ varuṇasya tṛtīyaḥ id.ahīnām apamāḥ rathaḥ stha anumārathā ārṣat..1..

दर्भः शोचिस्तरूणकमश्वस्य वारः परुषस्य वारः ।रथस्य बन्धुरम् ॥२॥
दर्भः शोचिः तरूणकम् अश्वस्य वारः परुषस्य वारः ।रथस्य बन्धुरम् ॥२॥
darbhaḥ śociḥ tarūṇakam aśvasya vāraḥ paruṣasya vāraḥ .rathasya bandhuram ..2..

अव श्वेत पदा जहि पूर्वेण चापरेण च ।उदप्लुतमिव दार्वहीनामरसं विषं वारुग्रम् ॥३॥
अव श्वेत पदा जहि पूर्वेण च अपरेण च ।उद-प्लुतम् इव दारु-अहीनाम् अरसम् विषम् वा अरुग्रम् ॥३॥
ava śveta padā jahi pūrveṇa ca apareṇa ca .uda-plutam iva dāru-ahīnām arasam viṣam vā arugram ..3..

अरंघुषो निमज्योन्मज पुनरब्रवीत्।उदप्लुतमिव दार्वहीनामरसं विषं वारुग्रम् ॥४॥
अरंघुषः निमज्ज्य उन्मज पुनर् अब्रवीत्।उद-प्लुतम् इव दारु-अहीनाम् अरसम् विषम् वा अरुग्रम् ॥४॥
araṃghuṣaḥ nimajjya unmaja punar abravīt.uda-plutam iva dāru-ahīnām arasam viṣam vā arugram ..4..

पैद्वो हन्ति कसर्णीलं पैद्वः श्वित्रमुतासितम् ।पैद्वो रथर्व्याः शिरः सं बिभेद पृदाक्वाः ॥५॥
पैद्वः हन्ति कसर्णीलम् पैद्वः श्वित्रम् उत असितम् ।पैद्वः रथर्व्याः शिरः सम् बिभेद पृदाक्वाः ॥५॥
paidvaḥ hanti kasarṇīlam paidvaḥ śvitram uta asitam .paidvaḥ ratharvyāḥ śiraḥ sam bibheda pṛdākvāḥ ..5..

पैद्व प्रेहि प्रथमोऽनु त्वा वयमेमसि ।अहीन् व्यस्यतात्पथो येन स्मा वयमेमसि ॥६॥
पैद्व प्रेहि प्रथमः अनु त्वा वयम् एमसि ।अहीन् व्यस्यतात् पथः येन स्मा वयम् एमसि ॥६॥
paidva prehi prathamaḥ anu tvā vayam emasi .ahīn vyasyatāt pathaḥ yena smā vayam emasi ..6..

इदं पैद्वो अजायतेदमस्य परायणम् ।इमान्यर्वतः पदाहिघ्न्यो वाजिनीवतः ॥७॥
इदम् पैद्वः अजायत इदम् अस्य परायणम् ।इमानि अर्वतः पदा अहि-घ्न्यः वाजिनीवतः ॥७॥
idam paidvaḥ ajāyata idam asya parāyaṇam .imāni arvataḥ padā ahi-ghnyaḥ vājinīvataḥ ..7..

संयतं न वि ष्परद्व्यात्तं न सं यमत्।अस्मिन् क्षेत्रे द्वावही स्त्री च पुमांश्च तावुभावरसा ॥८॥
संयतम् न वि स्परत् व्यात्तम् न सम् यमत्।अस्मिन् क्षेत्रे द्वौ अही स्त्री च पुमान् च तौ उभौ अरसा ॥८॥
saṃyatam na vi sparat vyāttam na sam yamat.asmin kṣetre dvau ahī strī ca pumān ca tau ubhau arasā ..8..

अरसास इहाहयो ये अन्ति ये च दूरके ।घनेन हन्मि वृश्चिकमहिं दण्डेनागतम् ॥९॥
अरसासः इह अहयः ये अन्ति ये च दूरके ।घनेन हन्मि वृश्चिकम् अहिम् दण्डेन आगतम् ॥९॥
arasāsaḥ iha ahayaḥ ye anti ye ca dūrake .ghanena hanmi vṛścikam ahim daṇḍena āgatam ..9..

अघाश्वस्येदं भेषजमुभयो स्वजस्य च ।इन्द्रो मेऽहिमघायन्तमहिं पैद्वो अरन्धयत्॥१०॥ {१०}
अघ-अश्वस्य इदम् स्वजस्य च ।इन्द्रः मे अहिम् अघायन्तम् अहिम् पैद्वः अरन्धयत्॥१०॥
agha-aśvasya idam svajasya ca .indraḥ me ahim aghāyantam ahim paidvaḥ arandhayat..10..

पैद्वस्य मन्महे वयं स्थिरस्य स्थिरधाम्नः ।इमे पश्चा पृदाकवः प्रदीध्यत आसते ॥११॥
पैद्वस्य मन्महे वयम् स्थिरस्य स्थिर-धाम्नः ।इमे पश्चा पृदाकवः प्रदीध्यतः आसते ॥११॥
paidvasya manmahe vayam sthirasya sthira-dhāmnaḥ .ime paścā pṛdākavaḥ pradīdhyataḥ āsate ..11..

नष्टासवो नष्टविषा हता इन्द्रेण वज्रिणा ।जघानेन्द्रो जघ्निमा वयम् ॥१२॥
नष्ट-असवः नष्ट-विषाः हताः इन्द्रेण वज्रिणा ।जघान इन्द्रः जघ्निम वयम् ॥१२॥
naṣṭa-asavaḥ naṣṭa-viṣāḥ hatāḥ indreṇa vajriṇā .jaghāna indraḥ jaghnima vayam ..12..

हतास्तिरश्चिराजयो निपिष्टासः पृदाकवः ।दर्विं करिक्रतं श्वित्रं दर्भेष्वसितं जहि ॥१३॥
हताः तिरस् चिराजयः निपिष्टासः पृदाकवः ।दर्विम् करिक्रतम् श्वित्रम् दर्भेषु असितम् जहि ॥१३॥
hatāḥ tiras cirājayaḥ nipiṣṭāsaḥ pṛdākavaḥ .darvim karikratam śvitram darbheṣu asitam jahi ..13..

कैरातिका कुमारिका सका खनति भेषजम् ।हिरण्ययीभिरभ्रिभिर्गिरीनामुप सानुषु ॥१४॥
कैरातिका कुमारिका सका खनति भेषजम् ।हिरण्ययीभिः अभ्रिभिः गिरीनाम् उप सानुषु ॥१४॥
kairātikā kumārikā sakā khanati bheṣajam .hiraṇyayībhiḥ abhribhiḥ girīnām upa sānuṣu ..14..

आयमगन् युवा भिषक्पृश्निहापराजितः ।स वै स्वजस्य जम्भन उभयोर्वृश्चिकस्य च ॥१५॥
आ अयम् अगन् युवा भिषक् पृश्नि-हा अपराजितः ।स वै स्वजस्य जम्भनः उभयोः वृश्चिकस्य च ॥१५॥
ā ayam agan yuvā bhiṣak pṛśni-hā aparājitaḥ .sa vai svajasya jambhanaḥ ubhayoḥ vṛścikasya ca ..15..

इन्द्रो मेऽहिमरन्धयन् मित्रश्च वरुणश्च ।वातापर्जन्योभा ॥१६॥
इन्द्रः मे अहिम् अरन्धयत् मित्रः च वरुणः च ।वातापर्जन्या उभा ॥१६॥
indraḥ me ahim arandhayat mitraḥ ca varuṇaḥ ca .vātāparjanyā ubhā ..16..

इन्द्रो मेऽहिमरन्धयत्पृदाकुं च पृदाक्वम् ।स्वजं तिरश्चिराजिं कसर्णीलं दशोनसिम् ॥१७॥
इन्द्रः मे अहिम् अरन्धयत् पृदाकुम् च पृदाक्वम् ।स्वजम् तिरश्चिराजिम् कसर्णीलम् दशोनसिम् ॥१७॥
indraḥ me ahim arandhayat pṛdākum ca pṛdākvam .svajam tiraścirājim kasarṇīlam daśonasim ..17..

इन्द्रो जघान प्रथमं जनितारमहे तव ।तेषामु तृह्यमाणानां कः स्वित्तेषामसद्रसः ॥१८॥
इन्द्रः जघान प्रथमम् जनितारम् अहे तव ।तेषाम् उ तृह्यमाणानाम् कः स्विद् तेषाम् असत् रसः ॥१८॥
indraḥ jaghāna prathamam janitāram ahe tava .teṣām u tṛhyamāṇānām kaḥ svid teṣām asat rasaḥ ..18..

सं हि शीर्षाण्यग्रभं पौञ्जिष्ठ इव कर्वरम् ।सिन्धोर्मध्यं परेत्य व्यनिजमहेर्विषम् ॥१९॥
सम् हि शीर्षाणि अग्रभम् पौञ्जिष्ठः इव कर्वरम् ।सिन्धोः मध्यम् परेत्य व्यनिजम् अहेः विषम् ॥१९॥
sam hi śīrṣāṇi agrabham pauñjiṣṭhaḥ iva karvaram .sindhoḥ madhyam paretya vyanijam aheḥ viṣam ..19..

अहीनां सर्वेषां विषं परा वहन्तु सिन्धवः ।हतास्तिरश्चिराजयो निपिष्टासः पृदाकवः ॥२०॥ {११}
अहीनाम् सर्वेषाम् विषम् परा वहन्तु सिन्धवः ।हताः तिरस् चिराजयः निपिष्टासः पृदाकवः ॥२०॥
ahīnām sarveṣām viṣam parā vahantu sindhavaḥ .hatāḥ tiras cirājayaḥ nipiṣṭāsaḥ pṛdākavaḥ ..20..

ओषधीनामहं वृण उर्वरीरिव साधुया ।नयाम्यर्वतीरिवाहे निरैतु विषम् ॥२१॥
ओषधीनाम् अहम् वृणे उर्वरीः इव साधुया ।नयामि अर्वतीः इव अहे निरैतु विषम् ॥२१॥
oṣadhīnām aham vṛṇe urvarīḥ iva sādhuyā .nayāmi arvatīḥ iva ahe niraitu viṣam ..21..

यदग्नौ सूर्ये विषं पृथिव्यामोषधीषु यत्।कान्दाविषं कनक्नकं निरैत्वैतु ते विषम् ॥२२॥
यत् अग्नौ सूर्ये विषम् पृथिव्याम् ओषधीषु यत्।कान्दाविषम् कनक्नकम् निरैत्वा एतु ते विषम् ॥२२॥
yat agnau sūrye viṣam pṛthivyām oṣadhīṣu yat.kāndāviṣam kanaknakam niraitvā etu te viṣam ..22..

ये अग्निजा ओषधिजा अहीनां ये अप्सुजा विद्युत आबभूवुः ।येषां जातानि बहुधा महान्ति तेभ्यः सर्पेभ्यो नमसा विधेम ॥२३॥
ये अग्नि-जाः ओषधि-जाः अहीनाम् ये अप्सुजाः विद्युतः आबभूवुः ।येषाम् जातानि बहुधा महान्ति तेभ्यः सर्पेभ्यः नमसा विधेम ॥२३॥
ye agni-jāḥ oṣadhi-jāḥ ahīnām ye apsujāḥ vidyutaḥ ābabhūvuḥ .yeṣām jātāni bahudhā mahānti tebhyaḥ sarpebhyaḥ namasā vidhema ..23..

तौदी नामासि कन्या घृताची नाम वा असि ।अधस्पदेन ते पदमा ददे विषदूषणम् ॥२४॥
तौदी नाम असि कन्या घृताची नाम वै असि ।अधस्पदेन ते पदमाः ददे विष-दूषणम् ॥२४॥
taudī nāma asi kanyā ghṛtācī nāma vai asi .adhaspadena te padamāḥ dade viṣa-dūṣaṇam ..24..

अङ्गादङ्गात्प्र च्यावय हृदयं परि वर्जय ।अधा विषस्य यत्तेजोऽवाचीनं तदेतु ते ॥२५॥
अङ्गात् अङ्गात् प्र च्यावय हृदयम् परि वर्जय ।अधा विषस्य यत् तेजः अवाचीनम् तत् एतु ते ॥२५॥
aṅgāt aṅgāt pra cyāvaya hṛdayam pari varjaya .adhā viṣasya yat tejaḥ avācīnam tat etu te ..25..

आरे अभूद्विषमरौद्विषे विषमप्रागपि ।अग्निर्विषमहेर्निरधात्सोमो निरणयीत्।दंष्टारमन्वगाद्विषमहिरमृत ॥२६॥ {१२}
आरे विषम-प्राक् अपि ।अग्निः विषम् अहेः निरधात् सोमः निरणयीत्।दंष्टारम् अन्वगात् विष-महिः अमृत ॥२६॥
āre viṣama-prāk api .agniḥ viṣam aheḥ niradhāt somaḥ niraṇayīt.daṃṣṭāram anvagāt viṣa-mahiḥ amṛta ..26..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In